अनागता अतीताश्च ..
एकजीववादिकृताभ्यधिकशङ्कानिरासकस्य जीवानन्त्यस्य समर्थनम्
मूलम्
-‘अनागता अतीताश्च यावन्तः सहिताः क्षणाः ।
अतीतानागताश्चैव यावन्तः परमाणवः ।
ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक् ।।’
इति वत्सश्रुतेर्न संसारिणां परिसमाप्तिरस्मत्पक्षे ।
‘परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः ।
सूक्ष्मत्वादीशशक्त्यैव स्थूला अपि हि संस्थिताः ।
सहस्रयोजनसभां प्रभावाद्विश्वकर्मणः ।
अनन्ता राशयोऽनन्ताः प्रजानामधिसंस्थिताः ।।’ इति स्कान्दे ।।
तत्त्वमञ्जरी
ननु जीवानां स्वरूपावस्थित्या समाप्तेर्भेदवादे जगत्प्रवाहस्योच्छेदः । स चानाद्यनन्तं जगदेतदीदृगित्यादि श्रुतिविरुद्धः । अस्मत्पक्षे त्वेकस्यैवानन्तस्य मायामयोपाध्युपहितस्यैकैकांश मुक्तावपि असमाप्तिरित्यत आह- अनागता इति ।। अनागता अतीताश्च क्षणाः सहिताः मिलिताः यावन्तः । स्थूला अपि स्थूलशरीरा अपि ईशशक्त्यैव अल्पप्रदेशे स्थिता हि । तदेव प्रपञ्चयति सहस्रेति स्कान्दवचनेन ।
टीका
यदुक्तं ‘संसारिणां सर्वदा विद्यमानत्वात्’ इति ‘मुक्तस्यापि अज्ञत्वप्रसक्तेः’ इति च, तत्र एकजीववादी मन्यते स्यादिदं वचनं युक्तं यदि बहवो जीवाः तेषु केचिन्मुच्यन्ते केचित् संसरन्तीत्येतद्युक्तं स्यात् । न चैवम् । तथा सत्येकैकमाषापचये माषराश्यपचयवत्क्रमेणैकैकस्य जीवस्य अपवर्गेऽनादौ काले सर्वेषां संसारिणां समाप्तिः स्यात् । ततश्चेदानी संसारोपलम्भो न स्यात् । तस्मादेक एव जीवः । स चेदानी संसरति । न तु कश्चिन्मुक्तोऽस्ति । शुको मुक्त इत्यादयस्तु अर्थवादाः केवलं प्ररोचनार्थाः । तत्कथं संसारिणां सर्वदा विद्यमानत्वम् । क्व चास्ति मुक्तो यस्याज्ञानमापाद्येत । न च वाच्यं जीवानामनन्तत्वादसमाप्तिरिति । तत्र प्रमाणाभावात् । नानन्ता जीवाः परिच्छिन्नत्वात् माषवदिति प्रमाणविरोधात् । अपरिच्छिन्नत्वे तु एकस्यैव गगनस्य कर्ण-शष्कुलीभिरिव एकस्यैव शरीरैः उपाधिभिः सुखादिव्यवस्थोपपत्तौ बहुजीवकल्पनावैयर्थ्यापत्ति-रिति, तत्राऽह- अनागता इति ।। ननु परमाणूनां नित्यत्वात् कथमतीतानागताश्चेति वचनम् । मैवम् । ‘रूपादिमत्त्वाच्च विपर्ययो दर्शनात्’ इति सूत्रकृतैव तदनित्यत्वस्य समर्थितत्वात् । अनन्तगुणिता एवेति सम्बन्धः । पृथगिति ।। देवानां दैत्यानां मानवानां च तथा ब्रह्मणां रुद्राणां चेत्यादि । अस्मत्पक्ष इति ।। सत्यस्वाभाविकबहुजीववादमङ्गीकृत्य केचिन्मुक्ताः केचित् संसरन्तीति अङ्गीकारेऽपीत्यर्थः । कालक्षणेभ्योऽप्यानन्त्यकथनेन एकैकस्य एकैकस्मिन् क्षणेऽपवर्गेऽपि न समाप्तिः । किमुत कल्पान्ते केषाञ्चिदपवर्ग इति सूचयति । कालक्षणाश्च स्वाभाविका एव अत्राभिमताः न त्वौपाधिका । किञ्च उपाधिः आत्मन एकदेशं ग्रसतीत्यादिवक्ष्यमाणदूषण-स्यात्रापि साम्यात् । अनेन जीवानामानन्त्ये प्रमाणाभावो निरस्तः । श्रुतिविरोधादनुमानमपि निरस्तम् ।
ननु जीवानां परिच्छिन्नपरिमाणलक्षणं मूर्तत्वमङ्गीक्रियते । न च मूर्तानां समानदेशत्वमस्ति । ततश्च परमाणुभ्योऽप्यनन्तत्वे तेषां स्थानाभावप्रसङ्गादयुक्तमेतदित्यशङ्कामागमवाक्येनैव परिहरति- परमाण्विति ।। परमाणोरवस्थानस्य योग्यः प्रदेशः परमाणुप्रदेशः । सूक्ष्मत्वात् अप्रतिघत्वेन समानदेशत्वोपपत्तेरिति भावः । ननु ते संसारित्वेन पार्थिवादिशरीरोपपन्नाः । पार्थिवादीनां सप्रतिघत्वं नियतम् । तत्कथमल्पदेशावस्थानमित्यत उक्तम्- ईशेति ।। स्वरूपापेक्षया सूक्ष्मत्वादित्युक्तम् । शरीरसाहित्यविवक्षया- स्थूला