नचाऽकाङ्क्षायामेव..
प्रामाण्यस्य परतस्त्वे बाधकदृढीकरणम्
मूलम्
- नचाऽकाङ्क्षायामेव प्रमाणान्तरापेक्षत्वादनवस्थाभाव इति वाच्यम् । आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात् ।
तत्त्वमञ्जरी
नचाऽकाङ्क्षायामित्यादेरयमर्थः - इदं प्रमाणं वा न वेत्याशङ्कायामेव तत्प्रामाण्यनिश्चयार्थं प्रमाणान्तरापेक्षा । न तु नाऽशङ्कायाम् । तथा हि - कुत्रचिद् रजतप्रत्यक्षादेः प्रामाण्याशङ्कायां तन्निश्चयार्थं निष्टापानुमादिप्रमाणान्तरमपेक्ष्यते । न पुनर्घटादिप्रत्यक्षस्य । तस्मादनवस्थाया अभाव इति न वाच्यम् । सा शङ्कैव ह्यस्माभिर्बुद्धिदोष इत्युच्यते । तन्निराकरणार्थं प्रमाणान्तरं सम्मत-मेव ।
टीका
स्यादेतत् । जलादिज्ञाने जाते सति तत्प्रामाण्यशङ्कायां प्रवृत्तिसामर्थ्यं वा तज्जातीयत्वं वा प्रमाणान्तरं तन्निश्चयार्थमपेक्ष्यते । तदीयप्रामाण्यशङ्कायामपि प्रमाणान्तरम् । यत्प्रामाण्ये तु शङ्कैव नोदेति तत्र प्रमाणान्तरसंवादोऽपि नापेक्ष्यते । अतः प्रामाण्यग्रहणस्य परतस्त्वेऽपि नानवस्थाऽ-स्ति । अस्ति चासावर्थो यः स्वप्नेऽपि न व्यभिचरति । तथाहि । जलज्ञानाज्जलार्थिनः प्रवृत्तिः, प्रवृत्तस्य प्राप्तिः, प्राप्तस्य पानं, पाने सत्युदन्यानिमित्तदुःखोपशान्तिस्तृप्तिश्च । ततो दुःखाभावस्य सुखस्य चानुभवः । नच जलादिज्ञानस्येव दुःखाभावादिज्ञानस्यापि प्रामाण्ये कस्यचिच्छङ्काऽ-स्ति । तत् कस्य हेतोः, जलादिज्ञानस्य मरुमरीचिकादौ व्यभिचारदर्शनाद्, दुःखनिवृत्त्यादिज्ञानस्य क्वापि व्यभिचारादर्शनात् । अवश्यं चैतत् स्वतः प्रामाण्यग्रहणवादिनाऽप्यङ्गीकर्तव्यम् । अन्यथाऽ-प्रामाण्यशङ्कानिवृत्तये युक्त्यनुसन्धानात्मकपरीक्षापेक्षायां तत्रापि परीक्षान्तरापेक्षयाऽनवस्थानस्य दुर्वारत्वात् । उक्तं च ‘न परीक्षाऽनवस्था स्यात्साक्षिसिद्धे त्वसंशयात्’ इति । तत्राह- नचेति ।। आकाङ्क्षायां प्रामाण्यशङ्कायां सत्याम् । प्रमाणान्तरापेक्षत्वात् प्रामाण्यज्ञप्तेरिति शेषः । कुतो न वाच्यमिति चेत्, यत एवं वदता प्रामाण्यशङ्कानिवृत्तावेव प्रमाणान्तरसंवादस्योपयोगो न प्रामाण्य-ज्ञप्तावित्युक्तं स्यात् । अन्यथा शङ्काऽभावेऽपि प्रामाण्यज्ञानार्थं प्रमाणान्तरसंवादावश्यम्भावेना-नवस्थातादवस्थ्यात् । तथा