सर्वाविवादस्थल एव ..

बहुप्रमाणविरोधेनैक्यागमाप्रामाण्यसमर्थनम्

मूलम्

- सर्वाविवादस्थल एव कथञ्चिदनुवादकत्वम् । नचात्र सर्वाविवादः, एकत्व-वादिनामेव विवाददर्शनात् । बहुप्रमाणविरोधे चैकस्याप्रामाण्यं दृष्टं शुक्तिरजतादौ । नच दोषजन्यत्वादेव दुर्बलत्वमिति विरोधः । बहुप्रमाणविरुद्धानां दोषजन्यत्व-नियमात् । दोषजन्यत्वं च बलवत्प्रमाणविरोधादेव ज्ञायते ।

तत्त्वमञ्जरी

एवं तर्ह्यनुवादित्वं नाम किञ्चिन्नास्ति युष्मत्पक्ष इत्यत आह- सर्वेति ।। अविवादस्थले ‘अग्निर्हिमस्य भेषजम्’ इत्यादौ । तत्पक्षे त्वप्रामाण्यप्राप्तं ह्यनुवादकत्वम्; तद्व्यवच्छेदाय कथञ्चिदित्याह । न तादृशमनुवादकमित्यर्थः । यथार्थमात्रस्यैव प्रामाण्याभ्युपगमात् । अत्र जीवेश्वरभेदप्रत्यक्षादिविरोधादभेदागमस्य दौर्बल्यं दृष्टान्तत आह- बह्विति ।। शुक्तिरजतप्रत्यक्षस्य तु दोषजन्यत्वाद् दुर्बलत्वं न बहुप्रमाणविरोधादित्यत आह- न च दोषेति ।। दोषजन्यत्वं चेत्यादेरयमर्थः । न केवलं बहुप्रमाणविरुद्धत्वमात्रेण दोषजन्यत्वमागमार्थत्वेनाभिमत-जीवेश्वराभेदज्ञानस्य । किन्तु प्रत्यक्षादीनां जीवेश्वरभेदप्रमाणानामुक्तभङ्ग्योपजीव्यत्वेन बलवतां विरोधाच्च ज्ञायत एव । अथवा कथमिदं प्रमाणानां दोषजन्यत्वं ज्ञायत इत्याकाङ्क्षायामुपजीव्यत्वेन बलाबलप्रमाणानां विरोधादेव ज्ञायत इति ।

टीका  

यद्येवं द्वितीयादिप्रमाणस्य दार्ढ्यहेतुत्वात् प्रयोजनवत्त्वेन नानुवादकत्वं तर्हि कुत्रापि तन्न स्यात् । सर्वत्र दार्ढ्यस्य वक्तुं शक्यत्वात् । तथाच सिद्धसाधनादेरदूषणत्वं स्यात् । तस्यानुवादकत्वे प्रकृतेऽपि किं न भवेदित्यत आह- सर्वेति ।। अविवादपदेन शङ्काकारणाभावं लक्षयति । कथञ्चिदित्यनेनेदमाचश्व्े - निःशङ्कं प्रमितेऽर्थे पुनः प्रयुज्यमानस्य परार्थानुमानस्य वाक्यस्य वा वैयर्थ्यदोषो न स्वार्थानुमानस्य प्रत्यक्षस्य वा तयोः पुरुषानधीनत्वादिति । अत एव पूर्वं बहूनामिति दर्शन इति चोक्तम् । ततः किं प्रकृत इत्यत आह- नचात्रेति ।। अत्र जीवेश्वरभेदे । येन द्वितीयादिप्रमाणानां वैयर्थ्यं स्यादिति शेषः । कुतो नेत्यत आह- एकत्वेति ।। एवशब्देन विवादस्य सुप्रसिद्धतां द्योतयति, एकत्वादिवादानामनादित्वात् । तदनेन बहुत्वप्रमाणत्वयोः समावेशः समर्थितः । तथापि बहुप्रमाणविरोधेनैक्यागमस्याप्रामाण्यं कुतः? प्राबल्यानिश्चयेन वैपरीत्यस्यापि सम्भवादित्यत आह- बहुप्रमाणेति ।। शुक्तिकां रजतत्वेन दूरात् प्रतीत्य ‘नेदं रजतं किन्तु शुक्तिकैव’ इत्याप्तवाक्यं शृणोति । ततः समीपं गतः प्रत्यक्षेणापि शुक्तिरेवेति पश्यति । पाटनदहनादिलिङ्गेन तथैवानुमिनोति । ततो बहुप्रमाणविरोधेनैकस्य रजतज्ञानस्याप्रामाण्यमेव निश्चिनोतीति प्रसिद्धमेव । तेनैकस्यानेकस्माद्दुर्बलत्वमिति ।

