प्रतिज्ञा हेतुगर्भैव ..

प्रतिज्ञादीनां प्रत्येकमनुमान स्मृत्यादिहेतुत्वसमर्थनम्

मूलम्

- प्रतिज्ञा हेतुगर्भैव पृथक्प्रामाण्यमेष्यति ।

सिद्धत्वेन प्रतिज्ञाया हेतुर्मानं पृथग्भवेत् ।

प्रतिज्ञावयवत्वात्तु स्वातन्त्र्येणैव मानताम् ।

दृश्वन्तो यात्युपनयो व्याप्तिमाश्रित्य केवलम् ।

व्याप्तिस्तु केवलाऽपि स्यात् प्रमाणं नियमाश्रयात् ।

तथा निगमनं चोपसंहारैकस्वरूपतः ।

प्रामाण्यं यात्यनुभवो ज्ञापयत्युपपत्तिताम् ।।

तत्त्वमञ्जरी

तदेवोपपादयति- प्रतिज्ञेति ।। अत्रैतान्युदाहरणानि - मानसिद्धं जगत् सत्यमिति हेतुगर्भा प्रतिज्ञैव पृथक् प्रामाण्यमेष्यति । कथं जगतः सत्यत्वमिति प्रतिज्ञायाः सिद्धत्वेन मानसिद्धत्वादिति हेतुः पृथङ् मानं भवेत्  । जगत् सत्यं यन्मानसिद्धं तत् सत्यं यथाऽऽत्मेति प्रतिज्ञावयवत्वेन दृष्टान्तः । यन्मानसिद्धं तत् सत्यं मानसिद्धं च जगदित्युपनयः । व्याप्तिस्त्विति तुशब्दः प्रतिज्ञायाः सिद्धत्वद्योतकः । कथं जगतः सत्यत्वमित्युक्ते यन्मानसिद्धं तत् सत्यमिति व्याप्तिः । मानसिद्धत्वात् सत्यमेव जगदिति निगमनं च केवलमपि प्रामाण्यं याति । एवंविधायाः कथमुपपत्तित्वज्ञानमित्यत आह- अनुभव इति ।।

टीका  

ननु प्रतिज्ञायां लिङ्गं वा तद्धर्मयोर्व्याप्तिपक्षधर्मतयोरन्यतरद्वा न स्फुरति । तत्कथ-मनुमानस्मृत्यादिहेतुत्वं तस्या इत्यत आह- प्रतिज्ञेति ।। हेतुगर्भा हेत्वर्थगर्भा हेत्वर्थविशेषण-धर्मिकेत्यर्थः । न तु शुद्धा प्रतिज्ञेत्येवार्थः । पृथगवयवान्तरानपेक्षया । प्रामाण्यमनुमानस्मृत्यादि-हेतुत्वम् ।

धूमवान्पर्वतोऽग्निमानित्युक्ते श्रोतुर्विमर्शो जायते । मया प्रमाणे पृष्टेऽनेनेदमुदितम् । तत्र पर्वतोऽ-ग्निमानित्येतावद्विषयवचनम् । ततो नूनं धूमवानिति प्रमाणोक्तिर्भवितुमर्हति । न चेदं प्रत्यक्षमागमो वा । अतो लिङ्गमेवेदमिति निश्चित्य तदीये व्याप्तिपक्षधर्मते सुस्मूर्षतेऽनुसन्धत्ते, जिज्ञासते वेति किमनुपपन्नम् । अधिकं न्यूनं वै (चै) तदिति किमिति नाशङ्कते । युक्तमेवायं ब्रवीतीति वादिनि प्रतिवादिनः प्रत्ययाभावादिति चेन्न, एवंविधानां वाचोयुक्तीनां लोके शास्त्रे च सांव्यवहारिकत्वेन तदतिक्रमणेन शङ्कानुदयात् । अन्यथाऽग्निशब्दस्यौषधविशेषार्थत्वं गृहीत्वाऽसङ्गतिमप्याशङ्केत । तथात्वे छलेन निगृह्यत इति चेत्, तदेव कुतः । प्रकरणाद्यननुसन्धानादिति चेत्समं प्रकृतेऽपीति ।