अपीति ।। सप्रतिघा अपीत्यर्थः । हीत्यनेन ईश्वरशक्तेरघटितघटकत्वं प्रसिद्धमिति सूचयति । उक्तस्य असम्भावनां परिहर्तुं पुराणवाक्येन दृष्टान्तं दर्शयति- सहस्रेति ।। सहस्रयोजनानि परिमाणमस्या इति तथोक्ता । ‘अधिशीङ्स्थाऽऽसां कर्म’ इति कर्मत्वाद् द्वितीया । अनन्ता अनन्ता इत्यनुपचारेण अनन्ता इत्यर्थः । विश्वकर्मणोऽप्येवं प्रभावः, किमु परमेश्वरस्येति भावः । आनन्त्ये प्रमाणाभावोऽनुमानविरोधोऽवस्थानासम्भावना चैकजीववादिभिरुक्तानि दूषणानि अनेकश्रुतिपुराणदर्शिभिरस्माभिरेव परिहर्तुं शक्यन्ते, न तु अन्यैर्बहुजीववादिभिरल्पदर्शिभिरिति ज्ञापयितुमपीदं चोद्यमत्र परिहृतम् । अत एवोक्तमस्मत्पक्ष इति ।
भावबोधः
हेत्वसिद्धिं परिहरति- अपरिच्छिन्नत्वे त्विति ।। ननु ‘अतोऽनन्तदोषदुष्टत्वात्’ इत्यतः पूर्वमेवैतद्वाक्यमुदाहर्तव्यम् । व्यवधाने किन्निमित्तमित्यत आह- आनन्त्य इति ।। इति ज्ञापयितुमपीति ।। न केवलं यदुक्तं संसारिणामित्याद्याशङ्कानिरासार्थमित्यपिशब्दस्यार्थः ।
भावदीपः
परिच्छिन्नत्वादिति हेतोरसिद्धिं विपक्षे बाधकोक्त्या निरस्यति- अपरिच्छिन्नत्वे त्विति ।। सूत्र-कृतैवेति ।। वैशेषिकाधिकरणे परमाणवोऽनित्याः, रूपवत्त्वाद्रसवत्त्वाद्घटादिवदिति ‘नित्यमेव च भावात्’ इति पूर्वसूत्रोक्तनित्यत्वविपर्ययोऽनित्यत्वं रूपादिमत्त्वहेतुना घटादौ दर्शनादिति (तेनैव) व्यासेनैव समर्थितत्वादित्यर्थः । रूपादेर्भौतिकत्वेन विशेषणान्नानैकान्तिकत्वदोषः परमात्मप्रकृत्यादाविति भावः । सत्यस्वाभाविकेति ।। एवंरूपेणार्थोक्तेः कृत्यमग्रे व्यक्तम् । ननु न्यायमतरीत्याऽखण्डे काले क्षणाना-मौपाधिकत्वादुपाधीनां च परिमितत्वात्कथं क्षणानन्त्यमित्यत आह- कालक्षणाश्चेति ।। न केवलमौपाधि-कत्वपक्षोऽत्रानभिमत इत्येव । किन्तु सपक्षो दुष्टश्चेत्याह- किञ्चेति ।। सूक्ष्मत्वादित्यनुवादः, अप्रतिघत्वेनेति व्याख्या । परस्परप्रतिहतिमद्धनीभूतद्रव्यत्वाभावेनेत्यर्थः । यथा ह्रदमध्ये जलमाकाशः सौराद्यालोकश्चेत्यर्थः । सप्रतिघद्रव्यत्वं चान्योन्यप्रतिहतिमन्निबिडद्रव्यरूपत्वं कुम्भकुसूलयोरिवेत्यर्थः । सप्रतिघा अपीत्यर्थ इति ।। पार्थिवादिस्थूलशरीरवत्त्वेन सप्रतिघा अपीत्यर्थ इत्यर्थः । अधिकरणत्वात्सभायामिति भाव्यमित्यत आह- इति कर्मत्वादिति ।। अधिपूर्वस्य शीङ् स्वप्न इत्यस्य ष्ठा गतिनिवृत्तावित्यस्य आस उपवेशन इत्यस्य धातोर्यदाधारकारकं तत्कर्मसञ्ज्ञं भवतीत्युक्तेःकर्मत्वात् ‘कर्मणि द्वितीया’ इति द्वितीयेत्यर्थः । तथा च सभामिति साध्विति भावः । नन्वनागता अतीताश्चेत्यादिवचनस्य स्वपक्षदोषोद्धारपरत्वान्न च सत्यत्वाङ्गीकारे कश्चिदोषोऽ-स्तीति वाक्यानन्तरमुपन्यासो युक्तः । न त्वत्र परपक्षे दोषोक्तिप्रस्तावे । अत एव टीकायां ‘ननु प्रपञ्चसत्यत्वेऽस्ति बाधकम्’ इत्यादिना परोक्तबाधकान्याशङ्क्य तत्रैव परिहृतानीत्यत आह- आनन्त्य इति ।। अत्र परिहृत-मिति ।। बहुजीववाददोषोक्तिप्रस्तावे । तैः परिहर्तुमशक्यमिदमित्यपि ज्ञापयितुम् । न केवलं चोद्यं निरसितु-मित्यपेरर्थः । तन्मात्रार्थत्वे तु न च सत्यत्वे इत्यादिवाक्यानन्तरमेवेदं वक्तव्यम् । अत्रोक्तौ तु मिथ्याभूत-बहुजीववादिप्रभृतिभिर्नैयायिकादिभिस्सर्वैरपि दुष्परिहरमिदं चोद्यमिति ज्ञापनादिति भावः । अत एवोक्त-मिति ।। व्याख्यातं चैतत्सर्वं बहुजीववादिसाधारण्येनेति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
