तथाचोक्तं भगवता ..
सर्वागमानां विष्णुसर्वोत्तमत्वपरमतात्पर्ये आगमोदाहरणम्
मूलम्
- तथाचोक्तं भगवता -
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ।।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।।’ इति ।।
‘सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोऽतः ।।’
इति पैङ्गि श्रुतिः ।
‘मुख्यं च सर्ववेदानां तात्पर्यं श्रीपतेः परम् ।
उत्कर्षे तु तदन्यत्र तात्पर्यं स्यादवान्तरम् ।।’ इति महावराहे ।।
तत्त्वमञ्जरी
कूटस्थः चित्प्रकृतिः श्रीरित्यर्थः । वेदेषु कर्मदेवादीनामप्युच्यमानत्वात् कथं तत्र न तात्पर्य-मित्यत आह- अवान्तरमिति ।। सर्वागमानां विष्णोरन्यत्र तात्पर्यमवान्तरं न महदित्यर्थः ।
टीका
ननु कुत एतत् ? नहि जीवब्रह्मणोरेकत्वे सर्वागमानां महातात्पर्यं न सम्भवतीत्येतावता समतीतक्षराक्षरत्वादिलक्षणे विष्णौ तेन भाव्यमित्यत्र नियामकमस्ति । नापि योजयितुं शक्यत इत्येतावता तत्सिद्धिः । अन्यथाऽपि योजनायाः कर्तुं शक्यत्वादिति चेन्न । ‘सर्वज्ञं सर्वकर्तारम्’ इति प्रमाणस्योक्तत्वात् । परमाप्तेन भगवता वासुदेवेन च तथोक्तमित्याह- तथाचेति ।। तद्वाक्यं पठति- द्वाविमाविति ।। द्वावेवेति सम्बन्धः । इमौ प्रमितौ । पुरुषौ चेतनौ । लोके अवलोके, पर्यालोचने सति । अथवा, द्वावेवेत्यस्योपपत्तये परमपुरुषं व्यावर्तयितुं लोक इत्युक्तम् । ईशितव्यवर्ग इत्यर्थः । सर्वाणि भूतानि ब्रह्मादयो जीवाः । कूटस्थो महालक्ष्मीः । यदर्थं पुरुषद्वयनिरूपणं कृतं तदाह- उत्तम इति ।। अन्यः क्षराक्षराभ्याम् । न पुनरेतयोर्मध्ये कश्चित्पुरुषोत्तमः कल्पनीयः । तत्र श्रुत्यादिसम्मतिमाह-परमात्मेति ।। आत्मशब्दो हि चेतनपर्यायः । युक्तिमप्याह- य इति ।। लोकत्रयमिति सर्वोपलक्षणम् । यो हि यस्य धारणपोषणादिकर्ता स तस्मादुत्तमो युक्तः । तदाविष्टस्य तन्नाशे नाशप्रसङ्ग इत्यत उक्तम्- अव्यय इति ।। तत्कथम्? ऐश्वर्यादित्याह- ईश्वर इति ।। स च क इत्यपेक्षायामहमेवेति सप्रमाणकमाह- यस्मादिति ।। क्षरं चेत्यन्वयः । लोके पौरुषेयागमे । अत्र आत्मनस्तात्पर्यद्योतनाय वेत्तुः फलमाह- यो मामिति ।। एवं नत्वश्वकर्णादिवत्सञ्ज्ञात्वेन । एतच्च पुरुषोत्तमत्वमपारमार्थिकमिति संमोहवर्जितः । सर्ववित् अस्यैव सर्वशास्त्रार्थत्वात् । सर्वभावेन सर्वप्रकारेण । एतच्च नायोग्याय वाच्यमित्याशयेनाऽह- इतीति ।। ‘स सर्ववित्’ इत्याद्युक्तम् । ततः किमित्यत आह- एतदिति ।। बुद्धिमान् अपरोक्षज्ञानी । कृतकृत्यो मुक्तः । अत्र हि सर्व-विदित्युक्तत्वात् सर्वेषां पौरुषेयापौरुषेयागमानां विष्णोस्सर्वोत्तमत्व एव महातात्पर्यमिति स्फुटं प्रतीयते । श्रुतिरप्येवमेवाऽहेत्याह- सर्वोत्कर्ष इति ।। सर्वस्मादुत्कर्ष उत्तमत्वं- सर्वोत्कर्षः । देवानां देवः स्तुत्यो- देवदेवः । सर्वागमानां महातात्पर्यमिति सम्बन्धः । अन्यत्र धर्मादौ तु महातात्पर्यं नैव । किं तर्हि तदन्यत्र आगमैकदेशस्य अवान्तरं विष्णोः सर्वोत्कर्षप्रतिपत्त्यर्थत्वादमुख्यं तत्पर-त्वम् । यतः सर्वागमसाध्यः पुरुषार्थो मोक्षः, ततो विष्णोः सर्वोत्तमत्वज्ञानादेव भवति । अतः कारणादुक्तमेतत् सत्यमिति । पुराणेऽप्येवमेवोक्तमित्याह- मुख्यं चेति ।। सर्ववेदानां श्रीपतेरुत्कर्ष एव परं मुख्यं तात्पर्यम् । तदन्यत्र तु परं केवलमवान्तरं तात्पर्यं स्यादिति योजना ।
