लवणमेतदुदकेऽवधायाथ..
दृश्यमानसामर्थ्यस्य भगवतो दर्शनप्राप्त्योरुपायकथनम्
मूलम्
- लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति । तद्ध तथा चकार । तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति । तद्धावमृश्य न विवेद । यथा विलीनमेवाङ्ग अस्यान्तादाचामेति । कथमिति । लवणमिति । मध्यादाचामेति । कथमिति । लवणमिति । अन्त्यादाचामेति । कथमिति । लवणमिति । अभिप्रास्यैतदथ मोपसीदथा इति । तद्ध तथा चकार । तच्छश्वत्संवर्तते । तं होवाच अत्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति ।। ६ ।। यथा सोम्य पुरुषं गन्धारेभ्योऽभि-नद्धाक्षमानीय तं ततोऽतिजने विसृजेत् ।। ७ ।।
टीका
ननु वटावस्थानादिना कार्येणेश्वरसामर्थ्यं तावत्प्रत्यक्षमिव दृश्यते, एवं तत्सामर्थ्ये दृश्यमानेऽपि तस्यादर्शनमित्येतत्कथमहं जानीयामिति प्रार्थितः प्रोवाच पिता- लवणमि-त्यादि । अवधाय निक्षिप्य । तत्तथा चकार पुत्रो यद्यथा पित्रोक्तम् । स ह तथा चकारेति क्वचित् पाठः । स सदृशशाखान्तरगतो ज्ञातव्यः । एवमन्यत्रापि । तं होवाच, पिता । दोषा रात्रौ । अवधा अवाधाः । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति स्मरणात् । तत् लवणम् उदके हस्तेनावमृश्य न विवेद पुत्रः । यथा विलीनम् एवात्यन्तविनष्टं वस्तु न विन्दति तथा । अङ्ग अस्य उदकस्य अन्तात् पूर्वदिगवस्थितादवयवाद् उद्धृत्य एकदेशम् आचाम इति पिता । आचान्तवन्तं कथं तिष्ठतीति पप्रच्छ पिता । लवणं लवणरसोपेतमित्याह पुत्रः । एवं मध्याद् अन्त्यात् पश्चिमदिगवस्थिताच्च । एतद् उदकम् अभिप्रास्य निरस्याथ मामुपसीदथा इति पिता । तद्ध तथा चकार पुत्रः । तत् लवणं शश्वदुदक एव संवर्तते न तु अपगतमिति श्रुतेः स्ववाक्यम् । तद्ध तथा चकारेति वाक्यं शश्वत् अङ्ग तदाहरेत्याद्यनन्तरं संवर्तते अनुवर्तनीयमिति वा । तं होवाच, पिता । अत्रैव किलेति पुनर्वचन-मादरार्थम् । अनेन यथा लवणगुणे दृश्यमानेऽपि न लवणं दृश्यते तथा सामर्थ्ये दृश्यमानेऽपि न भगवानित्युक्तं भवति ।। ६ ।।