एतदुक्तं भवति । ऐक्यवाक्यमप्रमाणं बहुप्रमाणविरुद्धत्वाच्छुक्तिरजतज्ञानवदिति । ननु शुक्तिकारजतज्ञानस्य दुर्बलत्वमप्रामाण्यं च दोषजन्यत्वप्रयुक्तमेव न बहुतरप्रमाणविरुद्धत्वप्रयु-क्तम् । यदप्रमाणं तद्दोषजन्यमिति साध्यव्यापकत्वात्, साधनवत्यपि पक्षेऽपौरुषेयतया दोषशङ्का-भावेन साधनाव्यापकत्वाच्चेत्यत आह- नच दोषेति ।। विरोधः सोपाधिकत्वरूपोऽनुमानस्य कुतो नेत्यतः साधनव्यापकत्वादित्याह- बहुप्रमाणेति ।। बहुवचनेन नियममेव प्रकटयति । अत्रैक्यवाक्यजनितं ज्ञानं हि पक्षः । तस्य पूर्वोत्तरपरामर्शशून्यतादिदोषजन्यत्वं सम्भवत्येव । अवश्यं चैतत्साधनव्यापकत्वं परेणाप्यङ्गीकार्यमित्याशयवानाह- दोषजन्यत्वमिति ।। शुक्तिरजतज्ञानानां हि दोषजन्यत्वमुपाधेः साध्यव्यापकत्वसिद्ध्यर्थमवश्यं परेणाप्यङ्गीकार्यम् । तत् कुतो ज्ञायत इति वक्तव्यम् । न तावत्प्रत्यक्षेण, जन्यजनकभावस्य सर्वत्रातीन्द्रियत्वात् । नाप्यन्वयव्यतिरेकानुमेयम्, इन्द्रियाणामतीन्द्रियत्वेन तद्दोषाणामप्यतीन्द्रियत्वात् । नाप्य-प्रमाणत्वेन, तज्ज्ञानेऽप्युपायाभावात् । नचात्राऽगमोऽस्ति  । अतो बलवत्प्रमाणविरुद्धत्वादेव दोषजन्यत्वं तत्रानुमेयम् । ततो यद्बलवत्प्रमाणविरुद्धं तद्दोषजन्यमिति व्याप्तिरङ्गीकार्या । बलवत्त्वं च बाधकप्रमाणस्योपजीव्यत्वनिरवकाशत्वाभ्यामिव बहुत्वेनाप्यङ्गीकरणीयं सर्वत्रोपजीव्य-त्वादेरभावात् । तथाच बहुप्रमाणविरुद्धत्वस्य दोषजन्यत्वेन व्याप्तिः सर्वथा स्वीकार्येति साधन-व्यापकत्वान्ना(न्न त) स्योपाधित्वमिति ।