चास्मन्मतमेवाङ्गीकृतं भवेत् । तत्कथमित्यत आह- आकाङ्क्षाया एवेति ।। परेणोक्तम् आकाङ्क्षानिवृत्तौ प्रमाणान्तरस्योपयोग इति । अस्माभिस्तु बुद्धिदोषनिरास इति । आकाङ्क्षा च बुद्धिदोषश्चेत्यनर्थान्तरमिति । अवश्यवेद्यत्वाभावान्नानवस्थेत्यभिप्राय इति चेन्न । निःशङ्कप्रवृत्ताववश्यवेद्यत्वात् । ज्ञाने हि ज्ञाते तत्प्रामाण्यानुपलब्धौ कथं संशयो न स्यात् । सति च प्रामाण्यसंशयेऽर्थसंशयोऽपि कथं न भवेत् । त(था च)तश्च कथं निःशङ्का प्रवृत्तिः स्यात् ।
यद्यपि लोके संशयतोऽपि प्रवृत्तिर्भवति । तथाऽपि न बहुतरशरीराऽयासवित्तव्ययाऽदिसाध्या पारत्रिकी प्रवृत्तिस्तथा भवितुमर्हति । ज्ञानं स्वरूपेणैव प्रवृत्तिहेतुर्नतु तज्ज्ञानमपेक्षत इति चेन्न । तथाऽपि सुखादिवत् सत्यां सामग्य्रां वेद्यत्वापरिहारात् । सुखादिकमबुभुत्सितग्राह्यं नतु तथा ज्ञानम् । अन्यथा सुषुप्त्याद्यभावप्रसङ्गादिति चेन्न । तथा सत्यप्रामाणिकस्य ज्ञानस्यासत्त्व-प्रसङ्गात् । साक्षिवेद्यत्वपक्षे सुषुप्त्याद्यभावप्रसङ्गाभावात् । किञ्च परलोकार्थप्रवृत्तिमतो बुभुत्साऽप्यवर्जनीयैव । अन्यथा कथं तत्प्रामाण्यनिश्चयाय तज्जातीयत्वादिकमन्विष्यत इति ।
भावबोधः
।। परतस्त्वेऽपीति ।। ज्ञानग्राहकातिरिक्तग्राह्यत्वेऽपीत्यर्थः ।। अवश्यवेद्यत्वाभावादिति ।। पूर्वम्, अप्रामाण्यशङ्काशून्यज्ञानस्य प्रवृत्तिहेतुत्वेन (प्रवर्तकत्वेन) अप्रामाण्यस्य शङ्कायामेव प्रामाण्यस्यावश्यवेद्यत्वं न सर्वत्र । तथा चाप्रामाण्यशङ्का यस्मिन् ज्ञाने नास्ति तदगृहीतप्रामाण्यमेव स्वार्थनिश्चयरूपमिति नानवस्थे-त्यनवस्थापरिहारः शङ्कितः । अधुना त्वप्रामाण्यशङ्कायामप्यवश्यवेद्यत्वाभावमभ्युपेत्यानवस्थापरिहारः शङ्क्यत (र.टि.)इति ज्ञातव्यम् ।। बुभुत्साऽप्यवर्जनीयैवेति ।। अङ्गीकृत्येदमुदितम् । बुभुत्सितग्राह्यत्वेऽपि कारणमुख्य-नवस्थादेरपरिहार्यत्वात् । बुभुत्साया इच्छारूपत्वेन ज्ञानजन्यत्वात् । तज्ज्ञानस्य बुभुत्सान्तरजन्यत्वादिति ।
भावदीपः