एवम्भूतो हरिरविद्यापटलपिहितनयनेनानेन कथं दृश्यते प्राप्यते चेति जिज्ञासायामाह पिता -यथा सोम्य पुरुषमित्यादि ।। विसृजेदित्यतः परं वाक्यं ‘स यथा तत्र प्राङ्वोदङ्वाधराङ्वा प्राध्मायीताभिनद्धाक्ष आनीतो अभिनद्धाक्षो विसृष्टः । तस्य यथाभिनहनं प्रमुच्य ब्रूयाद् एतां दिशं गन्धारा एतां दिशं प्रव्रजेति । स ग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्यते एवमेवेहाऽचार्यवान् पुरुषो वेद’ इति ।
पुरुषं धनिकं गन्धारसञ्ज्ञि(ज्ञ)केभ्यो जनपदेभ्यः अभिनद्धाक्षम् अक्षिणी बद्ध्वेति यावत् । ततोऽनन्तरम् अतिजने जनरहितेऽरण्ये विसृजेच्चोरः । स विसृश्व्ः प्राङ्वेति सर्वदिगभिमुखं प्राध्यायीत उच्चैश्शब्दं कुर्यात् । किमिति? अभिनद्धाक्ष इत्यादि । अस्मीति शेषः । यथा सम्यक्तद्वाक्यं श्रुत्वा कश्चित्कृपावान् प्रब्रूयाद्- एतां दिशम् अस्यां दिशि गन्धाराः सन्ति । ‘व्यत्ययो बहुलम्’ इति स्मरणात् । स तेनोपदिष्टाद्ग्रामान्निर्गत्य अपरं ग्रामं पृच्छन् । पण्डितः प्राज्ञः मेधावी स्मृतिमान् ।
एवमेवेति ।। अनाद्यविद्यादिभिः आच्छादितनिजज्ञानो जीवः संसारे पतितः परमेश्वरानु-ग्रहाज्जातजिज्ञासो गुरूपदेशं लब्ध्वा क्रमापन्नानि श्रवणादीनि साधनान्यनुष्ठाय स्वजन्मभूमिं भगवन्तं पश्यति प्राप्नोति चेत्युक्तं भवति ।। ७ ।।
भावबोधः
अक्षिणी बद्ध्वेति यावदिति ।। अक्षिबन्धनं चोरकर्तृकं न तु तदन्यकर्तृकं पूर्वसिद्धमिति भावः । व्यत्यय इति ।। तथा चैतां दिशमिति द्वितीयोपपद्यत इति भावः । एवमेवेत्युक्त्या अभिनद्धाक्षत्वं जीवे दर्शयति- अनादीति ।। संसारस्यारण्यप्रतिनिधित्वम् । प्राध्मायीतेत्युक्तप्रतिनिधिवचनम्- जातजिज्ञास इति ।। स ग्रामादित्यादिनोक्तस्य प्रतिनिधिकथनम्- क्रमापन्नानीत्यादि ।। गन्धारानेवेत्यस्य दार्श्वन्तिककथनम्- जन्मभूमिमिति ।। पश्यति प्राप्नोति चेति ।। उपपूर्वकपद्यतेर्विदश्च ज्ञानप्राप्तिरूपोभयार्थत्वादिति भावः ।
भावदीपः
लवणमिति ।। लवणखण्डमित्यर्थः । मूले मा इत्यस्य मामित्यर्थः । प्रातर्मत्समीपमायाहीत्यर्थः । तद्ध तथा चकारेत्यत्राऽकाङ्क्षित पूरयति- यद्यथा पित्रोक्तमिति ।। क्वचित्पाठ इति ।। तद्धेत्यस्य स्थाने स हेति मूलकोशे क्वचित्पाठ इत्यर्थः । एवमन्यत्रापीति ।। सूत्रभाष्यादावित्यर्थः । ‘अत एव प्राणः’ इत्यत्र ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इति वक्तव्ये श्रीश्च ते लक्ष्मीश्चेति पाठः । तथा दहरनये ‘धृतेश्च’ इति सूत्रे स सेतुर्विधृतिरिति वक्तव्येऽप्येष सेतुर्विधरण इति पाठः । तथा ‘पत्यादिशब्देभ्यः’ इत्यत्र ‘सर्वस्य वशी सर्वस्येशानः’ इति वाच्येऽपि सर्वस्याधिपतिः सर्वस्येशान इति पाठ इत्यादिरिति भावः । अडभावश्छान्दस इति भावेनाऽह- अवधाः अवाधा इति ।। तत्र सूत्रं पठति- बहुलमिति ।। ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः’ इति लुङि परतो धातोरडागमो भवतीत्युक्तस्य ‘न माङ्योगे’ लुङि परतो धातोरडागमो न भवतीत्युक्त्वा छन्दोविषये माङ्योगाभावेऽपि अडागमनिषेधो बहुलं भवतीत्युक्तेः क्वचिदडागमेऽपीह तदभाव इति भावः । तच्छश्वत्संवर्तत इत्यस्यार्थमाह- तल्लवणमिति ।। पितापुत्रयोर्मध्ये को वा एवं वक्तीत्यतो नानयोरन्यतर एवं वक्ति किन्तु पितापुत्रसंवादानुवादपरेयं श्रुतिरेवैवं वक्तीति भावेनाऽह- इति श्रुतेः स्ववाक्यमिति ।। तद्ध तथा चकारेतिश्रुतिवाक्यस्य श्रुत्यभिप्रेतमर्थान्तरमाह- इति वाक्यमिति ।। तदित्यस्यार्थोऽयम् । शश्वदित्यनुवादः, तस्यार्थोऽङ्गेत्याद्यनन्तरमिति । अन्तादाचामे-त्यादिरादिपदार्थः । शङ्कानिरासप्रकारमाह- अनेन यथेत्यादि ।। ६ ।।
अविद्येति ।। अविद्यैव पटलमावरणभूतं वस्तु तेन पिहितं नयनमिव नयनं मनो निजज्ञानं वा यस्य तेने-त्यर्थः । अनेनेति विशेष्यम्, अधिकारिजीवेनेत्यर्थः । समग्रश्रुतिवाक्यस्यार्थमाह- पुरुषमित्यादिना ।। प्रागेव बद्धाक्षमिति धीनिरासायोक्तम्- अक्षिणी बद्ध्वेति यावदिति ।। स यथेत्यत्र तच्छब्दार्थः चोरविसृश्व् इति । ‘ध्मा शब्दाग्निसंयोगयोः’ इति धातुपाठादाह- उच्चैः शब्दं कुर्यादिति ।। ‘यथा सम्यक्तद्वाक्यं श्रुत्वा कश्चित्कृपा-वान्’ इत्यत्र यथेत्यस्य एवमेवेति वक्ष्यमाणेनान्वयः । सम्यगित्यादि तु श्रुतौ शेषोक्तिः । श्रुतौ तस्येत्यस्याभिनहनं प्रमुच्येत्यन्वयः । कथमनेनोक्तशङ्कानिरास इत्यत एवमेवेत्यादिवाक्यतात्पर्योक्त्या शङ्कानिरासप्रकारमाह- अनाद्यविद्यादिभिरिति ।। कामकर्मादिरादिपदार्थः । अनेनाभिनद्धसादृश्यमुक्तम् । अतिजन इत्यादितौल्य-मुक्तम्- संसारे पतित इति ।। एवमग्रेऽपि ।। श्रवणादीनीति ।। मनननिदिध्यासनादिरादिपदार्थः । एतच्च ग्रामाद् ग्रामं गच्छन्नित्यादेस्साम्यप्रदर्शनम् । वेदेत्यस्योपलक्षणत्वं वाऽर्थद्वयं वाऽभिप्रेत्य उक्तम्- पश्यति प्राप्नोति चेति ।। ७ ।।
वाक्यार्थदीपिका
(श्री.टि.)
