वाचाऽऽरम्भणं ..
वाचाम्भणश्रुत्यर्थविवरणम्
मूलम्
- ‘वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इत्यत्र च, वाचा नाम्नामारम्भणं विकारः, अविकृतं नित्यं नामधेयं मृत्तिकेत्येवेत्येतद्वचनं सत्यमिति श्रुत्यर्थः । न च वाचारम्भणशब्दोऽपि मिथ्यात्वे प्रसिद्धः । वाचारम्भणमात्रमिति चाश्रुतकल्पनम् । तस्मिन्पक्षे नामधेयशब्द इतिशब्दश्च व्यर्थस्स्यात् । अतो न कुत्रापि जगतो मिथ्यात्वमुच्यते ।
तत्त्वमञ्जरी
आरम्भणं विकारः । अत एवानित्यमित्यर्थः । विकारिणोऽनित्यत्वनियमात् । आरम्भण-शब्दस्यानित्यत्ववचनात् । तद्धर्मवतः प्राकृतनाम्नश्चानित्यत्वमुक्तं स्यात् । धर्मधर्म्यैक्यात् ।
टीका
नन्वेतद्दृष्टान्तत्रयोपपादनाय त्रयाणामपि वाक्यानां शेषाः सन्ति । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’, ‘वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम्’ ‘वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यम्’ इति । तत्र च विकारस्य मिथ्यात्वमुच्यते । वाचारम्भणं वागालम्बनम् । विकारो नामधेयं नामैव केवलं न विकारो नाम वस्त्वस्ति । परमार्थतो मृत्तिकेत्येव तु सत्यं वस्तु । अतः कारणव्यतिरिक्तस्य कार्यस्य मिथ्यात्वाद्, यथा सोम्यैकेनेत्युक्तम् उपपन्न-मिति । एवं श्रुत्या स्वयमेव विकारमिथ्यात्वस्य एकविज्ञानेन सर्वविज्ञाने हेतुत्वेनोक्तत्वात् कथं सादृश्यादेर्हेतुत्वमुच्यते । श्रुत्यभिप्राये निश्चिते पदवैयर्थ्यादिकं न दोष इत्यत उपलक्षणत्वेनैकं वाक्यं व्याख्याति- वाचेति ।। इत्यत्र च वाक्ये । इति श्रुत्यर्थः, श्रुत्या वचनवृत्त्या लभ्योऽर्थः । न तु परेषामिव काल्पनिक इत्यर्थः । अथ वा इत्यत्र वाक्ये न विकारमिथ्यात्वमुच्यत इति शेषः । कथं? यस्माद् इति श्रुत्यर्थः इति योजना ।
वाचा वागिन्द्रियेण । नाम्नां (असंस्कृतानाम्) संस्कृतातिरिक्तानां यद् आरम्भणम् उच्चारणं तद् विकार उत्पादनं, न तु संस्कृतस्येव व्यञ्जनम् । अतस्तानि विकृतानि । मृत्तिकेत्येव संस्कृतमेव नामधेयम् । अविकृतं नित्यञ्चेत्यर्थलभ्यम् । यथाऽस्मिन् ग्रामेऽन्ये दुराचाराः अयमेव तु ब्राह्मण इत्युक्ते सदाचार इति लभ्यते । सत्यं यथार्थम् । संस्कृतापभ्रंशशब्दयोर्नित्यत्वानित्यत्व-कथनमसङ्गतमिति चेन्न । नेदमुक्तदृष्टान्तोपपादकं वाक्यं, किन्तु प्राधान्याद् यदेकविज्ञानेन सर्वविज्ञानमुक्तं तत्र दृष्टान्तोऽनेनोच्यते । यथा अविकृतत्वात् नित्यत्वाच्च संस्कृतं प्रधानं, विकृतत्वात् साङ्केतिकमप्रधानं, तज्ज्ञानाद् यत्फल तत् संस्कृतज्ञानात्सम्पद्यते, तथा जगज्ज्ञानफल परमात्मज्ञानेन लभ्यत इति । एतदर्थं, यथा सोम्येत्यनुवर्तनीयम् ।
