‘ब्रह्म वेद ब्रह्मैव भवति’ ..
ब्रह्मैव भवतीतिश्रुत्यर्थोपवर्णनम्
मूलम्
-‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादि च ‘सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत्’ इतिवत् बृंहितो भवतीत्यर्थः । नहि ब्राह्मणपूजकः स एव ब्राह्मणो भवति ।
‘ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगाः ।
प्रकृतिः परमं ब्रह्म परमं महदच्युतः ।
तस्मान्न मुक्ता न च सा न क्वचिद्विष्णुवैभवम् ।
प्राप्नुवन्ति स एवैकः स्वतन्त्रः पूर्णषड्गुणः ।।’ इति परमश्रुतिः ।
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति’,
‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरे ।।’ इति च ।।
तत्त्वमञ्जरी
त्वं परः मात्रायाः परिमाणेन जगतो विलक्षणः अनन्तत्वात् । तन्वा वृधान देहेन सहैव पूर्ण । तस्य स्वतोऽभिन्नत्वात् । त्वन्महिमानं केऽपि नानुभवन्ति । कैवल्यं समधिक-राहित्यम् । केवलः अविमिश्रः ।
टीका
ननु च ‘परमं ब्रह्म वेद ब्रह्मैव भवति’ इति मुक्तौ जीवस्य ब्रह्मत्वमुच्यते । न चात्राप्युपचारो वक्तव्यः । एवशब्दविरोधात् । तेन ह्यब्रह्मत्वव्यावृत्त्या ब्रह्मत्वं लभ्यते । उपचारे ह्यब्रह्मण एव केनचिन्निमित्तेन ब्रह्मत्वम् । तत्कथं मुक्त्यनन्तरमपि भेदोऽङ्गीक्रियत इत्यत आह- ब्रह्मेति ।। इत्यादि च वाक्यम्, इति वाक्यवद्व्याख्येयमिति शेषः ।
इदमुक्तं भवति- अत्र हि यो ब्रह्म वेद सोऽब्रह्मत्वं त्यक्त्वा ब्रह्म भवतीत्येवोच्यते । न तु यद्ब्ह्मानेन विदितं तदेवायं ब्रह्म भवतीति । तथाविधस्याश्रवणात् । यथा सम्पूज्येति वाक्ये ब्राह्मणपूजकस्य शूद्रस्य ब्राह्मणत्वमेवोच्यते न तु पूजितब्राह्मणव्यक्तितादात्म्यम्, तथेति । दृष्टान्तकथनस्योत्तरत्रोपयोगो भविष्यति । ननु यद्वेद तदेव भवतीति शब्दाभावेऽपि अनुपपत्त्यैषोऽर्थो लभ्यते । ब्रह्मत्वं हि अस्योच्यते । न च ब्राह्मणपूजकस्य शूद्रस्य ब्राह्मणान्तरत्ववद् ब्रह्मान्तरत्वं युज्यते, अनेकब्रह्माभावात् । तेन विदितब्रह्मतादात्म्यं प्राप्नोतीत्येवार्थः सिध्यतीत्यत आह- बृंहित इति ।। ब्रह्मशब्दो हि बृंहणयोगनिमित्तको न त्वनपेक्षितावयवार्थो व्यक्तिविशेषे रूढः । तथा चानेकब्रह्मसम्भवान्नानुपपत्त्याऽप्येषोऽर्थो लभ्यत इति भावः ।