उत्तरवाक्यमवतारयितुं शङ्कामाह- स्यादेतदित्यादिना ।। प्रवृत्तिसामर्थ्यं प्रवृत्तेः (सम्बन्धि-त्वम्)सफलत्वम् ।। तज्जातीयत्वमिति ।। गृहीतप्रामाण्यकज्ञानसमानविषयकत्वं वा स(मर्थप्र)फलप्रवृत्ति-जनकज्ञानविषयकत्वं वेत्यर्थः ।। तदीयेति ।। प्रमाणान्तरीयेत्यर्थः । असम्भावनां निराह- अस्ति चासावर्थ इति ।। सर्वथा शङ्काशून्योऽर्थ इत्यर्थः ।। उदन्येति ।। पिपासेत्यर्थः ।। तृप्तिरिति ।। जलपानेऽलम्बुद्धिः । उक्तं चेति ।। अनुव्याख्याने ।। अन्यथेति ।। प्रामाण्यज्ञप्तावपि संवादस्योपयोगाङ्गीकार इत्यर्थः ।। तथाचेति ।। शङ्कानिवृत्तावेवोपयोगावश्यम्भावे सतीत्यर्थः । अर्थनिश्चयादेव निश्शङ्कप्रवृत्तिर्भविष्यति किं प्रामाण्यनिश्चयेन । अर्थनिश्चयश्चाप्रामाण्यशङ्काशून्यरूपो भविष्यतीत्यत आह- ज्ञाने हीति ।। धर्मिज्ञानस्य संशयहेतुत्वाज्ज्ञाने हि ज्ञात इत्युक्तम् । धर्मिज्ञानाभावान्न प्रामाण्यसंशय इति शङ्कते- ज्ञानं स्वरूपेणैवेति ।। सामग्य्र•मिति ।। आत्मनि सुखाद्युत्पत्तौ त्वन्मते मनसा तद्ग्रहणे संयुक्तसमवायरूपसामग्रीवज्ज्ञानग्रहणेऽपि तद्रूपसामग्य्र•ं सत्यां वेद्यत्वापरिहारादित्यर्थः । सिद्धान्ते साक्षिरूपसामग्य्र•मिति ज्ञेयम् । ज्ञानग्रहणे तन्मात्रं न सामग्री, तद्बुभुत्साऽ-प्यपेक्षितेति शङ्कते- सुखादिकमिति ।। अन्यथेति ।। अवश्यवेद्यत्वे ज्ञानधारापरम्पराप्रसङ्गेन ज्ञानोपरमरूप-सुषुप्त्याद्यभावः स्यादित्यर्थः ।। तथा सतीति ।। ज्ञानस्यावेद्यत्वे सतीत्यर्थः ।। साक्षीति ।। तस्य नित्यस्य स्वप्रकाशत्वेन सुषुप्तौ सत्त्वेऽपि मनोवृत्त्यभावमात्रेण सुषुप्तिमूर्छाप्रलयानामुपपत्तेरिति भावः । बुभुत्साग्राह्यत्व-मभ्युपेत्याप्याह- किञ्चेति ।। तज्जातीयत्वादिकमिति ।। समर्थप्रवृत्तिजनकजातीयत्वगृहीतप्रामाण्यकज्ञान-तुल्यविषयत्वादिकमित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
।। प्रवृत्तिसामर्थ्यमित्यादि ।। अनभ्यासदशापन्नज्ञानप्रामाण्यनिश्चायकं समर्थप्रवृत्तिजनकत्वम् अभ्यासदशापन्नज्ञानप्रामाण्यनिश्चायकं समर्थप्रवृत्तिजनकं यत्पूर्वतनं ज्ञानं तज्जातीयत्वमिति विवेकः ।। अत इति ।। यज्ज्ञानप्रामाण्ये शङ्कैव नोदेति तस्यागृहीतप्रामाण्यकस्यैव स्वार्थनिश्चयरूपत्वादित्यर्थः ।। परतस्त्वेऽ-पीति ।। ज्ञानग्राहकातिरिक्तग्राह्यत्वेऽपीत्यर्थः । ननु यज्ज्ञानप्रामाण्ये विवादो नास्त्येतादृशोऽर्थः क इति शङ्कायां सुखादिज्ञानमेवेत्याशयेनाऽह- अस्ति