भावबोधः

ननु न विवादपदोक्तविप्रतिपत्तिरेव शङ्काकारणम् । समानधर्मादेरन्यस्यापि सम्भवादित्यत आह- अविवादपदेनेति ।। अत एव पूर्वमिति ।। सत्यां शङ्कायां परार्थानुमानवाक्ययोः, शङ्कायां निवृत्तायामपि प्रत्यक्षस्वार्थानुमानयोरव्यर्थत्वादेवेत्यर्थः । यदि शङ्कायामपि परार्थानुमानवाक्ययोरनपेक्षितत्वेन वैयर्थ्यं तर्हि बहूनां वचनं नाऽद्रियेतेति पूर्वं बहूनामिति नोच्येत । यदि वा प्रत्यक्षं शङ्काभावदशायां व्यर्थं तदा बहुभिर्वचनैर्निःशङ्कं प्रमितेऽर्थे विश्वासहेतुत्वेन दर्शनं नोच्येत । अतः सर्वाविवादस्थल एवेत्यस्योपपादनार्थं बहूनामिति, कथञ्चिदित्यस्योपपादनार्थं दर्शन इति चोक्तमित्युक्तं भवति । इदानीन्तनैक्यवादिविप्रतिपत्तिजशङ्कापनोद-नायानादिवेदप्रवृत्तिः कथमित्याशङ्कानिवर्तकत्वेनावधारणं योजयति- एवशब्देनेति ।। नन्वत्रानुमानस्यानुक्त-त्वात् ‘नच दोषजन्यत्वात्’ इत्यनेनोपाधिशङ्कापरिहारोऽसङ्गत इत्यत आह- एतदुक्तं भवतीति ।। ‘बहुप्रमाण-विरोधे च’ इति व्याप्तिकथनेनैतदनुमानमुक्तं भवतीत्यर्थः । ननु ‘बहुप्रमाणविरुद्धानाम्’ इत्यनेन बहुप्रमाण-विरुद्धत्वेन दोषजन्यत्वं पक्षे प्रसाध्य यत्साधनव्यापकत्वमुक्तं तदयुक्तम् । दोषजन्यत्वसाधनेऽप्रामाण्यस्योपा-धित्वसम्भवेन तयोर्व्याप्त्यसम्मतेरित्याशङ्कापरिहारकत्वेन ‘दोषजन्यत्वं च’ इति वाक्यमवतार्य व्याचश्व्े- अवश्यं चैतदिति ।। तज्ज्ञान इति ।। यदि प्रमाणविरुद्धत्वमेवाप्रामाण्यज्ञानोपायस्तदा पक्षेऽपि पररीत्यैव साध्योपाध्योः स्वत एव सत्त्वं स्यादिति भावः ।

भावदीपः

तन्न स्यादिति ।। अनुवादकत्वं न स्यादित्यर्थः । सर्वेषामविवादस्थलेऽपि स्वस्य कारणान्तरवशेन शङ्का भवत्येवेति अत्रानुवादकत्वोक्तिः प्रागुक्तविरुद्धेत्यत आह- अविवादपदेनेति ।। अत एवेति ।। प्रमितार्थज्ञापकत्वस्यान्यत्र दोषत्वेऽपि प्रत्यक्षे दोषत्वं नास्तीत्यस्यार्थस्य सूचनार्थत्वादेवेत्यर्थः । नन्वाधुनिकैकत्व-वादिविवादप्राप्तशङ्काव्युदासाय अनादिसाक्षिभेदागमयोः कथं प्रवृत्तिरित्यत आह- एकत्वादिवादानामिति ।। व्यक्तमेतत्समयपादीयानुव्याख्याने । तदनेनेति ।। ‘बहूनां वचने’ इत्यादिग्रन्थेनेत्यर्थः । एतेन ‘बहुत्वे प्रामाण्याभावात्’ इत्यादि प्रागुक्तं निरस्तम् । दृष्टान्तोक्त्या लब्धं प्रयोगमाह- एतदुक्तमिति ।। उक्तप्रयोगे सोपाधिकत्वमाशङ्क्य तन्निरासकतया मूलमवतारयति- नन्वित्यादिना ।। पक्ष इति ।। ऐक्यवाक्य इत्यर्थः । नियममेवेति ।। यद्बहुप्रमाणविरुद्धं तद्दोषजन्यमिति व्याप्तिमेवेत्यर्थः । ननूक्तम् ‘अपौरुषेयतया दोषशङ्काभावेन’ इति तत्राऽह- अत्रैक्यवाक्येत्यादि ।। जन्यत्वोपपादनायोक्तम्- ज्ञानं हि पक्ष इति ।। प्रत्यक्षेणेति ।। ज्ञानगतदोषजन्यत्वं ज्ञानत्वमिव न प्रत्यक्षेण ज्ञातव्यमित्यर्थः । नाप्यन्वयेति ।। दोषे सति शुक्तौ रजतज्ञानमन्यथा नेत्येवमित्यर्थः । नाप्यप्रमाणत्वेनेति ।। दोषजन्यत्वमनुमेयमित्यनुषङ्गः । दोषजन्यत्वेन व्याप्तिरिति ।। एतेन ‘नियममेव प्रकटीकरोति’ इत्युक्तं विवृतं ज्ञेयम् ।

वाक्यार्थदीपिका

(श्री.टि.)

