अहं ब्रह्मास्मि ..
अहमादिपदानां परमात्मवाचकत्वस्य समर्थनम्
मूलम्
- ‘अहं ब्रह्मास्मि’ ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ ‘योऽसावादित्ये पुरुषः सोऽहमस्मि स एवाहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया । ‘स यश्चायं पुरुषे यश्चासा-वादित्ये स एकः’,‘अ इति ब्रह्म तत्रागतमहमिति तस्योपनिषदहम्’ इति,
‘अहंनामा हरिर्नित्यमहेयत्वात्प्रकीर्तितः ।
त्वं चासौ प्रतियोगित्वात् परोक्षत्वात् स इत्यपि ।
सर्वान्तर्यामिणि हरावस्मच्छब्दविभक्तयः ।
युष्मच्छब्दगताश्चैव सर्वास्तच्छब्दगा अपि ।
सर्वशब्दगताश्चैव वचनान्यखिलान्यपि ।
स्वतन्त्रत्वात् प्रवर्तन्ते व्यावृत्तेऽप्यखिलात् सदा ।
तत्सम्बन्धात्तु जीवेषु तत्सम्बन्धादचित्स्वपि ।
वर्तन्त उपचारेण तिङ्पदान्यखिलान्यपि ।
तस्मात् सर्वगतो विष्णुरेको भिच्च ततो बहुः ।।’
इति नारायणश्रुतिः ।
‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ।।’
इति भगवद्वचनम् ।
तत्त्वमञ्जरी
ऐक्यश्रुतीनां गतिमाह- अहमिति ।। तत्र ब्रह्मणि वाचकत्वेनाऽगतमहमिति पदम् उपनिषद् गुह्यनाम । तस्मात् सर्वनियामकत्वात् सर्वगतो विष्णुः । ततः सर्वनियामकत्वेन सर्वगतत्वत एकश्च बहुः । न च तावता भेदवानित्याह- अभिदिति ।। विशेषेणैव तद्बहुत्वमित्या-कूतम् ।
टीका
तथाऽपि ‘न चाभेदे कश्चिदागमः’ इत्यसत् । अहं ब्रह्मास्मीत्याद्यनेकागमसद्भावादित्यत आह- अहमिति ।। तद्यः स प्रसिद्धो योऽहं सोऽसौ सूर्ये स्थितः । योऽसौ सूर्ये स्थितः परमात्मा सोऽहम् । प्रवृत्तमिति शेषः । तत्राद्ये वाक्ये अहंशब्देनान्तर्यामिणं निर्दिश्य तस्य देशकालपूर्णत्वलक्षणं ब्रह्मत्वमुच्यते । द्वितीये तु स्थानभेदेनान्तर्यामिणोरपि भेदशङ्कायां स्वान्तर्यामिणः सूर्यान्तर्गतेन परमात्मनैक्यमभिधाय पुनरिन्द्रार्जुनादिवदवान्तरविशेषनिरासाय योऽसौ सोऽहमिति सूर्यान्तर्गतस्य स्वान्तर्यामिणैक्यमुच्यते । तृतीयेऽप्येवमेव । आदिपदोक्तानि ‘अथ योऽन्यां देवतामुपास्तेऽ-न्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवम्’ इत्यादीन्यप्यन्तर्यामिविषयतया योज्यानि । प्रतीतार्थपरित्यागेनार्थान्तरकल्पनं कुत इति चेत्समाख्यानादित्याह- स यश्चेति ।। स प्रसिद्धो योऽयमित्यर्थः । अहंशब्दस्यान्तर्यामिवाचित्वं कुत इत्यत आह- अ इतीति ।। अहमित्यपि पदं तत्र ब्रह्मविषयतया आगतम् अवगतमित्यर्थः ।
अहंशब्दवाच्यत्वं हरेः किं जीवाभेदेन निमित्तेनेत्याशङ्कां परिहरन्नपेक्षिताशेषार्थपरां श्रुतिं पठति- अहंनामेति ।। नित्यमहेयत्वादित्यनेन नञ्पूर्वकात् ‘ओ हाक् त्यागे’ इत्यस्मात्कर्मणि कप्रत्यय इत्युक्तं भवति । यद्यप्यस्मच्छब्दस्यैवेदं रूपम्, तथाऽपि हरौ तद्वृत्तौ न जीवाभेदो निमित्तमिति प्रतिपादनाय निर्वचनं कृतम् । जीवेऽप्यहंशब्दप्रवृत्ताविदमेव निमित्तम् । स्थान्यादेशभावस्य काल्पनिकत्वादस्मदादेशस्याप्येवं निर्वचनं युक्तम् । प्रतियोगित्वादाभिमुख्यात् ।
अनेन तत्त्वमस्यादिवाक्ये त्वंशब्देनान्तर्याम्युच्यत इत्यपि सूचितम् । स इत्यपीत्युपलक्षणम् । ‘भूतानि विष्णुर्भुवनानि विष्णुः’ इत्यादौ भूताद्यन्तर्यामी भूतादिशब्दैः तेन तेन निमित्तेनोच्यत इत्यपि ग्राह्यम् । अहमादिशब्दप्रवृत्तावपि ‘अहं कविरुशना पश्यतामा’ इत्यादि कथमित्यत आह- सर्वान्तर्यामिणीति ।। सर्वशब्दगता भूतादिसर्वशब्दगताः सप्तविभक्त्यन्ता अस्मदादिशब्दा इत्यर्थः । न केवलमेकवचनान्येव । किं तर्हि? अखिलान्यपि वचनानि । विभक्तिवृत्तौ निमित्तं स्वतन्त्रत्वादिति । कारकेषु हि विभक्तयो वर्तन्ते सङ्ख्याविशेषणत्वेनापि निमित्तत्वात् । कारकञ्च क्रियाहेतुः । सर्वकारकाणाञ्च प्रधानक्रियासु अवान्तरक्रियास्वपि हरिरेव स्वतन्त्र इति युक्ता तत्र सर्वविभक्तिवृत्तिः । एकत्वद्वित्वबहुत्वसङ्ख्याया भेदरहितेऽपि हरौ सत्त्वात् सर्ववचनवृत्तिरपि । तर्हि कथमन्यत्र व्यवहार इत्यत आह- तत्सम्बन्धादिति ।। तत्सम्बन्धलब्धेन निमित्तेन । न चात्र लक्षणोच्यते । उपचारेणेति ।। परममुख्यवृत्त्यपेक्षया हीनया वृत्त्येत्यर्थः । तिङ्पदानीति ।। तिङन्तपदानीत्यर्थः । अस्मादादिषूपपदेषु विहितानां तेषां तद्वृत्तौ वृत्तेः सुलभत्वात् । एवमहं ब्रह्मास्मीत्यादिवाक्यगताहमादिशब्दानां विष्णुवाचित्वे कस्तेषां वाक्यानामर्थः सम्पन्न इत्यत आह- तस्मादिति ।। सर्वगतो विष्णुरेक इत्यनेन ‘तद्योऽहम्’ इत्यादेरर्थ उक्तः । बहुः विपुलः पूर्णः, तेन ‘अहं ब्रह्मास्मि’ इत्यादेरर्थः । ततः, सर्वस्माद् भिच्च भिन्नोऽपीत्यभेदनिमित्तनिरासानुवादः ।
अयमत्राभिप्रायः- अस्मदादयः शब्दाः प्रत्यगादिवाचकत्वे तावत्प्रसिद्धाः । प्रत्यगादिश्च सर्वदा पिण्डीभूत एव । तत्राहेयत्वादिकं निमित्तमपराधीनमन्तर्यामिणि । तत्प्रेरितानि जीवादौ । तदेवं मुख्यामुख्यत्वाभ्यां पिण्डविषयं शब्दमविवेकिनो बाह्येषु जीवादिष्वेव प्रयुञ्जते यथा दहतिशब्दं काष्ठे । प्राज्ञास्त्वमुख्यमंशमनादृत्य मुख्यार्थे हरौ प्रयुञ्जते । परैरप्यहंशब्दस्येदमनिदंरूपवस्तु-गर्भपिण्डार्थताऽङ्गीकृतैवेति ।