ननु हेतुमात्रं कथमनुमानस्मृत्यादिहेतुर्भवेत्, साध्यधर्माप्रतीत्या व्याप्तेः, धर्म्यप्रतीत्या पक्षधर्मतायाश्च स्मरणाद्यनुदयादित्यत आह- सिद्धत्वेनेति ।। प्रतिज्ञायाः प्रतिज्ञार्थस्य । साध्यधर्मविशिष्टस्य धर्मिणो विवादतः,  पर्वतस्याग्निमत्त्वं  कुत  इत्यादिप्रश्नवाक्येन  वा  सिद्धत्वेन बुद्धिस्थत्वेन कारणेन । मानमनुमानस्मृत्यादिहेतुः ।

ननु दृष्टान्तवचनमात्रस्य कथमनुमानस्मरणादिकारणत्वम् । लिङ्गधर्म्याद्यन्यतमस्यापि ततोऽ-स्फुरणादित्यत आह- प्रतिज्ञेति ।। प्रतिज्ञा अवयवः  सहकारिणी यस्यासौ तथोक्तस्तस्य भावस्तत्त्वं तस्मात् । तच्च विवादादिनोक्त्या वा न कश्चिद्विरोधः । तुशब्दश्चशब्दार्थे । तेन हेतुगर्भत्वं समुच्चिनोति । अन्यथा लिङ्गधर्मिणोऽप्रतीतौ प्रतिज्ञाऽपि व्यर्था स्यात् ।

लिङ्गधर्मिणः पक्षधर्मतायाश्च प्रतीतावपि साध्यधर्मस्याप्रतीत्या व्याप्तिस्मृत्याद्ययोगात् कथमुप-नयमात्रस्योपयुक्तत्वमित्यत आह- उपनय इति ।। व्याप्तिं व्याप्तिवचनम् । केवलमिति क्रिया-विशेषणं दृष्टान्तोक्तिम(प्य)नपेक्ष्येति । मानतां यातीति वर्तते । दृष्टान्तानुक्तौ तथेत्यस्यार्थो न प्रतीयत इति चेन्न । यो धूमवानसावग्निमान् धूमवांश्चायं पर्वत इत्येतावता पूर्णत्वात् । व्याप्ति-माश्रित्येत्यपि पक्षान्तरप्रदर्शनम् । अन्यथा ‘सिद्धत्वेन प्रतिज्ञायाः’ इत्युक्तरीत्यैवोपपत्तेः ।

प्रागनुक्तमपि प्रकारान्तरमाह- व्याप्तिस्त्विति ।। प्रतिज्ञार्थसिद्धिसमुच्चयार्थस्तुशब्दः । अन्यथा पक्षधर्मताऽप्रतीतेः । कुतः पर्वतोऽग्निमानिति प्रश्नवाक्येन सह व्याप्त्युक्तिमात्रस्यान्वयो नास्त्येवेत्यत उक्तम्- नियमाश्रयादिति ।। यो धूमवानसावग्निमानिति नियमादित्याद्युक्तेराश्रयणादित्यर्थः । निगमनस्य तु स्मारकत्वादिकं स्फुटमेवेत्याह- तथेति ।। सम्पूर्णप्रयोग इवेत्यर्थः । उपसंहारैक-स्वरूपत इति ।। सर्वार्थसङ्ग्राहकत्वादित्यर्थः । अग्निना व्याप्तस्य धूमस्य पर्वते विद्यमानत्वात् पर्वतोऽग्निमानित्यादिरूपं वाक्यमत्र विवक्षितम् ।

ननूक्तविधस्य प्रतिज्ञादिमात्रस्य स्मरणादिहेतुत्वं कुतः  प्रमाणादिति चेत्,  पञ्चाद्यवयवस्य महावाक्यस्यापि कुतः । स्मरणादेस्तद्भावभावित्वानुभवादिति चेत्, समानमेतदत्रापीत्याह- अनुभव इति ।। प्रतिज्ञादीनाम् उपपत्तितां तत्स्मारकत्वादिकम् । एतेन ‘अपौरुषेयत्वात्’ इत्यादयः प्रयोगाः समाहिता भवन्ति ।

