यस्य तौ नाभिमतौ नासौ समयी समयप्रयोजनाभावात्

चार्वाकस्याशास्त्रित्वसमर्थनम्

मूलम्

- यस्य तौ नाभिमतौ नासौ समयी समयप्रयोजनाभावात् ।।

तत्त्वमञ्जरी

यस्य लोकायतिकस्य तौ धर्माधर्मौ नाभिमतौ नासौ समयी । प्रत्यक्षेणानवगतमप्यर्थं समाययति अवगमयतीति हि समयः । अत्र तु तादृशसमयप्रयोजनाभावात् ।

टीका  

येषां वैशेषिकादीनां बौद्धादीनां चातीन्द्रियं धर्मादिकं वस्त्वभिमतं तान् प्रत्यापाद्यताम-पौरुषेयवाक्याभ्युपगमः । यस्य तु लोकायतस्य धर्माद्यभिमानो नास्ति न तं प्रत्यापादनं युक्तम् । तस्य स्वाभिमतप्रमेयस्य प्रत्यक्षेणैव सिद्धेरतीन्द्रियस्यानङ्गीकृतत्वेनाऽपादकाभावात् । तथाच लोकायतं प्रति नासम्भावनापरिहारोऽस्तीत्याशङ्क्य, तेनापि धर्माद्यभ्युपगमं कारयित्वा तत्साधकापौरुषेयवाक्यमङ्गीकारयिष्यामीत्याशयवानाह - यस्येति ।।

ननु ‘कर्तृकरणयोस्तृतीया’ इति प्राप्तां तृतीयां बाधित्वा ‘कर्तृकर्मणोः कृति’ इति प्राप्तायाः षष्ठ्याः ‘न लोकाव्ययनिष्ठा’ इति पुनः प्रतिषेधे तृतीयया भवितव्यं देवदत्तेन भुक्तमिति यथा, यस्येति तु कथम् ? उच्यते । अभिमताविति ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति वर्तमाने क्तः । ‘क्तस्य च वर्तमाने’ इति प्रतिषेधबाधकत्वेन षष्ठीविधानात् सैवात्र युक्ता देवदत्तस्येष्टमिति यथा इति ।

तौ धर्माधर्मौ । अतीन्द्रियोपलक्षणं चैतत् । नासौ समयी स्यादिति शेषः ।

धर्मादिकमनङ्गीकारिणोऽशास्त्रित्वापत्तिः कुत इत्यत आह- समयेति ।। प्रयुज्यते प्रेर्यते प्रणेता प्रणयने, श्रोता च श्रवणे येन तत् प्रयोजनं, विषयः साध्यं च । समयस्य लोकायतशास्त्रस्य विषयाद्यभावप्रसङ्गादित्यर्थः ।

एतदुक्तं भवति । न तावल्लोकायतशास्त्रस्य ऐन्द्रियको विषयः, प्रत्यक्षत एव तत्सिद्धौ शास्त्रानपेक्षणात् । फलमपि न दृष्टमर्थादिकं तस्यान्यतो लभ्यत्वाद्, अनेन सम्बन्धाभावाच्च । ततो धर्मादिकमतीन्द्रियं विषयत्वेन, स्वर्गादिकं फलत्वेनाङ्गीकार्यम् । तदपि चेन्नाङ्गीक्रियते तदा शास्त्रस्य निर्विषयत्वेन निष्फलत्वेन च काकदन्तपरीक्षाग्रन्थवद् अशास्त्रत्वमापद्येत । वक्तृश्रोत्रोरभिमत-मनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणान्तराप्राप्तमर्थं प्रतिपादयतां वाक्यानां समूहो हि शास्त्रमित्युच्यते यथा चरकादि । एवं चाशास्त्रत्वापत्तौ तस्याशास्त्रित्वं प्रसज्येत । नच तस्य तदिष्टमिति सर्वथा तेन विषयादिसिद्ध्यर्थं धर्मादिकमङ्गीकार्यमिति ।।

