नच प्रमाणबहुत्वे ..
एकार्थगोचरबहुप्रमाणानां दाढर्यहेतुत्वस्य समर्थनम्
मूलम्
- नच प्रमाणबहुत्वे दौर्बल्यम् । दार्ढ्यमेव हि बहुवाक्यसंवादे दृष्टम् । तथा सत्यभ्यासादेरप्रामाण्यहेतुत्वं स्यात् । अभ्यासस्य च तात्पर्यलिङ्गत्वं सर्वेषां सिद्धम् । तदनङ्गीकारे तत्पक्षेऽपि नवकृत्वस्तत्त्वमसीत्यभ्यासस्यानुवादकत्वेनाप्रामाण्यं स्यात् । प्रथमवाक्येनैव यस्यासिद्धं तदर्थमपरमित्युक्ते प्रत्यक्षादिना भेदो येनानिश्चि-तस्तदर्थमपरं वाक्यमित्युत्तरम् । तस्माद् बहुप्रमाणसंवादित्वे प्राबल्यमेव ।
अतः सर्वप्रमाणविरुद्धत्वान्नाभेदे तात्पर्यं वाक्यस्य । किन्तु विष्णोस्सर्वोत्तमत्व एव महातात्पर्यं सर्वागमानाम् ।
तत्त्वमञ्जरी
तथा सति प्रमाणबहुत्वे दौर्बल्ये सति । अभ्यासादेरित्यादिशब्दाद् धारावाहिकप्रत्य-क्षस्य । भेदवाक्यानां प्रबलत्वेनोपलभ्यमानत्वात् तेषामनुवादकत्वप्रतिपादनार्थं प्रतिवादिना स्वयमेव भेदस्य प्रत्यक्षानुमानसिद्धत्वाभ्युपगमाच्च, बहुप्रमाणसंवादकस्य दार्ढ्यहेतुत्वप्रतिपादनाच्चेत्य-भिप्रायेणाऽह- अतः सर्वेति ।।
टीका
‘अतश्च भेदवाक्यानामेव प्राबल्यम्’ इति प्रत्यक्षादिसंवादेनाभेदवाक्यापेक्षया यद्भेदवाक्यानां प्राबल्यमुक्तम् । तदसत् । प्रत्युत संवादस्य वैयर्थ्येन दौर्बल्यहेतुत्वादित्याशङ्कां परिहृतामप्यधिकं वक्तुं पुनः परिहरति- नचेति ।। एकस्मिन्नेवार्थे प्रमाणबहुत्वे प्रवृत्ते सति द्वितीयादीनां दौर्बल्यमिति च नेत्यर्थः । कुत इत्यत आह- दार्ढ्यमेवेति ।। निश्शङ्का प्रमितिरेवेत्यर्थः । एवशब्देन नोपेक्षे-त्याह । अनेन वैयर्थ्यं परिहृतम् । विषये विशेषानाधायकस्य कथं दार्ढ्यहेतुत्वम् । अन्यथा प्रथम-प्रमाणस्यापि तत् स्यादित्यतो दृष्टमित्युक्तम् । तेन पूर्वसंस्कारसचिवस्य तन्मात्रगोचरस्यापि दार्ढ्यहेतुत्वं युक्तमिति सूचितम् । तदनङ्गीकारे बाधकमाह- तथा सतीति ।। संवादस्य वैयर्थ्ये-नोपेक्षणीयत्वे सति । अभ्यसनमभ्यासः । आदिपदेन निगमनं गृह्यते । अप्रामाण्यम् उपेक्षणीय-त्वम् । अस्तु तदपीत्यत आह- अभ्यासस्य चेति ।। एवं निगमनस्यापि बुद्ध्यारोहाद्यर्थत्वम् । सर्वसम्मतमपि मया नाङ्गीक्रियते को दोषः । नहि प्रतितन्त्रसिद्धान्तो नाम नास्तीत्यत आह- तदनङ्गीकार इति ।। अप्रामाण्यं स्यात् तत्त्वमस्यादिवाक्यस्येति शेषः । वैषम्यमाशङ्क्य परिहरति- प्रथमेति ।। असिद्धं जीवेश्वरैक्यम् । ऐक्यस्य दुर्बोधत्वात्, पुरुषाणां च मृदुमध्याधिमात्राधि-मात्रतरत्वादिभेदभिन्नत्वादिति भावः । प्रत्यक्षादिनेति ।। प्रत्यक्षादेर्दोषशङ्काकलङ्कितत्वादिति भावः । एतेनानधिगतार्थविषयत्वमपि भेदवाक्यानामुक्तं भवति ।