ननु यद्यपि ब्रह्मशब्दो यौगिकः, तथाऽपि द्वितीयान्तेन ब्रह्मशब्देन वाच्यस्तावत्परमात्मा । तथा च तस्मिन् बुद्धिस्थे द्वितीयोऽपि ब्रह्मशब्दस्तमेव गमयिष्यति । अन्यथा प्रकृतपरित्यागा-प्रकृतपरिग्रहौ स्याताम् । अतो यत्तच्छब्दाभावेऽपि तदर्थो लभ्यत इति चेत् तर्हि सम्पूज्येति वाक्येऽप्येवमेवाऽपद्यते । न च तदस्तीत्याह- न हीति ।। स एव यस्तेन पूजितः । तत्र ब्राह्मणशब्दस्य जातिवाचित्वेनैकार्थत्वमेवेति चेद्, अत्रापि ब्रह्मशब्दो बृंहितानेकव्यक्तिवृत्तिब्रह्मत्वजातिवाचीति साम्यम् । बाधकात्प्रकृतपरित्यागादिकमित्येतदपि समानम् । बाधकानि चोक्तानि वक्ष्यन्ते च । किञ्चात्र पूर्वो ब्रह्मशब्दः परमत्वेन विशेषितो द्वितीयस्तु केवल इति च विशेषः ।
एवमेकेन प्रकारेण श्रुतिर्व्याख्याता । अथ वाऽऽद्यो ब्रह्मशब्दः परमात्मवाची द्वितीयो जीव-वाची । ततश्च यद्यपि जीवः परमं ब्रह्म वेद ब्रह्मविद्यादिकां महती साधनसम्पत्तिं कुर्यात्, तथाऽपि ब्रह्मैव जीव एव भवति । न तु पारतन्त्र्यादिरूपं जीवभावं परित्यज्य कदाऽपि परमात्मत्वं प्राप्नोतीति श्रुतेरर्थान्तरमभिप्रेत्य तत्समर्थनार्थं श्रुत्यन्तरवाक्यद्वयं पुराणवाक्यञ्चैकं पठति- ब्रह्माणीति ।। सर्वेऽपि मुक्ता अमुक्ताश्च । मुक्तिगास्तु परब्रह्माण्यपि । प्रकृतिर्महालक्ष्मीः । परशब्दादतिशये मप्रत्यय इति भावः । परमं महद् ब्रह्मेति वर्तते । यस्मादेवमेतेषां स्वाभाविकं तारतम्यं तस्मात् सा प्रकृतिः । संसारिणस्तु कैमुत्यसिद्धत्वान्न निराकृताः । न क्वचित् काले देशे वा वैभवं महि-मानम् । किन्तु स एव ।
विष्णो, त्वं मात्रया मात्रायाः मितेः परोऽसि । तन्वा वृधान ववृधान पूर्णः न तु कीर्ति-मात्रेण । एवम्भूतस्य ते महित्वं महिमानं केऽपि नान्वश्नुवन्ति नाऽप्नुवन्ति ।
यत् कैवल्यं सर्वोत्कृष्टत्वं यत्स्वभावो यस्यानागन्तुकं स केवलो भवानिति ।
भावबोधः
ननु परपरमशब्दयोरुभयोरप्युत्तमरूपैकार्थत्वात्को विशेषो महालक्ष्म्या इत्यत आह - परशब्दा-दिति ।। तस्मादिति ।। तस्माद्विष्णोः संसार्यादीनां न परस्परमैक्यमित्यर्थः । तत्र विष्णोस्तैरैक्याभावप्रतिपादनम् ‘न मुक्तो न च सा’ इति । अच्युत इत्यस्यात्रापि सम्बन्ध इति भावः । तर्हि न संसारीत्यपि वक्तव्यमित्यत उक्तम्- संसारिणस्त्विति ।। अनेन मुक्त इति जात्यपेक्षयैकवचनमिति सूचितं भवति । विष्णुना तेषामैक्याभावप्रतिपादनम् ‘न क्वचिद् विष्णुवैभवं प्राप्नुवन्ति’ इति । कैमुत्यसिद्धसंसारिणमादाय बहुवचनोप-पत्तिर्द्रष्टव्या । असाधारणधर्मप्राप्तिरेवैक्यस्य प्राप्तिरित्यर्थः । अथ वा, तस्मान्मुक्तः सा प्रकृतिः चशब्दसूचित-संसारीत्येते क्वचिद्विष्णुवैभवं न प्राप्नुवन्तीति नेति न, किं तु नाऽप्नुवन्त्येवेति वाक्यं योजनीयमिति भावः ।
भावदीपः