पूर्वं श्रुतिसमाख्योक्ता । इदानी स्मृतिसमाख्यामप्याह- सर्वभूतेष्विति ।। विभक्तेषु परस्परं परमेश्वराच्च भिन्नेषु सर्वभूतेषु चेतनाचेतनेषु अविभक्तं स्वगतभेदवर्जितम् । तेषां व्ययेऽप्यव्ययमेकं भावं सर्वोत्तमं पदार्थं येन ज्ञानेन, ईक्षते विषयीकरोति तज्ज्ञानं सात्त्विकं विद्धीत्यर्थः ।
भावबोधः
स प्रसिद्ध इति ।। अनेन स चासौ यश्चति विग्रहप्रदर्शनपूर्वक वैयर्थ्यपरिहारः कृतो भवति । ननु यदि ‘अहं ब्रह्मास्मि’ इत्यादिवाक्यजातमन्तर्याम्यपेक्षया प्रवृत्तं तर्ह्यन्तर्यामिणो ब्रह्माभेदादेः सिद्धत्वात्तद्बोधनं व्यर्थं स्यादित्यतस्तदर्थमाह- तत्राद्य इत्यादिना ।। नन्वस्मच्छब्दरूपस्याहमित्यस्य रूढत्वान्न निर्वचनीयत्वमित्या-शङ्क्य परिहरति- यद्यपीति ।। जीवे रूढत्वेऽपि हरौ तदभावान्निर्वचनं सार्थकमिति भावः । ननु तर्हि नानार्थकत्वं स्यादित्यत आह- जीवेऽपीति ।। ननु तथाप्यादेशरूपशब्दस्य स्थानिशब्दार्थार्थकत्वेन न निर्वचनीयत्वमित्यत आह- स्थान्यादेशभावस्येति ।। अहमिति शब्दः प्रत्यगर्थादिवाचकत्वेन स्वतः सिद्ध एव न तु ‘त्वाहौ सौ’ इतीति भावः । ननूक्तनिर्वचनबलेन प्रथमैकवचनान्तास्मदादिशब्दस्य प्रवृत्तावपि तद्द्विवचनबहुवचनद्वितीयादि-विभक्त्यन्तानां मां मा त्वां त्वा इत्यादिशब्दानां कथमित्यभिप्रायेण शङ्कते- अहमादीति ।। अत एव द्वितीयाविभक्त्यन्तमेतिपदोपेतऋगन्त्यपादोदाहरणं कृतम् । आदिपदेन ‘मम देवासोऽनुकेतमायन्’ इत्यादेर्ग्रह-णम् । ननु स्वादिप्रत्ययमात्रस्य पदत्वाभावेनाप्रतिपादकत्वात्कथमस्मच्छब्दविभक्तय इत्याद्युक्तमित्यत आह- सप्तविभक्त्यन्ता इति ।। नन्वेकवचनाद्या विभक्तयः । एकवचनादीनि त्वेकत्वादिसङ्ख्याविवक्षायां भवन्ति । ‘द्व्येकयोर्द्विवचनैकवचने’ ‘बहुषु बहुवचनम्’ इत्यत्र द्व्यादिशब्दानां भावप्रधानत्वेनाभियुक्तैर्व्याख्यात-त्वात् तत्कथं कारकेषु विभक्तयो वर्तन्त इत्युक्तमित्यत आह- सङ्ख्याविशेषणत्वेनापीति ।। कारका-श्रितैकत्वादिसङ्ख्यायामेवैकवचनादिकं भवति । न निराश्रयसङ्ख्यामात्रे । तथा च सङ्ख्याधारत्वेन कारकस्यापि विभक्तिप्रवृत्तौ निमित्तत्वादित्यर्थः । प्रधानक्रियास्ववान्तरक्रियास्विति ।। इन्द्रियादिकरणादीनां ज्ञानादि-लक्षणप्रधानक्रियासु, अर्थसन्निकर्षजनकीभूतावान्तरक्रियास्वित्यर्थः । तत्सम्बन्धलब्धेन निमित्तेनेत्युक्तमेवोप-पादयति- न चात्रेति ।। पिण्डीभूत इति ।। अन्तर्भावितविष्णुर्जीव इत्यर्थः । सर्वोत्तममिति ।। एकपदस्यैक्यार्थत्वे अविभक्तमित्युक्ताविशेषप्रसङ्गादिति भावः ।
भावदीपः
आकाङ्क्षां पूरयति- इति शेष इति ।। अपेक्षयेत्यनन्तरमिति भावः । अवान्तरविशेषेति ।। अर्जुनगतयावद्व्यापारानुसन्धानमिन्द्रस्येव नेन्द्रगतसर्वानुसन्धानमर्जुनस्येत्येवंरूपविशेषनिरासायेत्यर्थः । एव-मेवेति ।। आदित्यान्तर्गतस्वान्तर्यामिणोरैक्योक्तिपरमेवेत्यर्थः । योज्यानीति ।। यो जीवः अन्यां स्वस्माद्भिन्नां देवतां अन्योऽसावहं मदन्तर्यामी चान्य इत्युपास्ते यथा पशुर्न वेद तथा स न वेदेत्येवंरूपेण योज्यानीत्यर्थः । अग्रे स इति श्रवणादपौनरुक्त्यायाह- स प्रसिद्ध इति ।। इत्यपीति ।। न केवलमित्यपेरर्थः । नञ्पूर्वकात् ओ हाक् त्याग इति ।। ‘उपदेशेऽजनुनासिकः’ इत्योकारस्य ‘हलन्त्यम्’ इति ककारस्यापगमे हा इत्यस्य निर्वचन-बलात्कर्मणि कप्रत्यये ककारव्यञ्जनस्य ‘लशक्वतद्धिते’ इति लोपे ‘आतो लोप इटि च’ इत्याकारलोपे ‘नलोपो नञः’ इति नकारव्यञ्जनस्य लोपे च ‘अद’ इत्यस्मात्स्वाद्युत्पत्तौ तस्यामि ‘अमि पूर्वः’ इति पूर्वरूपे न हीयते न त्यज्यते इत्यहमिति रूपमित्यर्थः । प्रत्यगर्थे निरूढस्याहंपदस्य किं निरुक्त्येत्याशङ्क्याह- यद्यपीति ।। अस्म-च्छब्दस्यैवेति ।। अस्मदित्यस्मात्सुप्रत्यये ‘त्वाहौ सौ’ इति मपर्यन्तस्य अह इत्यादेशे ‘शेषे लोपः’ इति दकारस्य लोपे ‘ङेप्रथमयोरम्’ इति प्रथमाविभक्तेरमादेशे ‘अमि पूर्वः’ इति पूर्वरूपे अहमिति रूपमित्यर्थः । तर्ह्यन्यायोऽनेकार्थत्वदोष इत्यत आह- जीवेऽपीति ।। एतेन जीवेऽपि यौगिक एवाहंशब्दो न रूढः । योगेनोपपत्तौ गौरवान्न समुदायशक्तिकल्पनेत्युक्तं भवति । अर्थनिमित्तपाणिनिस्मृतिस्तु व्युत्पादनमात्रपरेति भावः । अत एवाह- स्थान्यादेशभावस्येति ।। रेखागवयेन सत्यगवयप्रदर्शनमिव बुद्धिकल्पितप्रकृतिप्रत्ययविभागेन सत्यभूतस्य नित्यस्याहंपदस्य प्रदर्शनपरत्वादित्यर्थः । युक्तमित्यत्र हेतुः- काल्पनिकत्वादिति ।। न हीयते न त्यज्यते स्वस्वरूपं कदाऽपि जीवेनेत्येवंरूपनिर्वचनमित्यर्थः । तेन तेनेति ।। भूतभवनादिशब्दप्रवृत्तिनिमित्तेने-त्यर्थः । इत्यादि कथमिति ।। प्रथमायाः प्रातिपदिकार्थमात्रे विधानेन अर्थविशेषाभावात् प्रातिपदिकार्थ-निमित्तप्रथमाविभक्तिवृत्तिसम्भवेऽपि षष्ठ्याः स्वामित्वेनोपपत्तावपि ‘मा मां पश्यत’ इति ‘मया सोऽन्नमत्ति’ इत्यादिद्वितीयादिविभक्तेर्निरुक्त्या हरौ वृत्तेरयोगाद्विभक्त्यादिवृत्तिः कथमित्यर्थः । विभक्तिमात्रस्य प्रयोगा-भावात्पृथगर्थानवबोधकत्वाच्चाह- सप्तविभक्त्यन्ता इति ।। बहुवचनार्थः सप्तेति । वचनान्यविभक्तेरभावान्न केवलं सप्त विभक्तयः, अपि त्वखिलान्यपि वचनानीति समुच्चयायोगादध्याहृतेनापिपदघटनामाह- न केवल-मिति ।। स्वातन्त्र्यस्य कथं विभक्तिवृत्तौ निमित्ततेत्यतो व्यनक्ति- कारकेष्विति ।। विभक्तय इति ।। द्वितीयादिविभक्तिपञ्चकाभिप्रायमेतत् । अत एव पश्यतामेत्यादेरेवोक्तिः । सुप्तिङौ हि ‘विभक्तिश्च’ इति सूत्रेण विभक्तिसंज्ञकौ । द्वितीयादिसुब्विभक्तयश्च ‘कर्मणि द्वितीया’ ‘कर्तृकरणयोस्तृतीया’ ‘सम्प्रदाने चतुर्थी’ ‘अपादाने पञ्चमी’ ‘अधिकरणे सप्तमी’ इति कर्मादिषट्कारकेषु कारकवाचिशब्देषु तदन्ततया विहिताः कारकनिमित्तकतया वर्तन्त इत्यर्थः ।