भावबोधः

परोपदेशस्यावयवद्वयोपेतत्वनिरासार्थमाह- हेत्वर्थेति ।। हेतुवाक्यसाहित्येन विना हेत्वर्थगर्भत्वमपि कथमित्यत उक्तम् । हेत्वर्थविशेषणधर्मिकेति ।। अनुसन्धत्त इति ।। पक्षवृत्तिलिङ्गनिष्ठतयेति शेषः । अधिकं न्यूनमिति ।। धूमवानित्यस्य प्रतिज्ञायामनपेक्षितत्वेनाधिकम् अवयवान्तरराहित्येन न्यूनमित्यर्थः । असङ्गति-मिति ।। अर्थान्तरस्यासङ्गतावन्तर्भावादिति भावः । अवयवद्वयोपेतत्वनिरासार्थमाह- प्रतिज्ञार्थस्येति ।। हेतुप्रयोगकाले समयबन्धादिना विवादस्य व्यवहितत्वाद्धेतुवाक्यस्यान्वयाभावेनापार्थकत्वप्रसङ्गादाह- पर्वत-स्याग्निमत्त्वमिति ।। अन्यपदार्थस्य दृष्टान्तवचनस्य कथं प्रतिज्ञा अवयवः, तदेकदेशत्वाभावादित्यत आह- सहकारिणीति ।। नन्वेवं सति परोपदेशस्यावयवद्वयोपेतत्वापत्त्या ‘पृथक्पृथक्’ इत्युक्तविरोध इत्यत आह- तच्चेति ।। व्याप्तिविशेषणत्वे केवलामिति भवेदित्यत आह- क्रियाविशेषणमिति ।। पक्षान्तरेति ।। यथा प्रतिज्ञादीनां हेतुगर्भत्वादिना एकैकधैव व्याप्त्यादिमल्लिङ्गस्मारकत्वादिकं न तथोपनयस्य । किन्तु भिन्नभिन्नसह-कारियोगेनानेकधा तत्स्मारकत्वादीत्येवंरूपपक्षान्तरेत्यर्थः । तदेव विपक्षे बाधकेनोपपादयति-अन्यथेति ।। नियमादित्याद्युक्तेरिति ।। तथा च नियमेति वाक्येन पञ्चम्यन्ततद्वाचकपदजातं लक्ष्यत इत्युक्तं भवति । ननु तस्मात्तथेत्येवंरूपेण निगमनेन साध्यादिप्रतीतिद्वारा कथं व्याप्त्यादिमल्लिङ्गस्मृत्यादीत्यत आह- अग्निनेति ।।

भावदीपः

लिङ्गवचनरूपहेतोः प्रतिज्ञागर्भत्वायोगादाह- हेत्वर्थेति ।। लिङ्गेत्यर्थः । पर्वतो धूमवान् वह्निमानित्युक्तेऽपि व्याप्त्यादिमल्लिङ्गलिङ्गिभावाप्रतीतेराह- हेत्वर्थेति ।। हेत्वर्थो लिङ्गं विशेषणं यस्य स तथा, हेत्वर्थविशेषणो धर्मी यस्यास्सा हेत्वर्थविशेषणधर्मिकेत्यर्थः । एवार्थः एवकारार्थः । सुस्मूर्षत इति ।। स्मर्तुमिच्छतीत्यर्थः । गृहीतव्याप्तिकपुरुषापेक्षयोक्तम्- अनुसन्धत्त इति ।। अगृहीतव्याप्तिकं प्रत्याह- जिज्ञासत इति ।। व्याप्तिपक्षधर्मते इत्यनुषङ्गः । शङ्कते- अधिकमिति ।। पर्वतो अग्निमानिति प्रतिज्ञायां धूमवान्पर्वत इति विशेषणांशस्याधिकत्वाद्धेत्वाद्येकैकावयवोक्तौ प्रतिज्ञादेरनुक्त्या न्यूनतारूपनिग्रहस्थानं शङ्कत इत्यर्थः । वाचो-युक्तीनामिति ।। ‘वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु’ इति षष्ठ्या अलुक् । एवंवचनानामित्यर्थः । लोके काव्यपुराणादौ । ‘ईक्षतेर्नाशब्दम्’ इत्यत्र परमते प्रधानं जगत्कारणं न अशब्दत्वादिति हेतुगर्भम् । स्वमते च ‘गुहां प्रविष्टावात्मानौ’ इत्यत्र ऋतं पिबन्तावात्मानौ गुहां प्रविष्टत्वादिति हेतुगर्भमिति शास्त्रे चेत्युक्तम् । औषधेति ।। चित्रमूलादीति भावः । असङ्गतिमिति ।। हेत्वादेः प्रतिज्ञया सहानन्वितत्वमर्थान्तरत्वं शङ्केतेत्यर्थः। तदेवेति ।। परेणार्थान्तरोक्त्याऽसङ्गतौ शङ्कितायां छलाख्यनिग्रहस्थानकथनं कुत इत्यर्थः ।