‘नच प्रमाणबहुत्वे’ इत्यादिनोक्तमुपसंहरति- तस्मादिति ।। ततः किमित्यत आह- अत इति ।। वाक्यस्य ‘तत्त्वमसि’ इत्यादेः । तथाच महावाक्याभावान्न तदेकवाक्यतया सर्ववाक्या-नामैक्ये महातात्पर्यमिति भावः । एवं तर्हि सर्वागमानामेकस्य विषयस्याभावादेकवाक्यता न स्यादित्यभिप्रायेण पृच्छति- किन्त्विति ।। उत्तरमाह- विष्णोरिति ।। यदुक्तं ‘सदागमैकविज्ञेयम्’ इति तदेवेदमिति ज्ञातव्यम् । तत्प्रकारश्च प्रागेव सङ्क्षेपेण वर्णित इति ।
भावबोधः
नोपेक्षेति ।। द्वितीयादिप्रमाणसंवादस्येति शेषः । अभ्यसनमिति ।। न त्वेकप्रकारासकृदुक्तिरभ्यास-पदार्थः । तथात्वे हेतुत्वमित्यलग्नकं स्यात् । उक्तेरुपेक्षणीयत्वस्यैवाऽपाद्यत्वात्, अन्योपेक्षणीयत्वहेतुत्वाभावादिति भावः । निगमनमिति ।। अत्र निगमनपदेनोपसंहरणमेव ग्राह्यं न तु वाक्यमिति द्रष्टव्यम् । नन्वैक्यस्य दुर्बोधत्वे कस्यापि प्रथमवाक्येनैक्यबोधो न स्यात् । तथा च ‘यस्य’ इति विशिष्योक्तिर्न स्यादित्यत आह- पुरुषाणां चेति ।। ननु प्रत्यक्षेणानिश्चितोऽपि वाक्येन निश्चीयत इत्ययुक्तमित्यत आह- प्रत्यक्षादेरिति ।। ननु ‘सदागमैक-विज्ञेयम्’ इत्यनेन विष्णावेव सर्वागमानां महातात्पर्यमुक्तम् । अत्र सर्वोत्तमत्वे कथं महातात्पर्यं सर्वागमानामुच्यत इत्यत आह- यदुक्तमिति ।। क्षराक्षरातीतत्वादिविशिश्व्े तात्पर्योक्तौ सर्वोत्तमत्व एव तात्पर्यमुक्तं भवतीति भावः ।
भावदीपः
शङ्कते- अतश्चेति ।। प्राबल्यमुक्तमिति ।। अनेन वाक्येनेति योज्यम् । परिहृतामपीति ।। ‘बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव’ इत्यादिनेति भावः । अधिकमिति ।। अभ्यासाप्रामाण्यापादनादीत्यर्थः । चशब्दान्वयमाह- इति च नेत्यर्थ इति ।। न केवलं पुरोवादस्य अप्रमाणत्वेनानुवादित्वाभावाद्दौर्बल्यं नेति, बहुप्रमाणप्रवृत्तिस्थले द्वितीयादीनां वैयर्थ्येन दौर्बल्यमित्यपि नेत्यर्थः । नोपेक्षेत्याहेति ।। बहुवाक्यसंवादस्येति योज्यम् । अनेनेति ।। निश्शङ्कप्रमितिरूपदर्ा्यहेतुत्वकथनेनेत्यर्थः । विषय इति ।। पूर्वप्रवृत्तप्रमाणविषये विशेषानाधायकस्य