चेति ।। न व्यभिचरतीति ।। शङ्काऽस्पदो न भवतीत्यर्थः ।। प्राप्ति-रिति ।। जलसमीपप्राप्तिरित्यर्थः ।। उदन्येति ।। ‘अशनायोदन्याधनाया बुभुक्षापिपासागर्धेषु’ बुभुक्षादिषु त्रिष्वर्थेषु विवक्षितेषु सत्सु अशनाया उदन्या धनाया इति त्रयः शब्दा निपात्यन्त इति सूत्रार्थः । तथा च पातुमिच्छारूपा या पिपासा सोदन्येत्यर्थः । अत्र जलज्ञानादित्यादौ कार्यभूतानि प्रवृत्त्यादीनि लिङ्गभूतानि सन्ति जलज्ञानादीनां कारणभूतानामप्रामाण्यशङ्कानिरासद्वारा तत्सत्तानिश्चायकानीति ज्ञातव्यम् । मरुमरीचिका मृगतृष्णा । (बिसिलदोरी) विलाससारीत्यपभ्रष्टभाषा ।। व्यभिचारादर्शनादिति ।। अजाते सुखे दुःखाभावे वाऽहं सुखीत्यादिज्ञानादर्शनादित्यर्थः ।। दुर्वारत्वादिति ।। तथाच यावत्साक्षिवेद्ये सुखादौ नावतारस्तावत्पर्यन्तमेव (श्री.टि.) परीक्षाऽपेक्षा । साक्षिवेद्यसुखादिज्ञाने तु न तदपेक्षेति परीक्षाऽनवस्थापरिहारो भवद्भिः कर्तव्यः । सोऽस्माकमपि समान इति भावः । अस्मान् प्रति परोऽनुव्याख्यानसम्मतिमाह- उक्तं चेति ।। मूले आकाङ्क्षा-यामेवेति । आकाङ्क्षा च न सर्वत्रेति भावः ।। एवं वदतेति ।। यत्प्रामाण्ये तु शङ्कैव नोदेति तत्र प्रमाणान्तरसंवादोऽपि नापेक्ष्यत इति वदतेत्यर्थः । अन्यथेत्यस्यैव विवरणम्- शङ्काभावेऽपीति ।। पूर्वम्, अप्रामाण्यशङ्कायामेव प्रामाण्यस्यावश्यवेद्यत्वं, यस्मिन् ज्ञाने चाप्रामाण्यशङ्का नास्ति तद् अगृहीतप्रामाण्यकमेव स्वार्थनिश्चयरूपमि-त्यनवस्थापरिहारः शङ्कितः । अधुना त्वप्रामाण्यशङ्कायां सत्यामपि प्रामाण्यस्यावश्यवेद्यत्वाभावमभ्युपेत्या-नवस्थापरिहारमाशङ्कते- अवश्यवेद्यत्वाभावादिति ।। प्रामाण्यस्येति शेषः । निश्शङ्कप्रवृत्तौ तदर्थत्वेने-त्यर्थः । तत् कुत इति शङ्कायामवश्यवेद्यत्वाभावे निश्शङ्कप्रवृत्तिरेव न स्यादित्युपपादयति-ज्ञाने हीत्यादिना ।। जलज्ञान इत्यर्थः । ज्ञाते सति मनसेति शेषः ।। अनुपलब्धाविति ।। अनुमित्येति शेषः । यथाऽऽहुः- ‘ज्ञानं मनसा गृह्यते प्रामाण्यं पुनरनुमानेन’ इति । संशय इति ।। इदं जलज्ञानं प्रमाणं न वेति प्रामाण्यसंशय इत्यर्थः। अर्थसंशय इति ।। इदं जलं भवति न वेति संशय इत्यर्थः । प्रामाण्यस्यार्थसत्ताघटितत्वात् तत्संशये सत्यर्थसंशयोऽ-प्यावश्यक इति भावः । तथा चेति ।। अर्थे जलादावेव संशयात् कथं जलादौ निश्शङ्का प्रवृत्तिः स्यादित्यर्थः ।