दार्ढ्यहेतुत्वेन प्रयोजनवत्त्वेन दार्ढ्यहेतुत्वरूपप्रयोजनवत्त्वेन । तस्यानुवादकत्व इति ।। सिद्ध-साधनस्यानुवादकत्वेन दूषणत्वे प्रकृते भेदागमस्याप्यनुवादकत्वेन दूषणत्वं स्यादित्यर्थः । ननु विवादपदोक्त-विप्रतिपत्तिरेव न शङ्काकारणम् । समानधर्मादेरन्यस्यापि सम्भवादित्यत आह- अविवादपदेनेति ।। सर्वाविवाद-स्थल एवेत्यस्य प्रथमप्रमाणेनैव यत्रार्थो निश्शङ्कं प्रमितस्तादृशस्थल एवेत्यर्थो द्रश्व्व्यः । वैयर्थ्यदोष इति ।। वैयर्थ्यरूपोक्तदोष इत्यर्थः । स्वार्थेति ।। परार्थानुमानवाक्ययोः परज्ञापनार्थत्वेन परेण तस्यार्थस्य निःशङ्कं प्रमितत्वेन वैयर्थ्यदोषः । ‘सन्दिग्धविपर्यस्तान्यतरं प्रत्येव वाक्यपरार्थानुमानयोरर्थवत्त्वात्’ इति वचनात् । स्वार्थानुमानस्य प्रत्यक्षस्य वा निःशङ्कं प्रमितेऽप्यर्थे पुनः प्रवर्तमानस्य वैयर्थ्यं न दोष इत्यर्थः । कुत इत्यत आह- तयोरिति ।। स्वार्थानुमानप्रत्यक्षयोरित्यर्थः । न हि सामग्री बुद्धिमती, येन यन्मया कर्तव्यं तदन्येन कृत-मित्यवेक्ष्योदासीतेति भावः । तथाच परार्थानुमान एव सिद्धेः प्रतिबन्धकत्वं न स्वार्थानुमान इत्यवधेयम् । नच स्वार्थानुमाने सन्देहघटितपक्षलक्षणाभावः शङ्क्यः । अनुमितिविषयः पक्ष इति पक्षलक्षणस्य तत्रापि सत्त्वात् । नच साध्येऽतिव्याप्तिः, विषयशब्दस्य विशेष्यपरत्वात् । तथाचानुमितिविशेष्यः पक्ष इति पक्षलक्षणं द्रष्टव्यम् । यथोक्तं सुधायां भक्तिपादे ‘परमार्थतस्तु अनुमितिविषयः पक्षः’ इति । अत एवेति ।। सत्यां शङ्कायां परार्थानुमानवाक्ययोर्निःशङ्कं प्रमितेऽप्यर्थे प्रत्यक्षस्वार्थानुमानयोरव्यर्थत्वादेवेत्यर्थः । तथाहि - यदि सत्यामपि शङ्कायां परार्थानुमानवाक्ययोरनपेक्षितत्वेन वैयर्थ्यं स्यात्तर्हि बहूनां वचनं शङ्कानिवर्तकत्वेन नाद्रियेतेति पूर्वं बहूनामिति नोच्येत । तेन ज्ञायते सत्यां शङ्कायां तयोर्न वैयर्थ्यमिति ।। यदि च प्रत्यक्षं निःशङ्कं प्रमितेऽप्यर्थे व्यर्थं स्यात्तदा बहूनां वचनैर्निःशङ्कं प्रमितेऽप्यर्थे विश्वासहेतुत्वेन दर्शनं नोच्येत । तेन ज्ञायते शङ्काभावदशायां न प्रत्यक्षस्य वैयर्थ्यमिति । नन्विदानीन्तनैक्यवादिविवादजनितशङ्कापनोदायानादिवेदप्रवृत्तिः कथमित्यत आह- एकत्वादिवादानामिति ।। अनादित्वात् प्रवाहतोऽनादित्वात् । ‘शौद्धोदनिप्रभृतयः सम्प्रदायप्रवर्तकाः’ इति वचनादिति भावः । यथोक्तमनुव्याख्याने-