प्रत्यक्षमिवेति ।। न मुख्यतः प्रत्यक्षमितीवशब्दः । एवमन्यत्रापीति ।। ‘यत्ततोऽन्यद्विभक्तत्वेनैव पश्येत्’ इति वाक्यशेषादित्यादावित्यर्थः । दोषा रात्राविति ।। ननु श्रुतौ दोषायामित्यश्रवणाद्रात्राविति कथं सप्तम्यन्ततया व्याख्यानं कृतमिति चेदुच्यते । दोषेत्यपि सप्तम्येकवचनमेव । दोषा ङि स्थिते ङकारलोपे दोषा इ इति जाते ‘सुपां सु लुक्’ इति आकारादेशे पूर्वसवर्णदीर्घे दोषेत्येव भवति । तथा च रात्राविति व्याख्यानं युक्तमिति द्रष्टव्यम् । नन्ववेत्युपसर्गपूर्वकाद् धा धातोः ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः’ एषु परेषु अङ्गस्याडागमः (श्री.टि.) स्यादिति सूत्रेण लुङ्यडागमे टित्त्वादादौ जाते अवाधा इति स्यात्, न त्ववधा इतीत्यत आह- बहुलं छन्दसीति ।। छन्दस्यडागमो विकल्पेन भवतीत्यर्थः । एवं चात्राडागमो न जात इति भावः । नन्वडभावोऽपि न सम्भवति । तथा हि ‘न माङ्योगे’ माङ्योगे अट् न स्यादिति माङ्योगे एवाटो निषिद्धत्वात् । मैवं वादीः, मा हि भूदित्यादिप्रयोगदर्शनात् । प्रकृते माङ्योगाभावात् कथमडभाव इत्यत उक्तम्- अमाङ्योगेऽपीति ।। छन्दसि माङ्योगाभावेऽपि क्वचिदडागमो न भवतीत्यर्थः । एवं च प्रकृते माङ्योगाभावेऽप्यडागमाभावः छन्दस्त्वादुपपद्यते । अतोऽवधा इत्युपपन्नमिति भावः । अवयवाद् एकदेशात् । एकदेशं स्वल्पं जलम् । आचान्त-वन्तम् आचमनं कृतवन्तम् । संवर्तत इति ।। कार्यात्मना नाशेऽपि कारणात्मना सम्यग्वर्तत इत्यर्थः । इत्याद्य-नन्तरमित्यादिपदेनान्तादाचामेति मध्यादाचामेति अन्त्यादाचामेतीति वाक्यत्रयं ग्राह्यम् । इति वेति ।। तच्छ-श्वत्संवर्तत इति वाक्यस्यार्थ इत्यर्थः । कथमनेनोक्तशङ्कापरिहार इत्यत आह- अनेनेति ।। भगवानिति ।। न दृश्यत इत्यर्थः ।। ६ ।।
ननु धनिकपुरुषस्याभिनद्धाक्षमिति भूतार्थकक्तप्रत्ययान्तं विशेषणमुक्तम् । तेन चोरैरानयनात्पूर्वमेव तस्याक्षि-बन्धनमन्येन कृतमभूदित्यक्षिबन्धनस्यान्यकर्तृकत्वं प्रतीयते, अन्यथाऽभिनद्धाक्षमित्यनुवादायोगादिति प्रतीतिपरिहाराय क्तप्रत्ययस्य वर्तमानार्थत्वमभिप्रेत्याक्षिबन्धनस्य चोरकर्तृकत्वज्ञापनाय व्याचश्व्े- अक्षिणी बद्ध्वेति यावदिति ।। नायमक्षिबन्धनानुवादः किन्तु तद्विधिरेवेत्यर्थः । एवं सत्यक्षिबन्धनानयनयोरुभयोरपि चोरकर्तृकत्वेन समानकर्तृकत्वाद् बद्ध्वेति क्त्वाप्रत्ययोपपत्तिरिति भावः । उच्चैः शब्दमिति ।। ‘ध्मा शब्दाग्नि-संयोगयोः’ इति धातोरिति भावः । एतां दिशमिति द्वितीया सप्तम्यन्तत्वेन व्याख्याता । तत्र किं नियामकमित्यत आह- व्यत्यय इति ।। बहुलं विभक्तीनां व्यत्ययो भवतीति सूत्रार्थः । स्मृतिमानिति ।। दिग्विशेषावस्थित-गन्धारदेशप्राप्तिहेतुतदुपदिष्टमार्गस्मृतिमानित्यर्थः । तद्विस्मृतौ गन्धारोपसम्पत्त्ययोगादिति भावः । दार्ष्टान्तिके जीवेऽभिनद्धाक्षत्वं दर्शयितुमनाद्यविद्यादिभिराच्छादितनिजज्ञान इत्युक्तम् । संसारेत्यरण्यप्रतिनिधिवचनम् । प्राध्मायीतेत्युक्तस्य तात्पर्यतः प्रतिनिधिवचनम्- जातजिज्ञास इति ।। स ग्रामादित्यादिनोक्तस्य प्रतिनिधि-वचनम्- क्रमापन्नानीति ।। क्रमप्राप्तानीत्यर्थः । गन्धारानेवेत्यस्य दार्ष्टान्तिकम्- जन्मभूमिमिति ।। स्वरूपा-विर्भावेनावस्थानभूतमित्यर्थः । उपसम्पद्यत इत्यस्य प्रतिनिधितया दार्ष्टान्तिके उक्तस्य पुरुषो वेदेत्यस्यार्थः- पश्यति प्राप्नोति चेति ।। उपपूर्वकस्य पद्यतेर्ज्ञानप्राप्तिरूपोभयार्थत्वात् पुरुषो वेदेत्युक्तविदेरपि वेदनलाभोभ-यार्थकत्वादिति भावः ।। ७ ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु ‘न माङ्योगे’ इति माङ्योगेऽडागमनिषेधेऽपि तदयोगे तदनिषेधात् ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः’ इत्यडागमे अवाधा इति भवितव्यम् । अवधा इति तु कथमित्यतः ‘बहुलं छन्दसि’ इति सूत्रे अमाङ्योगेऽपि छन्दस्यटो बाहुलकत्वोक्त्या वैकल्पिकत्वेन नित्यत्वाभावाद्युक्तोऽत्राडागमाभाव इ ति भावेनाऽह- बहुल-मिति ।। श्रुतेस्स्ववाक्यमिति ।। न तु पित्रादिवाक्यमित्यर्थः । उक्तयोजनायां पितृपुत्रसन्दर्भमध्यनिवेशानुपपत्तिं (पां.टि.) मनसि निधाय प्रकारान्तरेण योजनामाह- तद्धेति ।। आदरार्थमिति ।। ततश्च ‘अत्र वाव किल सोम्य’ इत्यनेन न पुनरुक्तिरिति भावः । अक्षिबन्धनस्य चोरकर्तृकत्वेन पूर्वमसत्त्वेनाभिनद्धाक्षस्यानानयनात् कथं तथाऽनुवाद इत्यतः तदभिप्रायमाह- अक्षिणी बद्ध्वेति यावदिति ।। ननु एतां दिशमिति द्वितीयायाः कथमस्यां दिशीति सप्तम्यर्थतया व्याख्यानमित्यत आह- व्यत्यय इति ।। अत्र सूत्रे ‘छन्दसि शायजपि’ इति पूर्वसूत्रात् छन्दस्यपीत्यस्यानुवृत्तेः छन्दसि व्यत्ययो भवति अपिशब्दाद्यथाप्राप्तञ्चेत्येतावतैवेष्टसिद्ध्या बहुल-ग्रहणानर्थक्यमाशङ्क्य ‘बहुलग्रहणं सर्वविधिव्यभिचारार्थम्’ इति वृत्तौ प्रकृताप्रकृतसर्वविधिव्यत्ययलक्षणव्यभि-चारार्थत्वं बह्वर्थादानप्रवृत्तिनिमित्तकबहुलग्रहणस्य प्रदर्श्य तत्सङ्ग्राह्यप्रदर्शनपरतया उदाहृते ‘सुप्तिङुपग्रहलिङ्ग-नराणाम्’ इत्यादिश्लोके सुप्शब्देन विभक्तिव्यत्ययस्यापि सङ्ग्रहात् सप्तम्यर्थे द्वितीयाया द्वितीयार्थे सप्तम्याश्च विधानसिद्ध्या युक्तं द्वितीयायाः सप्तम्यर्थतया छन्दसि व्याख्यानमिति भावः । ननूपसम्पद्यत इति प्राप्तिमात्रस्य श्रवणात् कथमनेन प्राप्यते दृश्यते च इति शङ्काद्वयपरिहार इत्यत उपसम्पद्यत इति परिहारवाक्यं दर्शन-प्राप्त्युभयपरतया व्याचश्व्े- पश्यति प्राप्नोति चेत्यादि ।।
लघुप्रभा
(व्या.टि.)