पर्वते अग्निरस्ति वा न वेत्यादिविवादेनार्थस्योपस्थितावपि पर्वतोऽग्निमानित्यादिप्रतिज्ञासिद्धेरभावाद्वा वक्ष्यमाणप्रश्नवाक्यसङ्ग्रहाय वाऽह- प्रतिज्ञार्थस्येति ।। समयबन्धादिना विप्रतिपत्तेर्व्यवहितत्वान्न कथारम्भसमये तदुपस्थितिरित्यत आह- पर्वतस्येति ।। समयबन्धानन्तरं पर्वतस्याग्निमत्त्वं कुत इति प्रश्नवाक्येन पुनरपि तदुपस्थितिरिति भावः । हेतौ तृतीयेति भावेनाह- कारणेनेति ।। ननु कुत इति प्रमाणप्रश्ने धूमादित्येव हेतुवचनेन भाव्यं नतु धूमवत्त्वादिति । अधिकोक्तौ निग्रहप्राप्तेः । तथाच पक्षधर्मताया अलाभान्न्यूनतेति चेन्न । पक्षस्य साध्यवत्त्वे को हेतुरित्याकाङ्क्षाशामकेन हेतुवचनेन पक्षसम्बन्धस्य बोधनीयत्वात् । तच्चेति ।। प्रतिज्ञारूपावयव-सहकारित्वमित्यर्थः । विवादादिनेति ।। कथं चाग्निमत्त्वं पर्वतस्येति प्रश्न आदिपदार्थः । ननु ताभ्यां पर्वतोऽ-ग्निमानिति प्रतिज्ञारूपोऽवयवो न लभ्यत इत्यत आह- उक्त्या वेति ।। तथाच धूमवन्महानसवत् पर्वतोऽग्निमानिति प्रतिज्ञाहेतुगर्भोदाहरणैकदेशदृष्टान्तवचनमिति सिद्ध्यतीति भावः । कुत एवमित्यत आह- अन्यथेति ।। हेतु-गर्भत्वाभाव इत्यर्थः । लिङ्गाख्यधर्मिणः इत्यर्थः ।

प्रतिज्ञाऽभावे बाधकमाह- लिङ्गधर्मिण इति ।। व्याप्तिस्थलरूपदृष्टान्तवचनमात्रोक्तावप्यनुमानमुद्राऽभिज्ञस्य व्याप्तिस्मृतिर्भवत्येवेति यो यो धूमवानित्यादिव्याप्तिप्रदर्शकोक्तिर्नापेक्षिता । धूमवदिति दृष्टान्तविशेषणोक्त्या पक्षधर्मता  चोपस्थितेति  भावः    नचास्मिन्पक्षेऽपि  विवादेनैव  साध्योपस्थित्या  गतार्था(व्यर्था)प्रतिज्ञेति शङ्क्यम् । स्वपक्षं साधयेत्यनुयोग एवास्य प्रवृत्तत्वादिति । केवलामिति वाच्यमित्यत आह- क्रिया-विशेषणमिति ।। नतु व्याप्तिविशेषणमिति भावः । तथाचायं धूमवान् इत्युपनयाकारमुपेत्य शङ्कते- दृष्टान्ता-नुक्ताविति ।। ननु विवादेन प्रतिज्ञार्थसाध्योपस्थित्या व्याप्तिस्मृतिसम्भवेन धूमवानयमित्युपनयोक्तिमात्रेण पक्षधर्मताया अप्युपस्थित्या अग्निमत्त्वाभावेन ‘व्याप्तिमाश्रित्योपनयो मानतां याति’ इति व्याप्त्याश्रयोक्तिः किमर्था । तेन विनाऽपि व्याप्तिस्मृतिसम्भवादित्यतः, सत्यं स एकः प्रकारोऽयमन्यः प्रकार इत्याह- व्याप्ति-माश्रित्येति ।। पर्वतस्याग्निमत्त्वे किं प्रमाणमिति पृश्व्े योयो धूमवानसावग्निमानयं धूमवानित्युक्तिमात्रेण व्याप्तिपक्षधर्मतयोरनुसन्धानसम्भवादिति पक्षान्तरमित्यर्थः    व्याप्त्युक्तिं विनोपनयमात्रपक्षाद्व्याप्त्युक्ति-सहितोपनयरूपपक्षान्तरे प्रागुक्तोपनयपक्ष एवायं किं न स्यादित्यत आह- अन्यथेति ।। पक्षान्तरत्वाभाव इत्यर्थः । प्रतिज्ञार्थसिद्धीति ।।  केन  सिद्धिरित्यतः प्रश्नवाक्येनेति व्यञ्जयन् तत्समुच्चयाभावे बाधकमाह- अन्यथेति ।। व्याप्त्युक्तिमात्रस्येति ।। यो धूमवानसावग्निमानित्युक्तिमात्रस्येत्यर्थः । ननु तस्मात्तथेत्यनेन विवक्षितस्मृतिः कथमित्यत आह- अग्निनेति ।। कुत इत्यस्योत्तरं वाचयति- स्मरणादेरिति ।। तत्स्मारक-त्वादिकमिति ।। जिज्ञासाजनकत्वमादिशब्दार्थः । एतेनेति ।। ‘सिद्धत्वेन प्रतिज्ञाया हेतुर्मानं पृथग्भवेत्’ इत्यादिकथनेनेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

