सर्वक्षणिकत्वं..
प्रत्यभिज्ञाभ्रान्तित्वे बौद्धं प्रत्यतिप्रसङ्गकथनम् ।
मूलम्
- सर्वक्षणिकत्वं वदताऽपि बौद्धेन सेयं दिगित्यादिप्रत्यभिज्ञाया भ्रान्तित्वं न वाच्यम् ; पञ्चस्कन्धेभ्योऽन्यत्वात् ।
तत्त्वमञ्जरी
ननु नायमनिश्व्ः प्रसङ्गः । सर्वं क्षणिकमिति हि ब्रूम इति वदन्तं बौद्धं प्रत्याह - सर्वेति ।। सेयं दिगित्यादीत्यत्राऽदिशब्दात् तदिदं गगनमिति द्रश्व्व्यम् । संस्कार-रूप-विज्ञान-संज्ञा-दुःखेभ्यः पञ्चस्कन्धेभ्यः ।
टीका
भवेदेषा विभीषिका वैशेषिकादीनाम् । तैः स्थायिनः पदार्थस्याङ्गीकृतत्वात् । यस्तु बौद्धः सर्वस्य क्षणिकत्वमङ्गीकृत्य प्रत्यभिज्ञामात्रस्य भ्रान्तित्वमङ्गीकरोति तस्य तु तथाऽङ्गीकारेऽपि न कश्चिदतिप्रसङ्ग इत्यत आह- सर्वेति ।। दिक्शब्देनात्र आकाशो गृह्यते, अव्याकृताकाशस्यैव दिक्त्वज्ञापनार्थम् । आदिग्रहणेन सोऽयं विनाश इत्यस्य ग्रहणम् । कुत इत्यत आह - पञ्चेति ।। रूपसंज्ञावेदनासंस्कारविज्ञानलक्षणाः पञ्चस्कन्धा एव अर्थक्रियाकारित्वरूपसत्त्वयोगात् क्षणिकाः। तत्र रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । सविकल्पकं ज्ञानं संज्ञास्कन्धः । सुखदुःखे वेदनास्कन्धः । समनन्तरप्रत्ययस्संस्कारस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । आकाशस्य प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाख्ययोर्द्वयोर्विनाशयोश्च पञ्चस्कन्धेभ्योऽन्यत्वान्नित्यत्वमिति बौद्धसिद्धान्तः । यथोक्तम्-
‘आकाशो द्वौ विनाशौ च नित्यं त्रयमसंस्कृतम्’ इति ।
विनाशद्वयस्वरूपं च-
‘बुद्धिपूर्वविनाशो हि प्रतिसङ्ख्यानिरोधगीः ।
अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसङ्ख्यया ।।’ इति ।
तस्मादाकाशादीनां नित्यत्वात् तद्विषयप्रत्यभिज्ञाभ्रान्तित्वं बौद्धेनापीति न वाच्यम् । अस्ति चाकाशादीनां यादृशतादृशविरुद्धधर्माधिकरणत्वम् । ततस्तन्मात्रस्य भेदहेतुत्वाङ्गीकृतौ आकाशा-दीनामपि भेदप्रसङ्गेन तद्विषयप्रत्यभिज्ञाया अपि भ्रान्तित्वं स्यादिति सम्भवत्येव बौद्धं प्रत्यति-प्रसङ्गाभिधानम् इति भावः । यद्यप्यत्र सर्वक्षणिकत्वनिराकरणेनाप्युत्तरं शक्यते वक्तुम् । तथाऽप्यतिप्रसङ्गकथनप्रस्तावे एतद्व्युत्पादनस्यैवोचितत्वान्न तदत्रोक्तम् । कृतश्चान्यत्र सर्व-क्षणिकत्वनिरासः ।
पञ्चस्कन्धेभ्य इति ‘विशेषणं विशेष्येण’ इत्यनेन विशेषणसमासोऽयं नतु ‘तद्धितार्थ’ इत्यादिना समाहारद्विगुः । अतः पञ्चस्कन्ध्या इति नोक्तम् ।