अनादौ काले अतीतकाले । ननु तर्हि शुको मुक्तो वामदेवश्च मुक्तः इत्यादिवाक्यानां का गतिरित्यत आह- शुको मुक्त इत्यादय इति ।। प्ररोचनार्था इति ।। संसारापेक्षया मुक्तिस्समीचीनेति प्ररोचनार्था इत्यर्थः । तथा चार्थवादत्वान्न स्वार्थे तात्पर्यमिति भावः । हेत्वसिद्धिं परिहरति- अपरिच्छिन्नत्वे त्विति ।। एकस्यैव जीवस्य शरीरैरुपाधिभिः शरीरलक्षणैरुपाधिभिः । वैयर्थ्यापत्तिरिति ।। अतः परिच्छिन्नत्वमेवाङ्गी-कार्यमिति भावः । रूपादिमत्त्वाच्चेति ।। रूपादिमत्त्वाच्चानित्यत्वम्, तथा दृष्टत्वाल्लोक इति सूत्रार्थः । ‘भौति-कन्त्वेव रूपादि व्याप्तं नाशेन नो मते’ इत्युक्तत्वान्नेश्वरे व्यभिचारः शङ्कनीयः । प्रसङ्गादाह-कालक्षणाश्चेति ।। औपाधिका इति ।। तरणिपरिस्पन्दाद्युपाधिनिमित्तभेदवन्त इत्यर्थः । यथोक्तं वैशेषिकैः-‘आकाशादित्रय-मेकैकमेवोपाधिभेदान्नानुभूतम्’ इति । औपाधिकत्वे को दोष इत्यत आह- किञ्चोपाधिरिति ।। दूषणस्य उपाधेर्भेदकारित्वानुपपत्तिरूपस्य । अत्रापीति ।। कालक्षणानामौपाधिकत्वेऽपीत्यर्थः । अनेनेति ।। अनागता इति वत्सश्रुत्युदाहरणेनेत्यर्थः । अनुमानं जीवा नानन्ताः परिच्छिन्नत्वादित्यनुमानम् । स्थानेति ।। अवस्थान-योग्यप्रदेशेत्यर्थः । मूले- परमाणुप्रदेशेऽपीति ।। वालाग्रस्य शतधा विभागे सत्येको विभागो यावान्सूक्ष्मस्तावान् सूक्ष्मो जीवः स च हृदयाकाशे तिष्ठति । तस्मिन् जीवेऽनन्तानि कर्माणि ।
‘कर्माणि तानि च पृथक् चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्जि च ।।’ इति ।
तानि चैवमित्यनन्ताः प्राणिराशयः परमाणोरवस्थानयोग्यप्रदेशे सन्तीति ज्ञातव्यम् । अप्रतिघत्वेनेति ।। स्वाधिष्ठितप्रदेशेऽन्यस्यावस्थानानापादकत्वं सप्रतिघत्वं तदभावोऽप्रतिघत्वं तेनेत्यर्थः । पार्थिवादीनां पार्थिवादि-शरीरोपपन्नानाम् । उक्तस्यासम्भावनामिति ।। शरीरसहितत्वेन स्थूलानामप्यल्पदेशेऽवस्थानमसम्भावित-मित्यसम्भवानाशङ्कां निराकर्तुमित्यर्थः । ननु सभायाः प्रजाधारत्वेनाधिकरणत्वात्तत्र सप्तमी स्यात् । न तु सभामिति द्वितीयेत्यत उक्तम्- अधिशीङ्स्थासां कर्मेतीति ।। अधिपूर्वाणां शीङ् स्वप्ने, ष्ठा गतिनिवृत्तौ, आस उपवेशने, इत्येषां धातूनामाधारः कर्मसञ्ज्ञः स्यादिति सूत्रार्थः । अधिशेते अधितिष्ठत्यध्यास्ते वा वैकुण्ठं हरिरित्युदाहरणम् । तथा च प्रकृतेऽधिपूर्वष्ठागतिनिवृत्तावितिधात्वर्थाधारभूतायास्सभायाः कर्मत्वात् ‘कर्मणि द्वितीया’ इति सूत्रेण द्वितीया जातेत्यर्थः । ननु मिथ्योपाधिकृतमिथ्याभेदवादिनां सत्योपाधिकृतसत्यभेदवादिनां चैक्यवादिनां निराकरणानन्तरं जीवानां स्वाभाविकानन्त्ये प्रमाणाभावादिके शङ्किते तत्परिहारायानागता इत्यादिवाक्यम्’ अतोऽनन्तदोषदुष्टत्वात्’ इत्यतः पूर्वम् अन्योन्याश्रयादित्यनन्तरमुदाहर्तव्यम् । अत्रोक्तौ किं निमित्तमित्यत आह- आनन्त्य इति ।। अनुमानविरोध आनन्त्याभावसाधकपरिच्छिन्नत्वानुमानविरोधः । इति ज्ञापयितुमपीति ।। न केवलं ‘यदुक्तं संसारिणां सर्वदा विद्यमानत्वात्’ इति, ‘मुक्तस्याप्यज्ञत्वप्रसक्तेः’ इति च ‘तत्रैकजीववादी मन्यते’ इत्याद्याशङ्कानिरासार्थमित्यपिशब्दार्थः । अत एवेति ।। अनेकश्रुतिपुराण-दर्शिभिरस्माभिरेव परिहर्तुं शक्यन्ते यतोऽत एवेत्यर्थः । अस्मत्पक्ष इतीति ।। अनेकश्रुतिपुराणदर्शिनामस्माकं पक्ष इत्यर्थः । तस्य उोपाध्यादेः । उपाधिसम्बन्धेन उपाधिसम्बन्धप्रयुक्तेन ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