‘युक्तिः प्रतिज्ञारूपा च’ इत्यादिनोक्तं प्रतिज्ञादेरेकैकस्यैव व्याप्त्यादिमल्लिङ्गस्मृत्यादिकारणत्व-मुपपादयितुमुत्तरो ग्रन्थः । तत्र प्रतिज्ञाया व्याप्त्यादिमल्लिङ्गस्मृत्यादिकारणत्वमुक्तम्, तन्न सम्भवतीत्याशङ्कते- नन्विति ।। ननु ‘प्रतिज्ञा हेतुगर्भा’ इत्युक्त्या परोपदेशस्यावयवद्वयोपेतत्वं प्रतीयते । तदयुक्तम् । पृथगित्य-वयवान्तरानपेक्षत्वोक्तिविरोधादतो व्याचश्व्े- हेत्वर्थगर्भेति ।। केचित्तु पक्षवचनरूपप्रतिज्ञाया लिङ्गवचन-रूपहेतुगर्भत्वाभावादाह- हेत्वर्थेतीत्याहुः । हेतुवाक्यसाहित्येन विना हेत्वर्थगर्भत्वस्याप्यसम्भवादाह- हेत्व-र्थेति ।। लिङ्गवचनरूपो यो हेतुः, तदर्थो यो लिङ्गरूपो धर्मः(धूमः) तद्विशेषणकधर्मिका तद्विशेषणको यो धर्मी पर्वतः तत्का तद्वती तत्प्रतिपादिका, धूमवान्पर्वतोऽग्निमानित्येवमाकारा प्रतिज्ञेत्यर्थः । शुद्धेति ।। हेत्वर्थाविशेषणधर्मिका पर्वतोऽग्निमानित्येवमाकारेत्यर्थः । अनुमानस्मृत्यादिहेतुत्वमिति ।। व्याप्त्यादि-मल्लिङ्गस्मृत्यादिजनकत्वेनोपयुक्तत्वमित्यर्थः ।

