अनित्यत्वविकारित्व..
जगतः स्वाप्नसाम्यादिवचनस्य तात्पर्योपवर्णनम्
मूलम्
- ‘अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः ।
स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता ।
सर्वज्ञस्य यतो विष्णोः सर्वदैतत्प्रतीयते ।
बोधासहं ततो नैतत् किन्त्वाज्ञावशमस्य हि ।।’ इति परमोपनिषदि ।
‘प्रज्ञाविनिर्मितं यस्मादतो मायामयं जगत् ।
अनेनानुगतं यस्मादनृतं तेन कथ्यते ।
बोधानिवर्त्यमपि तु नित्यमेव प्रवाहतः ।
अ इत्युक्तः परो देवस्तेन सत्यमिदं जगत् ।
तदधीनस्वरूपत्वादसत्यं तेन कथ्यते ।
सत्यस्य सत्यः स विभुरिन्द्रचापस्य सूर्यवत् ।।’ इति च ।
‘तस्योपनिषत्सत्यस्य सत्यमिति ।
प्राणा वै सत्यं तेषामेष सत्यम् ।।’ इति च ।
‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ।
प्रकृतिः प्रकृष्टकरणाद् वासना वासयेद्यतः ।
अ इत्युक्तो हरिस्तस्य विद्याऽविद्येति सञ्ज्ञिता ।
मायेत्युक्ता प्रकृष्टत्वात् प्रकृश्व्ं हि मयाभिधम् ।
विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते ।
प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा’ इति च ।
तत्त्वमञ्जरी
ननु ‘स्वप्नेऽनर्थागमो यथा’, ‘मायामये वासनया शयानः’, ‘असन्नपि क्लेशाद आस देहः’, ‘यदाविरासीदनृतस्य सर्वम्’ इत्यादिवाक्येषु स्वप्नसाम्याद्युक्तेः कथं जगतो न बाध्यत्वमित्यत आह- अनित्यत्वेति ।। आदिशब्दात् वासनावशत्वं विकारजनकत्वं च । स्वप्नादीत्यादि-शब्दान्मनोरथः । विष्णोः प्रज्ञाया मायाशब्दवाच्यत्वे प्रमाणमाह - महामायेति ।। हरेः प्रकृष्टत्वात् मयाख्यत्वं, तत्सम्बन्धिनी माया ।
टीका
ननु पुराणादौ ‘स्वप्नमनोरथो यथा’ इति जगतः स्वप्नादिसाम्यमुच्यते । तच्च ज्ञाननिवर्त्यत्व-मेव नान्यदस्ति । तत्कथं न कुत्रापि जगतो मिथ्यात्वमुच्यत इत्युक्तमित्याशङ्कां श्रुत्यैव परिहरति- अनित्यत्वेति ।। विकारित्वम् एकप्रकारेणानवस्थानम् । आदिपदेन दुःखप्राचुर्यं गृह्यते । रूपतो धर्मेण स्वप्नादिसाम्यमुच्यते । बोधनिवर्त्यतात्र कारणं न भवति । कुतो नेत्यत आह- सर्वज्ञ-स्येति ।। अधिष्ठानाभिमतयाथात्म्यज्ञानवतः । तृतीयार्थे षष्ठी । परमेश्वरवत् सत्यं चेत्, किं तर्हि स्वतन्त्रमपीति पृच्छति- किन्त्विति ।। उत्तरमाह- आज्ञेति ।। अत्र स्वाप्नादिपदार्थेषु आरोपितं जाग्रत्त्वादिकं स्वप्नादिशब्देनोच्यते । पदार्थानां तज्ज्ञानस्य च सत्यत्वात् । आस्थानिवृत्त्यर्थं हि स्वप्नादिसाम्योक्तिः । अनित्यत्वादौ ज्ञापितेऽप्यास्था निवर्तत एव । तत्किं प्रमाणविरुद्धमिथ्यात्व-कल्पनेनेति भावः ।
ननु च ‘मायामये वासनया शयानः’ इत्यादौ जगन्मिथ्यात्वस्य साक्षादुक्तत्वात् कथं कुत्रापि तदुक्तिर्नास्तीत्युच्यत इत्याशङ्कामागमवाक्येनैव परिहरति- प्रज्ञेति ।। मायया भगवत्प्रज्ञया निर्मितत्वान्मायामयम् । ‘माङ्माने’ इत्यस्मात्कर्मणि यत्प्रत्ययो धातोश्च ह्रस्वः । अनेन चेष्टकेन भगवता ऋतं गतम्, अनुगतं व्याप्तम् । बोधानिवर्त्यं प्रवाहतो नित्यमेव । तथापि तु मायामयं कथ्यत इत्यादि सम्बन्धः । (तेन)सत्यमित्यस्योपपादनं तदधीनस्वरूपत्वादिति । यदि स्वतः सत्यं कथं तर्हि तत्स्वरूपं तदधीनमित्यत उक्तम्- सत्यस्येति ।। सत्यस्यापि सत्यः सत्यताया निया-मकः । सूर्येण विना प्रायेणेन्द्रचापानवस्थानात् । सत्यस्य सत्यत्वे वाक्यान्तरसंवादमप्याह- तस्येति ।। सत्यस्य सत्यमिति तस्य परमात्मनः उपनिषत् रहस्यं नाम । तस्य व्याख्यानम् ‘प्राणा वै’ इति । प्राणन्तीति प्राणाः ब्रह्माद्याः । सम्पन्नानां सम्पन्नत्वे राजा हेतुरितिवत्, न प्राणानां सत्यत्वमपारमार्थिकं भवति किन्तु तदधीनमेवेति । भगवज्ज्ञानमिव तदिच्छाऽपि मायाशब्दवाच्येत्यत्र पुराणवाक्यं पठति- महामायेति ।। ततश्च मायामयमित्यस्य भगवदिच्छा-धीनमित्यर्थः सिद्ध्यति । तानेव शब्दान् भगवत्प्रज्ञायां निर्वक्तुमागमवाक्यं पठति- प्रकृति-रिति ।। प्रकृष्टा कृतिरस्या इति प्रकृतिः । वासयेत् भावयेत् । वास्यत अनयेति वासना । प्रकृष्टत्वान्मायेत्यस्योपपादनम्- प्रकृष्टं हीति ।। एतेन मयेति स्वतन्त्रप्रातिपदिकं स्वार्थेऽण्प्रत्यय इत्युक्तं भवति । प्रकृतिरित्यादावभिधेयं नोक्तम् । तदिदानीमाह- विष्णोरिति ।। भगवल्लक्षणं प्रकृष्टकरणादिकं कथं प्रज्ञप्तौ सम्भवतीत्यत आह- प्रज्ञप्तीति ।। तदैक्यमेव स्पष्टयति- सा चेति ।।