हेत्वसिद्धिं परिहरति- अपरिच्छिन्नत्वे त्विति ।। अनन्तगुणिता एवेति सम्बन्ध इति ।। अतीताना-गताश्चैवेत्येवकारस्यानन्तगुणिता एवेत्यनेन सम्बन्धेन यथाश्रुतसम्बन्धाभावान्न तस्य वैयर्थ्यमिति भावः । ननु कालक्षणानामौपाधिकत्ववज्जीवानामप्यौपाधिकत्वं किं न स्यादित्यत आह- कालक्षणाश्चेति ।। तथा च दृष्टान्तोऽसम्प्रतिपन्न एवेति भावः । नन्वसति औपाधिकत्वे बाधके तत्परित्यागेन स्वाभाविकत्वावधारणं निर्निबन्धनमित्यतः, किञ्चोपाधिरात्मन एकदेशं ग्रसतीत्यादिवक्ष्यमाणदूषणकवलिततया तत्परित्यागेन स्वाभाविकत्वावधारणस्य युक्तत्वादित्याशयेनाऽह- किञ्चेति ।। अनेनेति ।। श्रुतिरूपप्रमाणोदाहरणेने-त्यर्थः । अनुमानमपीति ।। जीवाः नानन्ताः परिच्छिन्नत्वान्माषवद् इत्यनुमानमपीत्यर्थः । न च मूर्ताना-मिति ।। न च तन्तुपटयोरेकत्वेन समानाश्रयत्वदर्शनात्कथमेतदिति वाच्यम् । अवयवावयविभावानापन्नानां समानाश्रयत्वाभावस्याभिमतत्वात् । यदत्र वक्तव्यं तच्छेषवाक्यार्थचन्द्रिकायां स्पष्टमुक्तं तत एव प्रतिपत्त-व्यम् । परमाणुप्रदेश इत्यस्य परमाणोः प्रदेशेऽशविशेष इत्यर्थप्रतिपत्तिवारणाय व्याचश्व्े- परमाणोरिति ।। नन्वेतद्विरुद्धमित्यत आह- स्वरूपापेक्षयेति ।। ननु सहस्रं योजनानि परिमाणमस्याः सभायाः सा तथोक्तेति सहस्रयोजनसभाया अधिकरणतया तत्र सप्तम्यां सत्यां सभायामिति भवितव्यं, सभामिति द्वितीया तु कथमित्यतः ‘अधिशीङ्स्थासाम्’ इत्यधिपूर्वाणां शीङादीनामाधारस्य कर्मताविधानात्कर्मणि द्वितीयायां सभामित्यस्योपपन्न-तरत्वादित्याह- अधिशीङ्स्थासां कर्मेति कर्मत्वाद् द्वितीयेति ।। ननु जीवानन्त्यादौ प्रमाणाभावादिशङ्का-परिहारः ‘अतोऽनन्तदोषदुष्टत्वात्’ इत्यतः पूर्वमेव कर्तव्यः । तत्र हि परपक्षेऽनन्तदोषदुष्टत्वेन दूषिते स्वपक्षेऽपि दोषः सम इति शङ्कोदयात्, तत्कथमत्रैतच्चोद्यपरिहार इत्यत आह- आनन्त्ये प्रमाणाभावादित्यादि ।। अस्माभि-रेवेत्यवधारणोपपादकं स्वस्येतरापपेक्षया विशेषं दर्शयति- अनेकेति ।। इतरैरपरिहार्यत्वे हेतुमाह-अल्प-दर्शिभिरिति ।। इति ज्ञापयितुमपीति ।। अपिशब्देन यदुक्तं संसारिणां सर्वदा विद्यमानत्वादित्युक्त-शङ्कानिरासार्थत्वसमुच्चय इत्याहुः ।
लघुप्रभा
(व्या.टि.)
एवं द्विविधबहुजीववादं निरस्य मध्येऽप्येकजीववादं निरसितुं तदुत्थापयिषुस्तदुत्थानबीजमुक्त-मनुवदति- यदुक्तमिति ।। वचनमिति ।। दोषवचनमित्यर्थः । एतदिति ।। मतमित्यर्थः । युक्तमिति ।। सम्भावितमित्यर्थः । सम्भाविते हि युक्तिविरोधोद्भावनं युक्तम् । न त्वसम्भावनयैवापोढे, निराश्रयत्वादि-त्यर्थः । तामेव दर्शयति- तथा सतीति ।। क्रमेणेति ।। कालक्रमेणेत्यर्थः । परमतं प्रदूष्य स्वमतं पर्यवसाययति- तस्मादिति ।। यदि न मुक्तस्तर्हि शुको मुक्त इत्यादिरनर्थः स्यादिति शङ्कते- त्विति ।। किन्त्वित्यर्थः । अर्थवादा इति ।। भूतार्थवादा इत्यर्थः । केवलमित्यर्थतत्त्वतात्पर्यव्यावृत्तिः । पूर्वतन्त्रे ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यर्थवादा नार्थतत्त्वपराः असम्भावनावादत्वादित्युक्तेरित्यर्थः । किमाक्षेपे । आक्षेपं प्रतिक्षि-पति- न चैवं वाच्यमिति ।। असमाप्तिरिति ।। संसारिणामिति शेषः । तदेकजीववादी मानाभावानुमान-विरोधावस्थानासम्भावनाभिर्दूषयिषुराद्यं तावदाह- तत्रेति ।। द्वितीयमप्याह- नानन्ता इति ।। हेतोः स्वरूपा-सिद्धिं निरसितुमपरिच्छिन्नत्वे बहुजीववादाङ्गीकारवैयर्थ्यमाह- अपरिच्छित्वे त्विति ।।