अनादिकालतो वृत्ताः समया हि प्रवाहतः ।

न चोच्छेदोऽस्ति कस्यापि समयस्य’ इति ।

।। तदनेनेति ।। बहुप्रमाणानामेकविषयत्वमङ्गीकृत्य दार्ढ्यहेतुतया वैयर्थ्याभावसमर्थनेनेत्यर्थः । वैपरीत्य-(श्री.टि.) स्यापीति ।। ऐक्यागमविरोधेन बहूनां प्रत्यक्षादीनामेवाप्रामाण्यसम्भवादिति भावः । पाटनं छेदः। अनुमिनोतीति ।। इयं शुक्तिः दाहच्छेदादिमत्त्वादित्यनुमिनोतीत्यर्थः । ननूक्तरीत्या शुक्तिरजतज्ञानस्या-प्रामाण्येऽपि ऐक्यागमप्रामाण्ये किमायातमित्यतः तद्दृष्टान्तेन तदप्यनुमेयमित्याह- एतदुक्तं भवतीति ।। ऐक्यवाक्यमिति ।। तज्जनितं विज्ञानमित्यर्थः    अनुमाने दोषजन्यत्वरूपमुपाधिमाशङ्कते- नन्विति ।। प्रकटयतीति ।। ‘बहुप्रमाणविरुद्धानाम्’ इति बहुवचनस्य भूयोदर्शनप्रदर्शनपरत्वादिति भावः । पूर्वोत्तरेति ।। उपक्रमोपसंहारेत्यर्थः । साधनव्यापकत्वमिति ।। यत्र बहुप्रमाणविरुद्धत्वं तत्र दोषजन्यत्वमिति साधन-व्यापकत्वमित्यर्थः । अतीन्द्रियत्वादिति ।। तस्य कालादिघटितत्वादिति भावः । तद्दोषाणामप्यतीन्द्रियत्वा-दिति ।। शुक्तिरजतादिज्ञानं दोषे सति जायते, दोषाभावे न जायते इत्यन्वयव्यतिरेकाभ्यां शुक्तिरजतादिज्ञानस्य दोषजन्यत्वं ज्ञातव्यम् । तन्न सम्भवति । इन्द्रियाणामतीन्द्रियत्वेन तदाश्रितानामन्वयव्यतिरेकप्रतियोगिनां दोषाणामप्यतीन्द्रियत्वेन ज्ञातुमशक्यतयाऽन्वयव्यतिरेकयोर्दुर्ज्ञानत्वादिति भावः । नापीति ।। शुक्तिरजतादि-ज्ञानं दोषजन्यम् अप्रमाणत्वादित्यनुमानेनेत्यर्थः । तज्ज्ञानेऽपीति ।। शुक्तिरजतादिज्ञानस्याप्रामाण्य-ज्ञानेऽपीत्यर्थः । नच दोषजन्यत्वमेव तज्ज्ञानोपाय इति वाच्यम् । अन्योन्याश्रयादिति भावः । न चात्रेति ।। शुक्तिरजतादिज्ञानस्य दोषजन्यत्व इत्यर्थः । ननु बलवत्प्रमाणविरुद्धत्वस्यैव दोषजन्यत्वव्याप्तिः प्राप्ता, न तु बहुप्रमाणविरुद्धत्वस्येत्यत आह- बलवत्त्वं चेति ।। नास्योपाधित्वमिति ।। ऐक्यवाक्यजनितं विज्ञानमप्रमाणं बहुप्रमाणविरुद्धत्वाच्छुक्तिरजतज्ञानवदित्यनुमाने दोषजन्यत्वस्योपाधित्वं नास्तीत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु विवादपदोक्तविप्रतिपत्तिरेव न शङ्काकारणम् । समानधर्मादेरन्यस्यापि