भावबोधः
क्षराक्षरात्मकस्य सर्वस्याप्रत्यक्षत्वादिमाविति कथमित्यत आह- प्रमाणप्रमिताविति ।। चेतना-विति ।। पुंवच्छक्तिरहितस्त्रीणामपि क्षरशब्देन ग्राह्यत्वादिति भावः । विष्णोरपि लोकगतत्वात् कथं लोक इत्यनेन अवधारणोपपत्तिरित्यत आह- ईशितव्येति ।। ननूत्तमपुरुष इत्युक्तार्थप्रतिपादको वेदः शब्दसाम्येन चेत् परमपुरुष इति भवेत् । अर्थसाम्येन चेत्परमचेतन इति भवेत् । परमात्मेति कथमुक्तमित्यत आह- आत्मशब्दो हीति ।। सर्वोपलक्षणमिति ।। यथाश्रुते वैकुण्ठादिस्थितलक्ष्म्याद्युत्तमत्वे युक्तिर्नोक्ता स्यादिति भावः । सर्वप्रकारेणेति ।। न तु सर्वत्वेनेत्यर्थः । तथात्वे ‘उत्तमः पुरुषस्त्वन्यः’ इत्यादिविरोधः स्यादिति भावः । ततः किमिति ।। सर्ववित्त्वादेरेव फलत्वादिति भावः । ‘बुद्ध्वा बुद्धिमान्’ इति बुद्धेरेव कथं पौर्वापर्यमित्यत आह- अपरोक्षज्ञानीति ।। तथा च बुद्ध्वेत्यस्य परोक्षतो ज्ञात्वेत्यर्थ इति भावः । सर्वविदित्युक्तत्वादिति ।। अत्र सर्ववित्त्वं नाम सर्वशास्त्रार्थवित्त्वम् । अन्यस्य फलत्वासम्भवात् । पुरुषोत्तमत्वज्ञानिनः सर्वशास्त्रार्थवित्त्वं तु पुरुषोत्तमत्वस्य सर्वशास्त्रार्थत्वं विना न सम्भवति । तच्च तस्य कर्मादिपरसर्वागममहातात्पर्यविषयत्वं विना न सम्भवतीति भावः । तदन्यदिति व्याचश्व्े - तदन्यत्रेति ।। सर्वागमानामित्यस्यापि सम्बन्धप्रतीतिं वारयितुमाह- आगमैकदेशस्येति ।। सर्वागमसाध्य इति ।। अनेन सर्वागमानामित्यस्य पुरुषार्थ इत्यत्रापि सम्बन्ध उक्तो भवति । इति योजनेति ।। उत्कर्ष इत्यत्रावधारणार्थत्वेन चशब्दस्य, तुशब्दस्यान्यत्रेत्यत्र, परशब्दस्य केवलार्थ-त्वेनोभयत्र योजनेत्यर्थः ।
भावदीपः
कुत इति ।। उक्तरूपे विष्णौ महातात्पर्यमित्येतत् कुतो मानाज्ज्ञायत इत्यर्थः । तदेव व्यनक्ति- नहीति ।। क्षराक्षरत्वादीत्यादिपदेन निर्दोषाशेषसद्गुणत्वलक्षणग्रहः । लक्षणसम्भावकस्य लक्षणत्वोपचारात् समतीतक्षराक्षरत्वादिलक्षण इत्युक्तम् । तेनेति ।। सर्वागमानां महातात्पर्येणेत्यर्थः । अन्यथाऽपीति ।। ‘नन्वेतद्विपरीतम्’ इत्यादिना प्रागुक्तरीत्या वा ‘नच जीवेश्वराभेद एव’ इत्येतदवतारिकायामुक्तरीत्या वेति भावः । उक्तत्वादिति ।। सार्वज्ञादिविशेषणद्वयेनाशेषसद्गुणत्वस्य, अनामयमित्यनेन निर्दोषत्वस्य, सर्वोत्तममित्यनेन क्षराक्षरातीत्वस्योक्तेरिति व्याख्यानादिति भावः । ननु द्वावेव पुरुषौ चेतनौ नत्वेक एवेत्यत्र किं नियामकमित्यत इमावित्युक्तमिति भावेन तदर्थमाह- इमौ प्रमिताविति ।। यद्वा पुरःस्थितयोरुक्तिरिति भ्रमनिरासायाऽह- इमौ प्रमिताविति ।। श्रीप्रभृतिस्त्रीग्रहणायोक्तम्- पुरुषौ चेतनाविति ।। परमात्मे-त्यत्राऽत्मशब्दस्य वा परमात्मशब्दस्य