वत्यन्तस्य इत्यादि चेत्यस्य चान्वयपूर्वं शेषमाह- इत्यादि च वाक्यमित्यादि ।। अस्फुटत्वादाह- इदमुक्तमिति ।। उत्तरत्रेति ।। न हीत्याद्युत्तरवाक्ये प्रकृतत्यागादिदोषशङ्कानिवर्तने प्रतिबन्द्युक्त्यर्थमुपयोगो भविष्यतीत्यर्थः । बृंहणयोगनिमित्तक इति ।। बृहि वृद्धावित्यतो ‘बृंहेर्नोऽच्च’ इति मनिन्प्रत्यये नकारस्य चाकारे यणादेशे च ब्रह्मेति रूपमिति भावः । दृष्टान्तोक्तेरुपयोगं वक्तुं शङ्कामाह- ननु यद्यपीति ।। यौगिक इति ।। आद्यो द्वितीयश्चेत्यर्थः । यत्तच्छब्देति ।। यद्ब्रह्म वेद तद्ब्रह्म भवतीत्येवमित्यर्थः । स एवेत्यस्य साकाङ्क्षत्वादाह- स एव यस्तेन पूजित इति ।। शङ्कते- तत्रेति ।। जातिवाचीति ।। तथा च ब्रह्म भवतीत्यस्य बृंहितत्वरूपब्रह्मत्वजात्याक्रान्तो भवतीत्यर्थ इति भावः । बाधकादिति ।। प्रत्यक्षविरोधादिबाधकाद् ब्रह्मशब्देन प्रकृतपरित्यागाऽप्रकृतस्वीकारादित्यर्थः । बाधकानि चोक्तानीति ।। ‘प्रत्यक्षानुमानसिद्धत्वे च भेदस्य तद्विरोधादेवाऽप्रामाण्यमभेदागमस्य’ इत्यादिना प्रत्यक्षविरोधादिबाधकानि जीवेश्वरैक्य उक्तानीत्यर्थः । वक्ष्यन्ते चेति ।। ‘सर्वयुक्तिविरुद्धं च’ इत्यादिनेति भावः । पूर्वोत्तरब्रह्मशब्दयोः सविशेषणत्वनिर्विशेषणत्वरूपविशेषबलाच्च प्रकृतत्यागादिर्युक्त इति भावेनाऽह- किं चेति ।। ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्म भवति’ इति श्रवणादिति भावः । वेदेत्युपलक्षणमुपेत्याऽह- ब्रह्माविद्यादीति ।। परमशब्दस्य रूढस्य परशब्दपर्यायतया मुक्तेभ्यः प्रकृतेरति-शयितब्रह्मशब्दवाच्यत्वाऽसिद्धेराह- परशब्दादिति ।। औणादिको मप्रत्यय इति भावः । प्रकृतिमुक्तयोरिव संसारिणः कुतो न निरस्ता इत्यत आह- संसारिणस्त्विति ।। वैभवप्राप्तिविषये न निराकृता इत्यर्थः । स एवेति ।। स एवैक इत्यादिः किन्त्वित्यस्योत्तरमित्यर्थः । उत्तरार्धे विष्णो देवत्वमिति श्रवणादाह- विष्णो त्वमिति ।। स केवलः सर्वोत्तम इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
उपचार इति ।। स्थानैक्यादिनिमित्त इत्यर्थः । तेन हीति ।। ब्रह्मैव भवतीत्यत्र भवने ब्रह्मेत्यस्य विशेषणत्वात्तत्सङ्गतैवकारस्यायोगव्यवच्छेदकत्वात्तन्महिम्नेत्यर्थः । ब्रह्मत्वमिति ।। वक्तव्यमिति शेषः । तच्चाब्रह्मत्वव्यावर्तकैवकारविरुद्धमित्याशयः । तथाविधस्येति ।। यद् ब्रह्मानेन विदितं तदेवायं भवतीत्येवं-विधस्येत्यर्थः । ब्राह्मणत्वं ब्राह्मणत्वजात्याक्रान्तत्वम् । उत्तरत्रेति ।। न हीत्युत्तरवाक्ये