विकारमिथ्यात्वपरमेतत्किन्न स्यादिति चेन्न । अत्र मिथ्यात्ववाचिशब्दाभावात् । वाचारम्भण-शब्दोऽस्तीति चेत् स किं मिथ्यात्वे रूढः उत यौगिकः । नाद्य इत्याह- न चेति ।। अभिधानाद्य-भावादिति भावः । न द्वितीयः । अवयववृत्त्या मिथ्यात्वालाभात् । ननु यथाऽन्नमात्रं भुक्तमित्युक्ते व्यञ्जनाभावो लभ्यते, तथा वाचारम्भणमात्रमित्युक्ते वस्तुतो नास्तीति लभ्यत एवेत्यत आह- वाचेति ।। स्यादेवं यदि मात्रशब्दः श्रूयेत । न चैवम् । ततश्चाश्रुतकल्पनमेव दोष इत्यर्थः । न चाब्भक्षो, वायुभक्ष इतिवदत्रापि अवधारणकल्पकं किञ्चिदस्ति । किञ्चैवमवधारणाध्याहारेण वाचारम्भणशब्दान्मिथ्यात्वलाभाङ्गीकारे नामधेयमिति पुनरुक्तत्वेन व्यर्थं स्यात् । तस्यापि नामैव केवलं न विकारो नाम वस्त्वस्तीत्येवमेव व्याख्यातत्वादित्याह- तस्मिन्निति ।। अपि च मृत्तिका-शब्दस्य शब्दपदार्थकत्वमनङ्गीकृत्यार्थपदार्थकत्वाङ्गीकृतावितिशब्दो व्यर्थः स्यात् । अर्थान्तरा-सम्भवात् । पदार्थविपर्यास एव ह्यत्रेतिशब्दः । स च शब्दप्रकरणे प्रसक्तं शब्दपदार्थकत्वं निवार्यार्थपदार्थकत्वं व्यवस्थापयति- यथा ‘न वेति विभाषा’ इति । अर्थप्रकरणे तु शब्दपदार्थकत्वं यथा गौरित्ययमाहेति । अर्थशास्त्रञ्चेदम् । ततो विनैवेतिशब्देन प्रकरणादेव मृत्तिकाशब्द-स्यार्थपदार्थकत्वे सिद्धे किमितिशब्देन । अस्माकन्तु शब्दपदार्थकत्वव्यवस्थापनार्थत्वात् सार्थक एवेति भावेनाह- इतिशब्दश्चेति ।।
तद्वशत्वज्ञापनार्थं चेत्यादिनोक्तमर्थमुपसंहरति- अत इति ।। कुत्रापीति ।। सृष्टिवाक्ये, एकविज्ञानवाक्ये, दृष्टान्तवाक्ये, वाचारम्भणवाक्येऽपीत्यर्थः । न केवलं षष्ठस्य पूर्वार्धे, किन्तु श्रुत्यादौ कुत्रापीति वा । ततश्च न तद्विरोधादुत्तरार्धस्य भेदपरत्वव्याख्यानमयुक्तमिति ।
भावबोधः
श्रुत्या वचनवृत्त्येति ।। श्रुतिपदस्य वेदवाक्यपरत्वे इत्यत्रेत्यनेनासङ्गतिप्रसङ्ग इति भावः ।
भावदीपः