(व्या.टि.) नन्वत्रैकस्य गगनस्य कर्णशष्कुलीभिरिवेति नभसः श्रोत्रभावो दृष्टान्तीकृतः । स कुतो न दूषितः। न चानुमतत्वादिति वाच्यम् । सर्वप्रमाणविधुरस्य प्रमाणविरुद्धस्यानुमन्तुमनर्हत्वात् । तथा हि । न तावन्नभसः श्रोत्रत्वे प्रत्यक्षं प्रमाणम् । ज्ञानकारणमतीन्द्रियमिन्द्रियमिति तल्लक्षणोक्तिव्याघातात् । रूपाद्यभावाच्च । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । न च श्रोत्रं गगनीयम्, रूपादिषु पञ्चसु मध्ये शब्दस्यैव ग्राहकत्वा-दित्यनुमानं मानम् । व्याप्त्यभावात् । भेरीदण्डसंयोगादौ व्यभिचाराच्च । विपक्षे बाधकाभावेनाप्रयोजकत्वाच्च । नभसः श्रोत्रत्वे बधिराभावप्रसङ्गश्च । पृथिव्यादित्व एवोपहतिसम्भवात् । अदृष्टादिकारणविशेषस्योभयत्र साम्यात् । नाप्यागमः । कल्पनामात्रमूले श्रुत्याद्यनाकलनात् । तथैव सर्वप्रमाणविरुद्धं च । आकाशं न श्रोत्रमिति साक्षिविरोधात् । श्रोत्रं नाऽकाशं गत्यादिमत्त्वादित्यनुमानविरुद्धं च । न चासिद्धिः । ‘श्रोत्रमुदक्रामत् अशृृण्वन्नश्नन् पिबन् आस्तैव’ इति ‘श्रोत्रं प्राविशत्’ इति चोत्क्रान्तिप्रवेशोक्तेः । गगनस्य श्रोत्रत्वे ‘प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति ‘विषयद्रवणात्तेषामिन्द्रियत्वमुदाहृतम्’ इति श्रुतिस्मृत्युक्तेदंद्रवणाभावाच्च । नभसः श्रोत्रत्वे तस्य सिद्धत्वेन ‘अश्विनौ वा अकामयेतां श्रोत्रश्विनावबधिरौ स्याव’ इति तदाशंसनविरोधाच्च । ‘तावेत-मश्विभ्यामश्वयुग्भ्यां पुरोडाशं द्वादशकपालं निरवपताम् । ततो वैतौ श्रोत्रश्विनावबधिरौ अभवताम्’ इति तत्सिद्ध्यर्थमिष्ट्यनुष्ठानविधानानुपपत्तिश्च । तस्य एतच्छ्रोत्रं यद्वाल्मीक इति वल्मीकसादृश्यानुपपत्तिश्च । न चात्र श्रोत्रं कर्ण इति वाच्यम् । ‘सत्य इमे लोका एषु चरन्ति प्राणाऽनुगुहाशयां निहितास्सप्त सप्त’ इतीन्द्रियाणां गोलकस्थत्वाभिधानेन कर्णस्य गोलकत्वेन श्रोत्रत्वानुपपत्तेः । ‘सूर्यं चक्षुर्गमयतात्’ इत्यनुवाके चक्षुरादेरिव ‘दिशः श्रोत्रम्’ इति कर्णानुप्रविष्टगमनप्रार्थनानुपपत्तेश्च । वाङ्म आसन्निति मन्त्रे अक्ष्णोश्चक्षुरितीव कर्णयोः श्रोत्रमिति कर्णानुप्रविष्टश्रोत्रकथनानुपपत्तिश्च । ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इतीन्द्रियोत्पत्ति-कथनेन नित्ये नभसि तदयोगाच्च । तस्मान्निराकरणीयमिति चेत् सत्यम् अनभिमतमेतन्निराकरणीयमिति । तथाऽप्यन्यत्र विस्तरतो निरस्तत्वान्नात्र निराक्रियाप्रक्रिययेत्यलम् ।
मूले सहिता इति साहित्यमिहैकबुद्ध्युपारूढत्वम् । क्रमिकाणां क्षणानां मेलनासम्भवात् । मूले परामाणव इति सहिता इत्यत्राप्यनुषञ्जनीयम् । परमाण्वारम्भवादी शङ्कते- नन्विति ।। समर्थितत्वादिति ।।
ननु कथमेतद्युक्तम् । भूतसूक्ष्माणां परमाणुत्वात्तेषां च नित्यत्वात् । कथं च तदानन्त्यापेक्षया जीवा-नन्त्यातिशयसम्भवः । प्रतिजीवमनेकभूतसूक्ष्मात्मकप्रकृत्यावरणावश्यम्भावात् । एतदतिरिक्तानां जगदुपादा-नानन्तभूतसूक्ष्माणां सत्त्वाद्वेति चेन्न । ‘अविभागः पराणुता’ इत्यनुभाष्योक्तपरमाणुलक्षणस्य ‘यस्य विभिन्ना-वयवेषु सत्स्वपि तेषां विभागो न कदाऽपि भवितुमर्हति स परमाणुः’ इति । ‘यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं नास्ति स परमाणुः’ इति द्वेधा सुधायां परिष्कृतस्य भूतसूक्ष्मेष्वभावात् । तेषां स्वावयवेन खण्डनाभावेन भेदाभावेन विभिन्नावयवेषु सत्स्वित्यन्तस्य प्रथमलक्षणघटकस्याभावात् । द्वितीयलक्षणे स्वावयवं विनेत्यस्य स्वावयवातिरिक्तमित्यर्थः । एतद्विशेषणमहिम्ना स्वावयवानामनवयवत्वा-(व्या.