तत्कारणस्य सत्त्वात् । ततश्च संशयकारणाभावस्थल अनुवादकत्वमित्येव वक्तव्यत्वात्तथाऽनुक्त्वा तत्कारणविशेषविवादाभावस्थल इत्युक्तिरनुपपन्नेत्यतोऽत्राविवादपदस्य लक्षणया संशयकारणाभावपरत्वान्नानुपपत्तिरित्याह- अविवादपदे-नेति ।। अत एवेति ।। निःशङ्कं प्रमितेऽर्थ एव पुनः प्रयुज्यमानवाक्यवैयर्थ्यस्य दोषत्वेन, साशङ्कं प्रमितेऽर्थे पुनः प्रयुज्यमानस्य वाक्यस्य व्यर्थताया अदोषत्वादेव ‘बहूनां वचने’ इति साशङ्कं प्रतिपन्नेऽप्यर्थे प्रवृत्तद्वितीयस्यापि दार्ढ्यहेतुत्वेन सार्थकत्वमुक्तम् । अन्यथा तन्न स्यादिति भावः । एवमत एव निःशङ्कं प्रमितेऽप्यर्थे प्रवर्तमानस्य प्रत्यक्षस्याव्यर्थत्वादेव ‘बहूनां वचने’ इत्यनेन निःशङ्कत्वस्य सिद्धत्वेऽपि ‘दर्शने दार्ढ्यस्यैव दृश्व्ेः’ इति सार्थकत्व-मुक्तम् । निःशङ्कं प्रमितेऽर्थे प्रत्यक्षस्य व्यर्थत्वे तु तन्न स्यादिति भावः । यद्वा परार्थानुमानवाक्ययोः पुरुषाधीनत्वं प्रत्यक्षस्वार्थानुमानयोस्तु तदनधीनत्वमित्येतत् कुत इत्यत आह- अत एवेति ।। वाक्यस्य पुरुषाधीनत्वादेव बहूनामित्यनेन वचनकर्तृविशेषः कथितः । प्रत्यक्षस्य तदनधीनत्वादेव च ‘दर्शने’ इत्यत्र कर्तृविशेषानुक्तिः । अन्यथा  वचन  इव  दर्शनेऽपि कर्तृविशेषसमर्पकं पदं वक्तव्यं स्यात्    दर्शन इव वचनेऽपि वा कर्तृविशेषो नोच्येत । दर्शने कर्तृविशेषानभिधानं वचने तदभिधानं च प्रत्यक्षस्य पुरुषाधीनत्वं वाक्यस्य तदधीनत्वं बोधयतीति भावः । नन्विदानीन्तनैक्यवादिविप्रतिपत्तिजन्यशङ्कानिरासाय कथमनादिवेदप्रवृत्तिरित्यत आह- एकत्वादि-(पां.टि.) वादानामिति ।। तथाच प्रवाहतोऽनादिभूतैकत्वादिवादविप्रतिपत्तिजन्यसंशयस्य सार्वकालिकत्वात् तन्निरासाय प्रवृत्तिर्युक्तेति भावः । हेतुदृष्टान्तोक्त्या, उत्तरत्र चोपाधिमाशङ्क्य परिहारेण च सूचितमनुमानप्रयोगं दर्शयति- एतदुक्तं भवतीति ।। नन्वपौरुषेयत्वात् पक्षीकृतैक्यवाक्यस्य दोषजन्यत्वाभावान्न साधनव्यापकत्व-मुपाधेरित्यत आह- अत्रेति ।। तथात्वाद् अतीन्द्रियत्वात् । तज्ज्ञानेऽप्युपायाभावादिति ।। दोषजन्यत्वस्यैव तज्ज्ञानोपायत्वे च स्फुटमन्योन्याश्रयत्वमिति भावः । न चाऽगमोऽस्तीति ।। अनुपलम्भादिति भावः ।