वा रूढ्या विष्णुशब्दपर्यायस्यात्र ग्रहे नियम्यचेतनद्वयादुत्तमचेतनः इति ‘चेतनश्चेतनानाम्’ इत्यादावुदाहृत इत्यस्यार्थस्यालाभादहमेवेत्युत्तरवाक्यासङ्गतेश्चाऽह-आत्मशब्दो हीति ।। हिशब्देन शरीरप्रतिद्वन्द्वतया लोके चेतने प्रसिद्ध इति सूचयति- आत्मन इति ।। उपदेष्टुः स्वस्य कृष्णस्येत्यर्थः। एवमित्यनुवादः । क्षराक्षरातीतत्वेन पुरुषोत्तम इति श्रुत्यादौ प्रसिद्ध इत्येवंप्रकारेण तदर्थः स्पष्ट इति तद्व्यावर्त्य-मेवाऽह- न त्वश्वकर्णादिवदिति ।। अश्वकर्ण इति कस्यचिद्वृक्षस्य रूढसञ्ज्ञा यथा तथा नेत्यर्थः ।
‘भवेतां यदि वृक्षस्य वाजिकर्णौ कथञ्चन ।
अदृष्टां समुदायस्य कश्शक्तिं जातु कल्पयेत् ।।’
इति भट्टोक्तेः । अस्यैवेति ।। जडजीवश्रीतत्त्वेभ्य उत्तमत्वेन पुरुषोत्तमत्वरूपस्येत्यर्थः । सर्वभावेनेत्यस्य सर्वत्वे-नेति धीनिरासायाऽह- सर्वप्रकारेणेति ।। इदं गुह्यतममित्युक्तम्, तत्किमित्यत आह- स सर्वविदित्याद्युक्त-मिति ।। आदिपदेन यो मामेवमित्यादेर्ग्रहः । एतदितीति ।। क्षराक्षरातीततया यत्पुरुषोत्तमत्वं तदेव सर्वशास्त्रार्थः इत्येतत्प्रमेयमेतच्छब्दार्थः स्पष्ट इति भावः । अपौनरुक्त्यायाऽह- बुद्धिमानपरोक्षज्ञानीति ।।
गीतोक्तेः प्रकृतोपयोगमाह- अत्र हीति ।। गीतावाक्ये । पद्मनाभतीर्थीये तु ‘गीतातात्पर्योक्तनारायणश्रुत्या द्वाविमावित्यादेरर्थो ज्ञेयः’ इत्युक्त्वा ‘अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः इति विष्णुनोक्तत्वाद् विष्णोस्सर्वोत्तमत्व एव सर्ववेदमहातात्पर्यावगम इति सिद्ध्यति’ इत्युक्तम् । सर्वस्मादिति ।। ‘पञ्चमी भयेन’ इत्यत्र योगविभागात् समासः । स्तुत्य इति ।। ‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु’ इत्युक्तेः स्तुत्यर्थाद्दीव्यतेः कर्मणि घञ्प्रत्यये ‘पुगन्तलघूपदस्य च’ इति गुणे देव इति रूपसिद्धिरिति भावः । व्यवधानाद्वा पुरुषार्थपदेनान्वय इति धीनिरासाय वाऽह- इति सम्बन्ध इति ।। तर्हि धर्मादिपरिलोप इति प्रश्न उत्तरमाह- किं तर्हि तदन्यत्रेति ।। तदर्थ आगमेत्यादिः, कर्मदेवताकाण्डरूपैकदेशस्येत्यर्थः । अवान्तरमित्य-स्यार्थोऽमुख्यमिति । तत्र हेतुः विष्णोरित्यादि । ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’ इत्यादिसूत्रत्रयोक्तदिशेति भावः । तत्परत्वं तात्पर्यमित्यर्थः । तात्पर्यं नाम तत्प्रमितिशेषत्वम् । ‘शेषः परार्थत्वात्’ इति जैमिनीयसूत्रोक्तदिशा तदेकोद्देशेन प्रवृत्तत्वं, तच्च ब्राह्मणोपनिषन्मन्त्रभेदभिन्नवेदाद्यखिलशब्दराशेर्विष्णाविव । न धर्मादिप्रमित्युत्पा-दनमात्र एव पर्यवसानं, ब्रह्मकाण्डस्य ब्रह्ममात्रप्रतिपादनेऽपि अन्यभागस्य धर्मादिप्रतिपादनद्वारा भगवज्ज्ञान एव पर्यवसानम् । ‘विविदिषन्ति यज्ञेन’ इत्यादेः, अतोऽमुख्यमिति । अत इत्युक्तेराह- यत इति ।। चोऽवधारणार्थः सन् भिन्नक्रम इत्युपेत्याऽह- उत्कर्ष एवेति ।। तुशब्दान्वयेनानुवादः- अन्यत्र त्विति ।। अर्थान्तरमुपेत्याऽह- परं केवलमिति ।।
वाक्यार्थदीपिका
(श्री.टि.)