।। संशयत इति ।। धान्यादिरूपार्थसन्देहादपीत्यर्थः । प्रवृत्तिः कृष्यादौ । तथा च प्रकृतेऽपि प्रामाण्यसन्देहात् प्रवृत्तिरस्त्विति भावः ।। पारत्रिकीति ।। ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति वाक्यजन्यज्ञानसाध्यस्वर्गरूप-परलोकसाधनीभूतयागादौ प्रवृत्तिर्ज्ञाने प्रामाण्यनिश्चयं विना तत्सन्देहमात्रान्न भवितुमर्हतीत्यर्थः ।। तथेति ।। संशयत इत्यर्थः ।। न तु तज्ज्ञानमपेक्षत इति ।। प्रवृत्तिजनने स्वज्ञानं नापेक्षितमित्यर्थः । यद्यपेक्षितं स्यात् तर्ह्येव ‘ज्ञाने हि ज्ञाते’ इत्यादिनोक्तं दूषणं स्यादित्याशयः । सामग्य्र•म् आत्ममनःसन्निकर्षादिरूपायाम् । दृष्टान्तोऽसम्प्रतिपन्न इत्याशङ्कते- सुखादिकमिति ।। न तु तथेति ।। ज्ञास्यामीति बोद्धुमिच्छारूपायां बुभुत्सायां सत्यामेव ज्ञानं गृह्यते न तदभावे । तथा च सामग्य्रां सत्यामपि क्वचिद्बुभुत्साया अभावान्न तज्ज्ञानमपेक्षित-मित्याशयः ।। अन्यथेति ।। ज्ञानस्याबुभुत्सितग्राह्यत्वाङ्गीकारे सर्वदा ज्ञानपरम्परासद्भावनिवारकाभावेन सर्वदा तत्सद्भावप्राप्त्या तदर्थं तद्ग्राहकमनसः सर्वदा जागरूकत्वे वक्तव्ये तदुपरमाभावप्राप्त्या सुप्तिमूर्च्छाद्युच्छेद एव स्यात् । मनस उपरमेण सर्वज्ञानोपरमस्यैव सुप्तित्वात् । अतस्तदन्यथाऽनुपपत्त्या ज्ञानस्य बुभुत्सितग्राह्यत्वे वक्तव्ये बुभुत्सायाः सर्वदाऽभावेन ज्ञानग्रहणाभावात्सुप्त्याद्युत्पत्तिरित्याशयः । तथा च ज्ञानं स्वरूपेणैव प्रवृत्तिहेतुरिति नोक्तदूषणावकाश इति हृदयम् ।। तथा सतीति ।। तथा च यत्र बुभुत्सा नास्ति तादृशं प्रवर्तकं यज्ज्ञानं तदसदेवेति प्राप्तम् । कुतः? अप्रामाणिकत्वात् । वस्तुसद्भावे ज्ञानस्यैव प्रमाणत्वात् । एवं चाबुभुत्सित-ग्राह्यत्वे वाच्ये तस्य ज्ञानस्य स्वरूपेणैव प्रवर्तकत्वाभावेन ज्ञातस्यैव प्रवर्तकत्वं वाच्यम् । तथा च ज्ञाने ज्ञाते तत्प्रामाण्यानुपलब्धौ तत्संशयद्वाराऽर्थसंशयेन निश्शङ्का प्रवृत्तिर्न स्यात् । अतस्तदन्यथाऽनुपपत्त्या प्रामाण्य-स्यावश्यवेद्यत्वं वाच्यमित्यनवस्था सुस्थैवेति भावः । ननु ज्ञानस्याबुभुत्सितग्राह्यत्वे भवत्पक्षेऽप्युक्तरीत्या (श्री.