भावबोधः
आकाशो गृह्यत इति ।। ‘आकाशो द्वौ विनाशौ च’ इत्युक्तेस्तैराकाशस्यैव स्थायित्वेनाङ्गीकारादिति भावः । ननु ‘तद्धितार्थ’ इति सूत्रप्रापितसमासे ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुसंज्ञायां ‘द्विगुरेकवचनम्’ इति एकवचने ‘द्विगोः’ इति ङीपः प्राप्तौ पञ्चस्कन्ध्या इति वक्तव्यम्, पञ्चस्कन्धेभ्य इति कथमित्यत आह- विशेषण-मिति ।। यद्यपि ‘पात्रादिभ्यो न’ इत्यत्राऽदिपदेन स्कन्धशब्दं गृहीत्वा वक्तुं शक्यते, तथाऽपि बहुवचनोपपत्त्यर्थम् एवमाश्रितमिति द्रष्टव्यम् ।
भावदीपः
तथेति ।। सोऽयमिति धियो भ्रान्तित्वाङ्गीकारेऽपीत्यर्थः । तथात्वे सोऽयमाकाश इत्येव कुतो नोक्त-मित्यत आह- अव्याकृतेति ।। तस्यारूपितया बाह्येन्द्रियागोचरत्वेऽपि साक्ष्युपनीतस्य सुरभिचन्दनमिति-वच्चाक्षुषप्रत्यभिज्ञोपपत्तिरित्याहुः ।। स्कन्धा इति ।। समुदायाः ।। सत्त्वयोगादिति ।। यत्सत् तत्क्षणिकं यथा दीपादीति व्याप्तेरिति भावः । अर्थक्रियाकारित्वरूपेत्युक्तिस्तु व्याप्तेरनुकूलतर्कसूचनाय । अर्थक्रियाकारिणः क्षणान्तरेऽपि सत्त्वे तेन घटाद्यर्थान्तरम्, ताभ्यां च द्रव्यान्तरम्, तैश्च घटादिद्रव्यान्तराणीत्येकेनापि घटादिना कुलालशालापरिपूर्तिः स्यात्, अतः क्षणमध्य एवोत्पत्तिविनाशावभ्युपेयाविति तर्कस्याभिमतत्वात् ।। समनन्त-रेति ।। सविकल्पकानन्तरेत्यर्थः । अत्र रूपस्कन्धो बाह्यः । अन्ये चत्वार आन्तराः ।। प्रतिसङ्ख्येति ।। निरोधपदं प्रत्येकमन्वेति । प्रतिसङ्ख्यानिरोधो नाम बुद्धिपूर्वको मुद्गरादिना घटादिनाशः । अबुद्धिपूर्वकः प्रतिक्षण-विनाशोऽप्रतिसङ्ख्यानिरोध इत्युच्यते । तावेव ससन्तानविनाश-निस्सन्तानविनाशावित्यप्युच्येते । तयोर्द्वयोश्चे-त्यर्थः । प्रतिसङ्ख्यादिशब्दार्थनिर्वचनपरं तदीयवचनं पठति- बुद्धिपूर्वेति ।। पञ्चस्कन्धानामिति योज्यम् । प्रतिसङ्ख्यानिरोध इति गीः शब्दो वाचकतया यस्य स तथा ।। तेषामिति ।। पञ्चस्कन्धानामित्यर्थः । अप्रति-सङ्ख्यया अप्रतिसङ्ख्याशब्देन गीयत इत्यर्थः ।। यादृशतादृशेति ।। शब्दाश्रयत्वतदभावाश्रयत्वादिरूपमिति भावः ।। कृतश्चान्यत्रेति ।। सूत्रभाष्यानुव्याख्यानाऽदौ । ननु ‘तद्धितार्थोत्तरपदसमाहारे च’ इति सूत्रे ‘तद्धितार्थे विषये, उत्तरपदे परतः, समाहारे च वाच्ये दिक्सङ्ख्ये समस्येते’ इत्युक्तेः समाहारे च तत्पुरुषे सति ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुसंज्ञायां ‘द्विगोः’ इति ङीप्प्रत्यये पञ्चानां स्कन्धानां समाहारः पञ्चस्कन्धीति भवितव्यम्, कथं पञ्चस्कन्धेभ्य इति तत्राऽह- विशेषणमिति ।। ‘विशेषणं विशेष्येण बहुलम्’ इति सूत्रेण पञ्च च ते स्कन्धाश्चेति विशेषणसमास इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
बौद्धः शङ्कते- विरुद्धेति ।। मात्रस्येति ।। व्यवस्थापकाभावरूपविशेषणेनाविशिष्टस्येत्यर्थः । तथाऽङ्गीकारेऽपीति ।। विरुद्धधर्माधिकरणत्वमात्रस्यैव भावभेदहेतुत्वाङ्गीकारेऽपीत्यर्थः । ननु तन्मते ‘आकाशो (श्री.टि.) द्वौ विनाशौ च’ इत्याकाशस्यैव स्थायित्वेनाङ्गीकारात्सोऽयमाकाश इति प्रत्यभिज्ञाया इति वक्त-व्यम् । सेयं दिगिति कस्मादुक्तमित्यत आह- दिक्शब्देनेति ।। ननु कण्ठरवेणाऽकाश इत्यनुक्त्वा दिक्शब्देन तस्य ग्रहणे किं निमित्तमित्यत आह- अव्याकृतेति ।। स्वमत इति शेषः ।। समनन्तरप्रत्यय इति ।। स्मृतिरित्यर्थ इति केचित् । अन्ये तु सं= समानः, पूर्वानुभवसमानविषयकः, अनन्तरप्रत्ययः= प्रत्यभिज्ञादिरूपो यस्मात् समनन्तरप्रत्ययः । प्रत्यभिज्ञादिजनकः संस्कार एव संस्कारस्कन्ध इत्यर्थ इत्याहुः । अपरे तु समनन्तरप्रत्ययो रूपादिस्कन्धानां वासनेत्यर्थ इत्याहुः । ‘समनन्तरप्रत्ययः पूर्वविज्ञानम्’ इति वाचस्पतिः । न च पूर्वविज्ञानस्य संस्कारजनकस्य कथं संस्काररूपत्वम् इति वाच्यम् । तन्मते वैशेषिकादिमत इव विज्ञानजन्यसंस्काराश्रयस्य स्थायिन आत्मनोऽभावाद्विज्ञानमेव संस्कार इत्यभ्युपगमादिति वाचस्पतिपक्षस्य विवरणटीकायामुपपादित-त्वात् । समनन्तरप्रत्ययः सजातीयपूर्वविज्ञानमित्यर्थः । आकाशो द्वौ विनाशौ च इति त्रयं नित्यं स्थायि । असंस्कृतम् अविकारीत्यर्थः । विनाशद्वयस्वरूपं च इति श्लोकेनोक्तमित्यन्वयः ।। बुद्धिपूर्वेति ।। तेषां पञ्चस्कन्धानां बुद्धिपूर्वविनाशे= देवदत्तेन मुद्गरप्रहारादिना सन्तानसाहित्येन बुद्धिपूर्वं क्रियमाणे विनाशे, प्रतिसङ्ख्यानिरोधः= प्रतिसङ्ख्यानिरोधशब्दव्यवहारः । स नाशः प्रतिसङ्ख्यानिरोध इत्युच्यत इति यावत् । अयमेव च ससन्ताननाश इत्युच्यते । प्रतिसङ्ख्यानिरोधधीरित्यपि क्वचित्पाठः । तेषां पञ्चस्कन्धानामेव अबुद्धि-पूर्वको देवदत्तकृतमुद्गरप्रहारादिकं विनेति यावत् । सन्तानमन्तरा प्रतिक्षणं जायमानो यो निरोधो विनाशः, सोऽप्रतिसङ्ख्यानिरोध इति वर्तते । अप्रतिसङ्ख्यानिरोध