टि.) वस्थापन्नानामप्यपकृष्टपरिमाणानां सत्त्वलाभेन भूतसूक्ष्मेष्वतिव्याप्तिरिति निपुणतरं वाक्यार्थचन्द्रि-कोपपादितरीत्या द्वितीयलक्षणस्याप्यभावात् । तथा च भूतसूक्ष्मजन्यद्रव्याणामेव परमाणुतया तेषामनित्यत्वं तदानन्त्यापेक्षया जीवानन्त्यातिशयश्च युक्तः । न च तथाऽप्यमुक्तानां सर्वेषामपि प्रतिकल्पं सृज्यत्वेन भूतसूक्ष्म-कार्यानेकपरमाणुसम्बन्धावश्यम्भावान्न तदानन्त्यापेक्षया जीवानन्त्यातिशय इति वाच्यम् । स्वसम्बद्ध-परमाण्वतिरिक्तजगदुपादानपरमाणूनामेवात्र विवक्षितत्वात् । कतिपयानामेव सृष्टिरिति वदतस्त्वसृज्यानां परमाणुसम्बन्धो नास्तीति नानुपपत्तिरित्याहुः । सर्वथा जीवानन्त्यातिशयो युक्तः । अत एव सुधायां ‘रूपादि-मत्त्वाच्च’ इति सूत्रव्याख्यायां ‘नन्वस्माभिर्भूतसूक्ष्माणां नित्यताऽङ्गीक्रियते तत्कथमेवमनुमीयते । मैवम् । न हि परमाणवो भूतसूक्ष्माणि । किन्नामाहङ्कारोपचितानि विकृताकाराश्च नित्या एव’ इति विकृतानां परमाणूनां भूतेभ्योऽन्यत्वमुक्तम् ।
पृथगित्यनूद्य व्याचष्टे- पृथगिति देवानामित्यादिना ।। नन्वनेन कथमन्वयः सूचितः । न तावज्जीवानां राशयः पृथगनन्ता देवानां दैत्यानां मानवानां ब्रह्मणां रुद्राणां राशयः प्रत्येकमनन्ता इति । राशिशब्दस्य समुदायापरपर्यायत्वेन समुदायस्य प्रत्येकमेकत्वेनानन्त्यस्य दूरापास्तत्वात् । नापि पृथग्देवदैत्यादिनानारूपेण स्थितानां जीवानां राशय इति । जीवसमुदायस्याप्येकत्वेनोक्तदोषात् । नानारूपेण स्थितिकथनानर्थक्याच्च । देवानामित्यादिषष्ठ्यनन्वयाच्च । नापि समुदायवाचिनः समुदायिलक्षणया प्रथमोक्तोऽन्वयः । देवादीनां लक्षणानन्त्यापेक्षयाऽतिशयितानन्त्यस्यासम्भावितत्वात् । ब्रह्मणां सुतरामसम्भावितत्वात् । तथा हि । सर्वेषां ब्रह्मणां मुक्तियोग्यत्वमेकैकस्यैकैकस्मिन्नेव कल्पे मुक्तिरिति च तत्त्वम् । तथा च प्रतिक्षणं स्थितानां तत्प्रागभाव-तद्ध्वंसानां तत्समसङ्ख्याकत्ववत्प्रतिकल्पमेकैकत्वेनोत्पत्स्यमानानां महत्तत्त्वादीनां महाकल्पसमसङ्ख्यावत्त्व-वच्चेत्प्रतिकल्पमेकैकत्वेन मुच्यमानग्रहाणामपि तत्समसङ्ख्याकत्वस्यैव युक्ततया प्रतिकल्पमनन्तलक्षण-परमाण्वपेक्षया ब्रह्मणामानन्त्यातिशयस्यासम्भावितत्वात् ।
अत्रोच्यते । रुद्राणां चेत्यत्र राशिरिति वचनविपरिणामेनान्वयः । इत्यादीत्येतदन्तं पृथगित्यस्य व्याख्यान-क्रियाविशेषणम् । स्थितानामिति शेषः । तथा च नानारूपेण स्थितानां जीवानां राशयोऽनन्ता इति । अत्र बहुवचनं समुदायापेक्षया । नानारूपेण स्थितिकथनं च जीवानामानन्त्येऽपि ब्रह्मादीनां पर्यवसाने निर्ब्रह्मादिः कल्पः स्यादिति शङ्कानिरासकतदानन्त्यद्योतनाय । न तु क्षणाद्यानन्त्यातिशयितानन्त्यद्योतनाय । उक्त-युक्तिविरोधात् । आनन्त्यमात्रेणैवोक्तशङ्कानिरासाच्च । अत एव भारतार्थप्रकाशे-
‘पूर्तिश्च नैव नियमाद्भविता हि यस्मात्तस्मात्समाप्तिमपि यान्ति न जीवसङ्धाः ।
आनन्त्यमेव गणशोऽस्ति यतो हि तेषामित्यन्ततः सकलकालगता प्रवृत्तिः ।।’
इति गणशः आनन्त्यमेवोक्तम् । न तु क्षणाद्यतिशयितम् । ‘कालक्षणेभ्योऽप्यानन्त्यकथनेनैकैकस्यैकै-कस्मिन्क्षणेऽपवर्गेऽपि न समाप्तिः, किमुत कल्पान्ते केषाञ्चिदपवर्गे इति सूचयति’ इत्युत्तरवाक्यबलाद-(व्या.टि.) प्येषोऽर्थोऽवगम्यते । ब्रह्मणां क्षणानन्त्यादतिशयितानन्त्ये एकैकस्य ब्रह्मण एकैकस्मिन् क्षण इत्यवक्ष्यत् । किमुत कल्पान्ते केषाञ्चिदित्यनेन प्रतिकल्पं मुच्यमानानां तत्तत्कल्पीयक्षणसङ्ख्याऽपेक्षया न्यूनसङ्ख्या-कत्वमेवाभिप्रेतम् । अन्यथा कैमुतिकत्वायोगात् । प्रतिकल्पं मुक्तिङ्गच्छतां तमो गच्छतां स्वभावाभिव्यक्तिं प्रतिपद्यमानानां नित्यसंसारिणाञ्च मिलित्वा तत्तत्कल्पीयक्षणसङ्ख्यापेक्षयाऽधिकसङ्ख्याकत्वमात्रेण जीवानन्त्यस्य क्षणानन्त्यादाधिक्यं सङ्गच्छते । मुक्तियोग्यापेक्षया तमोयोग्यानामधिकसङ्ख्याकत्वं मानान्तरादवसेयम् । जीवानामानन्त्यमात्रेण संसार्यसमाप्तिलाभेऽपि वस्तुतत्वं श्रुतावुक्तमिति ध्येयम् ।