मिथ्यात्वमुच्यत इत्येतद्व्यनक्ति- वाचारम्भणमित्यादिना ।। विकार इति ।। विक्रियमाणो घटादि-रित्यर्थः । उपपन्नमितीतिशब्दो वाक्यशेषार्थोक्तिसमाप्तौ । सादृश्यादिहेतुकत्वोक्तेः को दोष उक्त इत्यतः श्रुत्यभिप्रायविरोध इति भावेनाह- एवमिति ।। एकादिपदव्यर्थतादेः कः परिहार इत्यत आह- श्रुत्यभिप्राय इति ।। इत्यत्रेत्यस्य इति श्रुत्यर्थ इत्यस्य चासाङ्गत्यनिरासाय द्वेधा तद्घटनामाह- इत्यत्र(च)वाक्य इत्या-दिना ।। श्रुत्यर्थ इति योजनेत्यत्र श्रुतेरर्थः श्रुत्यर्थ इति विग्रहः । वाचारम्भणवाक्यार्थ इत्यर्थः । असंस्कृतानां भाषाशब्दानामित्यर्थः । भावे घञन्तं विकारपदमिति भावेनाह- उत्पादनमिति ।। मृत्तिकेतिपदं संस्कृत-मात्रोपलक्षणमिति भावेनोक्तम्- संस्कृतं नामधेयमिति ।। कथमर्थलब्धतेत्यत आह- अस्मिन्ग्राम इति ।। इति लभ्यत इति ।। तथा प्रकृतेऽप्यसंस्कृतानि विकृतान्यनित्यानि च, संस्कृतं नामधेयं प्रधानमित्युक्तेऽविकृतं भावदीपः
नित्यं चेति लभ्यत इत्यर्थः । सत्यमित्यनुवादः यथार्थमिति व्याख्या । एतदर्थं दृष्टान्तत्वद्योतनार्थमि-त्यर्थः । अभिधानादीति ।। सङ्केतग्राहकव्याकरणादिरादिपदार्थः । इतिवदिति ।। तत्र हि सर्वेषामब्भक्षत्वा-विशेषेऽपि विशिष्याब्भक्षोऽयमिति व्यवहारानुपपत्तिरेवाम्मात्रभक्षो वायुमात्रभक्ष इति अस्ति कल्पकम्, इह तु नेत्यर्थः । शब्दपदार्थकत्वमिति ।। मृत्तिकेति यश्शब्दस्तत्स्वरूपार्थत्वमित्यर्थः । अर्थेति ।। मृत्तिकेत्यस्य मृद्रूपार्थपरामर्शित्वमित्यर्थः । कुतो व्यर्थ इत्यत आह- अर्थान्तरेति ।। पदार्थविपर्यासादन्यार्थस्यासम्भवात्पदार्थ-विपर्यासे प्रकरणप्राप्तपदार्थादर्थान्तरस्थापनविषय एव वर्तत इत्यर्थः । शब्दपदार्थकत्वमिति ।। स्वसम्बद्धपदस्येति योज्यम् । न वेति विभाषेतीति ।। व्याकरणे प्रथमपादे ‘न वेति विभाषा’ इति सूत्रं, तस्यार्थः न वा इति वर्णद्वयात्मकशब्दस्य योऽर्थः तस्य विभाषेति संज्ञा भवतीति । तस्य पदस्य ‘वृद्धिरादैच्’ इत्यारभ्य संज्ञाप्रकरणत्वात् ‘शि सर्वनामस्थानम्’ इत्यादौ शीति शकारेकाररूपवर्णद्वयात्मकशब्दस्य सर्वनामस्थानसंज्ञावत् ‘न वा’ इति द्वयोश्शब्दयोरेव विभाषेति संज्ञा प्राप्ता, तन्निवृत्त्यर्थं न वेति शब्दयोरर्थस्य ग्रहणार्थो यथा इतिशब्द इत्यर्थः । गौरितीति ।। गकारौकारविसर्गात्मकशब्दस्वरूपग्रहणार्थः तत्रेतिशब्दो यथेत्यर्थः । प्राक्तनदृष्टान्तोक्ति-रितिपदवैयर्थ्योपपादनाय, द्वितीया तु सिद्धान्तानुगुण्यायेति ज्ञातव्यम् ।
वाक्यार्थदीपिका
(श्री.टि.)