प्रतिबन्द्यापादन इत्यर्थः। ब्राह्मणान्तरत्ववदिति ।। अनेकब्राह्मणव्यक्तिसद्भावेन तन्निष्ठानां ब्राह्मणत्वानामपि प्रातिस्विकानां बहूनां सत्त्वादिति भावः । अनेकब्रह्मेति ।। ब्रह्मण एकत्वेन अनेकब्रह्मव्यक्त्यभावादित्यर्थः । अनेकब्रह्मसम्भवा-दिति ।। बृंहितानेकव्यक्तिसम्भवादित्यर्थः । द्वितीयान्तेनेति ।। ब्रह्म वेदेति द्वितीयाविभक्त्यन्तेनाऽद्येन ब्रह्मशब्देनेत्यर्थः । प्रकृतेति ।। पूर्वं ब्रह्मशब्देन प्रकृतस्य परमात्मनः परित्यागेऽप्रकृतस्य बृंहितरूपार्थस्य परिग्रह इत्यर्थः । यत्तच्छब्दाभावेऽपीति ।। यद् ब्रह्मानेन विदितं तदेव भवतीति यत्तच्छब्दाभावेऽपीत्यर्थः । तदर्थ इति ।। उक्तरूपयत्तच्छब्दार्थ इत्यर्थः । तर्हि सम्पूज्येति ।। अनेनोत्तरत्रोपयोगो भविष्यतीत्येतद्दर्शितं भवतीति ज्ञातव्यम् । तत्र सम्पूज्येति वाक्ये । जातिवाचित्वेनेति ।। अनेकब्राह्मणव्यक्तिवृत्तिब्राह्मणत्वजातिवाचित्वेने-त्यर्थः । मीमांसकैः पदानां जातौ शक्तिरित्यङ्गीकृतं व्यवहारे भट्टनय इति मयाऽङ्गीकारादिति भावः । एकार्थत्व-मेवेति ।। न त्वनेकब्राह्मणव्यक्त्यर्थत्वमित्यर्थः । एवं च ब्राह्मणो भवेदित्यस्य ब्राह्मणत्वजातिमान् भवेदित्यर्थो द्रष्टव्यः । साम्यमिति ।। तथा च ब्रह्म भवतीत्यस्य ब्रह्मत्वजात्याक्रान्तो भवतीत्यर्थ इति साम्यमित्यर्थः । न च बृंहितानेकव्यक्त्यङ्गीकारे ब्रह्मण एव बृंहितत्वप्रतिपादकश्रुतिविरोधः शङ्क्यः । बृंहितत्वेऽपि तारतम्यसद्भा- (श्री.टि.) वात् । न चैतद्दृष्ट्याऽपलपनीयम् । घटोदञ्चन(सरित्स)सरस्समुद्रेषु जलपूर्णतायां तारतम्यदर्शनादिति ध्येयम् ।
ननु न सम्पूज्येति वाक्यसाम्यं, द्वितीयान्तब्राह्मणशब्देन पूजितब्राह्मणे बुद्धिस्थे द्वितीयोऽपि ब्राह्मणशब्दस्तमेव गमयति । तदभेदोक्तौ प्रमाणविरोधरूपबाधकसद्भावात् प्रकृतपूजितब्राह्मणव्यक्तिपरित्यागेन अप्रकृत-ब्राह्मणत्वजातिपरत्वं प्रथमान्तब्राह्मणपदस्योक्त्वा ब्राह्मणत्वजातिमान् भवतीति व्याख्यात इति चेद् एतदपि समानमित्याह- बाधकादिति ।। समानमिति ।। यद्ब्रह्मानेन विदितं तदेवायं भवतीति स्वज्ञातब्रह्माभेदोक्तौ बाधकानां सद्भावात्प्रकृतं परमार्थत्वं परित्यज्याप्रकृतबृंहितार्थत्वं द्वितीयब्रह्मशब्दस्योच्यत इत्यर्थः । बाधका-नीति ।। स्वज्ञातब्रह्माभेदोक्तावित्यर्थः । सम्पूज्येति वाक्यसाम्यमङ्गीकृत्योक्तम् । वस्तुतस्तु सम्पूज्येति वाक्यापेक्षयाऽत्र महान् विशेषोऽस्तीत्याह- किञ्चात्रेति ।। पारतन्त्र्यादिरूपं जीवभावमिति । यथोक्तम्-