इत्युच्यते । अयमेव च निस्सन्ताननाश इत्युच्यत इति श्लोकार्थः ।। तस्मादिति ।। पञ्चस्कन्धेभ्योऽन्यत्वादित्यर्थः ।। यादृशतादृशेति ।। शब्दभावाभावादीत्यर्थः ।। यद्यप्यत्रेति ।। विरुद्धधर्माधिकरणत्वमात्रस्य भेदहेतुत्वमङ्गीकृत्य प्रत्यभिज्ञाभ्रान्तित्वाङ्गीकारेऽतिप्रसङ्ग इति भवेदेषा विभीषिकेत्यादिशङ्कायामित्यर्थः ।। अतिप्रसङ्गकथनप्रस्ताव इति ।। सादृश्यात्प्रत्यभिज्ञा भ्रान्तिरिति वैशेषिकेण शङ्किते यादृशतादृशविरुद्धधर्माधिकरणत्वस्य भावभेदहेतुत्वाङ्गीकारे सोऽयं देवदत्त इत्यादेरपि तथात्वप्राप्तेरिति तं प्रत्यतिप्रसङ्गकथनप्रस्ताव इत्यर्थः ।। तद्व्युत्पादनस्येति ।। अतिप्रसङ्गव्युत्पादनस्येत्यर्थः ।
ननु पञ्चस्कन्धेभ्य इति कथम् । पञ्चानां स्कन्धानां समाहार इति समाहारविवक्षायां ‘तद्धितार्थोत्तरपदसमाहारे च’ तद्धितार्थोत्तरपदे, समाहारे वाच्ये दिक्सङ्ख्ये एकार्थेन समस्येते इत्यनेन समासे ‘सङ्ख्यापूर्वो द्विगुः’ सङ्ख्यापूर्वो द्विगुसंज्ञस्स्यादिति समासस्य द्विगुत्वे ‘द्विगुरेकवचनम्’ द्विगोरर्थः समाहार एकवत् स्यादित्येकवद्भावे, ‘अका-रान्तोत्तरपदो द्विगुः समाहारे स्त्रियामिष्टः’ इति स्त्रीत्वविवक्षायां ‘द्विगोः’ द्विगोर्ङीप् स्यात् इति ङीपि ङकार-पकारयोर्लोपे, पञ्चस्कन्ध ई इति स्थिते ‘यस्येति च’ भस्येवर्णावर्णयोर्लोपः स्यादीकारे तद्धिते च पर इत्यनेन भसंज्ञकस्य धकारस्थाकारस्य ईकारे परे लोपे, पञ्चस्कन्धीति प्रातिपदिकसिद्धौ स्वाद्युत्पत्त्यनन्तरं पञ्चस्कन्ध्या इति स्यादित्यत आह- पञ्चस्कन्धेभ्य इतीति ।। ‘विशेषणं विशेष्येण बहुलम्’ भेदकं भेद्येन समस्यत इति सूत्रार्थः । तथा च पञ्च च ते स्कन्धाश्च पञ्चस्कन्धास्तेभ्यः पञ्चस्कन्धेभ्य इति कर्मधारयसमासो विवक्षित इति न (श्री.टि.) दोष इति भावः । अत्र यद्यपि ‘पात्रादिभ्यः प्रतिषेधः’ इति वार्तिकेन पात्रादिगणोपरि ङीपः प्रतिषेधात् पञ्चानां पात्राणां समाहारः पञ्चपात्रमितिवत् पञ्चस्कन्धेभ्य इति भविष्यति । तथाऽपि पात्रादिगणमध्येऽस्य पाठाभावात्, आकृतिगणत्वकल्पनस्य चागतिका-गतित्वात् पञ्चपात्रमितिवत्पञ्चस्कन्धमित्येव भवितव्यत्वेन पञ्चस्कन्धेभ्य इति बहुवचनानुपपत्तेश्चेत्थं समाहितमिति ज्ञातव्यम् ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