भावबोधः
विकारित्वस्य जीवादिसाधारण्यायार्थमाह- एकप्रकारेणानवस्थानमिति ।। दुःखप्राचुर्यमिति ।। पुत्रकलत्रार्थादिष्वास्थाया निवर्तनीयत्वादिति भावः । अत्र कारणमिति ।। प्रपञ्चस्य ‘स्वप्नमनोरथो यथा’ ‘स्वप्नगन्धर्वनगरोपमम्’ इत्यादिनाऽविद्यमानस्वप्नादिसाम्यवचन इत्यर्थः । कारणमिति शेषोक्त्या रूपत इति कारणत्वार्थतृतीयान्तात्तसिरित्युक्तं भवति । अत एव धर्मेणेत्युपपदं दत्तम् । तथा च नष्टादिपदप्रवृत्तिनिमित्त-पापादीनां भिन्नभिन्नत्वेऽपि तद्वदयं नष्ट इत्यादिसाम्यवचने तत्तद्गतभिन्नभिन्नपापवद् बोधनिवर्त्यत्वनिमित्तपापादीनां मानादिपदविषयत्वलक्षणसाम्यस्य ‘अविद्यमानो ह्यवभाति’ इत्यादावविद्यमानादिपदेन प्रपञ्चस्य प्रतिपादनेऽ-नित्यत्वादय एव हेतवो न बोधनिवर्त्यतेति भावः । ननु ‘न तु बोधनिवर्त्यता’ इत्यनेन यथा स्वप्नेऽविद्यमानपदप्रयोगे बोधनिवर्त्यता निमित्तं न तथा जगतोऽविद्यमानपदविषयत्वे कारणमित्युच्यते । तदयुक्तम् । स्वप्नादिपदार्थानां तज्ज्ञानस्य च सत्यत्वादित्यत आह- अत्र स्वप्नादिपदार्थेष्विति ।। चेष्टकेनेति ।। अनशब्दस्य चेष्टावाचकत्वं प्रसिद्धमिति भावः । ननु ‘सत्यस्य सत्यम्’ इति श्रुतार्थापत्तिरेव प्राणादिसत्यत्वस्यापारमार्थिकत्वे प्रमाणमित्यत आह- सम्पन्नानामिति ।। ननु भगवदिच्छायां मायाशब्दव्युत्पादनं कुत्रोपयुक्तमित्यत आह- ततश्चेति ।।
भावदीपः
परिणामित्वभ्रमनिरासायाह- एकप्रकारेणेति ।। दुःखप्राचुर्यमिति ।। तस्यैवानास्थोत्पादकत्वेन वैराग्यहेतुत्वादिति भावः । स्वप्नादिसाम्यमित्यनूद्य शेषमाह- स्वप्नादिसाम्यमुच्यत इति ।। बोधनिवर्त्यतेत्यत्रापि शेषमाह- अत्र कारणं न भवतीति ।। स्वप्नादिसाम्योक्तौ कारणं नेत्यर्थः । कुत इति शङ्कानिरासस्य सर्वज्ञस्येत्यनेन स्पष्टमप्रतीतेराह- अधिष्ठानेति ।। सत्यत्वादिति ।। ‘सन्ध्ये सृष्टिराह हि’ इत्यादिना सूत्रकृता स्वाप्नपदार्थानां वासनामयतया सूक्ष्मरूपेण सत्यत्वस्य जाग्रत्त्वस्थूलत्वादेरसत्यत्वस्योक्तेरिति भावः । मिथ्यात्वेनाप्युपपत्तौ किमेवं व्याख्येत्यत आह- आस्थानिवृत्त्यर्थमिति ।। इति भाव इति ।। अनित्यत्वेत्यादिव्याख्यानस्येति योज्यम् । मायामय इति ।। द्वितीयस्कन्धे द्वितीयाध्याये । यत्प्रत्ययो धातोश्च ह्रस्व इति ।। निरुक्तत्वादिति भावः । अनेन चेष्टकेनेति ।। ‘अन चेष्टायाम्’ इति धातोरनशब्दस्यान्तलोपो वा क्विप्प्रत्ययेन नकारान्तो वेति भावः । अना इति तृतीयान्तस्यार्थोऽनेनेति ज्ञेयम् । ऋ गताविति धातोराह- गतमिति ।। अपि त्वित्यस्यार्थः- तथापि त्विति ।। कथ्यत इति ।। अनृतं कथ्यत, असत्यं तेन कथ्यत इति सम्बन्ध इत्यर्थः । इन्द्रचापस्य सूर्यवदित्यस्य ह्ययमर्थः- इन्द्रचापस्य सत्यस्य सूर्यः सत्य इत्युक्ते यथेन्द्रचापस्य सत्यत्वं सूर्याधीनमिति लभ्यते तथा प्रकृतेऽपि । तत्र च रात्रावपि कदाचिदिन्द्रचापोपलब्धेः कथमेतदित्यत आह- सूर्येण विनेति ।। प्रायिकाभि-प्रायोऽयं दृष्टान्त इति भावः । प्राणन्तीति ।। चेष्टन्त इत्यर्थः । ननु ‘चेतनश्चेतनानाम्’ इत्यत्र चेतनानामपकृष्ट-चेतनत्ववत्प्राणानामपकृष्टसत्त्वप्राप्त्या मिथ्यात्वं किं न स्यादित्यत आह- सम्पन्नानामिति ।। श्रीमतामि-त्यर्थः । इच्छाया मायाशब्दार्थत्वोक्तेः प्रकृतोपयोगमाह- ततश्चेति ।। भावयेदिति ।। उत्पादयेदित्यर्थः । वास्यत इति ।। ‘वस निवासे’ ‘वस आच्छादने’ इत्यतो वा ण्यन्तात् ‘ण्यासःश्रन्थो युच्’ इति युचि अनादेशे टापि रूपम् । स्वतन्त्रेति ।। मयट्प्रत्ययोऽयं न भवति । किन्तु स्वतन्त्रमेव प्रातिपदिकमित्यर्थः । तर्हि मायेति कथमित्यत आह- स्वार्थेऽण्प्रत्यय इति ।। ततश्चाजाद्यतष्टाबिति भावः । तत्त्वमसीत्याद्यभेदादिश्रुति-पुराणानामर्थोक्तिः ।
वाक्यार्थदीपिका
(श्री.टि.)