लघुप्रभा

(व्या.टि.)

एकार्थानामपि द्वितीयादिप्रमाणानां दार्ढ्यहेतुत्वेनावैयर्थ्येऽतिप्रसङ्गमाशङ्कते- यद्येवमिति ।। नानु-वादकत्वमिति ।। अत्र मूले टीकायां चानुवादकत्वबीजवैयर्थ्यं तच्छब्देनोपचर्यते ‘आयुर्वै घृतम्’ इतिवत् । प्रतिपन्नार्थप्रतिपादकवाक्यवाचकमप्यनुवादकपदं सामान्यपरं वा ‘गोतो णित्’ इतिवत् । सिद्धसाधना(त्वा)-देरिति ।। आदिपदेनाधिकं नाम निग्रहस्थानं गृह्यते । अनुवादकत्व इति ।। पूर्ववद् द्वेधा व्याख्येयम् । सार्वत्रिकानुवादकत्वबीजलाभाय व्याचश्व्े- अविवादपदेनेति ।। लक्षयति उपलक्षयति । सामान्यविशेषभावादिति भावः । कथञ्चित् केनापि प्रकारेण न सर्वेणेति प्रकारविशेषेण वैयर्थ्यमुक्तमित्यभिप्रेत्य तं प्रकारं दर्शयति- निःशङ्कमिति ।। परार्थानुमानस्येति ।। परार्थानुमानवाक्यत्वे एव निःशङ्के प्रवर्तमानवैयर्थ्यावच्छेदकप्रकारौ, नान्यः प्रकार इत्यमुमर्थमाहेत्यर्थः । कुतोऽयं विभागो विज्ञेय इत्यत आह- तयोरिति ।। परार्थानुमानवाक्ययो-रित्यर्थः । परबुबोधयिषया प्रवृत्त्याः पुरुषाधीनत्वादित्यर्थः । अन्ययोः स्वसामग्य्राधीनत्वेन पुरुषानधीनत्वादित्यपि योज्यम् । तज्ज्ञापकमाह- अत एवेति ।। एकवचने विश्वासे परस्य वैयर्थ्यमेवेति प्रकाशयितुं बहूनामित्युक्तम् । अनेन साशङ्कस्थल एव वचनान्तरस्य सार्थक्यमुक्तं भवति । बहुवचनेन, निःशङ्केऽपि दर्शनेऽस्य दार्ढ्यहेतुत्वोक्त्या निःशङ्कं प्रमितेऽपि प्रत्यक्षस्य सार्थक्यमुक्तमित्यर्थः । यद्वा अत एव वचनस्य पुरुषाधीनत्वादेव, वचने बहूनामिति कर्त्रुक्तिः । प्रत्यक्षस्यानधीनत्वादेव दर्शनकर्तुरनुक्तिरिति भावः । ‘सामान्यापेक्षं ज्ञापकम्’ इति न्यायेन दर्शनस्वार्थानुमानयोर्निःशङ्केऽप्यर्थे प्रवृत्तमानयोर्न वैयर्थ्यमिति ज्ञायत इति भावः । अत्र मूलेऽविवादेत्यर्थाभावे नञ्समासोऽव्ययीभावो वा । ‘रक्षोहागमलघ्वसन्देहाः प्रयोजनम्’ ‘अद्रुतायामसंहितम्’ इति च भाष्यवार्तिके प्रयोगेणास्य विकल्पज्ञापनात् । अत्रेत्येतच्छब्दपरामृष्टं दर्शयति- जीवेश्वरेति ।। न विवादिनो यत्नतो गवेषणीया इत्यनभिमतं व्यवच्छिन्दतैवकारेण प्रसिद्धिरर्थाद् द्योतितेत्याह- एवशब्देनेति ।। ननु सादेर्विवादस्य कथमनादिप्रवृत्तागमवैयर्थ्यहेतुत्वमित्यत आह- एकत्वेति ।। अनादित्वादिति ।। प्रवाहत इति शेषः । ‘अनादि-कालतो वृत्ताः समया हि प्रवाहतः’ इत्युक्तेरिति भावः । ननु द्वितीयादिप्रमाणावैयर्थ्यसमर्थनेन किं लब्धमित्यत आह- तदनेनेति ।। प्राबल्यनिश्चायकाभावेन बहुत्वस्य प्राबल्यहेतुत्वानिश्चयात् बहुनैकस्य कुतो बाधः, एकेन बहुबाधः किं न स्यादित्याशङ्कते- तथाऽपीति ।। प्राबल्येति ।। बहुप्रमाणस्येति शेषः । लिङ्गेन स्वार्थानु-मानेन । प्रसिद्धमेवेति ।। सर्वानुभवसिद्धमित्यर्थः । तेनेति ।। प्रसिद्धकार्यलिङ्गेनेत्यर्थः । सिद्धमिति ।। अनुमतमित्यर्थः । फलबलकल्प्यं बहुप्रमाणप्राबल्यमिति भावः । किमनेन बहुप्रमाणविरोधाप्रामाण्ययोर्व्याप्ति-(व्या.टि.) प्रदर्शनेनेत्यतोऽनुमानप्रयोगः सूचित इत्याह- एतदुक्तं भवतीति ।। ऐक्यवाक्यमिति ।। दुर्बलं ततश्चाप्रमाणमिति साध्यद्वयं प्रतिज्ञातव्यम् । साध्यद्वयेऽपि उपाध्युद्भावनेन प्रत्यवतिष्ठते- नन्विति ।। प्रयोजकत्व-प्रयोजकसाध्यव्यापकत्वादि दर्शयति- यदप्रमाणमित्यादिना ।। वाक्यस्य पक्षीकरणभ्रान्तिं वारयति- अत्रे-ति ।। अनेनैक्यवाक्यं प्रमाणमिति पूर्वप्रतिज्ञायामणा(दि)निर्देश इत्यसूचि । एवेति साधनव्यापकतां द्रढयति ।