तदुपपादयति- धूमवानित्यादिना ।। विषयवचनमिति ।। साध्यधर्मविशिष्टधर्मिवचनमित्यर्थः । निश्चि-त्येत्यनन्तरं गृहीतव्याप्तिकश्चेदिति शेषः । सुस्मूर्षते स्मरति । अनुसन्धत्ते पक्षवृत्तिलिङ्गनिष्ठतयेत्यर्थः । जिज्ञासते वेति ।। अगृहीतव्याप्तिकश्चेदिति शेषः । ननु धूमवानिति नूनं प्रमाणोक्तिर्भवितुमर्हति निश्चयो न सम्भवतीत्या-शङ्कते- अधिकं न्यूनं वैतदिति ।। धूमवानित्येतत्प्रतिज्ञायामनपेक्षितत्वादधिकम् अवयवान्तरराहित्यान्न्यूनं वेत्यर्थः । किमिति नाशङ्कत इति ।। तथा च धूमवानिति प्रमाणोक्तिरिति न निश्चिनोतीति भावः । ननु वादिनः प्रामाणिकत्वेनायुक्तवादित्वाभावादाधिक्यादिनिग्रहस्थानास्पदं वचनं कथं वदिष्यतीति निश्चित्य (श्री.टि.) धूमवानिति प्रमाणोक्तिरित्येव निश्चेष्यतीत्यत आह- युक्तमेवेति ।। शङ्कानास्पदं प्रामाणिकमेवे-त्यर्थः । प्रत्ययाभावात् विश्वासाभावात् । अतः आधिक्यादिशङ्कया धूमवानिति प्रमाणोक्तिरिति निश्चयो न युक्त इति भावः । एवंविधानां हेतुगर्भविशेषणाभिप्रायेण प्रयुज्यमानानाम् । वा(चोयु)ग्युक्तीनामिति ।। युक्तिर्योगः प्रकारो रीतिरिति यावत् । तथा च वाग्रीतिनामित्यर्थः । शङ्केति ।। आधिक्यादिशङ्केत्यर्थः । तथा च धूमवानिति प्रमाणोक्तिरित्येव निश्चेष्यतीति भावः । अन्यथेति ।। लोकशास्त्रव्यवहारातिक्रमेण आधिक्यादि-शङ्कोदयमङ्गीकृत्य धूमवानिति प्रमाणोक्तिरिति निश्चयानङ्गीकार इत्यर्थः । ओषधिविशेषार्थत्वम् अग्निशब्दस्य चित्रमूलपर्यायत्वेन तदर्थकत्वमित्यर्थः । यथा हि धूमवान् पर्वतोऽग्निमानित्यत्र धूमवानित्यंशे आधिक्यादिशङ्का क्रियते । एवमग्निमानित्यंशेऽग्निशब्दस्य चित्रमूलार्थत्वमादायासङ्गतिशङ्काऽपि स्यात् । लोकशास्त्रव्यवहारातिक्रमे शङ्काया निरङ्कुशत्वादिति भावः । अग्निमानित्यंशेऽसङ्गतिर्नाशङ्क्यत इत्याशङ्कते । तथात्व इति ।। वादिप्रयुक्ताग्नि-शब्दस्य वाद्यनभिमतार्थान्तरमादाय असङ्गतिशङ्कायां छलेन प्रतिवादिनो निग्रहः स्यादित्यर्थः । तदेवेति ।। छलमेव कुत इत्यर्थः । तत्र निमित्तमाशङ्कते- प्रकरणादिति ।। प्रसिद्धाग्निप्रकरणमननुसन्धाय अर्थान्तरं कल्प-यित्वाऽसङ्गत्या दूषणादित्यर्थः । सममिति ।। मया प्रमाणे पृश्व्े वादिना धूमवानित्युक्तमिति प्रमाण-प्रकरणमननुसन्धाय प्रमाणोक्तिरूपं तदभिप्रायम् अज्ञात्वाधिक्यादिशङ्कायां छलेन निग्रहः समान एवेति, तथा शङ्कामकृत्वा प्रमाणोक्तिरियमित्येव निश्चित्य तदीये व्याप्तिपक्षधर्मते सुस्मूर्षते अनुसन्धत्ते जिज्ञासते वेति किमनुपपन्नमित्युक्तं युक्तमेवेति भावः ।