स्वप्नमनोरथो यथेतीति ।।
‘अविद्यमानो ह्यवभाति हि द्वयोर्ध्यातुर्धिया स्वप्नमनोरथो यथा ।’
इत्यत्रेत्यर्थः । तत्कथमिति ।। ज्ञाननिवर्त्यत्वमेव च मिथ्यात्वमिति भावः । अनित्यत्वेतीत्यादि ।। तथा चायं मूलार्थः- पुराणेऽविद्यमानपदप्रयोगविषयत्वेन जगतः स्वप्नमनोरथसाम्यमुच्यते । तत्र जगतोऽविद्यमान-(श्री.टि.) पदप्रयोगविषयत्वमनित्यत्वादिधर्मेणैव न तु बोधनिवर्त्यता ज्ञाननिवर्त्यत्वं जगत्यविद्यमानपदप्रयोगे कारणम् । स्वप्ने त्वविद्यमानपदप्रयोगे बोधनिवर्त्यत्वमेव कारणमिति । ननूभयत्राविद्यमानपदप्रयोगनिमित्तानां ज्ञाननिवर्त्यत्वानित्यत्वादिधर्माणां भिन्नत्वेन यथा तथेति साम्यवचनं कथं युक्तमिति चेदुच्यते । यथा हि- नष्टशब्दप्रयोगनिमित्तयोर्ब्रह्महत्यासुरापानरूपपापयोर्भिन्नत्वेऽपि तद्वदयं नष्ट इति साम्यवचनं दृश्व्ं तद्वदत्रापीति द्रष्टव्यम् । नन्वत्र श्रुतौ जगत्यविद्यमानपदप्रयोगेऽनित्यत्वादिधर्माणां निमित्तत्वमुक्तम् । तदयुक्तम् । जगन्मध्ये घटादीनामनित्यत्वविकारित्वे प्रसिद्धे । तत्र जीवादिनित्यपदार्थानामपि पतितत्वेन तेषु पराधीनविशेषावाप्त्यपगम-रूपानित्यत्वसद्भावेऽपि विकारित्वं न सम्भवतीत्यतो जीवादिसाधारण्याय विकारित्वं विवृणोति- विकारित्व-मिति ।। एकप्रकारेणेति ।। सुखदुःखादिनोच्चनीचतादिसद्भावेन प्रलये निर्देहतयाऽवस्थितानां सृष्टौ देहसम्बन्ध-प्राप्त्या वा जीवानामेकप्रकारेणावस्थानाभावात् । अव्याकृताकाशादिनित्यपदार्थानामपि वियत्पादीयानुव्याख्या-नोक्तरीत्या मूर्तसम्बन्धादिरूपपराधीनविशेषावाप्त्यपरपर्यायस्य विकारस्य सत्त्वात् । एवं च सर्वसाधारण्याय विकारित्वेत्यस्योत्पत्तिमत्त्वेत्यर्थो द्रष्टव्य इत्युक्तं भवति । दुःखप्राचुर्यमिति ।। ननु पारतन्त्र्यदुःखप्राचुर्ये जीवे प्रसिद्धे, जडेषु पारतन्त्र्यसद्भावेऽपि दुःखप्राचुर्यं कथमिति चेन्न । दुःखप्राचुर्यापादकत्वं दुःखप्राचुर्यमिति जडविषये व्याख्यानाददोषः । उच्यते अविद्यमानपदेनेति शेषः । अत्र जगत्यविद्यमानपदप्रयोगे ।
मूले बोधासहमित्यस्य बोधस्यासहं ज्ञाननिवर्त्यमित्यर्थो द्रष्टव्यः । ननु जगत्यविद्यमानपदप्रयोगेऽनित्य-त्वादिकमेव निमित्तं, न तु बोधनिवर्त्यत्वमित्युक्त्या स्वप्नेऽविद्यमानपदप्रयोगे बोधनिवर्त्यत्वं निमित्तमिति प्राप्त्या मिथ्यात्वं प्रतीयते । तदयुक्तम् । स्वाप्नादिपदार्थानां तज्ज्ञानस्य चास्मन्मते सत्यत्वादित्यत आह- अत्रेति ।। जाग्रत्त्वादिकमिति ।। जाग्रत्त्वं जाग्रद्दृष्टपदार्थाभेदः । आदिपदेन बाह्योपादानकत्वं बाह्यार्थ-क्रियाकारित्वं चेत्यपि ग्राह्यम् । कुत इत्यतस्तद्बीजं स्वयमेव दर्शयति- पदार्थानामिति ।। स्वाप्नपदार्थानामित्यर्थः। ननु पुत्रकलत्रादा-वास्थानिवृत्त्यर्थं हि जगतः स्वप्नादिसाम्यमुच्यते । सा चास्था स्वप्नादिवज्जगतो मिथ्यात्व-ज्ञापनेनैव निवर्तनीया नान्यथा । अतो मिथ्यात्वेनैव तत्साम्यं वक्तव्यमिति चेत्तत्राह- आस्थानिवृत्त्यर्थं हीति ।। आस्था आसक्तिः । तर्हि विनिगमनाभाव इत्यत उक्तम्- प्रमाणविरुद्धेति ।।
अन्ये तु ‘स्वप्नादिसाम्यं जगतः’ इत्यत्र स्वप्नादिपदार्थेष्वारोपितं जाग्रत्त्वं स्वप्नादिपदेनोच्यत इति व्याख्यास्य-मानत्वाज्जाग्रत्त्वस्य चात्यन्तासत्त्वात्तेन साकं जगतः कथमनित्यत्वादिधर्मेण साम्यमुच्यते । अत्यन्तासति जाग्रत्त्वेऽनित्यत्वादिधर्माणामभावादित्यत एते धर्मा अभावरूपतया व्याख्येया इत्यभिप्रेत्यानित्यत्वं नित्यत्वाभाव इति व्याख्यातुं शक्यं, विकारित्वं भावरूपं तत्कथमभावरूपतया व्याख्येयमित्यत आह- विकारित्वमिति ।। एकप्रकारेणावस्थानाभाव इत्यर्थः । एवं पारतन्त्र्यं स्वातन्त्र्याभावः । दुःखप्राचुर्यं दुःखाप्राचुर्याभाव इति व्याख्येयम् । एवं च नित्यत्वाभावादिधर्मैरेव स्वप्नादिसाम्यं जगत उच्यते न तु बोधनिवर्त्यताऽत्र स्वप्नादिसाम्ये निमित्तमिति व्याख्येयमित्याहुः । माङ् मान इति ।। ‘मानं ज्ञानं लयश्चैव निर्माणं चाभिधीयते’ इति वचनान्मानं (श्री.