भावदीपः

शङ्कते- येषामिति ।। स्वाभिमतेति ।। धर्माद्यभावरूपप्रमेयस्येत्यर्थः ।। आपादकेति ।। अपौरुषेय-वाक्याङ्गीकारापादकस्यातीन्द्रियस्याभावादित्यर्थः । यस्य तौ नाभिमतावित्यत्र येनेति भाव्यमिति शङ्कते- ननु कर्त्रिति ।। कर्तरि करणे च तृतीया स्यादिति सूत्रार्थः । देवदत्तेन कुठारेण छिद्यते काष्ठमिति । यस्येति यच्छब्दोक्तस्य कर्तृत्वादस्ति तृतीयाप्राप्तिरिति भावः । नन्वभिमतशब्दस्य क्तप्रत्ययान्तत्वात् क्तप्रत्ययस्य ‘कृदतिङ्’ इति कृत्सञ्ज्ञकत्वेन तद्योगे ‘कर्तृकर्मणोः कृति’ इति सूत्रेण कृद्योगे कर्तरि कर्मणि च षष्ठी स्यादिति तृतीयाबाधकत्वेन षष्ठ्युक्तेः कथं तृतीयया भाव्यमिति शङ्केत्यत आह- इति प्राप्तामिति ।। बाधित्वेति ।। विशेषसूत्रत्वादिति भावः । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति सूत्रे ल उ उक अव्यय निष्ठा खलर्थ तृन् इत्येतेषां योगे षष्ठी नेति (रा.टि.)निषेधादत्र क्तप्रत्ययस्य ‘क्तक्तवतू निष्ठा’ इति निष्ठासञ्ज्ञकत्वात्तद्योगे षष्ठीनिषेधे ‘कर्तृकरणयोः’ इति तृतीयया भाव्यमित्यर्थः ।। वर्तमाने क्त इति ।। ‘ञीतः क्तः’ इति पूर्वस्मादनुवृत्तेरिति भावः ।। प्रतिषेध-बाधकत्वेनेति ।। षष्ठीप्रतिषेधबाधकत्वेनेत्यर्थः । विषयप्रयोजनयोर्लाभाय यौगिकमेतत्पदमित्युपेत्य योगमाह- प्रयुज्यत इति ।। तस्यैवार्थः प्रेर्यत इति । प्रसङ्गहेतुरयमित्युपेत्याऽह- विषयाद्यभावप्रसङ्गादिति ।। धर्मादेर-तीन्द्रियस्यानभिमतत्वेऽपि शास्त्रस्य कुतो निर्विषयत्वादीत्यतोऽभिप्रायमाह- एतदुक्तमिति ।। अन्यतः कृषि-वाणिज्यराजसेवादित इत्यर्थः । अनेन शास्त्रेणार्थादेः ।। चरकादीति ।। चरकेति सुश्रुतेति वैद्यग्रन्थविशेषः । अप्रसक्तप्रतिषेधमाशङ्क्य प्रसक्तिमाह- न चेत्यादिना ।।

वाक्यार्थदीपिका

(श्री.टि)