ननु कथमेतत् । विभक्तयो ह्येकवचनादिरूपाः । एकवचनादीनि च ‘द्व्येकयोर्द्विवचनैकवचने’ ‘बहुषु बहुवचनम्’ इति कर्मादिकारकगतैकत्वद्वित्वबहुत्वसङ्ख्यायां विवक्षितायामेव विधीयन्ते, कारकाणि त्वेक-वचनादिनिमित्तसङ्ख्यासु व्यावर्तकतया विशेषणान्येवेत्यत आह- सङ्ख्याविशेषणत्वेनापीति ।। राज्ञः पुत्र इत्यादावकारके राजादावेकत्वादौ सत्यपि द्वितीयैकवचनादेरदर्शनात्, राजानं पुत्रांश्च पश्य, राजा जीवति, राजभ्यः करं ददातीत्यादावेव सङ्ख्यानिमित्तकद्वितीयैकवचनादीनां दर्शनेन वचननिमित्तसङ्ख्याः प्रति विशेषण-त्वेनापि कारकाणां वचनात्मकविभक्तिनिमित्तत्वात्तत्र विभक्तयस्तन्निमित्तकतया वर्तन्ते इत्युक्तिर्युक्तेत्यर्थः। क्रियाहेतुरिति ।। ‘क्रियां कुर्वद्धि कारकम्’ इति प्रसिद्धेरिति भावः । प्रधानेति ।। कुठारेण काष्ठं छिनत्तीत्यादौ प्रधानच्छेदनादिक्रियासु, उद्यमननिपतनादिरूपावान्तरक्रियास्वित्यर्थः । हरिरेव स्वतन्त्र इतीति ।। ‘न ऋते त्वत्क्रियते’ इत्यादिश्रुतेरिति भावः । अयमर्थः । शब्दप्रवृत्तिर्हि द्वेधा । प्रवृत्तिनिमित्तस्य तद्गतत्वेन, अन्यगतं प्रति यथेष्टविनियोगकर्तृत्वरूपस्वातन्त्र्येण चेति । तत्राद्याऽहंत्वमित्यादिशब्दानामहेयत्वप्रतियोगित्वादिस्मृत्युक्त-तत्तच्छब्दप्रवृत्तिनिमित्तस्य ‘सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वधर्मः सर्वकामः सर्वरूपः’ इत्यादिश्रुत्या भगवन्निष्ठत्वेन तत्र प्रवृत्तिर्घटादिशब्दानां घटादाविव प्रसिद्धैव । अन्त्या तु ‘तदधीनत्वादर्थवत्’ इति सूत्र-सिद्धा । तत्र हि अन्यगतप्रवृत्तिनिमित्तं प्रति स्वातन्त्र्यं यन्निष्ठं तेन तत्र प्रवृत्तिरस्त्युत नेति सन्देहे भृत्यगतनिगडबन्धदुःखादिकं प्रति राज्ञः स्वातन्त्र्यसत्त्वेऽपि राजा बद्धो दुःखीति शब्दप्रवृत्तेरभावेनानैकान्त्यान्न तन्निमित्तेन अस्ति शब्दप्रवृत्तिरिति प्राप्ते भृत्यादिबन्धादिस्वातन्त्र्यमात्रनिमित्तेन बन्धादियोग्ये राजनि बद्धादि-शब्दाप्रयोगस्यामङ्गलत्वादिप्रतिबन्धनिमित्तत्वाद् भगवति तदयोग्ये अमङ्गलत्वशङ्काऽयोगेन जीवगतबन्धादि-स्वातन्त्र्यमात्रनिमित्तेन ‘कार्यकारणबद्धौ तौ’ इत्यादौ बद्धादिशब्दप्रयोगस्य लोके भृत्यगतजयं प्रति स्वातन्त्र्येण राज्ञि जयिशब्दप्रयोगस्य च दर्शनाद्भगवत्येव तेन निमित्तेन शब्दप्रवृत्तिरिति सिद्धान्तितत्वात् । तथा च कर्मादि-कारकगतक्रियाहेतुत्वरूपकारकत्वं प्रति स्वतन्त्रत्वात्तन्निमित्तकविभक्तयोऽपि तत्र प्रवर्तितुं युक्ता इति । तदुक्तं पद्मनाभतीर्थीये- ‘सर्वस्वामित्वाद् भृत्यजयशब्दो राज्ञीव वर्तन्ते विभक्त्यादयः’ इति । यद्वा स्वतन्त्रत्वादित्यस्य मुख्यहेतुत्वादित्यर्थः । भगवानेव कुठारचक्षुरादिकरणादिकारकेषु स्थित्वा तत्कार्यच्छिदाज्ञानादिकार्यं निर्वर्तय-तीति मुख्यकारकम् । कुठारादि तु तत्प्रेरितशक्तिकं सत्, तद्द्वारमात्रम् । अतस्तत्र विभक्तिवृत्तिर्युक्तैवेति ।
नन्वेवं वचनवृत्तिरपि तन्निमित्तसङ्ख्याया एकस्मिन्विरुद्धत्वेनाभावादन्यगताःसङ्ख्याः प्रति स्वातन्त्र्येणैव वाच्याः किमित्यत आह- एकत्वद्वित्वेति ।। ‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’ इति नये ‘द्वित्वं चैकस्य युज्यते’ इत्यनुव्याख्यानादौ समर्थनादिति भावः । तत्सम्बन्धादितीति ।। ‘शरीररूपकविन्यस्तगृहीतेर्दर्शयति च’ इति न्यायादिति भावः । तत्र हि त्रिपाद्यां सर्वशब्दानां भगवति वृत्तौ किमर्थो लोके व्यवहार इति शङ्कायां ‘साक्षादप्यविरोधं जैमिनिः’ इति सूत्रे हानोपादानाद्यर्थ इति समाहितत्वेऽपि तर्हि वह्निशब्दस्य जले, जलशब्द-स्याग्नावित्याद्यव्यवस्था स्यादित्याशङ्कायां तत्तच्छब्दमुख्यार्थहरिसम्बन्धस्य तत्र तत्र व्यवस्थितत्वात्तन्निमित्तोऽन्यत्र व्यवहारो व्यवस्थित इत्युक्तेः । ननु पूरसम्बन्धात्तीरे गङ्गापदव्यवहार इवान्यत्र तत्तच्छब्दमुख्यार्थभगवत्सम्बन्धा-दन्यत्र शब्दव्यवहारोऽमुख्य इति उपचारेणेति वाक्यशेषबलात्प्रतीयते । तथा चान्यत्रापि मुख्यार्थत्वलाभाय तत्सम्बन्धलब्धेन निमित्तेनेति कुतो व्याख्येत्यत आह- न चात्रेति ।। ‘कल्पनोपदेशाच्च मध्वादिवदविरोधः’ इति सूत्रे भगवत्सम्बन्धादन्यत्र वृत्तावभ्युपेतायां लक्षणा स्यादित्यतो निगमनिघण्ट्वादिसिद्धमुख्यवृत्तेर्लोकेऽपि शब्दानामुक्तेरिति भावः । तत्तुल्यन्यायसिद्धोक्तिः ‘तत्सम्बन्धादचित्स्वपि’ इति । हीनयेति ।। मुख्यवृत्तावेव हीनाधिकभावस्य अमुख्यवृत्तौ लक्षणागौण्योरिव लक्षणारूढलक्षणादेरिव ‘समाकर्षात्’ इत्यधिकरणे समर्थनादिति भावः । तिङ्मात्रस्यापदत्वादाह- तिङन्तेति ।। अस्मदादिष्विति ।। ‘अस्मद्युत्तमः’ इति ‘युष्मद्युपपदे समानाधि-करणे स्थानिन्यपि मध्यमः’ इति ‘शेषे प्रथमः’ इति च सूत्रैरहं त्वं स इत्यादिशब्देषूपपदेषु विहितानामहं ब्रह्मास्मी-त्यादावहमादिशब्दवृत्तावस्मीत्यादिशब्दानां वृत्तेः सुलभत्वादित्यर्थः । तत्परतन्त्रत्वात्तस्येति भावः । अर्थ उक्त इति ।। सूर्यादौ मयि च वर्तमान एक इत्यर्थकत्वात्तस्येति भावः । तत इत्यनुवादः, पूर्णत्वादित्यर्थः । सर्वस्माद्भिच्येत्यन्वयेनानुवादः । चोऽप्यर्थ इति भावेनोक्तम्- भिन्नोऽपीति ।। नन्वहमादिपदानामन्तर्यामिणि मुख्यताऽन्यत्र हीनवृत्तिश्चेत्तर्हि जीवे बहुलप्रयोगो न स्यात् । तीरादौ गङ्गापदप्रयोगस्य प्राचुर्येणादर्शनात्, मुख्यार्थ एव सर्वेषां प्रयोगप्राचुर्याद्, भिन्नवस्तुद्वयवाचित्वेऽक्षादिशब्दवन्नानार्थत्वापाताद् विष्ण्वादिशब्द-पर्यायतापातादुभयत्र निमित्तसत्त्वे मुख्यामुख्यत्वायोगाच्चेत्यत आह- अयमभिप्राय इति ।। प्रत्यगादीत्यादिपदेन प्रतियोग्यादिवाचकास्त्वमित्यादिशब्दा ग्राह्याः । अनेन विष्ण्वादिशब्दपर्यायतानिरासः । पिण्डीभूत इति ।। ब्रह्मचेतनजीवचेतनद्वयरूपो दग्धकाष्ठायःपिण्डादिवत्पिण्डीभूतः क्षीरनीरवदविविक्ततया वर्तमान इति । अनेन नानार्थत्वनिरासः । अपराधीनमित्यक्त्या मुख्यामुख्यत्वायोगनिरासः । अविवेकिन इति ।। भगवच्चेतन-मेलनाज्ञानिनस्तत्र मुख्यताऽज्ञानिनश्च । बाह्येषु भगवद्बहिर्भूतेषु । तस्य व्याख्या- जीवादिष्विति ।। एतेना-ज्ञानमूलोऽन्यत्र प्रचुरप्रयोगः इत्युक्तं भवति । परसम्मत्याऽपि द्रढयति- परैरपीति ।। इदमिति ब्रह्मचैतन्यम् । अनिदमिति जडमन्तःकरणम् । स यश्चायं पुरुष इत्यादिप्रागुदाहृतेनापौनरुक्त्यायाऽह- पूर्वमिति ।। अन्तर्याम्यैक्यापेक्षया सोऽहमस्मीत्यादिश्रुतयः प्रवर्तन्त इत्युक्तार्थ इति योज्यम् । अविभक्तपदेनापौनरुक्त्याय एकं प्रधानमित्युपेत्य फलितार्थमाह- सर्वोत्तममिति ।।
वाक्यार्थदीपिका
(श्री.टि.)
अन्तर्याम्यपेक्षयेत्यनन्तरमध्याहार्यमाह- प्रवृत्तमिति शेष इति ।। आद्ये वाक्ये अहं ब्रह्मास्मीति वाक्ये । द्वितीये तद्योऽहमिति वाक्ये । अवान्तरविशेषेति ।। अंश्यनभिमतकरणादिरूपः । यथोक्तमनुव्याख्याने ‘विशेषस्तु कश्चिदीशकृतो भवेत्’ इति । व्याख्यातं च सुधायाम्- ‘विशेषः इन्द्रानभिमतखाण्डववनदहनादिरूपः’ इति । तृतीये ‘योऽसावादित्ये पुरुष इति’ वाक्ये । अथ योऽन्यामिति ।। यो भगवल्लक्षणां देवताम् अन्यां स्वभिन्नामुपास्ते । कथमित्यतस्तत्प्रकार उच्यते- असौ भगवान् मदन्यः, अहं च तस्मादन्योऽस्मीति । ‘न स वेद यथा पशुः’ इति भेदज्ञानिनः पशुत्वोक्तिरूपनिन्दया एषैव श्रुतिरभेदे प्रमाणमिति न वाच्यम् । अस्या अपि श्रुतेर्यो भगवल्लक्षणां देवताम् अन्यां स्वान्तर्यामिभिन्नामुपास्ते । कथम् ? अन्योऽसौ, अहं मदन्तर्यामी चान्य इति । न स वेद यथा पशुरित्येवमन्तर्यामिभेदज्ञानिनिन्दापरतयाऽन्यार्थकत्वादिति भावः । श्रुतौ तच्छब्दद्वय-सद्भावादेकोऽनुवादपर इत्याशयेनाह- स प्रसिद्ध इति ।। ब्रह्मविषतया ब्रह्मवाचकतया । नञ्पूर्वकादिति ।। ‘ओ हाक् त्यागे’ इत्यत्र ओ इत्यनुबन्धाकार एवं क् इत्यपि । हा इत्येव धातुः । तथा च नञ्पूर्वकात् हा इत्यस्माद्धातोः कर्मणि कप्रत्यये ककारलोपे ‘आतो लोप इटि च’ इति धात्वाकारलोपे ‘नलोपो नञः’ नञो नस्य लोपः स्यादुत्तरपदे इति सूत्रेण नञो नस्य लोपे सोरमागमे पूर्वरूपे अहमिति रूपमित्यर्थः । नन्वस्मच्छब्द-रूपस्याहमित्यस्य रूढत्वान्न निर्वचनीयत्वमित्याशङ्क्य निषेधति- यद्यपीत्यादिना ।। अस्मच्छब्दस्यैवेदं रूपमिति ।। ‘त्वाहौ सौ’ इति सूत्रेण युष्मदस्मदोर्मपर्यन्तस्य त्वाहादेशविधानाद् अस्मद् स् इत्यत्र मपर्यन्तस्य ओत्यादेशे अहद् इति जाते ‘शेषे लोपः’ इति दकारलोपे ‘ङेप्रथमयोरम्’ इति सोरमादेशे अह अम् इति जाते ‘अमि पूर्वः’ इत्यकारस्य पूर्वरूपे अहमित्यस्मच्छब्दस्यैवेदं रूपमित्यर्थः । तद्वृत्ताविति ।। अहंशब्दप्रवृत्तावित्यर्थः। निर्वचनं कृतमिति ।। जीवे रूढत्वेऽपि हरौ तदभावान्निर्वचनं सार्थकमिति भावः । ननु तर्ह्यहंशब्दस्य नानार्थकत्वं स्यादित्यत आह- जीवेऽपीति ।। इदमेव ओयत्वमेव । ननु स्थानिभूतास्मच्छब्दादेशरूपस्याहंशब्दस्य कथं (श्री.टि.) निर्वचनं युक्तम् । प्रत्ययस्येवाऽदेशस्याप्यनिर्वक्तव्यत्वादित्यत आह- स्थान्यादेशभावस्येति ।। ‘त्वाहौ सौ’ इति पाणिनिना कल्पितत्वादित्यर्थः । अहमिति शब्दः प्रत्यगर्थभूतजीववाचकत्वेन भगवद्वाचकत्वेन च स्वतस्सिद्ध एव । न तु ‘त्वाहौ सौ’ इति सूत्रप्रवृत्त्यनन्तरं निष्पन्नः । सूत्रप्रवृत्तिस्तु सिद्धशब्दव्युत्पादनार्थमेवेति भावः । अस्मदादेशस्यापीति ।। अस्मदादेशत्वेन पाणिनिना कल्पितस्याप्यहमित्यस्येत्यर्थः । आभिमुख्या-दिति ।। पराक्त्वेन स्थितत्वादित्यर्थः । अनेन त्वंशब्दवाच्यत्वकथनेन । सूचितमिति ।। तथा च तद् ब्रह्म त्वं त्वदन्तर्यामीत्यर्थः । असीत्येतदप्यसनादियोगेनेश्वरवाचीति मन्तव्यम् । उपलक्षणमित्युक्तमेव दर्शयति- भूतानीति ।। ‘वनानि विष्णुर्गिरयो दिशश्च । सरित्समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विष्णुरेव’ इति वाक्यशेषः ।