द्वितीयादेरित्यर्थः । तत्स्याद् दार्ढ्यहेतुत्वं स्यादित्यर्थः । अभ्यासपदस्याभ्यस्यत इत्यभ्यासः इति कर्मव्युत्पत्त्याऽभ्यस्यमानशब्दपरत्वेऽप्रामाण्यं स्यादिति वाच्यत्वेन तद्धेतुत्वोक्तिघटनाय भावे व्युत्पन्नोऽ-यमिति भावेनाऽह- अभ्यसनमिति ।। पुनः पुनरुच्चारणमित्यर्थः । बुद्ध्यारोहाद्यर्थत्वमिति ।। सर्वेषां सम्मतमिति योज्यम् । शङ्कते- सर्वेति ।। सर्ववादिसम्मतं कथं त्वया नोपेयमित्यत आह- नहीति ।। ‘स्वतन्त्र-मात्रसिद्धोऽर्थः परतन्त्रैर्निराकृतः । प्रतितन्त्रसमः’ इत्युक्तलक्षणकः प्रतितन्त्रसिद्धान्तो नास्तीति नहि, अस्त्ये-वेत्यर्थः । ईश्वरप्रामाण्यं न्यायमत इवास्तु ममाप्ययं सिद्धान्त इति शङ्कार्थः । एतेनेति ।। मानान्तरानिश्चि-तार्थविषयकत्वकथनेनेत्यर्थः । न केवलमनुवादित्वाभाव इति वा दार्ढ्यहेतुत्वेनावैयर्थ्यमिति वा अपेरर्थः । इत्यादिनोक्तमिति ।। आदिपदेन सर्वविरुद्धवचनानामित्यादिनोक्तस्य ग्रहः । तस्य, अतः सर्वप्रमाणेत्यादिरुप-संहार इति भावः । नन्वाद्यपद्ये निर्दोषाशेषसद्गुणत्वं लक्षणं समतीतक्षराक्षरत्वं च तत्र सम्भावकमित्युक्त्वा तत्र सदागमाः प्रमाणमिति वक्तुं सदागमैकविज्ञेयमिति विशेषणमित्युक्तम् । तान्येव विशेषणानि साधयिष्यामीति चोक्तम् । तथाच सिद्धमेतद्विष्णोः सदागमैकविज्ञेयत्वमित्युपसंहर्तव्यमित्यत आह- यदुक्तमिति ।। सदागमै-रुक्तलक्षणविशिष्टतया, जडजीवश्रीतत्त्वेभ्यो विलक्षणतया ज्ञेयं महातात्पर्येण प्रतिपाद्यमिति यदुक्तं तस्येदं स्पष्टतया निरूपणं सर्वोत्तमत्व इत्युक्त्या वैलक्षण्यवैशिष्ट्ययोर्लाभाद्वैशिष्ट्याभावे सर्वोत्तमत्वाभावादिति भावः। प्रागेवेति ।। ‘इयं माता अयं पिता’ इत्यादिवाक्यव्याख्यानावसाने ‘अनेनैतां वेदवाक्यानां योजनां सूचयति’ इत्यादिनेति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
अतश्चेति ।। प्रत्युताभेदवाक्यानामेव दौर्बल्यं भेदवाक्यानामेव प्राबल्यमित्यर्थः । परिहृतामपी-ति ।। ‘बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव’ इत्यनेनेत्यर्थः । तर्हि पुनरुक्तिरित्यत उक्तम्- अधिकमिति ।। वक्तु-मिति ।। तथा सत्यभ्यासादेरपीत्यनेनेति शेषः । नोपेक्षेति ।। द्वितीयादिप्रमाणसंवादस्येति शेषः । अनेन दार्ढ्यहेतुत्ववचनेन वैयर्थ्यं संवादस्येति शेषः । विशेषेति ।। अतिशयेत्यर्थः । अन्यथेति ।। विषये