लोकायतश्चार्वाकः ।। आपादकाभावादिति ।। आपादकं साधकम् । मां प्रत्यापादकस्य सम्पादकस्या-पौरुषेयवाक्याभ्युपगमसाधकस्य तन्मतेऽभावादित्यर्थः । तेनातीन्द्रियस्य वस्तुनोऽनङ्गीकृतत्वेन तत्सिद्ध्यन्यथा-नुपपत्त्याऽपौरुषेयवाक्यस्याङ्गीकारयितुमशक्यत्वादिति भावः । ननु ‘कर्तृकरणयोस्तृतीया’ तिङाद्यनुक्ते कर्तरि करणे च तृतीया स्यात्, रामेण बाणेन हतो वालीति । तिङाद्युक्तौ तु प्रतिषेधः, हरिः करोति । एवं कर्तरि तृतीयायां सत्यां येनाभिमताविति स्यान्न यस्येति । न च ‘कर्तृकर्मणोः कृति’ कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । व्यासस्य कृतिः, भारतस्य श्रवणम् । एवं च प्रकृते ‘कृदतिङ्’ इति तिङ्वर्जप्रत्ययस्य कृत्त्वोक्तेः क्तप्रत्ययस्यापि कृत्त्वादभिमतशब्दस्यापि क्तप्रत्ययान्तत्वेन कृदन्तत्वात्तद्योगे यस्येति षष्ठी युक्तेति वाच्यम् । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ एषां योगे षष्ठी न स्यात् । विष्णुना हता दैत्याः । निष्ठोदाहरणमेतत् । एवं च प्रकृतेऽभिमतशब्दस्य क्तप्रत्ययान्तस्य ‘क्तक्तवतू निष्ठा’ इति निष्ठाप्रत्ययान्तत्वेन तद्योगे षष्ठ्या निषिद्धतया तदप्राप्तौ ‘अपवादस्यापवादे पुनरुत्सर्गस्यैव प्राप्तिः’ इति तृतीयैव स्यात् । देवदत्तेन भुक्तमितिवत् । अतो येन तौ नाभिमतावित्येव वक्तव्यं, यस्येति तु कथमित्याशङ्कते- नन्विति ।। अतीतार्थकनिष्ठाक्तप्रत्यययोग एव न लोकेति षष्ठी निषिद्धा । न तु वर्तमानार्थकक्तप्रत्यययोगे । एवं च प्रकृते ‘मतिबुद्धिपूजार्थेभ्यश्च’ एतदर्थकेभ्यो धातुभ्यो वर्तमानेऽर्थे क्तप्रत्ययः स्यादिति मत्याद्यर्थकेभ्यो धातुभ्यः क्तप्रत्ययविधानात् । प्रकृते च मत्यर्थकादभि-पूर्वकान्मनित्यस्माद्धातोः क्तप्रत्यये कित्त्वादनुनासिकलोपे सत्यभिमतशब्दो निष्पन्नः । तथा च ‘क्तस्य च वर्तमाने’ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । सतां मतो, राज्ञां मत इत्येवं ‘न लोक’ इति सूत्रविहितषष्ठी-प्रतिषेधबाधकत्वेन षष्ठीविधानात्सैवात्र युक्ता, देवदत्तस्येष्टमितिवत् । अतो यस्य तावित्युपपन्नमिति परिहरति- उच्यत इत्यादिना । प्रयुज्यत इत्यादि ।। प्रणेता प्रणयने शास्त्रनिर्माणे येन प्रयुज्यते तत्प्रयोजनं विषयः । श्रोता च शास्त्रश्रवणे येन प्रयुज्यते तत्प्रयोजनं साध्यमित्युभयमपि प्रयोजनशब्देनोच्यत इत्यर्थः । एवं प्रयोजनशब्दं निरुच्येदानी प्रयोजनाभावादिति वाक्यार्थमाह- विषयादीति ।। अन्यत इति ।। धनधान्यादेः कुसीदकृष्यादितो लभ्यत्वादित्यर्थः ।। सम्बन्धेति ।। अन्यतो लभ्यत्वादेवानेन शास्त्रेण साध्यसाधनभावसम्बन्धो नास्तीत्यर्थः । कुतोऽशास्त्रत्वमापद्यत इत्यतः शास्त्रस्वरूपं दर्शयति- वक्तृश्रोत्रोरित्यादिना ।। सिद्धार्थबोधकवाक्यसमूहस्य (श्री.टि) शास्त्रत्वपरिहाराय प्रमाणान्तरेत्याद्युक्तम् । तेनापूर्वतालाभः । काकदन्तपरीक्षाग्रन्थादिसाधारण्य-वारणायोक्तं वक्तृश्रोत्रोरित्यादि । फलस्यान्यसाध्यत्वे तेन सम्बन्धाभावप्रसङ्गादनन्यसाध्यमित्युक्तम् । तद्धेतुभूतमिति विषयफलयोः सम्बन्धोक्तिः । चरकं वैद्यशास्त्रम् । इष्टापत्तिं परिहरति- न चेति ।। तस्य चार्वाकस्य तत् अशास्त्रित्वं नेष्टमित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