टि.) निर्माणम् । तथा च मायाशब्दोपपदात् ‘माङ् माने’ इति धातोः कर्मणि यत्प्रत्यये धातोश्च ह्रस्वे मायामयेति भवतीत्यर्थः । अनृतमित्यत्र अन् इत्यस्यार्थो अनेनेति । तस्यार्थमाह- चेष्टकेनेति ।। ‘अन चेष्टा-याम्’ इति धातोरिति भावः । स्वत इति ।। अन्यानधीनतयेत्यर्थः । तत्स्वरूपं जगत्स्वरूपम् । ‘इन्द्रचापस्य सूर्यवत्’ इत्यत्र ‘तत्र तस्येव’ इत्यस्य प्रायिकत्वात्प्रथमान्ताद्वतिः । तथा चेन्द्रचापस्य सूर्यवत् सूर्य इव, सूर्यो यथा नियामकस्तथेत्यर्थमभिप्रेत्योपपादयति- सूर्येण विनेति ।। भाव्यनिष्टसूचनार्थं कदाचित्सूर्यास्तमयानन्तरं तेन विनाप्यवस्थानसद्भावात्प्रायेणेत्युक्तम् । सत्यत्वे सत्यत्वनियामकत्वे । रहस्यं गोप्यम् । ननु ‘सत्यस्य सत्यम्’ इति श्रुतार्थापत्तिरेव प्राणादिजगत्सत्यत्वस्यापारमार्थिकत्वे मानम् । तत्र प्राणादिसत्यत्वापेक्षया परमात्मसत्यत्वस्याधिक्योक्तेरित्यत आह- सम्पन्नानामिति ।। सम्पन्नानां सम्पन्नत्वस्य राजाधीनत्ववत्सत्य-शब्दोक्तप्राणादीनां सत्यत्वमपि परमात्माधीनमित्यन्यथैवोपपत्तेस्तेषामेष सत्यं सत्यताया नियामक इत्यनेनोक्त-त्वान्नोक्तार्थापत्तिस्तत्र मानमित्यर्थः । तानेव शब्दानिति ।। मायामयादिशब्दानित्यर्थः । निर्वक्तुमिति ।।
‘प्रज्ञाविनिर्मितं यस्मादतो मायामयं जगत्’
इति पूर्वं प्रज्ञाया मायाशब्दवाच्यत्वमुक्तम् । तत्किं रूढ्या योगेन वेति शङ्कायां योगेनेत्याशयेन निर्वक्तुमि-त्यर्थः । भावयेद् उत्पादयेत् । वासनाशब्दादयमर्थः कथं लभ्यत इत्यतो निरुच्य दर्शयति- वास्यत इति ।। भाव्यत इत्यर्थः । एतेनेति ।। ‘प्रकृश्व्ं हि मयाभिधम्’ इत्यनेनेत्यर्थः । ननु मयेत्ययं मयट्प्रत्ययो न तु शब्दः । अतस्तदुपरि कथमण्प्रत्यय आनीयत इत्यत उक्तम्- स्वतन्त्रेति ।। न तु प्रत्ययभूतोऽत्र विवक्षित इत्यर्थः । स्वार्थ इति ।। तथा च मयशब्दात्स्वार्थेऽण्प्रत्यये णित्त्वात् ‘अचो ञ्णिति’ इति सूत्रेणादिवृद्धौ ‘यस्येति च’ इति भसंज्ञकयकारस्याकारलोपे मयैव मायेति भवतीत्यर्थः । प्रकृतिरित्यादाविति ।। ‘प्रकृतिः प्रकृष्टकारणात्’ इत्यादावभिधेयं विशेष्यं नोक्तमित्यर्थः । सा चेतीति ।। प्रज्ञप्तिरपीत्यर्थः । तथा च विष्णुप्रज्ञप्त्योरैक्यमुपपन्नमिति भावः ।
(पां.टि.) बोधनिवर्त्यताऽत्र कारणं न भवतीति ।। बोधनिवर्त्यता प्रपञ्चस्य ‘स्वप्नमनोरथो यथा’ इति स्वप्नादिसाम्यवचने कारणं न भवति । स्वप्नस्य ज्ञाननिवर्त्यत्वनिमित्तकाविद्यमानपदवाच्यत्ववत् प्रपञ्चस्यापि ज्ञाननिवर्त्यत्वनिमित्तकाविद्यमानपदवाच्यत्वात् स्वप्नमनोरथो यथेति स्वप्नादिसाम्यवचनं न भवति । किन्तु स्वप्नस्य ज्ञाननिवर्त्यत्वनिमित्तकाविद्यमानपदवाच्यत्वं प्रपञ्चस्य त्वनित्यत्वविकारित्वादिनिमित्तकाविद्यमान-पदवाच्यत्वाभिप्रायकमेव तत्साम्यवचनमिति योजना । अयं भावः- व्यभिचार्यादिषु नष्टादिपदप्रवृत्तिनिमित्त-पापानां भिन्नभिन्नत्वेऽपि तत्र तत्र विद्यमानभिन्नभिन्नपापनिमित्तकनष्टपदवाच्यतामात्रस्य सर्वत्र सत्त्वात् तन्मात्र-विवक्षया तद्वदयं नष्ट इति साम्यवचनम् । तथा स्वप्ने प्रपञ्चे चाविद्यमानपदप्रवृत्तिनिमित्तस्य ज्ञाननिवर्त्यत्व-
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