‘अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।।’
इति । परब्रह्माण्यपीति ।। न केवलं ब्रह्मशब्दवाच्याः, किन्तु परब्रह्मशब्दवाच्याश्चेत्यर्थः ।
ननु परपरमशब्दयोरुभयोरप्युत्तमरूपैकार्थवाचित्वात् प्रकृतिशब्दोक्तमहालक्ष्म्याः परमब्रह्मशब्दवाचित्वोक्त्या परब्रह्मशब्दवाच्यमुक्तेभ्यः को विशेष इत्यत आह- परशब्दादिति ।। तथा च नात्र परपरमशब्दौ पर्यायतयैकार्थौ विवक्षितौ, किं नाम परशब्दादतिशयार्थे मप्रत्यये निष्पन्नोऽयं परमशब्दः । तथा च परब्रह्मशब्दवाच्यमुक्तापेक्षया महालक्ष्म्या अतिशयद्योतको भवत्येवायं पतमब्रह्मशब्द इति भावः । यस्मादेवमेतेषामिति ।। अमुक्तमुक्त-प्रकृतिपरमात्मनां ब्रह्म-परब्रह्मादिशब्दवाच्यत्वेन स्वाभाविकं तारतम्यमित्यर्थः । ननु संसारिभिरप्यैक्याभाव-प्रतिपादनाय न संसारिण इत्यपि वक्तव्यमिति चेत्तत्राऽह- संसारिणस्त्विति ।। कैमुत्येति ।। प्रकृत्यादेः परमात्मैक्याभावे संसारिणां तदभावः कैमुत्येनैव सिद्ध इत्यर्थः । ‘तस्मान्न मुक्ताः’ इत्यादौ नञ्त्रयं श्रूयते । तत्र मुक्ता विष्णुवैभवं नाऽप्नुवन्ति सा प्रकृतिर्नाप्नोतीति योजनायामेकस्य नञ आधिक्यम् । सा मुक्ताश्चेत्येते नाऽप्नुवन्तीति योजनायां नञ्द्वयस्याऽधिक्यं भवति । अत इत्थं योज्यम् । मुक्ताः सा प्रकृतिश्चेत्येते क्वचित्काले देशे वा विष्णुवैभवं नाप्नुवन्तीति नेति न, किन्तु नाप्नुवन्त्येवेति । केचित्तु- चशब्देन संसारिणो गृहीत्वा नञ्त्रयस्य सार्थक्यमाहुः । न च ‘संसारिणः कैमुत्यसिद्धत्वान्न निराकृताः’ इति टीकाविरोध इति वाच्यम् । कण्ठतो न निराकृताः किन्तु चशब्देनैवेति व्याचक्षते । नक्वचिद्देशे काले चेति क्वाचित्कः पाठः । तत्र च अथवेत्यादि-वन्निपातसमुदायरूपमेकमेव पदम् । तथा च नञ्द्वयमेव प्राप्तमिति नानुपपत्तिरिति द्रष्टव्यम् । तदसाधारणधर्मप्राप्तेरेव तदैक्यप्राप्तिरूपत्वेन विष्णुवैभवं नाऽप्नुवन्तीति तदसाधारणधर्मप्राप्तिनिषेधे तदैक्याभाव एवात्रोक्त इत्यव-धेयम् । एवमुत्तरत्रापि द्रष्टव्यम् । किन्तु स एवेति ।। किन्त्विति शङ्कायाम्, ‘स एवैकः स्वतन्त्रः पूर्णषड्गुणः’ (श्री.टि.) इति वाक्यशेषः प्रवृत्त इत्यर्थः । मितेः परोऽसीति ।। अपरिमित इत्यर्थः । नाऽप्नुवन्तीति ।। अशू व्याप्ताविति धातोरिति भावः । अनागन्तुकमिति ।। नैसर्गिकं स्वरूपमित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