।। आपाद्यतामपौरुषेयवाक्याभ्युपगम इति ।। धर्माद्यङ्गीकाररूपापादकसद्भावादिति भावः । न लोकाव्ययनिष्ठेति पुनः प्रतिषेध इति ।। यद्यपि ‘तृजकाभ्यां कर्तरि’ इत्यत्र तृचः सानुबन्धकस्य निर्देशेन तृन्व्यावृत्त्यर्थेन ‘न लोक’ इति निषेधस्यानित्यत्वज्ञापनेन न तस्य प्रकृते प्रवृत्तिः सम्भवति । तथाऽपि तन्नित्यत्व-माश्रित्यायं ग्रन्थ इति द्रष्टव्यम् ।। तृतीयया भवितव्यमिति ।। ‘अपवादाभावे पुनरुत्सर्गस्य स्थितिः’ इति न्यायादिति भावः । उक्तमर्थं विपक्षे बाधकसूचनेनोपपादयति- देवदत्तेन भुक्तमिति यथेति ।। प्रतिषेध-बाधकत्वेनेति ।। ‘न लोकाव्यय’ इति प्रतिषेधबाधकत्वेनेत्यर्थः । उक्तमर्थं विपक्षे बाधकसूचनेन द्रढयति- देवदत्तस्येष्टमिति यथेति ।। प्रयोजनं विषयः साध्यं चेति ।। ‘अप्रयोजनं चेत्युपलक्षणम् । निर्विषयं चेत्यपि द्रश्व्व्यम्’ इति सुधाग्रन्थस्य प्रयोजनपदरूढ्याश्रयणेन प्रवृत्तत्वात् प्रयोजनपदयोगाश्रयणेन प्रवृत्तैतद्ग्रन्थस्य न तद्विरोध इति द्रष्टव्यम् ।। शास्त्रानपेक्षणादिति ।। ‘अप्राप्त एव हि शास्त्रमर्थवत्’ इति न्यायादिति भावः । शास्त्रमित्युच्यत इति ।। अन्यथा काकदन्तपरीक्षाग्रन्थस्यापि शास्त्रत्वापत्तेरिति भावः । अङ्गीकार्यमितीत्यत्रत्यस्य इतिशब्दस्य इत्येतदुक्तं भवतीति पूर्वेण सम्बन्धः ।

लघुप्रभा

(व्या.टि.)