ननूक्तनिर्वचनबलेन प्रथमैकवचनान्तास्मच्छब्दप्रवृत्तावपि तद्द्विवचनतद्बहुवचनद्वितीयादिविभक्त्य-न्तानां मां मा त्वां त्वेत्यादिशब्दानां कथं प्रवृत्तिरित्यभिप्रायेण शङ्कते- अहमादीति ।। आदिपदेन त्वमित्यस्य ग्रहणम् । अत एव द्वितीयाविभक्त्यन्तमेतिपदोपेतऋगन्त्यपादोदाहरणं कृतम् । इत्यादि कथमित्यत्रादिपदेन ‘मम देवासो अनुकेतमायन्’ इत्यादेर्ग्रहणम् । मूले तच्छब्दगा इत्यस्य सः तौ ते इत्यादितच्छब्दगा इत्यर्थः । भूतादिसर्वशब्दगता इत्यत्रादिपदेन भुवनवनगिर्यब्ध्यादिशब्दानां ग्रहणम् । अखिलान्यपि वचनानीति ।। ननु भगवति जीवे च योगेन यदाऽहंशब्दः प्रवर्तते तदा अहम् आवां वयमित्यादिरूपेणैव शब्दोऽन्यथा वा । नाद्यः । अस्मदादेशरूपत्वेन रूढत्वे ह्येवंशब्दः । निर्वचनकरणेन यौगिकत्वपक्षे तथा शब्दायोगात् । द्वितीये तु कथं शब्द इति चेदुच्यते । यदा जीवे रूढ्याऽहंशब्दः प्रवर्तते तदा स्थान्यादेशभावमङ्गीकृत्य अहम् आवां वयमित्यादिरूपेण प्रसिद्ध एव शब्दः । यदा तु जीवपरमात्मनोर्योगेन प्रवर्तते तदा अहम् ओ अहानीत्यादिरूपेण स्वतन्त्र एव शब्दः । तथा आवामित्यपि प्रकृतिप्रत्यययोगेन स्वतन्त्र एव । एवं वयमित्याद्यपीत्यूह्यम् । न चैतददृष्टचरमिति वाच्यम् । यथा ‘वसन्ते वसन्ते’ इत्यादिवाक्यगतवसन्तादिशब्दानां वसन्तादिकाले रूढिमङ्गीकृत्य वाक्यसमन्वयपक्षे वसन्त इत्यकारान्तवसन्तशब्दस्य सप्तमी भवति । पदसमन्वयन्यायेन ‘वसन्तिश्च वसंस्ततः’ इति योगवृत्त्या भगवद्वाचकत्वपक्षे वसन्त इत्येतद् हे वसन्ते इत्येवमिकारान्तवसन्तिशब्दस्य सम्बुद्ध्येकवचनमिति स्वतन्त्र एव शब्दो भवति, तद्वदिति सम्प्रदायविदः । स्वातन्त्र्यस्य निमित्तत्वमुपपादयितुमाह-कारकेष्विति ।। ‘कर्तृकरणयोस्तृतीया’ ‘कर्मणि द्वितीया’ इत्यादिना विभक्तीनां कर्त्रादिकारकेष्वेव विधानादिति हिशब्दार्थः। ननु कथमेतत् । ‘द्व्येकयोर्द्विवचनैकवचने’ द्वित्वैकत्वयोरेते स्तः । ‘बहुषु बहुवचनम्’ बहुत्वे एतत्स्यादित्येवं केवलैकत्वादिसङ्ख्यायामेव विभक्त्युक्तेर्विभक्तीनां सङ्ख्याश्रितत्वात्कथं कारकेषु विभक्तयो वर्तन्त इत्युच्यत इत्यत आह- सङ्ख्याविशेषणत्वेनापीति ।। सङ्ख्याविशेषणकत्वेनापीत्यर्थः । निमित्तत्वादिति ।। कर्त्रादिकारकाणामेवेति शेषः । तथा च केवलसङ्ख्यायामेव विभक्त्यवृत्तेरेकत्वादिसङ्ख्योपेतकर्त्रादिकारकेष्वेव तत्सद्भावेन सङ्ख्यारूपविशेषणयुक्तकर्मादिकारकाणामेव विभक्तिवृत्तौ निमित्तत्वात्कारकेषु विभक्तयो वर्तन्त (श्री.टि.) इत्युक्तं युक्तमिति भावः । केचित्तु निराश्रितकेवलसङ्ख्यायामेव विभक्त्ययोगात्कर्त्रादिकारका-श्रितैकत्वसङ्ख्यायामेव विभक्तिवृत्तिर्वाच्या । एवं च कारकाश्रिता सङ्ख्येति सङ्ख्यां प्रति विशेषणत्वेन कारकाणामेव सङ्ख्यायां विभक्तिवृत्तौ निमित्तत्वादुक्तं युक्तमित्याहुः ।
अस्त्वेवं कारकेषु सर्वविभक्तिवृत्तिः, तथाऽपि स्वातन्त्र्यस्य विभक्तिवृत्तौ कथं निमित्तत्वमित्यत आह- कारकञ्चेति ।। ‘क्रियां कुर्वद्धि कारकम्’ इति वचनादिति भावः । सर्वकारकाणाम् इन्द्रियाणाम् । प्रधानक्रियासु ज्ञानलक्षणासु । अवान्तरक्रियासु सन्निकर्षलक्षणासु । युक्तेति ।। स्वातन्त्र्यरूपनिमित्तेनेति शेषः । तत्रेति ।। प्रधानक्रियाऽवान्तरक्रियाजनकत्वेन कारकभूते हरावित्यर्थः । नन्वेवमपि द्वित्वादिसङ्ख्याया निर्भेदहरावभावात्, द्व्येकयोरित्यादिनोक्तानां द्वित्वादिविवक्षयोक्तद्विवचनादीनां भगवति वृत्त्ययोग इत्यत आह- एकत्वद्वित्वे-त्यादि ।। एकत्वेति प्रसङ्गादुक्तम् । केचित्तु भेदरहिततयैकत्वसङ्ख्योपेतेऽपि हरौ द्वित्वबहुत्वसङ्ख्यायाः सत्त्वादिति बुद्ध्या विविच्य योज्यमित्याहुः । सत्त्वाद् विशेषबलेनेति शेषः । तर्हीति ।। यदि सर्वे शब्दा हरावेव वर्तन्ते तर्हीत्यर्थः । अन्यत्र जीवादौ । मूले ‘तत्सम्बन्धादचित्स्वपि’ इत्यस्य जीवसम्बन्धाज्जडेष्वपि शब्दाः प्रवर्तन्ते अभिमान्यधिकरणन्यायेनेत्यर्थः । यदि तत्सम्बन्धाज्जीवादिषु शब्दाः प्रवर्तन्ते तर्हि मञ्चाः क्रोशन्तीत्यादा-विव जीवादौ शब्दानां लक्षणाप्रसङ्ग इत्याशङ्क्य तत्सम्बन्धलब्धनिमित्तेनेत्युक्तं निमित्तमेवोपपादयति- न चात्रेति ।। उच्यत इत्यनन्तरम् इत्याहेति शेषः । नन्वेवमपि मुख्यवृत्त्यलाभ एवेत्यत उपचारेणेत्यस्यार्थमाह- परममुख्यवृत्त्यपेक्षयेति ।। हीनया वृत्त्येति ।। तथा हि- शब्दानां वृत्तिर्द्विविधा मुख्यामुख्यभेदात् । आद्याऽपि द्विविधा परममुख्यमुख्यभेदात् । परममुख्यवृत्तिरपि महायोगमहारूढिभेदेन द्विविधा । मुख्यवृत्तिरपि योगरूढि-भेदाद् द्विविधा । अमुख्यवृत्तिरप्युपलक्षणा गौणी चेति द्विविधा । एवं च भगवति विद्यमानमहायोगमहारूढि-लक्षणपरममुख्यवृत्त्यपेक्षया या हीना वृत्तिर्योगरूढिलक्षणा मुख्यवृत्तिस्तयेत्यर्थः । तथा चोपचारपदं नामुख्य-वृत्तिप्रभेदरूपोपचारपरमिति भावः । तिङः पदत्वाभावात्तिङ्पदानीत्ययुक्तमित्याशङ्क्य प्रत्ययग्रहणे तदन्तशब्द-स्यापि ग्रहणमिति परिभाषया तिङन्तान्यस्मीत्यादिपदान्येव तिङ्पदशब्देनोच्यन्त इत्याशयेन व्याचश्व्े- तिङन्तपदानीति ।।