शेष इति ।। इत्यादि चेत्यतः परं वाक्यमिति, इतिवदित्यनन्तरं व्याख्येयमिति च शेष इत्यर्थः । तथाविधस्येति ।। यद् ब्रह्मानेन विदितं तदेवायं भवतीत्येवंविधस्येत्यर्थः । न तु पूजितव्यक्तितादात्म्यमिति । तथाविधशब्दाश्रवणादिति भावः । उत्तरत्रेति ।। ‘न हि ब्राह्मणपूजकः स एव ब्राह्मणो भवति’ इत्युत्तरवाक्य इत्यर्थः । ननूक्तप्रकारेणैक्यस्य श्रौतार्थत्वासम्भवे श्रुतेरागमतया तत्र प्रमाणत्वासम्भवेऽपि श्रुत्यर्थान्यथाऽनुपपत्ति-लब्धत्वादनुपपत्तितया श्रुतेस्तत्र प्रामाण्यं स्यादिति भावेन अर्थतस्तदवगमकत्वं दर्शयन् शङ्कते- नन्विति ।। अनेकब्रह्माभावादिति ।। ‘एकमेवाद्वितीयम्’ इति तदेकत्वावधारणादिति भावः । अनेकब्रह्मसम्भवा-दिति ।। ब्रह्मैकत्वावेदकश्रुतिस्तु निरवधिकपूर्णब्रह्मैकत्वावेदिकेति न तद्विरोध इति भावः । तमेव गमयिष्यती-त्यवधारणं विपक्षे बाधककथनेनोपपादयति- अन्यथेति ।। ननु च बाधकात्तत्र प्रकृतपरित्यागाप्रकृतस्वीकारौ न दोषाय । असति बाधके तयोर्दोषत्वेऽपि सति बाधके तयोरदोषत्वादिति शङ्कते- बाधकादिति ।। समान-मिति ।। अत्रापि बाधकादेव प्रकृतपरित्यागाप्रकृतस्वीकारयोरदोषत्वसम्भवादिति भावः । उक्तानीति ।। ‘यो वेद निहितं गुहायाम्’ इत्यादिना उक्तानीत्यर्थः । वक्ष्यन्ते चेति ।। ‘ब्रह्माणि जीवाः सर्वेऽपि’ इत्यादिना अनुपदमेवेति शेषः । विशेषित इति ।। तथा च तद्वाच्यस्य परमात्मत्वं युक्तम् । अन्यथा विशेषणवैयर्थ्यादिति भावः । केवल इति ।। तथा च न तस्य परब्रह्मात्मकत्वम् । अन्यथा तत्रापि तद्विशेषणप्रयोगप्रसङ्गादिति भावः। परब्रह्माण्यपीति ।। अनेन सर्वेऽपीत्यपिशब्दस्याऽवृत्तिर्दर्शिता भवति । ननु परपरमशब्दयोरुभयोरप्युत्तम-रूपैकार्थत्वात् परमशब्देन लक्ष्म्याः को विशेषः प्रतिपादितः स्यादित्यतः परशब्दादतिशयार्थे विहितमप्रत्ययान्तस्य परमशब्दस्य परशब्दसमानार्थत्वाभावेन युक्तं तेन तस्या विशेषसमर्पणमित्याह- परशब्दादिति ।। वर्तत इति अनुवर्तत इत्यर्थः । यस्मादिति ।। तथा च मुक्तानां विष्णोश्च न परस्परं साम्यमिति भावः । ननु मुक्तानां लक्ष्म्याश्च विष्णुनैक्याभावबोधनार्थं मुक्ता विष्णुवैभवं न प्राप्नुवन्ति, सा लक्ष्मीः विष्णुवैभवं न प्राप्नोतीति यथोच्यते तथा संसारिणामपि तदैक्याभावबोधनार्थं संसारिणोऽपि विष्णुवैभवं न प्राप्नुवन्तीति वक्तव्यमेव । तत्किमिति नोक्तमित्यतः कैमुत्यन्यायेनैव तस्यार्थस्य सिद्धत्वात्तदनुक्तिर्न दोषायेत्याशयेनाऽह- संसारिण-स्त्विति ।। नन्वेवं यदि संसारिणो न निराकृताः तर्हि द्वाभ्यामेव नशब्दाभ्यां मुक्तानां लक्ष्म्याश्च विष्णुवैभवाभाव-प्रतिपादनेन विवक्षितसिद्धेस्तृतीयस्य