स्यानित्यत्वविकारित्वादेश्च भिन्नभिन्नत्वेऽपि तत्तन्निमित्तकाविद्यमानपदवाच्यतामात्रस्य स्वप्ने प्रपञ्चे च सत्त्वान्न तन्मात्रविवक्षायां स्वप्नादिसाम्यवचनमिति । नन्वेवं योजना कर्तुं न शक्यते । तथा सति स्वप्नस्य ज्ञाननिवर्त्यत्वनिमित्तकमेवाविद्यमानपदवाच्यत्वमङ्गीकृतं स्यात् । न च तद्युक्तम् । अर्थज्ञानात्मकस्वप्नस्य प्रपञ्चवत्सत्यत्वेन ज्ञाननिवर्त्यत्वाभावादित्यतो नात्र स्वप्नशब्देनार्थज्ञानात्मकः स्वप्नो वाच्यतयाऽभिमतः । येनोक्तदोषावकाशः । किन्तु जागरानुभूतपदार्थैरेकत्वम् । स्वप्ने हि तात्कालिकतयादृष्टचराणामेव तनयादीनां दृष्टचरतयाऽनुसन्धानात् । यद्वाऽत्र स्वप्नशब्देन जाग्रत्त्वं ग्राह्यम् । जाग्रत्त्वं नाम गगनादीनां नित्यत्वादिकं घटादीनां मृदाद्युपादनकत्वं बाह्यार्थक्रियाक्षमत्वादिकम् । तच्च सर्वं बाध्यत्वादसत्यमेवेत्युक्तम् । तस्य ज्ञान-निवर्त्यत्वनिमित्तकाविद्यमानपदवाच्यत्वमिति युक्त एव तदङ्गीकार इति भावेनाह- अत्र स्वाप्नादिपदार्थे-ष्विति ।।
यत्तु ‘स्वप्नादिसाम्योक्तिस्तु अनित्यत्वादेः । अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः । स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता इति वचनात्’ इति न्यायामृतग्रन्थस्य, ‘अनित्यत्वं नित्यत्वाभावः । विकारित्वं कूटस्थ-त्वाभावः । पारतन्त्र्यं स्वातन्त्र्याभावः’ इति तरङ्गिणीकारैरनित्यत्वादिस्वरूपनिरूपणं कृतम् । तदसत् । बाधकाभावेन ध्वंसप्रतियोगित्वादिरूपानित्यत्वादेरेव सम्भवेन तत्परित्यागेन नित्यत्वाभावादिरूपानित्य-त्वादिपर्यन्तधावनानर्थक्यात् । न चात्र स्वप्नशब्देन स्वप्नगजादिकं न ग्राह्यम् । स्वप्नगजादीनां तज्ज्ञानस्य च सत्यत्वेन प्रपञ्चे तत्साम्यस्यानिष्टत्वाभावात् । किन्तु स्वाप्नगजादिजाग्रत्त्वमेव । तथा च स्वाप्नजाग्रत्त्वस्य भ्रमविषयतया अत्यन्तासत्त्वेन ध्वंसप्रतियोगित्वादिरूपानित्यत्वाद्यसम्भवेन तत्सङ्ग्रहार्थं नित्यत्वाभावादिरूपा-नित्यत्वाद्याश्रयणमर्थवदिति वाच्यम् । ध्वंसप्रतियोगित्वादिरूपानित्यत्वादेर्जाग्रत्त्वादावसत्त्वेऽपि प्रपञ्चे सत्यत्वेन दोषाभावात् तत्पर्यन्तधावनानर्थक्यानुद्धारात् । न चैवमनित्यत्वादिना अनित्यत्वाद्याक्रान्ततया प्रपञ्चस्या-विद्यमानपदवाच्यत्वनिर्वाहेऽपि न जाग्रत्त्वस्याविद्यमानपदवाच्यत्वनिर्वाहः । तस्यानित्यत्वाद्याक्रान्तत्वा-भावादिति वाच्यम् । जाग्रत्त्वस्य बोधनिवर्त्यत्वेनैवाविद्यमानपदवाच्यत्वसम्भवेनानित्यत्वादिनैवाविद्यमान-पदवाच्यताया अवक्तव्यत्वात् ।
न च बोधनिवर्त्यत्वस्य न तु बोधनिवर्त्यतेत्यनेनाविद्यमानपदप्रवृत्तिनिमित्तत्वनिषेधात् कथं तदाश्रयणेन जाग्रत्त्वस्याविद्यमानपदवाच्यत्वनिर्वाहः स्यादिति वाच्यम् । प्रपञ्च एव बोधनिवर्त्यत्वस्याविद्यमानपदप्रवृत्ति-निमित्ततायास्तेन निषेधेऽपि, सर्वथा अविद्यमानपदप्रवृत्तिनिमित्तताया अनिषेधेन तदाश्रयणेन जाग्रत्त्वस्याविद्य-मानपदवाच्यत्वस्याप्रत्यूहत्वात् । अन्यथा बोधनिवर्त्यताकारणं न भवतीत्येव वक्तव्यतया अत्र कारणं न भवतीत्युक्त्यसामञ्जस्यप्रसङ्गात् । न चैवं प्रपञ्चे जाग्रत्त्वे चाविद्यमानपदप्रवृत्तिनिमित्तस्यैकस्याभावादविद्य-मानपदवाच्यत्वेनात्र विवक्षितस्य स्वप्नादिसाम्यवचनस्य कथं प्रपञ्चे निर्वाह इति वाच्यम् । नष्टादिपदप्रवृत्ति-निमित्तानां पापानां भिन्नभिन्नत्वेऽपि नष्टपदवाच्यत्वेन साम्यस्य तद्वदयं नष्ट इत्यादौ दृष्टत्वेन प्रपञ्चे जाग्रत्त्वे (पां.टि.)चाविद्यमानपदप्रवृत्तिनिमित्तस्य भिन्नभिन्नत्वेऽप्यविद्यमानपदवाच्यत्वेन साम्यस्योपपन्नत्वादिति दिक् । कर्मणीति ।। ‘उणादयो बहुलम्’ इत्युक्तत्वादिति भावः । ह्रस्व इति ।। निर्वचनत्वादिति भावः । स्वतन्त्रमिति ।। अखण्डं, न तु माङ् मान इत्यतः कर्मणि यत्प्रत्यये धातोश्च ह्रस्वत्वे निष्पन्नमयशब्दोऽयमिति भावः । तर्हि मयेत्येव भवितव्यम् । मायेति तु कथमित्यतोऽस्मात्स्वार्थे अणि णित्त्वादादिवृद्धौ तत्सिद्धिरिति भावेनाह- स्वार्थेऽणिति ।।
लघुप्रभा
(व्या.टि.)