विशेषानाधाय-कस्यापि द्वितीयादिप्रमाणस्य दार्ढ्यहेतुत्व इत्यर्थः । तत्स्याद् दार्ढ्यहेतुत्वं स्यात् । विषयेऽतिशयानाधाय-कत्वाविशेषादिति भावः । तन्मात्रगोचरस्यापीति ।। पूर्वप्रमाणगृहीतार्थमात्रविषयकस्यापीत्यर्थः । विषये विशेषानाधायकस्यापीति यावत् । दार्ढ्यहेतुत्वं निःशङ्कप्रमितिहेतुत्वम् । तदनङ्गीकारे संवादस्य दार्ढ्यहेतुत्वा-नङ्गीकारे । ननु अभ्यस्यत इत्यभ्यास इति कर्मव्युत्पत्त्या एकप्रकारेणासकृदुच्चार्यमाणवाक्यस्य अभ्यासपदार्थत्वेऽ-भ्यासस्यैकप्रकारासकृदुच्चार्यमाणवाक्यास्याप्रामाण्यं स्यादिति वाक्यस्योपेक्षणीयत्वरूपमप्रामाण्यमेवाऽपा-द्यम् । न त्वप्रामाण्यहेतुत्वमित्यन्योपेक्षणीयताहेतुत्वम् । असङ्गत्यापत्तेरतो व्याचश्व्े-अभ्यसनमभ्यास इति ।। वारं वारमुच्चारणमित्यर्थः । तथा च भावव्युत्पत्तिरेवाभिप्रेता । कर्मव्युत्पत्त्या वाक्यं न ग्राह्यमिति भावः । एवं च वारं वारं वाक्योच्चारणस्य वाक्योपेक्षणीयताहेतुत्वे उच्चार्यमाणस्य वाक्यस्योपेक्षणीयत्वमर्थात्प्राप्तमेवेति ज्ञात-व्यम् । निगमनमिति ।। अत्रापि निगमनपदेनोपसंहरणमेव ग्राह्यम् । न तूपसंह्रियमाणं वाक्यं येनासङ्गतिः स्यादित्यर्थः । प्रतितन्त्रसिद्धान्त इति ।।
‘स्वतन्त्र एव सिद्धोऽर्थः परतन्त्रैर्निवारितः ।
प्रतितन्त्रो यथा न्याये सर्वज्ञस्य प्रमाणता ।।’
इति कारिकानुसारेण तल्लक्षणं द्रश्व्व्यम् । असिद्धम् अज्ञातम् । कुत इत्यत आह- ऐक्यस्येति ।। नन्वैक्यस्य दुर्बोधत्वे कस्यापि प्रथमवाक्येन ऐक्यबोधो न स्यात् । ततश्च ‘यस्य असिद्धम्’ इति विशेषोक्तिर्न स्यादित्यत आह- पुरुषाणां चेति ।। मृदुशब्देन सूक्ष्ममुच्यते । अधिमात्राधिमात्रतरशब्दौ स्थूलस्थूलतरवाचिनौ । आदिपदेन स्थूलतमग्रहणम् । भेदभिन्नत्वादिति ।। भेदभिन्नबुद्धिमत्त्वादित्यर्थः । तथा च प्रथमवाक्येन बोधो मृदुबुद्धीनामेव भविष्यति । न तु मध्यादिबुद्धिमताम् । अतस्तदर्थं द्वितीयादिवाक्यमपेक्षितमिति भावः । ननु प्रत्यक्षादिनाऽनिश्चितो भेदो वाक्येन कथं निश्चीयत इत्यत आह- प्रत्यक्षादेरिति ।। एतेनेति ।। ‘प्रत्यक्षादिना भेदो येन न निश्चितः’इति वचनेनेत्यर्थः । अनधिगतेति ।। भेदवाक्यानां प्रत्यक्षाद्यनिश्चितभेदप्रतिपादकत्वादित्यर्थः । एवं तर्हीति ।। अभेदे तात्पर्याभाव इत्यर्थः । विषयस्येति ।। प्रतिपाद्यार्थस्येत्यर्थः । एकवाक्यता न