मूले अस्मत्पक्ष इति विशेषणेन पक्षान्तरे संसारिपरिसमाप्तिः दुरुद्धरेति सूचितम् । तद्व्याचष्टे- सत्यस्वाभा-विकेति ।। कथमनेनोक्तशङ्काऽपगतेत्यतः कैमुत्यसूचनेनेत्याह- कालक्षणेभ्योऽपीति ।। केषाञ्चिदिति ।। केषाञ्चित्तमोयोग्यत्वादपरेषां नित्यबद्धतया सर्वेषामपवर्गायोग्यत्वादित्यर्थः । एक एव कालोऽखण्ड एव तद्भेदस्तु औपाधिक इति नैयायिकमतं निरस्यति- कालक्षणाश्चेति ।। साम्यादिति ।। आत्मीयोपाधिनिरासकयुक्तीनां कालिकोपाधिनिरासेऽपि प्रसङ्गयोगादित्यर्थः । श्रुत्युदाहरणप्रयोजनमाह- अनेनेति ।। श्रुतीति ।। वत्सश्रुती-त्यर्थः । तृतीयं निरसितुं प्रसञ्जयति-नन्विति ।। मूर्तानामितिहेतुगर्भविशेषणम् । घटादौ तद्दर्शनादिति भावः । अयुक्तमिति ।। असम्भावितमित्यर्थः । एतदिति ।। परमाणूत्कृष्टजीवानन्त्यमित्यर्थः । यद्यपि परमाणुभ्यः आनन्त्येऽपि जीवानां न समानदेशत्वं प्रसज्यते । ब्रह्माण्डस्यान्तर्बहिरवकाशभागेऽप्यवस्थानसम्भवात् । अन्तरवस्थाननियमेऽपि परमाण्ववच्छिन्नाकाशभागेषु बहुषु तत्सम्भवात् । अनवच्छिन्नभागस्य परमाण्ववच्छिन्न-भागापेक्षयाऽल्पत्वेऽति परमाण्वपेक्षया सूक्ष्मतमानां जीवानां गण्डशिलापेक्षयाऽल्पदेशेऽपि सर्षपाणामिव बहूना-मवस्थानासम्भवात् परमाण्वनवच्छिन्नदेशाभावेऽपि समानदेशत्वप्रसक्तावपि न तदनुपपत्तिः । पिपीलिकानां हस्तिपादे समानदेशत्वदर्शनात् । तथाऽपि संसारिणामन्तरेवावस्थानात्परमाणूनामहङ्कारकार्याणां यावदहङ्कृति व्याप्तत्वाद्विरलतयाऽवस्थानेऽपि ततोऽधिकसङ्ख्यानामतीतानागतपरमाण्वपेक्षयाऽप्यनन्तानां जीवानामव-स्थानायोगात् । ‘बालाग्रशरभागस्य दशधा कल्पितस्य च । जीवो भागः समुद्दिष्टः’ इति मानेन विभक्तावयव-समपरिमाणस्य परमाण्वपेक्षया अत्यल्पपरिमाणत्वयोगात्पिपीलिकानां हस्तिपादेनोर्ध्वाधरीभावस्य परस्परं च विभिन्नदेशत्वस्यैव सत्त्वेन जीवानां परमाणूनां परस्परं समानदेशत्वप्रसक्तिः तदनुपपत्तिश्चास्तीति न दोषः । अत्र परमाणुप्रदेशेऽपीति समासप्राबल्यात्कर्मधारये प्राप्तेऽपि परमाणुसामानाधिकरण्यघटनाय विवक्षितमाह- परमाणोरिति ।। मूर्तसादेश्यं घटयन् सूक्ष्मत्वादित्येतद्व्याचश्व्े- अप्रतिघत्वेनेति ।। परस्परप्रतिहतिमद्घन-द्रव्यत्वाभावेनेत्यर्थः । अनेन प्रतिघत्वं मूर्तत्वानुमानोपाधिरिति सूचितम् । जलाकाशसौरालोकानामिवेति ।
पुनः शङ्कते- नन्विति ।। पार्थिवादीति ।। ‘भूतबन्धो हि संसारः’ इति भारतवचनादिति भावः । नियत-मिति ।। सार्वत्रिकमित्यर्थः । तत्रोपाध्युन्नीतहेतोरसिद्धिरिति भावः । अवस्थानघटकद्वयं व्यवस्थापयति- स्वरूपापेक्षयेति ।। साहित्यविवक्षयेति च प्रसिद्धमिति ।। ‘विचित्रशक्तिः पुरुषः पुराणः’ ‘नम आश्चर्यकर्मणे’ (व्या.टि.) ‘सर्वोपेता च तद्दर्शनात्’ इति श्रुतिस्मृतिसूत्रैरतर्कितकार्यलिङ्गेन च प्रसिद्धमित्यर्थः । यत्तु ‘कर्माणि तानि च पृथक्चेतनान्येव सर्वशः’ इत्यनुभाष्यानुरोधेनात्र पापजीवपरतया व्याख्याति, तत्प्रमितमप्यत्रानभि-मतम् । असङ्गतत्वात् । परमाणुसमदेशजीवानन्त्यस्य प्रकृतत्वात् । परमाणुजीवस्थपापजीवानन्त्यस्याप्रकृत-त्वात् । परमाणुपदेन जीवपरिग्रहे प्रकृतहानाप्रकृतकल्पने स्यातामिति । परमाणुजीवस्थपरमाणुपापजीवपरिग्रहे टीकायां परमाणुश्चासौ प्रदेशश्चेति विग्रहः प्रदर्श्येत । न तु परमाणोरवस्थानप्रदेश इति षष्ठीतत्पुरुष इति मात्सर्यमुत्सार्य विचार्यतामिति दिक् ।