‘अतो न कुत्रापि जगतो मिथ्यात्वमुच्यते’ इति प्रतिज्ञामसहमानो मायिमतानुयायी शिष्यः स्वयमपि तदुक्तिभ्रान्तश्शङ्कते- नन्विति ।। साम्योक्तिमात्रेण कथं मिथ्यात्वलाभ इत्यत आह- तच्चेति ।। आक्षिपति- तत्कथमिति ।। श्रुत्यैवेति ।। स्मृतिमूलत्वेन व्याख्यानत्वेन च प्रबलयेत्यर्थः । अनित्यपदमुत्थानार्थत्वादुदास्य विकारित्वपदं व्याचश्व्े- एकप्रकारेणेति ।। रूपत इति तृतीयार्थे तसिरित्याह- धर्मेणेति ।। अत्रेति ।। स्वप्नादि-साम्योक्तावित्यर्थः । कथमस्योक्तहेतूक्तित्वमित्यतो व्याचश्व्े- अधिष्ठानेति ।। कर्तुरभिधानस्य तृतीयाऽऽवश्य-कीत्यत आह- तृतीयार्थ इति ।। अनेन जगद् बाध्यं न भवति अधिष्ठानयाथार्थ्यज्ञानवता दृश्यमानत्वात् । यदेवं तदेवं यन्नैवं तन्नैवमित्यनुमानं सूचयति । स्वप्नादिपदार्थमाह- अत्रेति ।।
ननु नेदं व्याख्यानं युक्तं मूलासङ्गतत्वात् । तथा हि- ‘स्वप्नमनोरथो यथा’ इति भगवताऽभिहितं जगतः स्वप्नादिसाम्यं ज्ञाननिवर्त्यत्वमेव । तदेव मिथ्यात्वमिति कथं न जगतो मिथ्यात्वमुच्यत इत्याशङ्कानिवृत्तये हि श्रुतिरुपात्ता । तत्र ह्यनित्यत्वाद्याकारेणैव साम्यं न बोधनिवर्त्यत्वेनेत्युक्तम् । तत्र यदि स्वप्नादिशब्देन ज्ञानं पदार्था वोच्येरन् तदा तेषां सत्यत्वेन ज्ञाननिवर्त्यत्वाभावेन तत्रत्यानित्यत्वादिधर्मेण साम्यमुक्तं युक्तं स्यात् । स्वप्नादिशब्देन तत्रारोपितजाग्रत्त्वाद्युक्तौ तु तस्यात्यन्तासत्त्वेन तत्र ध्वंसप्रतियोगित्वरूपानित्यत्वस्य, एक-प्रकारेणानवस्थानरूपविकारित्वस्य, पराधीनसत्ताकत्वरूपपारतन्त्र्यस्य, आदिपदोक्तदुःखप्राचुर्यस्य च सर्वथाऽ-सम्भवात् तद्रूपेण साम्योक्तिरयुक्ता स्यात् । प्रत्युत तस्य मिथ्यत्वेन ज्ञाननिवर्त्यत्वस्यैव सत्त्वेन तत्रत्येन तेन रूपेणैव साम्यं युक्तं स्यादिति ‘न तु बोधनिवर्त्यता’ इति निषेधानुपपत्तिः । तस्माद्विपरीतमिदं व्याख्यानमिति चेत्, मैवम् । अभिप्रायसद्भावात् । सादृश्यापरपर्यायतत्साम्योक्तिर्हि तद्धर्मप्रतिपत्तये भवति । यथा लोके गौरिवायं गवय इति, यथा वा काव्ये ‘हंसीव कृष्ण ते कीर्तिः’ इति, यथा वा पूर्वतन्त्रे श्येनीयवैशेषिकाङ्गप्रतिपत्तये ‘समानमितरच्छ्येनेन’ इति वाचनिकातिदेशः । यथा वा व्याकरणे ‘लोटो लङ्वत्’ इति तामादिकार्यप्रतिपत्त्यर्था साम्योक्तिः । तथा तद्धर्मनिषेधाय तत्साम्यनिषेधः । यथा लोके ‘न तेनायं समः’ इति, यथा वाऽलङ्कारे ‘मुधाऽपवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम्’ इति । यथा वा ‘न त्वत्समश्चाभ्यधिकश्च दृश्यते’ इति । एवं च प्रकृतेऽपि साम्यप्रतियोगिनि स्वप्नादावनित्यत्वादिसद्भावेन तेन तत्साम्योक्तिसम्भवेऽपि बोधनिवर्त्यत्व-निषेधोऽनुपपन्नः । उपमानभूते स्वप्नादावेव तद्धर्माभावेनाप्रसक्तत्वात् । अप्रसक्तस्य च निषेधायोगात् । अत एव पूर्वतन्त्रे ‘प्रागपरोधान्मलवद्वाससः’ इति जैमिनिसूत्रे, मलवद्वासस उदक्याः क्रत्वारम्भात्प्रागेव ‘यस्य (व्या.