‘कथं दृश्येत तच्छक्तिः पृथक्तस्य ह्यदर्शने ।
इति भावयितुं प्राह पुत्रमुद्दालकः पुनः ।।’
इति छान्दोग्यभाष्यदिशा षष्ठप्रकरणमवतारयति- ननु चेति ।। तद्ध तथेति पाठे साकाङ्क्षत्वाच्छेषं पूरयति- यद्यथेति ।। एवमन्यत्रापीति ।। ‘तानि वा एतान्यवराणि तपासि’ इति गीतातात्पर्यादावित्यर्थः । स्मरणा-दिति ।। अडभाव इति शेषः । अजनिष्ठा इत्यत्राडभावे ‘जनिष्ठा उग्रः सहसेतुराय’ इत्युदाहरणादिति भावः । न विवेद न लेभे । आचामेति ।। ‘ष्टिवुक्लमुचमां शिति’ इति सूत्रे ‘आङि चम इति वक्तव्यम्’ इति वार्तिकाद् दीर्घ इति भावः । उपसीदथा इति ।। उपग्रहव्यत्ययः । यथोक्तं महाभाष्ये ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ इत्यादि ।
‘यथाऽप्सु लवणं व्याप्तं रसदृष्ट्यैव दृश्यते ।
एवं चेतनगो विष्णुस्तद्भिन्नोऽपि न दृश्यते ।।’
इति तद्भाष्योक्तभावमाह- अनेनेति ।। ‘कथं स ज्ञायते विष्णुर्भिन्न इत्यत्र चाब्रवीत्’ इति भाष्यानुसारेण सप्तममवतारयति- एवंविधो हरिरित्यादिना ।। पटलं जवनिका । अभिनद्धाक्षमिति व्याचश्व्े- अक्षिणी बद्ध्वेति ।। अनेन ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्’ इति समासान्तः षच्प्रत्यय इत्युक्तं भवति । उच्चैः शब्दमिति ।। ‘ध्मा शब्दे’ इति धातोः सम्भावनायां लिङिति भावः । कृपावानिति ।। अत्रादुपधत्वाभावात् कथं वत्वमिति न शङ्क्यम् । ‘मादुपधायाश्च’ इत्यस्य ‘मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च’ इति व्याख्या-नात् । अभिनहनप्रमोचनेन कृपा ज्ञायत इति भावः । नन्वधिकरणे कथं द्वितीयेत्यत आह- व्यत्यय इति ।। निर्गत्येति ।। गमनक्रियापादानत्वाद् ग्रामशब्दे पञ्चमीति भावः । मेधावीति ।। ‘अस्मायामेधास्रजो विनिः’ इति मत्वर्थीयो विनिरिति भावः ।
(व्या.टि.) ‘यथैवान्योपदेशेन बद्धाक्षः स्वगृहं व्रजेत् ।
तथाऽऽचार्योपदेशेन भिन्नमीशं व्रजेत्पुमान् ।।’
इति तद्भाष्यानुरोधेनैवमेवेति प्रतिवचनं व्याचश्व्े- अनाद्यविद्येति ।। ‘अनादिमायया सुप्तः’ इति श्रुतेरिति भावः। आदिपदेन कामादिकम् ‘तथा तेनेदमावृतम्’ इत्युक्तेः । परमेश्वरानुग्रहादिति ।। ‘परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत्’ इति अतो जिज्ञासेति सूत्रखण्डव्याख्यानादिति भावः । क्रमापन्नानीति ।। ‘श्रुत्वा मत्वा तथा ध्यात्वा’ इति श्रौतक्रमापन्नानीत्यर्थः । जन्मभूमिमिति ।। ‘यो नः पिता’ इति श्रुतेरिति भावः ।