एवं प्रत्यक्षेणोपाधेः साधनव्यापकत्वं प्रसाध्याधुनोपाधिः साधनव्यापकः, तद्व्यापकव्यापकत्वात्, यो यद्व्यापकव्यापकः स तद्व्यापकः, यथा घटत्वव्यापकपृथिवीत्वव्यापकद्रव्यत्वं घटत्वस्य इत्यभिसन्धित्सयाऽह- अवश्यमिति ।। इति वक्तव्यमिति ।। इति प्रश्व्व्यमित्यर्थः । इति प्रश्ने त्वयोत्तरं वक्तव्यमिति वा । किं प्रत्यक्षेण अन्वयव्यतिरेकाभ्यां वा अप्रमाणत्वेन वा आगमेन वेति विकल्प्य क्रमेण निराचश्व्े- न तावदिति ।। अतीन्द्रियत्वादिति ।। कार्यानुकूलशक्तेस्तादृशत्वादित्यर्थः । द्वितीयं निराह- नापीति ।। तथात्वादिति ।। अतीन्द्रियधर्मस्य धर्मिप्रत्यक्षमन्तराऽप्रत्यक्षत्वेन तदीयान्वयव्यतिरेकयोः सत्त्वासत्त्वरूपयोरप्यप्रत्यक्षत्वेन तत्प्रमित्यसिद्धिरित्यर्थः । तृतीयं पराह- नापीति ।। लिङ्गासिद्धिमाह- तज्ज्ञानेऽपीति ।। उपलक्षणमेतत् । तत्प्रयोजकत्वेनोक्तस्य तत्प्रयोज्यत्वे(ना)न्योन्याश्रयत्वाच्चेत्यपि द्रश्व्व्यम् । तुरीयं तु निरस्यति- न चेति ।। पौरुषेयापौरुषेयान्यतरादर्शनादिति भावः । अत इति ।। लिङ्गत्वादित्यर्थः । ननु बलवत्प्रमाणविरुद्धत्वदोष-जन्यत्वयोर्व्याप्तिसिद्धावपि किमायातं बहुप्रमाणविरुद्धत्वस्य । न हि यत्प्रमाणविरुद्धं तद्दोषजन्यमप्रमाणं चेति व्याप्तिरस्ति । सावकाशबहुविरुद्धस्यापि निरवकाशैकस्य तददर्शनात् । तदेव चात्र हेतूकृतम् । अतः कथं तस्य साध्योपाधिव्याप्तिसिद्धिरित्यत आह- बलवत्त्वं चेति ।। बहुत्वेनापीति ।। अनेनेदमुदितं भवति । न हि प्रागस्माभिर्बहुप्रमाणविरुद्धत्वं साक्षादप्रामाण्यसाधकतयोपन्यस्तम् । किन्तु बलवत्प्रमाणोन्नायकतया । बहुत्वस्य बलवत्त्वहेतुत्वात् । तच्च साध्योपाधिव्याप्तमेवेति ।। कुतोऽधिकाङ्गीकार इत्यत आह- सर्वत्रेति ।। ननु तर्ह्युक्तं विरुद्ध्येतेत्यत आह- तथा चेति ।। स्वीकार्येति ।। व्याप्यव्याप्यस्य सुतरां व्याप्यत्वादिति भावः । साधन-व्यापकत्वादिति ।। व्याप्यव्याप्यस्य सुतरां व्याप्यत्वे सिद्धे समानसंवित्संवेद्यतया व्यापकव्यापकस्य सुतरां साधनव्यापकत्वसिद्धेरित्यर्थः । न तस्येति ।। तथा च निरुपाधित्वादनुमानं मानमेवेति सर्वमनवद्यम् ।