टि.) व्रत्येऽहनि पत्न्यनालम्भुका भवति, तामपरुध्य यजेत’ इत्यानालम्भुकाख्यरजस्वलाया निषेधेन क्रतावप्रसक्तत्वान्न तन्निषेधः क्रत्वर्थ इत्युक्तम् । अत एव ‘नान्तरिक्षे न दिवि’ इत्यप्रसक्तप्रतिषेधत्वान्नित्यानुवाद इत्युक्तम् ‘चयनप्रतिषेधात्’ इत्यत्र । इत्थं च बोधानिवर्त्यत्वनिषेधोऽनुपपन्न इत्यत आह- अत्रेति ।। आदिशब्देन बहिःष्ठत्वादिपरिग्रहः । अयं भावः । स्वप्नादिशब्दार्थो द्विविधः । गजादिरर्थो जाग्रत्त्वं च । साम्यं च द्विविधं ग्राह्यं निषेध्यं(धं) चेति । तत्र ग्राह्यसाम्यप्रतियोगिसमर्पकस्वप्नादिशब्देन पदार्थोक्तावपि, अत्र निषेध्यांशे निषेध्य-साम्यप्रतियोगिसमर्पकस्वप्नादिशब्देन ‘वैधर्म्याच्च न स्वप्नादिवत्’ इत्यत्रेव तेष्वारोपितं जाग्रत्त्वादिकमुच्यते । न च प्रकृतत्वात्त एवोच्येरन्, वैषम्यादित्याह- पदार्थानामिति ।। तथा च तेषां निषे(ध)ध्यसाम्यप्रतियोगि-समर्पकस्वप्नादिशब्देन ग्रहणासम्भवः । इत्थं च पदार्थसाम्यमेव भगवता भागवतेऽभिहितम् । न जाग्रत्त्वा-द्यारोपिततद्धर्मसाम्यमिति हृदयम् । शङ्किता तु भागवते स्वप्नादिशब्देन जाग्रत्त्वं गृहीतमिति बभ्राम । नन्वास्था-निवृत्तये बोधनिवर्त्यत्वोक्तिः किं न स्यादित्यत आह- आस्थानिवृत्त्यर्थं हीति ।। आस्थानिवृत्तेरुद्देश्याया अन्यतोऽपि लभ्यत्वान्नाप्रामाणिकतात्पर्यकल्पना युक्तेति रहस्यम् ।
केचित्तु
‘अविद्यमानो ह्यवभाति हि द्वयोर्ध्यातुर्धिया स्वप्नमनोरथो यथा’
इति पुराणेऽविद्यमानपदप्रयोगविषयत्वेन जगतः स्वप्नमनोरथसाम्यमुच्यते । तत्र जगतोऽविद्यमानपदप्रयोग-विषयत्वमनित्यत्वादिधर्मैरेव न तु ज्ञाननिवर्त्यत्वं तत्पदप्रयोगे कारणम् । स्वप्ने तु ज्ञाननिवर्त्यत्वमेव कारणमिति मूलं योजयित्वा, स्वप्ने ज्ञाननिवर्त्यत्वस्य जगत्यनित्येऽनित्यत्वादिधर्माणां चाविद्यमानपदप्रवृत्तिनिमित्तत्वे कथं स्वप्नवदविद्यमानं जगदिति साम्यमित्याशङ्क्य नष्टपदप्रवृत्तिनिमित्तयोर्ब्रह्महत्यासुरापानयोर्भेदेऽपि तद्वदयं नष्ट इति प्रयोगो दृष्ट इति समाधाय (जगदविद्यमानं) जगन्मध्यपतितेषु जीवादिषु नित्येषु पराधीनविशेषावाप्त्यपगम-रूपानित्यत्वसम्भवेऽपि विकारित्वमसम्भवीत्याशङ्कापनोदायैकप्रकारेणानवस्थानं विकारित्वमिति विवृतमिति व्याचक्रुः । तच्चिन्त्यम् । अविद्यमानपदेनैव मिथ्यात्ववाचिना पूर्वपक्षसम्भवे स्वप्नादिसाम्यमादाय तदयोगात् । अविद्यमानपदप्रयोगविषयत्वेन साम्ये ‘जगतः स्वप्नादिसाम्यमुच्यते । तच्च ज्ञाननिवर्त्यत्वमेव’ इत्यवतारटीका-विरोधाच्च । ‘रूपतो धर्मेण स्वप्नादिसाम्यमुच्यते न तु बोधनिवर्त्यताऽत्र कारणम्’ इति योजकटीकाविरोधाच्च । अत्राविद्यमानपदगतेर्वक्तव्यतापाताच्च । अविद्यमानपदस्य स्वीयतयाऽविद्यमानपरतया तात्पर्ये व्याकृतत्वेनानित्य-त्वादेर्निमित्तत्वायोगाच्च । अत्रोक्तरीत्याऽनित्यत्वादिनैव साम्यसम्भवे एकत्र ज्ञाननिवर्त्यत्वस्य परत्रानित्यत्वा-देर्ग्रहणायोगाच्च । स्वप्ने ज्ञाननिवर्त्यत्वस्य जगत्यनित्यत्वादेर्निमित्तत्वे तद्वदविद्यमानमिति साम्योक्त्ययो-गाच्च । दृष्टान्ते नष्टशब्दस्य दुष्टार्थकतया ब्रह्महत्यासुरापानयोर्दोषत्वेनैकीकारवद् ज्ञाननिवर्त्यत्वानित्यत्वयोरेकी-कारायोगेन तद्वैषम्यात् । जीवेषु देहहान्या एवानित्यत्वरूपत्वेन पराधीनविशेषावाप्त्यपगमरूपानित्यत्व-सद्भावेऽपीत्यस्यायोगाच्च । परिणामस्य सर्वसाधारण्यायोगेऽप्येकप्रकारेणानवस्थानस्य सर्वत्र सम्भवेन विकारि-त्वेत्यस्योत्पत्तिमत्त्वेत्यर्थो द्रष्टव्य इति परिष्कारस्यायोगाच्च । अधिकं तु गुरुप्रभायाम् ।
(व्या.टि.) अन्ये तु जाग्रत्त्वस्यैव स्वप्नादिपदार्थत्वेन तस्य चासत्त्वेनानित्यत्वादिकं कथमित्याशङ्क्यानित्यत्वस्य नित्यत्वाभावरूपत्वेन विकारित्वस्यैकप्रकारेणावस्थानाभावरूपत्वेन पारतन्त्र्यस्य स्वातन्त्र्याभावरूपत्वेन दुःख-प्राचुर्यस्याप्राचुर्याभावरूपतयाऽभावधर्मैः साम्यमसताऽपि सम्भवतीत्याहुः । तदपि न । भावधर्मैर्गजादिसाम्य-सम्भवे एतत्कल्पनायोगात् । ध्वंसप्रतियोगित्वादिरूपानित्यत्वाद्यभावसाम्यस्य भगवत्यपि सम्भवेन तत्परिग्रह-सम्भवाच्च । पारतन्त्र्यादिपदास्वारस्याच्चेत्यलम् ।