नशब्दस्य वैयर्थ्यं स्यादित्यतो अत्र न क्वचिदिति निपातसमुदायस्य देश-कालार्थकस्याभिप्रेतत्वेन न तस्य वैयर्थ्यमित्यभिप्रेत्य न क्वचिदिति निपातसमुदायं प्रतीकत्वेनोपादायैव देश-कालार्थकतया व्याख्याति- न क्वचिद्देशे काले वेति ।। परो मात्रयेति श्रुतिं व्याचष्टे- विष्णो त्वमित्यादिना ।। मात्राया इति ।। श्रुतौ ‘सुलुग्’ इति स्मरणात् मात्रयेति षष्ठ्यर्थे तृतीयेति भावः । वृधानशब्देनैव पूर्णत्वलाभात् किं तन्वेतिशब्देनेत्यतस्तद्विशेषणसूचितमर्थमाह- तन्वेति ।। यत्प्राप्तुमित्यत्र यदित्यस्य कैवल्यमित्यनेन
(पां.टि.)व्यवहितत्वेऽपि योग्यत्वात्सम्बन्ध इति भावेन तथा सम्बन्धप्रदर्शनपूर्वकं तदर्थमाह- यत्कैवल्य-मिति ।। यस्यानागन्तुकं स्वरूपमिति ।। अनेन यदिति भिन्नं पदम्, अतो न तस्य वैयर्थ्यमित्युक्तं भवति ।
लघुप्रभा
(व्या.टि.)
पुनर्मुक्तावभेदं प्रत्यवतिष्ठते- ननु चेति ।। अब्रह्मत्वव्यावृत्त्येति ।। शङ्खः पाण्डुर एवेतिवद्विशेषण-सङ्गतस्यैवकारस्यायोगव्यवच्छेदार्थकत्वादित्यर्थः । एवकारस्योपचारे विरोधं स्फुटयति-उपचारे हीति ।। अस्योत्तरवाक्यैकवाक्यत्वायोगादध्याहारेण पूरयति- इत्यादि चेत्यादिना ।। ननु ‘सम्पूज्य’ इति वाक्ये शूद्रत्वपरित्यागेन ब्राह्मणभवनवदत्रापि जीवभावापगमेन ब्रह्मभावप्राप्तिश्रवणे मदभिमतसिद्धिरित्यत आह- इदमुक्तं भवतीति ।। ननु दृष्टान्तमात्रकथनस्य क्वोपयोगः । प्रतिदृष्टान्तस्यापि वक्तुं शक्यत्वादित्यत आह- दृष्टान्तकथनस्येति ।। प्रकृतग्रहणशङ्काऽपनोदकत्वेनोपयोक्ष्यतीति भावः । दृष्टान्ताद्वैषम्यमाशङ्कते - नन्विति ।। अनेकेति ।। ‘एकमेवाद्वितीयम्’ इति ब्रह्मान्तरप्रतिषेधादित्यर्थः । बृंहणेति ।। ‘बृंहतेर्नोऽच्च’ इत्यौणादिक-सूत्रादित्यर्थः । प्रकृतग्रहणमाशङ्कते- नन्विति ।। दृष्टान्तोक्तिसूचितबाधकमाह- तर्हीति ।। ननु ब्राह्मणशब्दो जातिवचन इति नानेकार्थ इति वैषम्यमिति शङ्कते- तत्रेति ।। दुस्तरां प्रतिबन्दी गृह्णाति- अत्रापी-ति ।। ननु ब्राह्मणशब्दस्यानेकार्थत्वेऽपि बाधकात्प्रकृतपरित्याग इत्याशङ्क्य समः समाधिरित्याह- बाधका-दिति ।। किमत्र बाधकमित्यत आह- बाधकानीति ।। प्रकृतब्रह्मग्रहणे बाधकान्तरमाह- किञ्चेति ।। एकेन प्रकारेणेति ।। परमपूर्ण एव भवतीति प्रकारेणेत्यर्थः । परमात्मवाचीति ।। परमत्वेन विशेषणादिति भावः । तत्समर्थनार्थमिति ।। अर्थान्तरसमर्थनार्थमित्यर्थः । परब्रह्माण्यपीति ।। यथा ‘नित्यो नित्यानाम्’ इत्यत्र स्वस्य नित्यत्वेऽपि चेतनत्वेऽपि