ननु ‘अनेनैतां वेदवाक्यानां योजनां सूचयति’ इत्यादिनोक्तप्रकारेण समतीतक्षराक्षरत्वादिलक्षणे विष्णौ महातात्पर्यप्रकारो योजयितुं शक्यत इति तदेव नियामकमित्याशङ्क्य निराकरोति- नापीति ।। अन्यथापीति ।। ‘अत्राद्वैतवादिनो वदन्ति । मन्त्रब्राह्मणलक्षणस्तावद्वेदः’ इत्यादिनोक्तप्रकारेण सर्वस्याप्या-गमस्य जीवेश्वराभेद एव तात्पर्यमित्यपि योजनाया मया कर्तुं शक्यत्वादिति भावः । उक्तत्वादिति ।। ‘सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि’ इति तत्रोक्तत्वादिति भावः । वासुदेवेन वसुदेवपुत्रेण श्रीकृष्णेन । उक्तं गीता-याम् । अक्षर एव चेत्यत्रैवकारचशब्दयोरेकत्र प्रयोगोऽनुपपन्नः । एवकारस्यान्यव्यावर्तकत्वाच्चशब्दस्यान्य-समुच्चायकत्वादित्यतो भिन्नक्रमेणैवकारस्यान्वयं दर्शयति- द्वावेवेति ।। ननु क्षराक्षरात्मकस्य सर्वस्याप्रत्यक्ष-त्वादिमाविति कथमुक्तमित्यत आह- प्रमिताविति ।। प्रमाणप्रमितावित्यर्थः । अक्षरशब्दवाच्याया रमायाः, सरस्वत्यादिस्त्रीणां च क्षरशब्देन सङ्ग्राह्यत्वात्तासां च पुरुषत्वाभावात्पुरुषपदं व्याचश्व्े- पुरुषौ चेतनाविति ।। न च पुंवच्छक्तिमत्त्वात्तासां पुरुषशब्देन ग्रहणोपपत्तेश्चेतनपरतया व्याख्यानं कुतः कार्यमिति वाच्यम् । तासां पुंवच्छक्तिरहितत्वात् । एकस्याः श्रिय एव तच्छक्तिमत्त्वात् । यथोक्तं छान्दोग्यभाष्ये- ‘पुल्लिङ्गेनोच्यते श्रीश्च पुंवच्छक्तिमती क्वचित्’ इति । द्वावेवेत्यस्योपपत्तय इति ।। लोक इत्यनुक्तौ ‘उत्तमः पुरुषस्त्वन्यः’ इत्युत्तर-त्रोत्तमस्य तृतीयस्यापि पुरुषस्य वक्ष्यमाणत्वेन द्वावेवेत्येतदनुपपन्नं स्यादिति भावः । ननु विष्णोरपि लोक-गतत्वात्कथं लोक इत्यनेन द्वावेवेत्यवधारणोपपत्तिरित्यत आह- ईशितव्यवर्ग इति ।। प्रेर्यवर्गे, अस्वतन्त्रवर्ग इत्यर्थः । वर्गस्समूहः । ‘ब्रह्मा शिवः सुरेशाद्याः शरीरक्षरणात् क्षराः’ इत्यादिप्रमाणानुसारेणोक्तम्- ब्रह्मादयो जीवा इति ।। ‘लक्ष्मीरक्षरदेहत्वादक्षरा’ इति प्रमाणानुसारेणाऽह- महालक्ष्मीरिति ।। श्रुत्यादीति ।। तथा च ‘परमात्मेत्युदाहृतः’ इत्यस्य ‘परमात्मा व्यवस्थितः’ इति तैत्तिरीयोपनिषद्युदाहृत इत्यर्थो द्रष्टव्यः ।
ननूत्तमः पुरुष इति प्रतिपादको वेदः शब्दसाम्येन चेत्तर्हि ‘परमपुरुष इत्युदाहृतः’ इति भवेत् । अर्थसाम्येन चेत् ‘परमचेतन इत्युदाहृतः’ इति भवेत् । तथा च परमात्मेत्युदाहृत इत्ययुक्तमित्याशङ्क्यार्थसम्मतिरियमित्या-शयेनाऽह- आत्मशब्दो हीति ।। सर्वोपलक्षणमिति ।। महरादिसर्वलोकोपलक्षणमित्यर्थः । अन्यथा लोकत्रय-मात्रविवक्षायां महरादिलोकस्थितजनोत्तमत्वे युक्तिर्न स्यादिति भावः । भगवान् सर्वलोकोत्तमः, धारणपोषणादि-कर्तृत्वादिति युक्तिमभिप्रेत्य तत्र व्याप्तिमुपपादयति- यो हि यस्येति ।। तदाविष्टस्य लोकत्रयाविष्टस्य । नाशप्रसङ्ग इति ।। दह्यमानगेहान्तर्गतवदिति भावः । ऐश्वर्यादिति ।। अघटितघटकसामर्थ्यादित्यर्थः । अग्निस्तम्भनविद्या-वतो दाहाभाववदिति भावः । सप्रमाणकमाहेति ।। तथा च यस्मात्क्षरमित्यनेन ‘अहं पुरुषोत्तमशब्दवाच्यः, समतीतक्षराक्षरत्वात्, व्यतिरेकेण घटवत्’ इति प्रमाणमुक्तमिति ज्ञातव्यम् । अपि चेत्युभयोरपि समुच्चयार्थक-त्वादेकत्रोभयवैयर्थ्यमित्याशङ्क्याऽह- क्षरं चेत्यन्वय इति ।। उपसंहारे सर्वश्रुतिस्मृतीनामिति वक्ष्यमाणत्वात् (श्री.टि.) तदनुसारेणाऽह- लोके पौरुषेयागम इति ।। अत्रेति ।। आत्मनः क्षराक्षरोत्तमत्वरूपार्थ इत्यर्थः। आत्मनः अर्जुनं प्रत्युपदेष्टुः स्वस्य कृष्णस्य । फलमाहेति ।।
‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ।।’
इति वचनेन फलस्य तात्पर्ये लिङ्गत्वावगमादिति भावः । सञ्ज्ञात्वेनेति ।। रूढत्वेनेत्यर्थः । तथा च ‘यो मामेवम्’, ‘यस्मात्क्षरमतीतोऽहम्’ इत्यादिनोक्तरीत्या योगवृत्त्यैव पुरुषोत्तमशब्दवाच्यं जानाति । न त्वश्व-कर्णादिशब्दवद्रूढ्येत्यर्थो द्रष्टव्यः । संमोहेति ।। भगवत्पुरुषोत्तमत्वापारमार्थिकत्वज्ञानस्य मिथ्याज्ञानत्वादिति भावः । ननु योगवृत्त्या भगवतः पुरुषोत्तमशब्दवाच्यत्वरूपप्रमेयविशेषं जानतः कथं सर्वज्ञत्वमित्यत आह- अस्यैवेति ।। भगवत्पुरुषोत्तमत्वस्यैवेत्यर्थः । ननु सर्वभावेनेत्यस्य सर्वत्वेनेति यद्यर्थस्तर्हि ‘उत्तमः पुरुषस्त्वन्यः’ इत्यादिविरोधः स्यादतो व्याचश्व्े- सर्वप्रकारेणेति ।।
‘पिता माता सुहृद्बन्धुर्भ्राता पुत्रस्त्वमेव मे ।
विद्या धनं च कामश्च नान्यत्किञ्चित्त्वया विना ।।’
इति प्रमाणोक्तरीत्या पितृत्वादिना सर्वप्रकारेणेत्यर्थः । ततः किमितीति ।। सर्ववित्त्वभजनमात्रयोरेवाफलत्वा-दिति भावः । ननु बुद्ध्वा बुद्धिमानित्ययुक्तम्, बुद्ध्वेति क्त्वाप्रत्ययेन बुद्धेः पूर्वकालीनत्वमुच्यते बुद्धिमानित्यपर-कालीनत्वम् । तथा चैकस्या एव बुद्धेः कथं पौर्वापर्यमित्यत आह- बुद्धिमानपरोक्षज्ञानीति ।। ‘भूमनिन्दा-प्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ।।’ इति वचनेन प्रशंसायां मतुपो विधानात् परोक्षज्ञानापेक्षयाऽपरोक्षज्ञानस्य प्रशस्यत्वाद्बुद्धिमानित्यपरोक्षज्ञानी कथ्यत इत्यर्थः । तथा च बुद्ध्वेत्यस्य परोक्षतो ज्ञात्वेत्यर्थो दृष्टव्यः । तथा च बुद्ध्योर्भेदाद् युक्तं पौर्वापर्यमिति भावः । ननूदाहृतभगवद्वचनेन विष्णोः सर्वोत्तमत्वे सदागमानां कथं महातात्पर्यं प्रतीयत इत्यतस्तद्दर्शयति- अत्र हीति ।। अत्र सर्ववित्त्वं नाम सर्वशास्त्रार्थवित्त्वम् । पुरुषोत्तमत्वज्ञानिनः सर्वशास्त्रार्थवित्त्वं तु पुरुषोत्तमत्वस्य सर्वशास्त्रार्थत्वं विना न सम्भवति । तच्च कर्मादिपरसर्वागममहातात्पर्यं विना न सम्भवतीत्येवं पौरुषेयापौरुषेयाणां सर्वागमानां विष्णोः सर्वोत्तमत्व एव महातात्पर्यमिति स्फुटं प्रतीयत इत्यर्थः । देवानामिति कर्तरि षष्ठी देवैरित्यर्थः । देवः स्तुत्य इति ।। ‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु’ इति धातुव्याख्यानादिति भावः । तदन्यदित्यस्यार्थमाह- तदन्यत्रेति ।। प्रतिपत्त्यर्थत्वादिति ।। अन्तःकरणशुद्धिद्वारेणेत्यर्थः । सर्वागमाना-मित्यस्य पुरुषार्थ इत्यत्रापि सम्बन्धः । षष्ठ्यर्थसम्बन्धश्च साध्यसाधनभाव इत्यभिप्रेत्याऽह-सर्वागमसाध्य इति ।। उक्तमेतदिति ।। विष्णोः सर्वोत्कर्षे सर्वागमानां तात्पर्यमित्युक्तमेतत्प्रमेयं सत्यं न मिथ्येत्यर्थः । उत्कर्ष इत्यत्रावधारणार्थकचशब्दस्य, तुशब्दस्यान्यत्रेत्यत्र, परशब्दस्य मुख्यं तात्पर्यम् अवान्तरं तात्पर्यमित्युभयत्र सम्बन्ध इत्यभिप्रेत्य योजनामाह- सर्ववेदानामित्यादिना ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