टि.) सुप्त्याद्यभावप्रसङ्गः स्यादेवेत्यत आह- साक्षीति ।। ज्ञानस्याबुभुत्सितग्राह्यत्वेऽपि त्वन्मते ज्ञानस्य मनोवेद्यत्वाङ्गीकारेण मनस उपरमासम्भवात् सुप्त्याद्यभावप्रसङ्गः स्यात् । अस्मन्मते तु ज्ञानस्याबुभुत्सित-ग्राह्यत्वेऽपि साक्षिवेद्यत्वाङ्गीकारेण सुखकालात्मस्वरूपज्ञानानां सुषुप्तौ सत्त्वेऽपि साक्षिणैव तद्ग्रहणसम्भवेन सुप्त्युच्छेदाभावान्मनस उपरमसम्भवेन सुषुप्त्युपपत्तेः । तदुपरमस्यैव सुप्तित्वादिति भावः । ज्ञानस्य बुभुत्सित-ग्राह्यत्वमङ्गीकृत्यापि समाधत्ते- किञ्चेति ।। बुभुत्सा ज्ञानज्ञानेच्छा ।। अन्यथेति ।। बुभुत्सितग्राह्यत्वाभावे क्वचिद्बुभुत्साया अभावेन ज्ञानस्यैवाभावात् तस्मिन्ज्ञाने प्रामाण्यनिश्चयाय इदं ज्ञानं प्रमाणं समर्थप्रवृत्ति-जनकजातीयत्वादिति समर्थप्रवृत्तिजनकजातीयत्वरूपविजातीयसंवादो वा सजातीयसंवादो वा परीक्षकैरन्विष्य-माणो व्यर्थ एव स्यात् । धर्मिज्ञानाभावेनानुमानप्रवृत्तेरेवायोगादिति भावः । अत्र बुभुत्साऽप्यवर्जनीयेत्यङ्गी-कृत्योक्तम् । वस्तुतस्तु बुभुत्सितग्राह्यत्वपक्षेऽप्यनवस्था स्यादेव । बुभुत्साया इच्छारूपत्वेन ज्ञानजन्यत्वात् तज्ज्ञानस्य पुनर्बुभुत्साऽन्तरजन्यत्वात् । तस्याश्च पुनर्ज्ञानान्तरजन्यत्वादिति ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
।। अवश्यवेद्यत्वाभावादिति ।। अर्थनिश्चयमात्रेण प्रवृत्त्युपपत्तेरर्थसन्देहेऽपि प्रवृत्तिदर्शनाच्च न प्रामाण्यमवश्यवेद्यमिति भावः । कृष्यादावर्थसन्देहात् प्रवृत्तावपि बहुवित्तव्ययाऽयाससाध्ये पारत्रिकफलके यागादौ निष्कम्पप्रवृत्तये प्रामाण्यमवश्यवेद्यमित्याह- निःशङ्केति ।। नन्वर्थनिश्चयादेव तत्रापि प्रवृत्त्युपपत्तेर्न प्रामाण्य-निश्चयापेक्षा । न च प्रामाण्यसन्देहे तदाहितार्थसन्देहोऽवर्जनीय इत्यर्थनिश्चय एवानुपपन्न इति वाच्यम् । धर्मिज्ञानाद्यभावेनैव प्रामाण्यसन्देहाभावोपपत्त्याऽर्थनिश्चयाविघातादित्यतोऽर्थसन्देहाधायकप्रामाण्यसन्देह-जनकधर्मिज्ञानादिसद्भावं तत्रोपपादयति- ज्ञाने हि ज्ञात इति ।। उपलक्षणं चैतत् । ज्ञानत्वरूपसाधारणधर्मदर्शनस्य यागादौ निष्कम्पप्रवृत्त्यर्थं