नित्यान्तरचेतनान्तरसद्भावादतिशयः, तथा मुक्तानां ब्रह्मत्वेऽपि ब्रह्मान्तर-सत्त्वात्परब्रह्मत्वम् । परमपदस्यापि परशब्दसमानार्थत्वात्कथं विशेष इत्यत आह- परशब्दादिति ।। ‘तद्धिताः’ इति बहुवचनादत्रातिशये मप्रत्ययस्तद्धित इति भावः । स्वामिनस्त्वौणादिक इत्याहुरिति भ्राम्यन्ति । वस्तुतस्त्वाणादिक इति पाठः । तस्मादिति परामृष्टहेतुं दर्शयति- यस्मादिति ।। मूले न मुक्ता इति ।। मुक्ता विष्णुवैभवं न प्राप्नुवन्तीत्यर्थः । न च सा चेति ।। सा च विष्णुवैभवं न प्राप्नोतीति योजना । तच्छब्दपरामृष्टं दर्शयति (टीकायां)- प्रकृतिरिति ।। महालक्ष्मीरित्यर्थः ।
ननु परब्रह्मशब्दोक्तानां मुक्तानां परमब्रह्मपदोक्तचित्प्रकृतेश्च विष्णुवैभवप्राप्तिनिरासेऽपि ब्रह्मपदोक्तसंसारिणः कुतो न निराकृता इत्यत आह- संसारिणस्त्विति ।। कैमुत्यसिद्धत्वादिति ।। स्वाप्राप्यमहिमवदप्राप्यस्य स्वाप्राप्यमहिमत्वनियमेन स्वप्राप्तिशङ्काया असम्भावनाग्रहग्रस्तत्वेन तन्निरासवैयर्थ्यादित्यर्थः । ननु न प्राप्नुवन्तीति देशकालविशेषयोर्निरासेऽपि देशकालान्तरे किं न प्राप्नुयुरित्यत आह- न क्वचिदिति ।। व्याचष्टे- देशे काले वेति ।। तेन देशकालसामान्यनिषेधेन चैतच्छङ्काऽनवकाशः । इदमुपलक्षणम् । विश्वामित्रादिब्रह्मत्वादिवद्वरादि-रूपनिमित्तान्तरे इत्यपि ध्येयम् । अत्र न क्वचिदितिनिपातसमुदायस्य देशान्तरे कालान्तरे वेत्यर्थः । अत एव टीकायामपि तथैव प्रायिकः पाठ इति केचिदूचुः । अपरे तु एते विष्णुवैभवं न प्राप्नुवन्तीति नेति न, किन्तु (व्या.टि.) नाऽप्नुवन्त्येवेति नञाधिक्यं परिहरन्ति । विजयीन्द्रस्वामिनस्तु न मुक्तो न च सेति पाठमाश्रित्य चशब्देन संसारिणः समुच्चित्य आप्नुवन्तीति बहुवचनं समाधाय मुक्तस्य महालक्ष्म्याश्चेश्वरैक्यनिषेधाय न मुक्तोऽच्युतो न च साच्युत इत्यावृत्त्याऽन्वीय योजनान्तरं तद्विवरणमिति व्याचक्रुः । वैभवं विभुत्वमिति भ्रमनिरसायाह- महिमानमिति ।। स एवेत्यस्य पूर्वापेक्षितमाह- किन्त्विति ।। तृतीया पञ्चम्यर्थ इत्याह- मात्रया मात्राया इति ।। वृधान इति ‘लिटः कानच्’ इत्युपेत्य व्याचष्टे- वृधान ववृधान पूर्णेति ।। तत्पद-व्यावर्त्यमाह- न त्विति ।। कीर्त्या वृद्धेर्ज्ञानिसाधारण्यात् । ‘महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या’ इति श्रुतेरित्यर्थः । त इति विष्णोर्निर्देशः ‘न ते विष्णो’ इत्युत्तरपरामर्शात् । स्मृतौ कैवल्यं नैर्गुण्य-मित्यन्यथाप्रतीतिनिरासाय व्याचष्टे- सर्वोत्कृष्टत्वमिति ।।