नन्विति ।। एतत् विष्णोः सर्वोत्तमत्वे सदागमानां तात्पर्यमित्येतत्कुतः । न कुतोऽपि । किं जीवेश्वरैक्ये तात्पर्यानुपपत्तिस्तत्र साधिका किं वा योजनायाः कर्तुं शक्यत्वम्, अन्यद्वेति प्रश्नार्थः । न तावत्तृतीयस्तदनुप-लम्भात्, इत्यभिप्रायेणाऽद्यमप्रयोजकत्वेन द्वितीयमतिप्रसङ्गेन दूषयति- न हीत्यादिना ।। अन्यथाऽपीति ।। पुरुषमतिवैरूप्यात्तदधीनयोजनाया निरङ्कुशत्वादिति भावः । तृतीयपक्षमङ्गीकृत्य तत्रोक्तदोषं परिहरति- सर्वज्ञ-मित्यादि ।। भगवता वासुदेवेन चोक्तमिति ।। अनेन मूले तथा चोक्तमिति चशब्दः तथा उक्तं चेति भिन्न-क्रमत्वेन योजनीय इत्युक्तं भवति । अक्षर एव चेति चैवशब्दयोः परस्परविरुद्धार्थतया एकत्र सम्बन्धासम्भवात् चशब्दस्य यथास्थितान्वयमङ्गीकृत्य एवशब्दं भिन्नक्रमतया योजयति- द्वावेवेति सम्बन्ध इति ।। ननु क्षराक्षरा-त्मकस्य जगतः सर्वस्यापि प्रत्यक्षत्वाभावात् कथमिमावित्यपरोक्षतो निर्देश इत्यतः प्रमितपरामर्शोऽयं नापरोक्ष-सिद्धपरामर्श इति भावेनोक्तम्- इमौ प्रमिताविति ।। ‘ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः । श्रीरक्षरात्मेत्यु-दिता’ इत्यादिगीतातात्पर्योदाहृतैतद्वाक्यव्याख्यानरूपनारायणश्रुतौ अक्षरात्मेत्यात्मपदप्रयोगात् ‘द्वाविमौ पुरुषौ’ इति पुरुषशब्दस्य चेतनार्थत्वात् न श्रियः पुरुषत्वविरोध इति भावेनोक्तम्- पुरुषौ चेतनाविति ।। विष्णोरपि लोकान्तर्गतत्वात्कथं लोक इत्यनेन तद्व्यावृत्तिरित्यत आह- ईशितव्येति ।। पुरुषोत्तम इति ।। यदत्र वक्तव्यं तत्कार्यतावादे सर्वोत्तमपदसाधुत्वव्युत्पादनावसर एवोक्तमिति न पुनरत्र तदुच्यत इति ज्ञेयम् । ननु विष्णोरुत्तम-पुरुषत्वे ‘परमात्मेत्युदाहृतः’ इत्यागमसम्मतिप्रदर्शनं किं शब्दसाम्येनाभिहितं किं वा अर्थसाम्येन । नाऽद्यः । तथा सति पुरुषोत्तम इत्याकारत्वापत्तेः । नान्त्यः । तथा सति उत्तमश्चेतन इत्याकारत्वापत्तेरित्याशङ्क्यार्थ-साम्येनैवेदमागमसम्मतिप्रदर्शनमित्यभिप्रेत्य तत्सिद्ध्यर्थं परमात्मशब्दे परमशब्दस्योत्तमार्थत्वस्य सिद्धत्वात् तदनुक्त्वा आत्मशब्दस्य चेतनपरतामाह- आत्मशब्दो हीति ।। लोकत्रयपदस्य यथाश्रुतपरत्वे लक्ष्म्याद्युत्तमत्वे युक्त्यनुक्तिप्रसङ्गात्सर्वपरतया व्याचश्व्े- सर्वोपलक्षणमिति ।।
दृष्टान्ताभावेन विशेषव्याप्तेरसम्भवात् मूलशैथिल्यमाशङ्क्य विशेषव्याप्त्यभावेऽपि सामान्यव्याप्तिसम्भवान्न तदित्याशयेन तामुपदर्शयति- यो हीति ।। तन्नाशे नाश इति ।। गृहनाशे तदाविष्टस्य पुरुषस्य नाशदर्शनादिति भावः । ऐश्वर्यादित्याहेति ।। गृहनाशेऽपि तत्प्रविष्टाग्निस्तम्भनशक्तिमतः पुरुषस्यानाशवत् लोकत्रयनाशेऽपि तदाविष्टस्य भगवतो नित्यशक्तियोगादनाशो युक्त इत्याहेत्यर्थः । अक्षरादपि चेत्यत्र अपिशब्देनैव समुच्चयसिद्धेः चशब्दस्य वैयर्थ्यमित्याशङ्क्य भिन्नक्रमतया तत्सार्थक्यं दर्शयति- क्षरं चेत्यन्वय इति ।। लोकस्यापौरुषेयवेदं प्रति प्रतिद्वन्द्वित्वाभावेन लोकशब्दस्य लोकपरत्वायोगात् पौरुषेयागमपरतया तं व्याचश्व्े-पौरुषेयागम इति ।। एवमित्यनेन व्यावर्तितं प्रकारं दर्शयति- नहीति ।। य एवं मां पुरुषोत्तमं जानाति स सर्ववित् इत्येतावतैव पूर्तेः असम्मूढ इत्यनर्थकमित्यतः क्षराक्षरोत्तमत्वस्य मिथ्यात्वान्न तस्य एवमित्यनेनोक्तं पुरुषोत्तमपदप्रवृत्तिनिमित्तपरत्वं युक्तमित्याशङ्कापरिहारार्थत्वात्तस्य न वैयर्थ्यमित्यभिप्रेत्य उक्तशङ्कापरिहारकतया असम्मूढपदमनूद्य व्याचश्व्े- असम्मूढ इति ।। ततश्चानेन क्षराक्षरपुरुषोत्तमत्वमपारमार्थिकमिति ज्ञानस्य सम्मोहनत्वसूचनद्वारा पुरुषोत्तमत्वस्य (पां.टि.)