प्रामाण्यादिविशेषबुभुत्सायाश्च सत्त्वेन कोटिस्मरणे च सति तदस्मरणमपि नोपपद्यत इति द्रश्व्व्यम् । विशेषादर्शनसद्भावं वक्तुं तत्प्रामाण्यानुपलब्धावित्युक्तम् । न च विषयान्तरसञ्चारादसन्देह इति वाच्यम् । यागादौ निष्कम्पप्रवृत्तिहेत्वसन्देहप्रयोजकविशेषावधारणाय विषयान्तरसञ्चारस्यैव निरोद्धव्य-त्वात् । न हि प्रेक्षावन्तो बहुवित्तव्ययाऽयाससाध्ये यागादौ साधनत्वनिश्चये विषयान्तरसञ्चारसम्पादितासन्देह-मात्रेण चैत्यवन्दनादाविव प्रवर्तन्ते । तदेतदाह - कथं संशयो न स्यादिति ।। अस्त्वप्रामाण्यसंशयः किं तावतेत्यत आह- सति चेति ।। सामग्य्र•ः कार्याव्यभिचारादिति भावः । अस्तु तत्रार्थसन्देहोऽपीत्यत आह- तथा चेति ।। तद्धेतुतया त्वदुक्तार्थनिश्चयाभावादिति भावः । शङ्कते- ज्ञानमिति ।। तथा च धर्मिणो ज्ञानस्याज्ञातत्वान्न संशय इति भावः ।। सत्यां सामग्य्रामिति ।। योग्यस्य धर्मिणो ज्ञानस्य मनःसंयुक्ताऽत्म-समवायरूपसम्प्रयोगवत्त्वेनैवोत्पत्त्या ज्ञानत्वेन ज्ञानज्ञानसामग्य्र•ः सत्त्वेन तज्ज्ञानमावश्यकम् । अन्यथा सति सुखे तदज्ञानमपि स्यादविशेषादिति भावः । बुभुत्सितग्राह्यत्वाबुभुत्सितग्राह्यत्वाभ्यां ज्ञानसुखयोर्विशेषाद-विशेषोऽसिद्ध इत्याशङ्कते- सुखादिकमिति ।। योग्याऽत्मविशेषगुणत्वाविशेषात् सुखादिवज्ज्ञानमप्यबुभुत्सित-ग्राह्यमेव किं न स्यादित्यत आह- अन्यथेति ।। वृत्तिरूपज्ञानोपरमस्यैव सुषुप्त्यादित्वादिति भावः । तथा (पां.टि.) सत्यप्रामाणिकस्य ज्ञानस्येति ।। ननु स्वेनाज्ञातत्वेऽप्यन्येन ज्ञातत्वेन प्रामाणिकत्वान्नासत्त्वा-पत्तिः । न च स्वेन ज्ञातत्वमेव तत्र प्रयोजकम् । गौरवात् । परकीयसुखादेः स्वेनाज्ञातत्वेनासत्त्वापाताच्च । न च तदपि परकीयसुखादिकार्यदर्शनात् स्वं प्रत्यनुमानसिद्धमिति वाच्यम् । तथा सति परदृष्टस्वाप्नार्थानां सर्वेषां कार्यदर्शनाभावेन तत्राऽनुमानिकज्ञानस्यापि वक्तुमशक्यत्वेन तेषामसत्त्वापातादिति चेन्न । विप्रतिपत्तिविषयस्य सतः स्वयमज्ञातत्वेऽसत्त्वमित्यत्र तात्पर्यात् । परदृष्टस्वप्नादेश्च स्वं प्रति विप्रतिपत्तिविषयत्वाभावादित्याहुः । ज्ञानस्याबुभुत्सितग्राह्यत्वे प्रागुक्तमतिप्रसङ्गं परिहरति- साक्षीति ।।
लघुप्रभा
(व्या.टि.)