अथ वा स्वप्नादिसाम्यमुच्यत इति साम्यं साधर्म्यं यथेति साधर्म्यदृष्टान्तनिर्देशात् । ‘न स्वप्नादिवत्’ इति सूत्रे जाग्रत्त्वस्य स्वप्नशब्देन निर्देशादत्रापि जाग्रत्त्वमेवोच्यत इति मत्वा तत्साम्यं पर्यवस्यति- ज्ञाननिवर्त्यत्व-मेवेति ।। श्रुत्या शङ्कापरिहारक्रमं दर्शयति- धर्मेणेति ।। अनित्यत्वादिधर्मेण स्वप्नादिसाम्यमुच्यत इति साम्योक्तिहेतूक्तिः । विपक्षं निरस्यति- बोधनिवर्त्यत्वेति ।। अत्रेति ।। यथेतिसाम्योक्तावित्यर्थः । अत्रेत्यनेन तथा न स्वप्नादिवदिति वैधर्म्योक्तावेव कारणं भवति । तत्रैव स्वप्नादिपदेन जाग्रत्त्वादिपरिग्रहादिति सूचयति । वैधर्म्योदाहरण इव साधर्म्योदाहरणेऽपि जाग्रत्त्वादि किं न गृह्यत इत्यत आह- अत्रेति ।। स्वप्नादिशब्द इति सप्तम्यन्तेनान्वेति ।। नोच्यत इत्यतः परं वैषम्यात्किन्तु पदार्था एवोच्यत इति शेषः । कुत इत्यत आह- पदार्थानामिति ।। नन्वारोपितानारोपितयोरनारोपितपरिग्रहेणानित्यत्वादिना साम्यम् । न जाग्रत्त्वपरिग्रहेण बोधानिवर्त्यताकारेणेत्यत्र किं विनिगमकमित्यतः श्रुतिरेव नियामिका फल चान्यथासिद्धमित्याह- आस्थेति ।। अनित्यत्वादाविति ।। व्याख्याश्रुतिनिर्णीततात्पर्यविषय इत्यर्थः । प्रमाणविरुद्धेति ।। श्रुतिविरुद्धेत्यर्थः। अयं भावः- पर्वतोऽग्निमानित्यत्रान्वयदृष्टान्तो महानस एव गृह्यते न तदयोग्यो महाह्रदः । एवमिहापि श्रुति-गृहीततात्पर्यकेण पुराणेनाप्यनित्यादौ उक्ते तद्धर्मवान् सत्यो धर्म्येव दृष्टान्तीकर्तव्यो न तदयोग्यं जाग्रत्त्वम् । किन्तु नैवं जगत् न स्वप्नादिवदित्यत्र यत्र वैधर्म्योदाहरणीकृतं तत्रैवेति रहस्यम् ।
साक्षादिति ।। मायामयपदेनाविद्याकारत्वस्य मूलत एवोक्तेरित्यर्थः । संज्ञाभ्रान्तिरेव तव न तेन तदुक्ति-रित्याशयेन तन्निर्वक्ति- माययेति ।। निर्मितत्वादिति ।। अनेन मूले विविधतया नितरां मितं निश्चितमित्यर्थः सूचितः । निर्मितमिति पाठे ‘मा निर्माणे’ इति धातुं निरदिक्षदिति भावः । तन्निर्वचनाय धातुं पठति- माङ् मान इति ।। यत्प्रत्यय इति ।। ‘अचो यत्’ इति सूत्रादिति भावः । तर्हि ‘ईद्यति’ इति ईकारादेशे गुणे च मेयमिति स्यादित्यत आह- धातोश्चेति ।। निरुक्तत्वादिति भावः । एवं च मायामयपदं भगवत्प्रज्ञा-विनिश्चितत्वमाह । तच्च सत्यत्वाविनाभूतमिति न मिथ्यात्वं वक्तीति भावः । नन्वनेनेति निर्वचने इदमृतमिति स्यान्नानृतमित्यतो नायमिदम्शब्दः किन्त्वनशब्द इत्याशयेन व्याचश्व्े- चेष्टकेनेति ।। उपपदाकारलोपश्छान्दस इति भावः । बोधनिवर्त्यमित्यादि व्यर्थमित्यतो रूढार्थपरिग्रहे बाधकपरतालाभायेति भावेना-पीति व्याचश्व्े- तथापीति ।। इत्यादीति ।। अनृतं कथ्यत इति पृथग्योजनेति भावः । तदधीनेति ।। अनेन मूले तेन सत्यमिति विग्रहे कर्तरि तृतीयेत्युक्तं भवति । कथमिति ।। परायत्तस्य स्वभावत्वासम्भवादिति भावः । स्वस्वामिभावे (व्या.टि.) सत्यस्येति षष्ठीत्याह- नियामक इति ।। विनाऽपि सूर्येण किञ्चित्कालमवस्थानात्प्रायेणेति । प्राणपदस्य पञ्चवृत्तिपरत्वभ्रन्तिवारणाय व्याचश्व्े- प्राणन्तीतीति ।। उक्तशङ्कामपनयति- सम्पन्नाना-मिति ।। मायामयशब्दं प्रकारान्तरेण व्याख्यातुं मायाशब्दं निर्वक्ति- तानेवेति ।। इच्छाप्रयुक्तान् चतुर-शब्दानित्यर्थः । स्वतन्त्रमिति ।। न मयडित्यर्थः ।