पारमार्थिकत्वलाभाद् युक्तोऽनेन क्षराक्षरपुरुषोत्तमत्वस्य पुरुषोत्तमपदप्रवृत्तिनिमित्तत्वानुपपत्ति-शङ्कापरिहार इति भावः । ननु क्षराक्षरोत्तमत्वेन पुरुषोत्तमत्वज्ञानमात्रात्कथं सर्वज्ञत्वं स्यादित्यतः, तस्य सर्व-शास्त्रार्थत्वाद्युक्तं तज्ज्ञानिनः सर्वज्ञत्वमित्याशयवान् क्षराक्षरोत्तमत्वस्य सर्वशास्त्रार्थतामाह- अस्यैवेति ।। नन्वत्र सर्वभावेनेति सर्वात्म्योक्त्या भेदाभावप्राप्तेः कथं तत्सापेक्षस्य क्षराक्षरोत्तमत्वस्य पारमार्थिकत्वं येन प्रवृत्तिनिमित्तता तस्य स्यादित्यतो भवेदेवं यदि सर्वभावेनेत्यस्य सर्वात्म्याभिधानत्वं स्यात् । न चैतदस्ति । तथा सति भजतीत्युक्तभजनक्रियाविरोधापातात् । ‘उत्तमः पुरुषस्त्वन्यः’ इति पूर्ववाक्यविरोधापाताच्च । किन्तु भजतीत्युक्तभजनोपयोगिसर्वप्रकारसमर्पकत्वमेवेति भावेन तत्तथा व्याचश्व्े - सर्वभावेन सर्वप्रकारेणेति ।। भजनोपयुक्तसर्वप्रकारेणेत्यर्थः ।
पौनरुक्त्यापत्त्या बुद्ध्वा बुद्धिमानिति शब्दद्वयस्य परोक्षज्ञानमात्रार्थताया अपरोक्षज्ञानमात्रार्थतायाश्चायोगाद् बुद्ध्वेत्यस्य परोक्षज्ञानार्थत्वमभिप्रेत्य बुद्धिमानित्येतदपरोक्षज्ञानार्थतया व्याचश्व्े- बुद्धिमानपरोक्षज्ञानीति ।। बुद्धिशब्दोक्तज्ञानसम्बन्धबोधकस्य बुद्धिमानित्यस्य कथमपरोक्षज्ञानसूचकत्वमिति चेत्, उच्यते । अस्तिविव-क्षायामिव ‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः’ इति भूमादि-ष्वर्थेष्वपि मतुबादिविधानाभ्युपगमाद् रूपवानित्यनेन प्रशस्तरूपवत्त्वस्येव बुद्धिमानिति मत्त्वर्थीयप्रत्ययेन प्रशस्तज्ञानवत्त्वलाभादपरोक्षज्ञानस्य च परोक्षज्ञानागृहीतरेखोपरेखादिविशिष्टार्थग्राहकत्वेन परोक्षज्ञानापेक्षया प्रशस्तत्वाद् युक्तं मतुप्प्रत्ययेन अपरोक्षज्ञानसूचनमित्याशयात् । कृतकृत्यो मुक्त इति ।। ततश्च परोक्षा-परोक्षज्ञानयोः स्वतः प्रयोजनत्वाभावेन तन्मात्रोक्त्या स सर्वविदित्युक्त्यनन्तरं ततः किमितीति प्राप्तप्रयोजन-शङ्काया बुद्ध्वा बुद्धिमान् इत्येतावन्मात्रोक्त्याऽपरिहारेऽपि अपरोक्षज्ञानानन्तरं मुक्तत्वाभिधायककृतकृत्यपदेन युक्तस्तत्परिहारः । आत्यन्तिकदुःखनिवृत्तिविशिष्टपरमानन्दावाप्तिरूपमुक्तेः स्वतःप्रयोजनत्वेन तत्साधनतया परोक्षापरोक्षज्ञानयोः सप्रयोजनत्वसमर्थनादिति भावः । ननु भगवता विष्णोः सर्वोत्तमत्वे सर्वागमानां महातात्पर्य-स्योक्तत्वेऽपि श्रुतौ विष्णोः सर्वोत्कर्षे तस्योक्तत्वाद्भगवता श्रुत्या चेति कथं ग्रन्थावतार इत्यतः श्रुतौ सर्वोत्कर्ष-पदस्य सर्वोत्तमत्वपरत्वेन तयाऽपि तल्लाभसम्भवाद्युक्तस्तथा ग्रन्थावतार इति भावेन सर्वोत्कर्षपदं तत्परतया व्याचश्व्े - सर्वस्मादुत्कर्ष उत्तमत्वं सर्वोत्कर्ष इति ।। देवस्येत्यनेनैव विष्णोः क्रीडादिगुणविशिष्टत्वोक्त्या पूर्णत्वेन द्वितीयस्य तस्य वैयर्थ्यमित्यतो विवक्षितार्थहेतुसमर्पकत्वान्न तस्य वैयर्थ्यमिति भावेन तत्पदं तत्परतया व्याचश्व्े- देवानामित्यादिना ।। विष्णोः सर्वोत्कर्षे महातात्पर्यमात्रस्य श्रुत्या उक्तत्वेऽपि सर्वागमानां तस्या-नुक्तत्वात्कथं श्रुत्या तल्लाभ इत्यतस्तत्सिद्ध्यर्थतया अन्वयं दर्शयति- सर्वागमानां महातात्पर्यमिति सम्बन्ध इति ।। ‘यस्य येनार्थः’ इति न्यायेन सम्बन्धे च योग्यताया एव प्रयोजकत्वस्थित्या सन्निधानस्य अप्रयोजकत्वादिति भावः । विष्णोरप्यन्यत्वादन्यत्रेत्यनेन परिग्रहप्राप्तौ व्याघातस्स्यात् । तत्परिहाराय अन्यत्रपदपरामृष्टव्यं दर्शयति- धर्माधर्मादाविति ।। तर्हि तस्य मानान्तरागोचरत्वात् तदसिद्धिरेव स्यादिति शङ्कते- किं तर्हीति ।। श्रौतस्य (पां.टि.) तदन्यदित्यस्य व्याख्यानम्- तदन्यत्रेति ।। तस्योपपादनम्- विष्णोरिति ।। एवमेवेति ।। श्रुतौ यथोक्तं तथैवेत्यर्थः । इति योजनेति ।। तथा च पुराणेष्वप्येवमेवोक्तमिति ग्रन्थावतारो युक्त एवेति भावः ।
लघुप्रभा
(व्या.टि.)