स्यादिति ।। तस्य अर्थैक्यगर्भत्वादिति भावः । यथोक्तं जैमिनिना ‘अर्थैकत्वादेकं वाक्यम्’ इति । ननु सदागमैकविज्ञेयमित्यनेन समतीतक्षराक्षरत्वादिविशिश्व्े विष्णावेव सर्वसदागमानां महातात्पर्यस्योक्तत्वादत्र पुनस्सर्वोत्तमत्व एव महातात्पर्योक्तौ तद्विरोधः स्यादित्यत आह- यदुक्तमिति ।। समतीतक्षराक्षरत्वादिविशिष्टे विष्णौ सर्वसदागमानां महातात्पर्योक्तौ तत्सर्वोत्तमत्व एव महातात्पर्यमुक्तं भवतीति भावः । ननु विष्णोः सर्वोत्तमत्वे सर्वसदागमानां (श्री.टि.) महातात्पर्यप्रकारः कथमित्यत आह- तत्प्रकारश्चेति ।। प्रागेवेति ।। ‘इयं माता अयं पिता सुरूपोऽसि’ इत्यादिवाक्यव्याख्यानावसरे ‘अनेनैतां वेदवाक्यानां योजनां सूचयति’ इत्यादिनाऽस्माभिर्वर्णित इति नात्र पुनः प्रदर्शित इति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु यद्यैक्यस्य दुर्बोधत्वं तदा न कस्यापि प्रथमवाक्येन तत्सिद्धिः स्यात् । अन्यथा अविशेषात्सर्वेषामपि तत्प्रसङ्गेनोक्तव्यवस्थानुपपत्तिप्रसङ्गादित्यतो विशेषोपदर्शनेन अविशेषासिद्धिमाह- पुरुषाणां चेति ।। ननु प्रत्यक्षादिना भेदस्यानिश्चये को हेतुरित्यत आह- प्रत्यक्षादेरिति ।। एतेनेति ।। भेदस्य प्रत्यक्षादिनाऽनिश्चित-त्वेनेत्यर्थः । एकस्य विषयस्याभावादिति ।। ऐक्यस्य विषयतायाः खण्डितत्वात् तदतिरिक्तस्यैकस्य विषय-स्याप्रतिभासादिति भावः । एकवाक्यतेति ।। एकवाक्यत्वस्यैकार्थविषयताव्याप्तत्वेन व्यापकीभूतैकार्थ-विषयकत्वाभावे तद्व्याप्यभूतैकवाक्यत्वाभावनियमादिति भावः । ननु ‘सदागमैकविज्ञेयम्’ इति सदागमानां विष्णौ तात्पर्यस्योक्तत्वाद्विष्णोः सर्वोत्तमत्वे तत्तात्पर्योक्तौ तद्विरोध इत्यतः पूर्वोक्तस्यैवेदानीमुच्यमानत्वेन उक्तिद्वयस्य भिन्नार्थत्वाभावान्न विरोध इत्याह- यदुक्तमिति ।। कथमुक्तिद्वयस्य एकविषयत्वमित्यत आह- तत्प्रकारश्चेति ।। ‘सदागमैकविज्ञेयम्’ इत्येतद्वाक्यव्याख्यानावसरे एव ‘सर्वस्माद्विशिष्टत्वेन विलक्षणत्वेन च सदागमैर्ज्ञेयम्’ इति विष्णोः सर्वोत्तमत्वादिकमेव सकलसदागमतात्पर्यविषय इति सङ्क्षेपेण तत्प्रकार उपवर्णित इत्यर्थः ।
लघुप्रभा
(व्या.टि.)
वैयर्थ्येन द्वितीयादेरिति शेषः । अनेन प्रयोजनवचनेन । एकवाक्यतेति ।। ‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्’ इत्येकवाक्यताया अर्थैक्यनिबन्धनतोक्तेरिति भावः ।