ननु तिङन्तपदानां कथं हरौ वृत्तिरित्यत आह- अस्मादादिष्विति ।। उक्तरीत्याऽहमादीनां भगवति वृत्तौ सत्यामस्मदादिषूपपदेषु सत्सु ‘अस्मद्युत्तमः’ ‘युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः’ ‘शेषे प्रथमः’ इत्यादिसूत्रैर्विहितानाम् अस्म्यसिभवतीत्यादीनां तिङन्तपदानां भगवति वृत्तेः सुलभत्वादित्यर्थः । सर्वगत इति ।। आदित्यादिसर्वगत इत्यर्थः । भिच्चेति चशब्दोऽपिशब्दार्थ इत्यभिप्रेत्य भिन्नोऽपीत्युक्तम् । अभेदनिमि-त्तेति ।। अहमादिशब्दप्रवृत्तौ परोक्तजीवाभेदरूपनिमित्तनिरासायेत्यर्थः । नन्वहमादिशब्दस्य जीवादिष्वपि वृत्तौ निमित्तभूतस्याहेयत्वादेर्भगवत्यपि सद्भावात्कथं मुख्यपरममुख्यत्वादिना विभाग इत्यत आह- अयमत्राभि-प्राय इति ।। पिण्डीभूत इति ।। नियामकतयाऽन्तःप्रविष्टविष्णुना संवलित इत्यर्थः । पिण्डविषयमिति ।। (श्री.टि.) नियामकतयाऽन्तःप्रविष्टपरमात्मनियम्यजीवप्रतिपादकमित्यर्थः । दहतिशब्दं दहतीति शब्दम् । काष्ठं दहतीति प्रयोगादिति भावः । अमुख्यमंशमिति ।। अन्तर्भावितविष्णुर्हि जीवस्तत्र जीवरूपममुख्यांश-मित्यर्थः । अयं प्रकारः परस्यापि सम्मत इत्याह- परैरपीति ।। इदं चेतनम् अनिदं जडम् । अहंशब्दवाच्याहमर्थस्य परैश्चिदचित्संवलनात्मकत्वाङ्गीकारादिति भावः । स्वगतभेदवर्जितमिति ।। स्थानभेदप्रयुक्तभेदशून्यमि-त्यर्थः । तेषां चेतनानामचेतनानां च व्यये देहनाशादिरूपे नाशे जातेऽप्यव्ययमित्यर्थः । एकपदस्यैक्यार्थ-त्वेऽविभक्तमित्यनेन पुनरुक्तिपरिहारायार्थमाह- सर्वोत्तममिति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
‘तद्योऽहम्’ इत्यस्य व्याख्यानम्- तद्यः स प्रसिद्ध इत्यादि ।। तत्र तदित्यस्य व्याख्यानम्- स इति ।। योऽहमित्यस्य यथास्थितस्य श्रौतपदद्वयस्यानुकरणम्- योऽहमिति ।। अवान्तरविशेषेति ।। इन्द्रार्जुनयोरभेदेन इन्द्रस्यार्जुनगताशेषानुसन्धानेऽप्यर्जुनस्य तद्गतमहाफलानुसन्धानेऽप्यशेषाननुसन्धानमित्येवं-रूपेत्यर्थः । कर्मणि कप्रत्यय इति ।। कित्त्वात् ‘आतो लोप इटि च’ इत्याकारलोपे न हीयते इति अहमिति रूपनिष्पत्तिः । नन्वस्मच्छब्दरूपस्याहमित्यस्य रूढत्वान्न निर्वचनीयत्वमित्याशङ्कां निर्वचनप्रयोजनोक्त्या परिहरति- यद्यपीति ।। तर्हि नानार्थत्वमित्यतस्तत्परिहरति-जीवेऽपीति ।। ननु तथाप्यादेशसिद्धरूपस्य स्थानि-शब्दार्थकत्वेन न निर्वचनीयत्वमिति चेत्तत्राऽह- स्थान्यादेशभावस्येति ।। अहमितिशब्दः प्रत्यगर्थादिवाचकत्वेन स्वतः सिद्ध इत्येव । न तु ‘त्वाहौ सौ’ इति सूत्रप्रवृत्त्यनन्तरं निष्पद्यते । सूत्रप्रवृत्तिस्तु सिद्धशब्दानुव्याख्यानार्थेति भावः । ननूक्तनिर्वचनबलेन प्रथमैकवचनान्तस्याहमादिशब्दस्य वृत्तावपि द्विवचनबहुवचनान्तस्य द्वितीयादि-विभक्त्यन्तस्य च कथं वृत्तिरित्याशयेन शङ्कते- अहमादीति ।। तावताऽपि कथं शङ्कापरिहार इत्यतः, अभिप्राय-माह- सप्तविभक्त्यन्ता इति ।। स्वतन्त्रत्वादित्यनेन विभक्तिवृत्तौ को हेतुरुक्त इत्यतः कारकत्वमेवेति भावेन तत्र विभक्तिवृत्तिमुपपादयति- कारकेष्विति ।। ननु कर्मकर्तृकरणादिकं हि कारकम् । तद्धि न विभक्ति-वाच्यम् । किन्तु एकत्वादिकमेव । ‘द्व्येकयोर्द्विवचनैकवचने’ इत्यादिना एकत्वादिष्वेव तद्विधानात्कथं ‘कारकेषु हि विभक्तयो वर्तन्ते’ इत्युच्यत इत्यतः केवलस्यैकत्वादेर्विभक्त्याऽनभिधानात् कर्मादिगतस्यैव तस्याभिधा-नात् । कर्मादिगतस्यैकत्वादेरभिधेयत्वे च सङ्ख्यां प्रति विशेषणत्वेन विभक्तिवृत्तौ निमित्ततया युक्तैव कारकेषु विभक्तिवृत्तिरित्याशयेनाऽह- सङ्ख्येति ।। अस्त्वेतावता कारकेषु विभक्तिवृत्तिः । भगवतः किमायातमित्यतः तस्यैव मुख्यकारकत्वात्तत्रैव विभक्तिसिद्धिरिति भावेन मुख्यकारकतां तस्योपपादयितुं कारकत्वं तावन्निर्वक्ति- कारकञ्चेति ।। तर्हीति ।। भगवत्येव सर्वविभक्तिवचनवृत्त्यङ्गीकार इत्यर्थः । ननु यदि तत्सम्बन्धलब्ध-निमित्तेनान्यत्र विभक्त्यादिवृत्तिः तर्हि लोके लक्षणैव स्यात् । तथा चेक्षत्यधिकरणस्य मूले निहितः कुठारः स्यादित्यतः, अन्यत्र भगवदपेक्षया मुख्यवृत्तावेव तारतम्यमङ्गीकृत्य अमुख्यत्वस्याभिप्रेतत्वेन लक्षणागौण्यो-रेवानभिमतत्वान्नोक्तदोष इत्याशयेनाऽह- न चात्रेति ।। अत्र लक्षणाशब्देन गौण्या अपि ग्रहणम् । कुतस्तत्र तिङन्तपदवृत्तिरित्यतो निमित्तनैमित्तिकभावमुपपादयन्नेव निमित्तमाह- अस्मदादिष्विति ।। नन्वहमादिशब्दस्य (पां.टि.) जीवादिष्वपि वृत्तौ निमित्तस्याहेयत्वादेस्तत्रापि सत्त्वात् कथं मुख्यपरममुख्यत्वादिना विभाग इत्यत आह- अयमभिप्राय इति ।। पिण्डीभूत एवेति ।। नियामकत्वेनान्तःप्रविष्टविष्णुविशिष्टो जीव इत्यर्थः । नन्वेवमस्मदादिशब्दानां पिण्डीभूतार्थविषयकत्वकल्पनाप्रसङ्गो दोष इत्यतस्तस्य परेणाप्यङ्गीकृतत्वेन न तत्प्रसङ्गोऽपीत्यभिप्रेत्य पिण्डीभूतार्थविषयतायाः परसम्मततामुपपादयति- परैरपीति ।। अहंशब्दवाच्यस्याह-मर्थस्य चिदचित्संवलनात्मकत्वादिति भावः । समाख्यायाः पूर्वमेवोक्तत्वेन पुनस्तदभिधाने पौनरुक्त्यमित्याशङ्कां परिहरति- पूर्वमिति ।।
लघुप्रभा
(व्या.टि.)