विकारो घटशरावादिर्वागालम्बनमिति सम्बन्धः । वागालम्बनमात्रम्, वाचा केवलमस्तीत्यारभ्यते न विकारो नाम वस्त्वस्ति परमार्थत इत्यर्थः । इत्युक्तम् एकविज्ञानेन सर्वविज्ञानमित्यर्थः । ननु विकार-मिथ्यात्वस्यैकविज्ञानेन सर्वविज्ञानहेतुत्वे उक्तरीत्या एकपिण्डादिपदवैयर्थ्यदोषप्रसङ्ग इति चेत्तत्राह- श्रुत्यभिप्राय इति ।। उपलक्षणत्वेनेति ।। तन्न्यायेनोत्तरवाक्यद्वयमपि व्याख्यातुं शक्यमिति भावः । श्रुत्यर्थ इत्यत्र श्रुतिपदस्य वेदवाक्यपरत्वे इत्यत्र वाक्ये इति श्रुत्यर्थ इत्यस्यासङ्गतत्वापत्तेस्तदर्थमाह- श्रुत्या वचनवृत्त्या लभ्योऽर्थ इति ।। अतस्तानि विकृतानीत्यनन्तरम् अनित्यानि चेति शेषः पूरणीयः । अविकृतं नित्यं नामधेयम् । मृत्तिकेत्येवेत्यत्र नामधेयमित्यन्वयमभिप्रेत्याह- मृत्तिकेत्येवेति ।। तस्य तात्पर्यार्थः- संस्कृतमेवेति ।। मूले अविकृतं नित्यमिति नामधेयमित्यनेनार्थाल्लब्धार्थ उक्त इत्याह- अविकृतं नित्यं चेतीति ।।
ननु संस्कृतातिरिक्तानि नामानि विकृतानि तत एवानित्यानि । मृत्तिकेत्येवं संस्कृतमेव नामधेयमित्युक्तेऽ-विकृतं नित्यं चेति कथमर्थाल्लभ्यत इत्यतस्तत्रोदाहरणमाह- यथाऽस्मिन्ग्राम इति ।। उपनिषदि उर्वरितस्य सत्यमित्यस्यार्थमाह- मूले एतद्वचनं सत्यमितीति ।। तत्र सत्यमित्यस्यार्थमाह- सत्यं यथार्थमिति ।। तथा च वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येवेत्येवं मया त्वां प्रत्युपदिश्व्ं वचनं सत्यं यथार्थं न तु प्रतारकमिति श्वेतकेतुं प्रत्युद्दालकवचनमिति ज्ञातव्यम् । असङ्गतमिति ।। यथा सोम्यैकेनेत्याद्युक्तार्थोपपादकत्वाभावा-दित्यर्थः ।
‘प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ।।’
(श्री.टि.) इत्यनुव्याख्यानं मनसि निधायोपपादयति- प्राधान्यादित्यादिना ।। तज्ज्ञानाद्यत्फलमिति ।। साङ्केतिकज्ञानाद्यत्फल विद्वद्व्यवहारगोचरत्वमित्यर्थः । जगज्ज्ञानफलमिति ।। कर्मादिज्ञानफल स्वर्गादिक-मित्यर्थः । लभ्यत इति ।। ‘ज्ञानादेव स्वर्गः’ इत्यादिश्रुतेरित्याशयः । ननूपनिषदि दृष्टान्तत्वज्ञापकाभावात्कथं प्राधान्यादेकविज्ञानेन सर्वविज्ञाने दृष्टान्तपरतया व्याख्यायत इत्यत आह- एतदर्थमिति ।। दृष्टान्तत्वज्ञाप-नार्थमित्यर्थः । ‘तनूर्वर्ष्टिष्टा’ इत्यादिवदिति भावः । इदमुपलक्षणम् । तेन