उक्तस्येति ।। स्थूलानामप्यल्पस्थानावस्थानस्येत्यर्थः । दृष्टान्तमिति ।। सभापरिमाणाल्पपरिमाण-जीवराश्यवस्थानमित्यर्थः । नन्वत्रापि सङ्ख्यापूर्वत्वाद् द्विगुत्वेन ङीपा भाव्यमित्यत आह- सहस्रमिति ।। ननु सभायाः प्रजावस्थित्यधिकरणत्वात्सप्तमी स्यादित्यत आह- अधिशीङिति ।। विशेषसञ्ज्ञया सामान्य-सञ्ज्ञाया बाध इति भावः । यद्यपि ‘सभा राजाऽमनुष्यपूर्वा’ इत्यतः अमनुष्यपूर्वत्वान्नपुंसकेन भाव्यम् । तथाऽप्यमनुष्येत्यत्र नञिवयुक्तन्यायेन मनुष्यसदृशवाचिरक्षःप्रभृतिशब्दस्यैव ग्रहणान्नेह प्रवर्तते । द्विरुक्तेः फलमाह- अनुपचारेणेति ।। ‘मङ्गलानां च मङ्गलम्’ ‘मन्मथमन्मथः’ इत्यादौ प्रवृत्तिनिमित्तपारम्ये तात्पर्यदर्शनादित्यर्थः । कथं दृष्टान्तमात्रेणासम्भवनानिवृत्तिः, सम्भावकानुक्तेरित्यतः, कैमुत्ये तात्पर्यादित्याह- विश्वकर्मणोऽपीति ।। देवतक्ष्णोऽपीत्यर्थः । तस्य हि ‘यथा च तक्षोभयथा’ इति पराधीनत्वं प्रसिद्धमित्यर्थः । परमेश्वरस्येति ।। बहुसमर्थस्येत्यर्थः । कैमुत्यन्तु ‘देवादिवदपि लोके’ इति सूत्रितमित्यर्थः । ननु ‘परदोषं पश्यसि त्वमात्मदोषं न पश्यसि’ इत्याभाणकविषयता भवतामापन्ना । यतो बहुजीववादनिरासप्रसङ्गेऽप्येकजीव-वादनिरासेऽसङ्गतिर्नाऽलोचितेत्यतोऽत्रैकजीववादनिरासोऽपि बहुजीववादनिरासफलक इत्यतो नासङ्गतिरित्या-शयेनाऽह- आनन्त्य इति ।। असम्भावना चेत्यतः परम् एतानीति शेषः । अनेकेति श्रुतिपुराणविशेषणम् । तानि द्रश्व्ुं शीलन्त इति अनेकश्रुतिपुराणदर्शिनः । ‘सुप्यजातौ णिनिस्ताच्छील्ये’ इति णिनिः । अस्माभिरे-वेति ।। मुख्यप्राणावतारैरित्यर्थः । तेषामेव हि ‘नित्य आशये द्वितीयमासप्तशिवासु मातृषु’ इति स्वापापरपर्यायश्रुतिस्मृतेः ‘यास्वशुचिरहिंस्यमानः’ इति घृणाशुचित्वापरिज्ञातव्यत्वयोः ‘कुविदङ्ग’ इति श्रुतौ ‘ते वायवे मनवे बाधिताय’ इति सर्वदेवनमस्कार्ये गुरुत्वस्य ‘प्राणो रक्षति विश्वमेजत्’ इति विश्वरक्षकत्वस्य ‘स इ सर्वं व्यासने’ इति सर्वव्यापित्वस्य ‘प्राणं देवा अनुप्राणन्ति’ इति सर्वचेष्टकत्वस्य ‘प्राणो वा ईशितव्येशः’ इति ‘मध्यमः प्राणः’ इति चावान्तरेश्वरत्वस्य ‘वैद्युतेनैव ततस्तच्छ्रुतेः’ इति सर्ववाग्देवताभूतविद्युन्नामक-भारतीपतित्वस्य ‘स एनान् ब्रह्म गमयति’ इति ब्रह्मगमयितृत्वस्य चोक्तेः । तथाऽन्यस्वरूपमाह- अल्प-दर्शिभिरिति ।। अल्पेति ज्ञानाल्पत्वकथनेनाज्ञानमिथ्याज्ञानप्राचुर्यमुक्तम् । अत्रापि ताच्छील्ये णिनिः । तेषां ताच्छील्यन्तु ‘अत्यल्पप्रतिभानत्वान्मानुषाः श्रुतवेदिनः’ इत्यल्पप्रतिभानस्य, गीतायाम् ‘कश्चिन्मां वेत्ति तत्त्वतः’ इति सम्यग्ज्ञानदौर्लभ्यस्य, ‘ईश्वरोऽहमहं भोगी’ इत्यादिनाऽद्वैतानुवादेन ‘इत्यज्ञानविमोहिताः’ इति अज्ञान-(व्या.टि.) प्राचुर्यस्य, ‘द्वन्द्वमोहेन’ इति भेदे मोहस्य, ‘अहङ्कारविमूढात्मा’ इति विमूढात्मत्वस्य, ‘नष्टात्मानः’ इति दुष्टात्मत्वस्याल्पबुद्धित्वस्योग्रकर्मत्वस्य, ‘क्षयाय जगतोऽहिताः’ इति लोकानिष्टहेतुत्वस्य, ‘त आसुराः’ इत्यासुरत्वस्य चोक्त्या सिद्धम् । भागवन्महिमवत्स्वमहिम्नोऽपि मुमुक्षुज्ञेयत्वात्तत्प्रदर्शनम् । अनेनैकजीववादी कलिः । तत्क्षपणदक्षः प्राण एवेति रहस्यमवश्यमवसेयम् ।