यद्यपि ‘न चाभेदे कश्चिदागमः’ इति प्रथमप्रतिज्ञातमागमासिद्धत्वमेव प्रथममुपपादनीयम् । तथाऽ-प्यैक्यस्य पराभिमतमहावाक्यासिद्धत्वं तद्विरुद्धत्वं च, तद्वाक्यस्य भेदपरत्वोपपादने उपपादितं स्यादित्यभिरुच्या तद्भेदपरतयोपपादितम् । ततस्तत्प्रसक्त्या भेदवाक्यान्येवोदाहृतानि । ततश्चावसरप्राप्तमागमासिद्धत्वमुपपाद-यितुमुपक्षिपति- तथाऽपीति ।। अनेकेति ।। तथा च न कश्चिदित्यागममात्रनिषेधोऽयुक्त इति भावः । तद्य इति समस्तं पदमिति मत्वा व्याचश्व्े- स प्रसिद्ध इति ।। अनेन स चासौ यश्च तद्य इति विग्रहः सूचितः । सूर्यस्यापि विशिष्टान्तरत्वेन तदभेदायोगादाह- सूर्ये स्थित इति ।। ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती’ इति स्मृतेरित्यर्थः । अपेक्षयेत्यस्यापेक्षितं पूरयति- प्रवृत्तमिति शेष इति ।। तत्र किंपदमन्तर्यामिपरमित्यतः तत्स्पष्टयति- तत्रेत्यादिना ।। अवान्तरविशेषेति ।। स तूक्तोऽनुव्याख्याने-
‘अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ।
भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ।।’ इति ।
एवमेवेति ।। विशेषनिरासायैक्याभ्यासः । आदिपदोक्तानीति ।। योज्यानीति ।। तत्प्रकारस्तु योऽन्यां देवतां सूर्यादिस्थितनारायणादिदेवतामुपास्ते स यथा पशुरेवम् । ननु मिथ्योपासने पशुर्भवेत् कथमियं मिथ्योपासनेत्यतस्तां दर्शयति- अन्योऽसौ सूर्यान्तर्यामी, अन्योऽहं जीवान्तर्यामीति । ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इति श्रुत्योभयोरैक्याभिधानाद्भेदोपासना मिथ्योपासनेति पशुदृष्टान्तो युक्त एवेति भावः । ‘न स वेद’ इति श्रौतान्तर्याम्यैक्यं न वेदेति पशुत्वे हेतूक्तिः । तत्पदस्येदमर्थपरामर्शकत्वायोगाद्व्याचश्व्े- स प्रसिद्ध इति ।। तत्रेति विषयसप्तमीति व्याचश्व्े- ब्रह्मविषयतयेति ।। अत्र पूर्वभागस्येहोपयोगाभावेऽपि तत्पदपरामृष्टप्रदर्शनायोदाहृतम् । जीवाभेदेनेति ।। ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः’ इति श्रुतिः शङ्काबीजमिति भावः । कथमिदं शब्दलभ्यमित्यतो निर्वक्ति- नञ्पूर्वादिति ।। कर्मणीति ।। ‘घञर्थे कविधानम्’ इत्युक्तेरित्यर्थः । ‘आतो लोप इटि च’ इत्याकारलोपश्चेत्यपि ग्राह्यम् । ततश्च हेयं हम्, न हम् अहमित्यहेयत्वलाभः। ननु ‘ङेप्रथमयोरम्’ युष्मदस्मद्भ्यां परस्य ङे इत्यस्य प्रथमाद्वितीययोश्चामादेश इति सोरमादेशे सति ‘त्वाहौ सौ’ इति युष्मदस्मदोर्मपर्यन्तस्य त्व-अहादेशे ‘शेषे लोपः’ इति आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोर-(व्या.टि.) न्त्यस्य दकारस्य लोपे ‘अमि पूर्वः’ इति पूर्वरूपे च त्वम् अहमिति रूपसिद्धेरहमित्यस्यास्मच्छब्द-रूपत्वेन तदादेशस्य हरौ वृत्तौ तत्स्थानिनोऽपि तत्र वृत्त्या तदर्थं जीवाभेदापात इत्याशङ्क्य निराकरोति- यद्य-पीति ।। न जीवाभेद इति ।। बाधाद्रूढार्थपरित्याग इति भावः । एवं स्थानिनोऽपि जीवत्वनिमित्तकत्वात् तदादेशस्यापि तन्निमित्तकत्वमुपेत्योक्तम् । अधुना तदेव नेत्याह- जीवेऽपीति ।। इदमेव ओयत्वमेव । न जीवत्वमित्यर्थः । ब्रह्मण्यपि ‘तदात्मानमेवावेदहं ब्रह्मास्मि’ इति । ‘अहं सर्वस्य जगतः’ ‘मत्तः परतरम्’ ‘मया ततमिदं सर्वम्’ ‘अहं बीजप्रदः पिता’ इत्यादौ जीवत्वाभावेऽपि प्रयोगादिति भावः । तर्हि स्थान्यादेश-योरैकार्थ्यात्तद्भावसम्भव इत्यत ओमित्याह- स्थान्यादेशभावस्येति ।। काल्पनिकत्वादिति ।। वैयाकरण-साङ्केतिकत्वेन स्वभावत्वाभावादित्यर्थः । अभ्युपेत्यापि स्थान्यादेशभावमैकार्थ्यं च समाधत्ते- अस्मदादेशस्या-पीति ।। अस्मदादयः शब्दाः प्रत्यगादिवाचित्वेन प्रसिद्धाः । अहंशब्दस्त्वहेयवाची । प्रतीचोऽप्यहेयत्वादुभयोर-प्यैकार्थ्यं युक्तम् । निर्वचनमिति ।। हरौ जीवेऽपीति शेषः । उभयोरपि प्रत्यक्त्वादहेयत्वाच्च । यद्वक्ष्यति- ‘प्रत्यगादिश्च सर्वदा पिण्डीभूत एव’ इति । तथा च सकलमकलङ्कम् ।
नन्वनाशङ्कितत्वमादिपदनिर्वचने किं लब्धमित्यत आह- अनेनेति ।। मेत्यादीत्यादिपदेन ‘नान्यः कश्चिन्मत्तो व्यतिरिक्तः’ इति शिववाक्यपरिग्रहः । तत्र ‘त्वामौ द्वितीयायाः’ ‘त्वमावेकवचने’ ‘प्रत्ययोत्तरपदयोश्च’ इत्य-स्मादाद्यादेशस्य मेत्यादेरहेयत्वादिनिर्वचनासम्भवादिति प्रश्नार्थः । कथमनेनोक्तशङ्काऽपगम इत्यतः, अस्मच्छब्द-शक्तिकथने विभक्तिशक्तिकथनमसङ्गतमित्यतश्चास्मच्छब्दविभक्तय इत्येतद्विभक्त्यन्ताः शब्दा इति व्याख्या-तम् । अस्मदादिशब्दानां प्रत्यगादिवाचकत्वाद् ब्रह्मणोऽप्यन्तर्यामित्वेन प्रत्यगादित्वात्तच्छब्दोपपत्तिरिति भावः। अपिपदसमुच्चेयमाह- न केवलमिति ।। स्वतन्त्रत्वस्य कर्तृविभक्त्युपयोगेऽपि न सर्वविभक्त्युपयोग इत्यतः सर्वोपयोगं दर्शयति- कारकेषु हीति ।। प्रथमाषष्ठ्योः कारकविभक्तित्वाभावेऽपि भूम्ना व्यपदेशः । ननु महाभाष्ये ‘एकं वाक्यं तच्चेदञ्च’ इति विभक्तिवचनानाम् ‘द्व्येकयोः’ इत्यादिसङ्ख्यावचनैकवाक्यत्वाभिधानेन सङ्ख्या-प्राधान्याभिधानात् कथमासां कारकविभक्तित्वमित्यत आह- सङ्ख्याविशेषणत्वेनापीति ।। कारकविशेषित-सङ्ख्याभिधानेऽपि विशेषणतया कारकस्याप्यभिधेयतया निमित्तत्वात्कारकविभक्तित्वं तासामुपपन्नमिति भावः । यद्वा सङ्ख्याविशेषणत्वेनेति बहुव्रीहिः । तथा च कारकस्यैव मुख्यतयाऽभिधेयत्वमिति ध्येयम् । क्रिया-हेतुरिति ।। ‘क्रियां कुर्वद्धि कारकम्’ इति लक्षणकरणादिति भावः । स्वतन्त्रत्वमुपलक्षणमिति भावेनाऽह- एकत्वद्वित्वेति ।। ‘यदेकमव्यक्तमनन्तरूपम्’ इति श्रुतेः । ‘द्वित्वं चैकस्य युज्यते’ इति भाष्याच्चेति भावः । व्यवहर्तव्यनिमित्ताभावे कथं सम्बन्धमात्रेण व्यवहार इत्यतो व्याचश्व्े- तत्सम्बन्धलब्धेति ।। निमित्तेन प्रत्य-क्त्वादिना । नन्वत्रोपचारोक्त्या सत्सम्बन्धोक्त्या च लक्षणा प्रतीयते । सा च ‘तस्मात् परममुख्यत्वं विष्णा-वन्यत्र मुख्यता’ इत्यनुभाष्यविरुद्धा इत्यत आह- न चात्रेति ।। उच्यत इत्यतः परं यत इति शेषः । तिङन्त-पदानीति ।। ‘प्रत्ययग्रहणे तदन्तग्रहणम्’ इति परिभाषयेत्यर्थः । तिङन्तपदप्रवृत्तौ निमित्तानुक्तौ युक्तिं वक्ति- (व्या.