तद्विज्ञातं स्यादित्येतदप्यनुषञ्जनी-यम् । तथा च यथा सोम्य वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं तेन तद्विज्ञातं स्यादित्यादिरूपेण वाक्यावृत्तिर्द्रष्टव्या । नन्वब्भक्षो वायुभक्ष इत्यत्रावधारणार्थकमात्रपदाभावेऽपि यथा मात्रपदं लभ्यते, तद्वदत्रापि किं न स्यादिति चेन्न । तत्र वैशिष्ट्यादिज्ञापनरूपस्यावधारणकल्पकस्य सत्त्वाद्, इह तदभावादित्याह- न चेति ।। नन्वत्रापि मिथ्यात्वज्ञापनमेवावधारणार्थकमात्रशब्दाध्याहारकल्पकमिति चेत्तत्राह- किञ्चेति ।। अर्थान्तरेति ।। ‘इति हेतुप्रकरणप्रकारावसितेष्वपि’ इत्यभिधानोक्तार्थान्तरेत्यर्थः । यथा न वेतीति ।। विकल्पवाचिनवेत्यर्थका ये शब्दा इत्यर्थः । अन्यथा शब्दपदार्थकत्वे नवेतिशब्दस्यैव विभाषासंज्ञाप्राप्त्या ‘यद्वा, अथवा’ इत्यादेः सा न स्यादिति भावः ।
केचित्तु इदं हि शब्दशास्त्रम्, अत्र विभाषाशब्दो यत्र वर्तते तत्रैव विकल्पार्थत्वे प्राप्ते तर्ह्यन्यतरस्यामित्यादौ विकल्पो न स्यादतः प्रसक्तं शब्दपदार्थकत्वं परित्यज्य इतिशब्दो विकल्परूपार्थपदार्थकत्वं व्यवस्थापयति । तथा च विभाषार्थकान्यतरस्यामित्यादिशब्दपरिग्रह इत्यर्थ इत्याहुः । तत्तुच्छम् । तथात्वे नवेतीत्यस्यानन्वय-वैयर्थ्ययोरापत्तेः । तथात्वे विभाषेति विकल्प इति वक्तव्यत्वेन नवेत्यस्य व्यधिकरणत्वादिति द्रष्टव्यम् । अर्थप्रकरणे त्वित्यनन्तरं प्रसक्तमर्थपदार्थकत्वं निवार्येति शेषः । गौरितीति ।। गोशब्दमुच्चारयतीत्यर्थः । अस्माकमित्यनन्तरं प्रसक्तमर्थपदार्थकत्वं निवार्येति शेषः । पूर्वार्धे जगतो मिथ्यात्वमुच्यत इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
अर्थान्तरेति ।। हेत्वादिरूपार्थान्तरेत्यर्थः । इतिशब्दस्य पदार्थवैपरीत्यार्थत्वं व्याकरणसम्मत्या दर्शयति- यथा न वेतीति ।। एतच्च टीकाकृतैव प्रथमाधिकरणे व्याख्यातम्- ‘शब्दप्रकरणे नवेतिशब्दयोर्विभाषा-संज्ञायां प्राप्तायां वैपरीत्यवाचिना इतिशब्देन तावर्थपरौ व्यवस्थाप्येते’ इति । विवृतं च वाक्यार्थचन्द्रिका-कृद्भिः । अत्र शब्दप्रकरण इत्यनेन ‘स्वं रूपं शब्दस्य’ इति शब्दपदार्थताप्रापकं सूचयति । नवेति शब्दयोरित्युक्त्या, नायं प्रतिषेधार्थो नवेत्येकनिपातः । ‘विभाषा दिक्समासे’ इति प्रकृते ‘न बहुव्रीहौ’ इति प्रतिषेधवैयर्थ्यापत्तेः । प्रदेशेषु नशब्द एवोपादेयश्च स्यात् । सङ्ख्यावाचकनवन्शब्दस्य वा प्रत्यग्रस्त्रीवाचकस्य नवाशब्दस्य वोपादाने (विभाषा)प्रदेशेष्वनुपपत्तिरेव । अतो निपातसमुदायस्यैवेदं ग्रहणम् इति परोक्तयुक्तिं सूचयति । अर्थपरावित्यस्य प्रतिषेधविकल्परूपार्थपरावित्यर्थः। यद्यपि प्राप्तविभाषास्थले ‘स्वरितञितः’ इत्यादिना नित्यमात्मनेपदे प्राप्ते ‘विभाषोपपदेन प्रतीयमाने’ इति विभाषा विधीयते । विभाषाशब्दश्च विकल्पार्थतया प्रसिद्धः । तथा च भावांशस्य सिद्धत्वादभावमात्रपरत्वम्, अप्राप्तविभाषायामप्यभावांशस्य स्थितत्वाद्भावांशमात्रपरत्वं च निषेधविकल्पयोः (पां.टि.) संज्ञाऽकरणेऽपि सिध्यतीति तयोः संज्ञाकरणमनर्थकम् । तथापि ‘विभाषा श्वेः’ इत्यत्र विधिमुखेन प्रवृत्तौ पित्स्वेव विभाषा सम्प्रसारणं स्यात् । कित्सु तु यजादित्वान्नित्यमेव स्यात् । प्रतिषेधमुखेन प्रवृत्तौ कित्स्वेव विकल्पेन तत् स्यात् । न पित्सु । एकवाक्यत्वाच्च न पित्सु विधिमुखेन, कित्सु निषेधमुखेन प्रवृत्तिर्युक्तेति प्रतिषेधविकल्पयोः संज्ञाकरणम् । संज्ञायां कृतायां पूर्वं प्रतिषेधे कित्सु प्रवृत्ते किदकिदाख्यो लिट् सर्व एव समीकृतो भवति । ततो विकल्पः सर्वत्र विधिमुखेन पक्षे सम्प्रसारणं सम्पादयतीति । अस्त्येवं संज्ञाकरणे ‘विभाषा श्वेः’ इत्यादौ प्रयोजनम् । एतच्च आकृतौ पदार्थसमुदाये सकृल्लक्षणं प्रवर्तत इति पक्षे प्रयोजनम् । प्रतिलक्ष्यं ‘विभाषा श्वेः’ इत्यस्य व्यापारे तु क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन प्रवृत्तिरिति न संज्ञाकरणप्रयोज-नम् । तथा चाकृतिपक्षे प्रतिषेधविकल्पार्थौ नवाशब्दाविति इतिशब्दो व्यवस्थापयतीति । अर्थप्रकरणे त्विति ।। अर्थप्रकरणे प्रसक्तमर्थपदार्थकत्वं विनिवार्य तं शब्दपदार्थतया इतिशब्दो व्यवस्थापयतीत्यर्थः । तत्रैव सम्प्रतिपन्नं दृष्टान्तमाह- यथेति ।। अर्थप्रकरणतया प्रसक्तं गोशब्दस्य सास्नादिमद्व्यक्त्यर्थत्वं विनिवार्य तं गोशब्दार्थतयेतिशब्दो व्यवस्थापयति यथेत्यर्थः । तर्हि त्वत्पक्षेऽपीतिशब्दस्य वैयर्थ्यमिति समानो दोष इत्यतः, अर्थप्रकरणतया प्रसक्तं मृद्रूपार्थकत्वं मृत्तिकाशब्दस्य विनिवार्य मृत्तिकाशब्दार्थकत्वव्यवस्थापकत्वात् न तद्वैयर्थ्यमिति भावेनाह- अस्माकं त्विति ।।
लघुप्रभा
(व्या.टि.)