नन्वाकाशनित्यतायाः परसम्मतत्वेऽपि दिशो नित्यत्वस्य तदसम्मतेः सोऽयमाकाश इति प्रत्यभिज्ञाया न भ्रान्तित्वमित्येव वाच्यम् । तत्कथमुक्तं सेयं दिगित्यादीत्यतोऽत्र दिक्शब्देनाऽकाशस्यैव ग्रहणान्नानुपपत्ति-रित्याह- दिक्शब्देनेति ।। तथाऽपि प्रसिद्धाकाशपदपरित्यागेनाप्रसिद्धदिक्शब्देन तद्ग्रहणमनुपपन्नमित्यतः सति प्रयोजने न तद्दोषायेत्यभिप्रेत्य तदाह- अव्याकृतेति ।। प्रसिद्धपदपरित्यागेनाप्रसिद्धपदप्रयोग इति शेषः । तत्रेति ।। विषयेन्द्रियात्मना स्थिता इति शेषः । तत्र विषयात्मना स्थितानां रूपादीनां रूप्यन्त इति व्युत्पत्त्या, इन्द्रियात्मना स्थितानां तु तेषां रूप्यन्ते एभिर्विषया इति व्युत्पत्त्या रूपस्कन्धत्वमिति द्रष्टव्यम् । अत्र रूपस्कन्धो बाह्यः । अन्ये चत्वार आभ्यन्तरा इति विवेकः । एतद्व्युत्पादनप्रकारश्च शेषवाक्यार्थचन्द्रिकोक्तरीत्याऽवसेयः। सुखदुःखे इति ।। यद्यपि दुःखमेव परमते वेदनास्कन्धः । सुखं तु दुःखाभाव एव । ‘दुःखाभावं सुखं चाऽहुः’ इत्यन्यत्रोक्तत्वात् । तथाऽपि तदेकदेशिमतमाश्रित्यायमनुवाद इत्यवधेयम् ।। समनन्तरप्रत्यय इति ।। प्रत्यया-नन्तरभाविनां विज्ञानादिरूपप्रत्ययानां सम्बन्धिनी रागद्वेषमोहरूपा वासना समनन्तरप्रत्यय इत्यर्थः । ‘तेषां वासना संस्कारस्कन्धः’ इत्यन्यत्रोक्तत्वात् । ‘संस्कारस्कन्धो रागादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्माधर्मौ च’ इति भामत्याम् उक्तेश्च । समनन्तरप्रत्यय इत्युक्तिस्तु उक्ताभिप्रायकन्यायनिबन्धस्थोदयनाचार्योक्ति-माश्रित्येति द्रष्टव्यम् । न केवलमाकाशनित्यताया बौद्धसिद्धान्तत्वं न्यायतस्सिद्धमित्येव । किन्तु वचनतोऽ-पीत्यभिप्रेत्य तद्वचनम् उदाहरति- यथोक्तमिति ।। असंस्कृतमिति ।। यथा क्षणिकं नीलादिकमुत्तरं पूर्वेण संस्कृतं, कारणस्य कार्येण वासनाकारितायाः परेणाङ्गीकृतत्वात्, न तथेदं त्रयं संस्कृतम् । अविकृतमिति यावदिति नित्यत्वे हेतुगर्भविशेषणमेतदिति ज्ञातव्यम् ।। न तदिति ।। सर्वक्षणिकत्वनिराकरणेनोत्तरमित्यर्थः। अन्यत्रेति ।। अनुव्याख्यान इत्यर्थः ।
।। विशेषणसमास इति ।। पञ्च च ते स्कन्धाश्चेति विशेषणसमास इत्यर्थः । ननु पञ्चानां स्कन्धानां समाहार इति द्विगुरेव किं न स्यात्तत्राऽह- न त्विति ।। तथा सति ‘द्विगुरेकवचनम्’ इत्येकवचने ‘अकारान्तोत्तर-पदो द्विगुः स्त्रियामिश्व्ः’ इति स्त्रीलिङ्गतायां सत्यां ‘द्विगोः’ इति ङीपि सति पञ्चस्कन्ध्या इति प्रसङ्गादित्यर्थः । न च ‘पात्रादिभ्यः प्रतिषेधो वक्तव्यः’ इति वार्तिकाद्द्विगुसमासाङ्गीकारेऽपि न ङीप्प्राप्तिरिति वाच्यम् । स्कन्धशब्दस्य तत्रापाठात् । न च तस्याऽकृतिगणत्वकल्पनया निर्वाहः । तर्हि ‘त्रिलोकनाथेन सतां मखद्विषः’ इत्यादिप्रयोगस्थलोकशब्दस्यापि पात्रादित्वकल्पनापातात् । न चेष्टापत्तिः । ‘यदि त्रिलोकी गणनापरा स्यात्’ इत्यादिप्रयोगविरोधेन तस्या वैयाकरणानामसम्मतत्वात् । तथाऽपि बहुवचनायोगावारणाच्च । ननु ‘विशेषणं (पां.टि.) विशेष्येण बहुलम्’ इत्यनेन न प्रकृते विशेषणसमासोऽभ्युपगन्तुं शक्यते । तद्विशेषक ‘दिक्सङ्ख्ये संज्ञायाम्’ इत्यत्र संज्ञायामेव विशेषणसमासस्य नियमितत्वात् । पञ्चस्कन्धशब्दस्य च विशिष्टस्यासंज्ञात्वादिति चेत् । षोडशपदार्थादिपदवद्विशिश्व्स्यापि पञ्चस्कन्धशब्दस्य सामयिकसंज्ञात्वाभ्युपगमेन विशेषणसमासस्योप-पन्नत्वात् ।
लघुप्रभा
(व्या.टि.)
अथ वा शून्यवादी पूर्वमनूद्य स्वपक्षे तद्दोषं परिहरति- विरुद्धेत्यादिना ।। ननु व्यधिकरणमिदं दूषणाभिधानं तैर्दिश एवानभ्युपगमादित्यत आह- दिक्शब्देनेति ।। न च तथाऽपि प्रसिद्धपरित्यागेना-प्रसिद्धपदप्रयोगे प्रयोजनं वाच्यमित्यत आह- अव्याकृतेति ।। तेन दिशामाकाशात्पार्थक्यवादिनो वैशेषिकादयो निरस्ता वेदितव्याः । के च ते सर्वे, कुतस्तेषां क्षणिकत्वमित्यत आह- रूपेति ।। रूपादिषु रूपशब्दो लिङ्ग-समवायाद्गौणः प्राणभृच्छब्दवत् । अर्थक्रियाकारित्वरूपेति सत्त्वनिरुक्त्या एकस्यैव घटस्य क्षणान्तरवृत्तित्वे तस्य कुर्वद्रूपत्वेन घटान्तरोत्पत्त्या तस्यापि स्वसदृशकार्यारम्भकत्वेन घटपरम्परया गृहपूर्तिः स्यादिति युक्तिः सूचिता ।। सुखेति ।। अत्र सुखशब्देन दुःखाभावग्रहणम् । यथोक्तमनुव्याख्याने ‘दुःखाभावं सुखं चाऽहुः’ इति । वस्तुतस्तु ‘चशब्देन केचित्सुखमपि वेदनास्कन्धेऽन्तर्भावयन्ति इति सूचयति’ इति सुधोक्तेः, ‘सुखमपि वेदनास्कन्ध इति केचिदतः’ इति चन्द्रिकोक्तेः सुखपदं सुखपरमेव । गीः शब्दः, ततो बहुव्रीहिः ।। अप्रति-सङ्ख्ययेति ।। संज्ञिना संज्ञा लभ्यते । गीयते इति शेषः ।। यादृशतादृशेति ।। देशकालादिभेदव्यवस्थाप्यमानेत्यर्थः ।। उचितत्वादिति ।। अवसरप्राप्तत्वादित्यर्थः । ननु तर्हि पर्यनुयोज्योपेक्षणमित्यत आह- कृत इति ।। अन्य-त्रेति ।। वैभाषिकाधिकरण इत्यर्थः ।। न समाहारद्विगुरिति ।। अनङ्गीकारफलमाह- अत इति ।। च्यवत्स्वा-र्थात्समाहारद्विगोरच्यवत्स्वार्थत्वाद्विशेषणसमासो बलवानिति भावः ।