चार्वाकः शङ्कते- येषामिति ।। आपादकाभावादिति ।। अतीन्द्रियाङ्गीकाररूपापादकाभावा-दित्यर्थः । असम्भावनापरिहारो वेदोऽपौरुषेय इत्यस्येति शेषः ।। तेनापीति ।। अनिच्छताऽपीत्यर्थः ।। अभ्युप-गममिति ।। तस्यैवापादकपदार्थत्वादित्यर्थः ।। कारयित्वेति ।। विपक्षे बाधकदण्डेनेति शेषः ।। कर्तृकरण-योरिति ।। यच्छब्दार्थस्यात्राभिमतिकर्तृत्वादित्यर्थः ।। बाधित्वेति ।। षष्ठ्याः कृद्योगलक्षणत्वेन विशेषविधि-त्वादिति भावः।। न लोकाव्ययेति ।। ‘अत्र लग्रहणं व्यर्थम् । तृन्निति प्रत्याहारग्रहणात्’ इति भाष्ये स्थितम् । तथाऽपि वार्तिकानुसारेण सूत्रग्रहणम् । अभिमतशब्दे क्तप्रत्ययस्य ‘क्तक्तवतू निष्ठा’ इति निष्ठासञ्ज्ञात्वात् तद्योगे षष्ठीप्रतिषेधः ।। मतिबुद्धीति ।। मतिरिच्छा बुद्धेः पृथग्ग्रहणात् । क्तस्य कित्त्वात् मनोतेरनुनासिकलोप इत्यर्थः । केचित्तु माङ् मान इत्यतो निष्ठायामातो लोपेन मतपदं निरवोचन् । तदज्ञान-विजृम्भितम् । तथा हि ‘आतो लोप इटि च’ इत्यत्र अजाद्योरिति क्ङिदिड्विशेषणत्वेन आलोपप्राप्त्यभावात् । तल्लोपे वा ‘म्त’ इति स्यात् । ‘द्यतिस्यतिमास्थामित्ति किति’  इतीत्वस्यावर्जनीयत्वेन मितमित्येव भाव्यत्वाच्च    ‘मतिबुद्धि’ इत्यत्र इच्छार्थस्य मनोतेरेव ग्रहणाच्च । अन्यथा (तेन) षष्ठीप्रतिप्रसवानुपपत्तेरित्यलम् । ननु सूत्रान्तरेण विधावपि तस्य निष्ठात्वानपायात् कथं प्रतिषेधबाध इत्यत आह- क्तस्य च वर्तमान इति ।। वर्तमानार्थस्य क्तस्य योगे (व्या.टि.) षष्ठी स्यादित्यर्थः । केचित्तु अतीतार्थकनिष्ठायोग एव षष्ठी निषिद्धेति व्याख्यन् । तन्न । तथा सति भिन्नविषयत्वेनाबाधकत्वप्रसङ्गात् । तथा च प्रतिषेधबाधकत्वेनेति टीकाविरोधः ।

।। कुत इति ।। कुतो हेतोरित्यर्थः ।। प्रयुज्यत इति ।। करणे ल्युडिति भावः ।। प्रयोजनं विषयः साध्यं चेति ।। अनेन प्रयोजनश्च प्रयोजनं चेति विगृह्य ‘नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्’ इति नपुंसकैकशेषो बोध्यः । हेतुत्वभ्रान्तिं वारयति- अभावप्रसङ्गादिति ।। धर्माद्यतीन्द्रियार्थरूपविषयविशेषाभावेन स्वर्गादिरूप-प्रयोजनाभावेन च कथं सामान्याभावापादनमित्यतः परिशेषाभिप्रायेणेदमित्याशयेन परिशेषं व्यनक्ति- एतदुक्तं भवतीति ।। अनपेक्षणादिति ।। ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायादिति भावः । अनेन शास्त्रेण । सम्बन्धः कार्यकारणभावः ।। परीक्षादीति ।। १आदिपदेन प्रतीतार्थवाक्यपरिग्रहः । निर्विषयफलत्वेऽनुपादेयत्वमापाद-नीयम्  । अशास्त्रत्वं तु कुत इत्यतः शास्त्रलक्षणस्य तद्घटितत्वादित्याशयेन शास्त्रलक्षणमाह- वक्तृश्रोत्रो-रिति ।। तद्धेतुभूतमिति ।। (महा)फलहेतुभूतमित्यर्थः । अनभिमतफलकेऽन्यसाध्यफलके चातिव्याप्तिवारणाय यथाक्रमं फलविशेषणमिति बोध्यम् । अभिमताहेतुभूतार्थके सिद्धार्थके चातिव्याप्तिनिरासाय यथाक्रममर्थ-विशेषणम् । चरकं वैद्यम् । आदिपदेन सुश्रुतम् । इष्टापत्तिं निराह- न चेति ।।