परतस्त्वेऽपि प्रामाण्यशङ्काया असार्वत्रिकतया तन्निरासाय प्रमाणान्तरापेक्षाऽभावान्नानवस्थेत्या-शयवान् शङ्कते- स्यादेतदित्यादिना ।। जलादिज्ञान इति ।। अनभ्यस्तप्रदेश इति शेषः ।। प्रवृत्तीति ।। पिपासायामिति शेषः ।। तज्जातीयत्वं वेति ।। वाशब्दो व्यवस्थितविकल्पः ।। यत्प्रामाण्य इति ।। यदीयप्रामाण्य इत्यर्थः । कोऽसावर्थो यदीयज्ञानप्रामाण्ये शङ्काऽनुदय इत्यतोऽस्ति ज्ञानव्यापकोऽर्थ इत्याह- अस्ति चेति ।। न व्यभिचरति न बाध्यत इत्यर्थः ।। उदन्येति ।। पिपासेत्यर्थः । ‘अशनायोदन्याधनाया बुभुक्षापिपासागर्धेषु’ इति निपातनात् ।। कस्य हेतोरिति ।। केन हेतुनेत्यर्थः । ‘षष्ठी हेतुप्रयोगे’ इति षष्ठी ।। उक्तञ्चेति ।। क्वचिद-वस्थानमित्यर्थः । आकाङ्क्षापदस्येच्छार्थत्वे आत्माश्रयप्रसङ्गादन्यथा व्याचष्टे- प्रामाण्यशङ्कायामिति ।। अस्मन्मतमेवेति ।। प्रामाण्यज्ञप्तावपेक्षायामनवस्थातादवस्थ्यात् तत्प्रतिबन्धनिरास एव तदपेक्षायां स्वतस्त्वं सिद्धमित्यस्मन्मतमेवाङ्गीकृतमिति संवादो निग्रहस्थानमित्यर्थः ।। अनर्थान्तरमिति ।। एकार्थ इत्यर्थः । तथा चार्थैक्यान्नाममात्रे विवादायोग इति भावः ।। अवश्येति ।। ‘लुम्पेदवश्यमः कृत्ये’ इति मकारलोपः । किं प्रामाण्यं नावश्यवेद्यं ज्ञानं वेति विकल्प्याऽद्यं निराह- निश्शङ्केति ।। अवश्यवेद्यत्वादिति ।। प्रामाण्यस्येति शेषः । वेदनाऽवश्यकतां स्फोरयति- ज्ञाने हि ज्ञात इति ।। कथमिति ।। किमाक्षेपे । धर्मिज्ञानकोटिस्मरण-विशेषादर्शनादिसामग््रयां कार्यावश्यम्भावनियमादिति भावः । नन्वर्थनिश्चय एव प्रवृत्तिहेतुः, समानविषयत्वाद् आवश्यकत्वाच्च । न तु प्रामाण्यनिश्चयः, व्यधिकरणत्वादित्यत आह- सति चेति ।। तथा चाऽहितसंशया-न्नार्थनिश्चयोऽपि सम्भवतीत्यर्थः । ननु नार्थनिश्चयोऽपि प्रवृत्तिहेतुः । कृष्यादेः(दौ) संशयतोऽपि प्रवृत्तिदर्शनाद् व्यतिरेकव्यभिचारादित्याशङ्क्य परिहरति- यद्यपीत्यादिना ।। पारत्रिकीति ‘कालाठ्ठञ्’ इत्यत्र योगविभागात् साधुः । परत्रेति विषयसप्तमी । परलोकविषयिणी प्रवृत्तिः पारत्रिकफलकेति यावत् । द्वितीयं शङ्कते- ज्ञान-मिति ।। ज्ञानस्याज्ञातकरणत्वादिति भावः । सत्यर्थज्ञाने ज्ञानाज्ञानेनाप्रवृत्त्यदर्शनादिति हृदयम् ।। सत्या-मिति ।। इन्द्रियसम्प्रयोगरूपायामित्यर्थः ।। अबुभुत्सितेति ।। बुभुत्साया असार्वत्रिकत्वान्न तज्ज्ञानावश्य-कतेत्यर्थः ।। अन्यथेति ।। ज्ञानानुभवपरम्परायामित्यर्थः ।। सुषुप्तीति ।। ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ इति षत्वम् । मनस उपरमाभावेन सर्वदा जाग्रत्त्वप्रसङ्गादित्यर्थः ।। अप्रामाणिकस्येति ।। अज्ञायमानज्ञानसद्भावे प्रमाणाभावादित्यर्थः ।। साक्षिवेद्यत्वेति ।। मनस उपरमाङ्गीकारादिति भावः ।। बुभुत्सेति ।। प्रमात्वेन (व्या.टि.) ज्ञानबुभुत्सेत्यर्थः ।। अन्यथेति ।। प्रामाण्यप्रकारकबुभुत्साऽभाव इत्यर्थः ।। तज्जातीयत्वादिक-मिति ।। प्रामाण्यप्रमाणान्वेषणानुपपत्तेरित्यर्थः ।