तत्कथमित्यतो वाचारम्भणवाक्यं विवर्तमतमनु वितनोति- वागालम्बनमिति ।।
‘वाचा केवलमस्तीत्यारभ्यते विकारो घटः शराव उदञ्चनश्चेति ।
न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।।’
इति वाचस्पत्युक्तेरित्यर्थः । नामैवेति ।। ‘नामधेयमात्रं ह्येतदनृतम्’ इति तद्भाष्यादित्यर्थः । अत्रोपपादकानुक्तेः कथमुपपादनमित्यतस्तद्दर्शयति- अत इति ।। विकारमिथ्यात्वस्येति ।। ‘मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्तः’ इति तदीयोक्तेरित्यर्थः । एकं वाक्यमिति ।। गृहीत्वेति शेषः । मूलश्रुतिपदस्वारस्यमाह- श्रुत्या वचनवृत्त्येति ।। इति श्रुत्यर्थ इति हेतुपरमित्युरसिकृत्य साध्यमध्याहरति- न विकारेति ।। वाचेति तृतीयान्तं भिन्नं पदमित्याह- वागिन्द्रियेणेति ।। कृद्योगात्कर्मणि षष्ठ्यन्तमध्याहरति- नाम्नामिति ।। व्याचश्व्े- संस्कृ-तेति ।। विकार इति विपूर्वात्करोतेर्भावे घञिति मत्वाह- उत्पादनमिति ।। अनेन ‘न चारभ्यस्यारम्भणमिति युज्यते शब्दः’ इति तद्भाष्योक्तदोषं ध्वनयन् तद्व्यावर्त्यमाह- न त्विति ।। मृत्तिकेत्येवेत्यर्थशास्त्रीय इतिशब्दः शब्दपरः ‘गौरित्ययमाह’ इतिवदिति भावेन व्याचश्व्े- संस्कृतमेव नामधेयमिति ।। अविकृतत्वादिलाभः कथमित्यत उक्तम्- अर्थलभ्यमिति ।। तन्निदर्शयति- यथेति ।। अन्यत्र तु ‘‘नामधेयपदं नाम धेयं, नित्यं धार्यं नामेति पदभेदेनाविकृतत्वम्, ‘सदातनं सत्यम्’ इति सत्यपदं नित्यत्वं चाह’’ इति मुखत एव आहे-त्याह । तत्पक्षे ‘नामभागरूपेभ्यो धेयः’ इति न धेयोऽवधेयः । किन्तु दधातेर्यति ‘ईद्यति’ इतीकारे गुणे च कृदन्तमिति बोध्यम् । सत्यपदं व्याचश्व्े- सत्यं यथार्थमिति ।। सत्यं वद इत्यादौ याथार्थ्ये प्रयोगादित्यर्थः । (व्या.टि.) असङ्गतमिति ।। प्रकृतानुपयोगादित्यर्थः ।
‘प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ।।’
इत्यनुव्याख्यानमनुसन्दधान आह- नेदमित्यादिना ।। यत्फलमिति ।। विद्वद्व्यवहारगोचरत्वादिकम् । नन्व-त्रोपमावाचकपदाभावात्कथमेवं निदर्शनमित्यत आह- एतदर्थमिति ।। अभिधानादीत्यादिना व्याकरणम् । किमत्रावधारणं श्रूयते कल्प्यते वा । नाद्य इत्याह- स्यादेवमिति ।। न द्वितीय इत्याह- न चाब्भक्ष इति ।। उत्तरं ग्रन्थं भावाभिधानेनावतारयति- किञ्चेति ।। ‘पक्ष परिग्रहे’ इति धातुं मत्वा मिथ्यात्वलाभाङ्गीकार इति व्याख्याय प्रकारान्तरेणापि व्याचश्व्े- मृत्तिकाशब्दस्येति ।। एकार्थं परिशेष्य तदभावाद्वैयर्थ्यं परमत इत्याह- अर्थान्तरेति ।। प्रकारवचनत्वे दार्ष्टान्तिके ब्रह्मणि प्रकाराभावेनासम्भवादिति भावः । नवेति विभाषेति यथेति ।। तस्य ‘न वा’ इति निपातद्वयस्य योऽर्थो निषेधविकल्पात्मकस्तस्य विभाषेति संज्ञेत्यर्थः । अर्थपदार्थत्व इति ।। मृद्रूपार्थपरत्व इत्यर्थः । मूले तत्पक्ष इति पक्षपदेन पक्षान्तरे सार्थक्यं ध्वनितं तदाह- अस्माकन्त्विति ।। कुत्रापीत्यपिरभिव्याप्तावित्याशयेन व्याचश्व्े- सृष्टिवाक्य इत्यादिना ।। भेदपरत्वेति ।। नञ्प्रश्लेषेणेत्यर्थः । इतीति नवकृत्वोऽभ्यासव्याख्यासमाप्तौ ।