टि.) अस्मदादिष्विति ।। ‘अस्मद्युत्तमः’ ‘युष्मदि मध्यमः’ ‘शेषे प्रथमः’ इति विहितानामित्यर्थः । सुलभत्वादिति ।। निमित्तवृत्तौ नैमित्तिकस्य वर्तनीयत्वात् । अन्यथा सामानाधिकरण्यायोगादित्यर्थः । पदार्थे वाक्यार्थापर्यवसानाद्वाक्यार्थं पृच्छति- एवमिति ।। पृथक्श्रुत्यर्थतया व्याचश्व्े- सर्वगत इत्यादिना ।। भिच्चेति व्याचश्व्े- भिन्नोऽपीति ।। भिदेः कर्मणि क्विप् । ‘कृत्यल्युटो बहुलम्’ इति बहुलग्रहणात् । अभेदनिमित्तेति कर्मधारयः ।
नन्वहमादिशब्दोऽन्तर्यामिणि मुख्य इत्ययुक्तम् । रूढेरन्यत्र सत्त्वात् । ओयत्वादिना योगसत्त्वेऽपि तस्याधि-काराधिकरणन्यायेन रूढेर्दुर्बलत्वात् । न हि यत्र प्रसिद्धशब्दस्तत्रामुख्यः । मुख्यस्तु तत्पदप्रवृत्तिनिमित्तवतीति दृष्टचरम् । न चासावज्ञरूढिः, दहतिशब्दस्य च काष्ठे यथा । ततो विद्वद्रूढिर्योगमूला बलीयसीति वाच्यम् । तत्र दहतिशब्दस्य काष्ठाधिष्ठानव्यतिरेकेणायो दहतीत्यधिष्ठानान्तरे प्रयोगादग्नौ मुख्यतानिर्णयवत्, अत्र जीवादिव्यति-रेकेणान्तर्यामिमात्रेऽहमादिप्रयोगाभावात् । उभयवाचित्वे शब्दानां नानार्थपरतापत्तिश्च । न च न नानार्थता, जीवादिविशिष्टस्यैवाहमादिपदवाच्यताभ्युपगमात् । यथोक्तं भाष्यटीकायामानुमानिकाधिकरणे- ‘न चोभयार्थत्वे वाक्यभेदः । प्रधानादिविशिष्टस्यैव परमात्मनः शब्दवाच्यत्वाभ्युपगमात्’ इति,इति वाच्यम् । विशिष्टस्य पदार्थान्तरत्वे ब्रह्म सर्वशब्दाभिधेयमिति सिद्धान्तो दत्तजलाञ्जलिः स्यात् । ब्रह्मव्यतिरेकेणाव्यक्तादीनामिव तद्व्यतिरेकेण ब्रह्मणोऽपि तत्तच्छब्दाभिधेयत्वाभावात् । विशिष्टाद्वैतप्रसङ्गाच्च । अनर्थान्तरत्वे नानार्थतादोषः प्रादुःष्यादित्युभयतःपाशा रज्जुः । प्रवृत्तिनिमित्तपौष्कल्यान्मुख्यत्वेऽल्पपङ्कजाद्बहुपङ्कजे पदमुख्यताप्रसङ्गः । प्रागभावादितोऽत्यन्ताभावेऽभावपदमुख्यत्वप्रसङ्गः । किञ्च वाच्यार्थातिशयाभावेऽपीतरवेदादृचः, इतरनामभ्यो रामनामादेरर्थातिशयाभावेऽपि स्वरूपातिशयदर्शनात् । बहुपुत्रवत्यां पुत्रवतीशब्दमुख्यत्वादर्शनाच्चान्वय-व्यतिरेकव्यभिचारः । तस्यैवोभयत्रापि मुख्यत्वे तरबादिलोपप्रसङ्गः इत्यादिबहुविप्लवापात इत्यत आह- अय-मत्राभिसन्धिरिति ।। अत्रायं परिहारक्रमः । सत्यम् अहमादिशब्दा अन्यत्रैव प्रसिद्धा इति । तदनुमन्यामहे । न मुख्यत्वम् । तस्य प्रवृत्तिनिमित्ताधीनत्वेन रूढिमूलत्वाभावात् । अन्यथा रूढलक्षणाया अपि मुख्यवृत्तित्वापत्तेः। प्रवृत्तिनिमित्तं चाहेयत्वादिकं बाह्यजीवेष्विवान्तर्यामिण्यपि मुख्यम् । न चैवं प्रसिद्धिबाधः । प्रसिद्धेरज्ञानमूलायाः पुरुषदोषत्वेन वस्तुदोषत्वाभावात् । यथोक्तं टीकायाम् ‘न ह्ययं स्थाणोरपराधो यद्येनमन्धो न पश्यति’ इति । न चैवं जीवाद्यधिष्ठानाद्व्यतिरेकेण प्रयोगप्रत्ययौ स्यातामिति वाच्यम् । इष्टापत्तेः । ‘तदात्मानमेवावेदहं ब्रह्मास्मि’ इति ‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’ इत्यादौ जीवाधिष्ठानव्यतिरेकेण प्रयोगात् । ‘जीवेनाऽत्मना’ इत्यादौ जीवादिशब्दानामपि केवलहरौ प्रयोगात् ।
‘स जीवनामा भगवान् प्राणधारणहेतुतः ।’
‘अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।’
इत्यादेः । न चैवं साम्यम् । अन्तर्यामिव्यतिरेकेणाधिष्ठानमात्रप्रयोगाभावात् । परायत्तनिमित्तत्वाच्चान्यत्रा-
(व्या.टि.) मुख्यत्वात् । न चैवं नानार्थता वाक्यभेदो वा । प्रवृत्तिनिमित्तैक्येन तदभावात् । न चैवं भाष्य-टीकाविरोधः । एतट्टीकानुरोधेन तत्रत्यविशिष्टपदस्य पिण्डीभूतार्थपरत्वात् । न चैवमतिप्रसङ्गः । तत्रान्यतरप्रवृत्ति-निमित्तस्याल्पतराव्यक्तत्वाभावात् । अन्तर्यामिण्यव्यक्तादिपदानां परममुख्यत्वेन पारम्यातिशयद्योतनाय तरबादेरावश्यकत्वाच्च । तस्माद् अहमादिशब्दा अन्यत्रैव प्रसिद्धा अप्यन्तर्यामिण्येव परममुख्या इति रहस्यम् । अविवेकिन इति व्यवहारभेदे विप्रतिपत्तौ च मूलोक्तिः । बाह्येषु कञ्चुकभूतेषु । ‘दग्धशब्दं यथा काष्ठे’ इति भाष्यमनुरुध्याऽह- काष्ठ इति ।। दीप्त इत्यर्थः । प्रयुञ्जत इति ।। तदुक्तं भगवता सूत्रकारेण ‘साक्षादप्यविरोधं जैमिनिः’ इति । तद्विवृतं भाष्यकृता । सङ्गृहीतं च चन्द्रिकायाम्-
‘अज्ञास्त्वज्ञानतः शब्दानन्यत्रैव प्रयुञ्जते ।
ज्ञानिनोऽपि च हानादिव्यवहारप्रसिद्धये’ इति ।
शब्दस्य पिण्डार्थता परस्यापि सम्मतेत्याह- परैरपीति ।। इदमनिदंरूपेति ।। चिदचित्संवलनमहङ्कार इति वदद्भिरित्यर्थः । स्मृतीति ।। गीतेत्यर्थः । गीतार्थमाह- विभक्तेष्वित्यादिना ।। अधिष्ठानभेदेऽप्यन्तर्याम्यैक्यं तदर्थमित्यर्थः ।