अन्यथाऽपीति ।। भवद्भिन्नवाद्युक्तरीत्येत्यर्थः । गीतायामुपोद्घातसङ्गत्या पुरुषद्वयं निरूपयति- द्वावित्यादिना ।। अक्षर एव चेत्येवकारो भिन्नक्रमः । यथाश्रुतान्वये चकारविरोधादित्यभिप्रेत्यान्वयं दर्शयति- द्वावेवेतीति ।। लोकशब्दं व्याचश्व्े- अवलोक इति ।। लुक प्रकाशने इति धातोर्लोकोऽवलोक इति भावः । द्वावेवेत्यवधारणोपपादकतयाऽर्थान्तरमाह- अथ वेति ।। ‘यतो वा इमानि भूतानि’ इत्यत्रेव भूतशब्दो जीवपर इत्याह- ब्रह्मादय इति ।। ‘खं छिद्रं विवरं कूटम्’ इति गीताभाष्यदिशा कूटवत्, खवत् स्थितेर्निर्विकारतयाऽव-स्थानात् कूटस्थः । पुल्लिङ्गं तु पुंवच्छक्तिमत्त्वात् । यथोक्तम् गीताभाष्ये - ‘पुंवच्छक्तिमती स्त्री तु पुल्लिङ्गेनोच्यते बुधैः’ इति । तदेतदभिप्रेत्य व्याचश्व्े - कूटस्थो महालक्ष्मीरिति ।। अन्यत्वप्रतियोगिनमाह- क्षरेति ।। तद्व्यावर्त्यमाह- न पुनरिति ।। उदाहृतः, ‘तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः’ इति दहरविद्यायामिति शेषः । श्रौतपरमात्मसमाख्यया कथङ्कारं पुरुषोत्तमत्वलाभ इत्यत आह- आत्मशब्दो हीति ।। युक्तिमिति ।। लोकभरणलक्षणामित्यर्थः । विमतः सर्वोत्तमः सर्वधारणपोषणकर्तृत्वादित्यभिप्रेत्य व्याप्तिं दर्शयति- यो हीति ।। आविश्य भरणेऽनिष्टं प्रसञ्जयति- तदाविश्व् इति ।। न व्येतीत्यव्ययोऽविनाशीत्यर्थः । कथमिति ।। मायैश्वर्याद्यनेकप्रकारेषु कस्मादित्यर्थः । उत्तरयति- ऐश्वर्यादिति ।। ‘अक्षरादपि च’ इत्यत्रापिशब्देन चारितार्थ्याच्च-शब्दवैयर्थ्यमालोच्य परस्परसमुच्चयार्थत्वं भिन्नक्रमत्वं चोपेत्याऽह- क्षरं चेत्यन्वय इति ।। अत्र सर्वोत्तमत्वे । एवमित्यस्य व्यावर्त्यान्तरं दर्शयति- न त्विति ।। सञ्ज्ञात्वेन केवलरूढित्वेन । यथोक्तं मीमांसावार्तिके-
‘भवेतां यदि वृक्षस्य वाजिकर्णौ कथञ्चन ।
अक्लृप्तां समुदायस्य कश्शक्तिं जातु कल्पयेत् ।।’ इति ।
।। मोहवर्जित इति ।। अभ्रान्त इति यावत् । सर्वं वेत्तीति सर्ववित् सर्वोपपदाद्विदेः ‘सत्सूद्विष’ इति क्विबिति भावः । कथमेकज्ञाने सर्ववित्त्वमित्यत आह- अस्यैवेति ।। सर्वभावेन सर्वप्रकारेणेति ।। ‘तस्य भावस्त्वतलौ’ इति प्रकारे भावपदप्रयोगादिति भावः । मूले गुह्यमिति गूहतेः क्यबिति भावः । एकस्या एव बुद्धेः ‘बुद्ध्वा बुद्धिमान्’ इति पौर्वापर्यायोग इत्यतो विशेषमाह- अपरोक्षेति ।। यथोक्तं वैयाकरणैः ‘भूमनिन्दा-प्रशंसासु...भवन्ति मतुबादयः’ इति । सर्वस्मादिति ।। ‘पञ्चमी भयेन’ इति योगविभागात्समास इति भावः। अत्राऽम्रेडिते देवशब्दे द्वितीयो यौगिक इत्याह- स्तुत्य इति ।। स्तुत्यर्थाद्दीव्यतेः कर्मणि घञिति भावः । तदन्यदिति प्रथमा सप्तम्यर्थे ‘सप्तसु प्रथमा’ इति सूत्रात् इति भावेनाऽह- तदन्यत्रेति ।। सर्वागमानामिति साध्यसाधनभावे षष्ठीत्यभिप्रेत्याऽह- सर्वागमसाध्य इति ।। तत इति ‘तेन रक्तं रागात्’ इत्यत्रेव बुद्धिस्थपरामर्शं मत्वा व्याचश्व्े - सर्वोत्तमत्वज्ञानादेवेति ।। परमित्यावृत्य केवलार्थतया व्याचश्व्े - परं केवलमिति ।।