साध्यधर्मेति ।। व्याप्तिनिरूपकभूतेत्यर्थः । व्याप्तेस्तन्निरूपितायाः । अनुदयादिति ।। अतस्तदर्थं प्रतिज्ञा-रूपमवयवान्तरमपेक्षितमिति भावः । ननु ‘सिद्धत्वेन प्रतिज्ञायाः’ इति प्रतिज्ञावाक्यस्य सिद्धत्वोक्त्या अवयवद्वयावश्यकत्वं प्रतीयते । तथा च पृथक्पृथगित्युक्तविरोध इत्यत आह- प्रतिज्ञार्थस्येति ।। ननु प्रतिज्ञा-वाक्याभावे तदर्थस्य कथं सिद्धिरित्यतः प्रकारद्वयेन सिद्धत्वमुपपादयति- विवादत इत्यादिना ।। एको ब्रूते पर्वतोऽग्निमानिति, अपरस्तु नेतीत्येवं विवादत इत्यर्थः । अनुमानस्मृत्यादिहेतुरिति ।। व्याप्त्यादिमल्लिङ्ग-स्मृत्यादिजनकत्वेनोपयुक्तमित्यर्थः । धर्म्यादीत्यादिपदेन व्याप्तिपक्षधर्मताग्रहणम् । अस्फुरणादिति ।। अतस्तदर्थमवयवान्तरमपेक्षितमिति भावः । ननु प्रतिज्ञावयवत्वादिति बहुव्रीहावन्यपदार्थस्य दृष्टान्तपदोपलक्षितस्य कथं प्रतिज्ञावयवत्वं, प्रतिज्ञाया दृष्टान्तैकदेशत्वाभावादित्यतोऽवयवपदार्थमाह- सहकारिणीति ।। नन्वेवं सत्यवयवद्वयोपेतत्वापत्त्या पृथक्पृथगित्युक्तिविरोध इत्यत आह- तच्चेति ।। प्रतिज्ञावयवत्वं सहकारिभूतप्रतिज्ञार्थ इति यावत् । अत्रादिपदेन पर्वतस्याग्निमत्त्वं कुत इति प्रश्नवाक्यग्रहणम् । उक्त्या वेति ।। पर्वतोऽग्निमानित्युक्त्या वेत्यर्थः । न चावयवद्वयप्रयोगापत्तिरिति वाच्यम् । ‘दृष्टान्तः सप्रतिज्ञो हेतुगर्भः’ इत्युक्तत्वेन धूमवन्महानस-वत्पर्वतोऽग्निमानित्येवं सप्रतिज्ञहेतुगर्भदृष्टान्तवचनस्यैव पृथगवयवान्तरप्रयोगमनपेक्ष्य स्वातन्त्र्येणोपयुक्त-ताङ्गीकारात् ।

(श्री.टि.)  नन्वेवं प्रयोगे प्रतिज्ञावाक्यस्यैव दृष्टान्तसाहित्यं प्राप्तं न तु दृष्टान्तस्य प्रतिज्ञासाहित्यमिति चेत्सत्यं तथाऽपि  प्रतिज्ञाया  दृष्टान्तसाहित्योक्तौ  दृष्टान्तेऽपि  प्रतिज्ञासाहित्यमर्थाल्लब्धमेवेत्याशयात्  । हेतुगर्भत्व-मिति ।। दृष्टान्तस्य लिङ्गवचनरूपहेतुगर्भत्वाभावाद्धेत्वर्थगर्भत्वमिति व्याख्येयम् । धूमवन्महानसवदिति तदा-कारः । अन्यथेति ।। हेतुगर्भत्वसमुच्चयाभाव इत्यर्थः । लिङ्गधर्मिण इति ।। लिङ्गरूपस्य धर्मिण इत्यर्थः । तस्यापि व्याप्त्यादिकं प्रति धर्मित्वादिति भावः । व्यर्था स्यादिति ।। पक्षनिष्ठतया हेत्वप्रतीत्या प्रतिज्ञाऽपि व्यर्था स्यात् । प्रतिज्ञारूपसहकारिसाहित्यं दृष्टान्तस्योच्यमानमपि व्यर्थमेव स्यात् । व्याप्त्यादिमल्लिङ्गस्मारकत्वाद्य-योगेनोपयुक्तं न स्यादिति यावदित्यर्थः । उपनयमात्रस्य व्याप्त्यादिमल्लिङ्गस्मारकत्वमुक्तं तदयुक्तमित्याशङ्कते- लिङ्गधर्मिण इति ।। लिङ्गरूपस्य धर्मिण इत्यर्थः । प्रतीतावपीति ।। तथा चायं धूमवानित्युपनयवाक्येनेत्यर्थः। व्याप्तीति ।। साध्यनिरूपितेत्यर्थः । अयोगादिति ।। तथा च तदर्थं प्रतिज्ञावाक्यमपेक्षितमतः पृथक्पृथगित्युक्ति-विरोध इति भावः । व्याप्तिवचनमिति ।। तथा च व्याप्तिनिरूपकत्वेन साध्यधर्मस्य व्याप्तिवचनेनैव प्रतीतत्वान्न तदर्थं प्रतिज्ञावाक्यमपेक्षितमिति भावः । क्रियाविशेषणमिति ।। आश्रित्येतिक्रियाविशेषणमित्यर्थः । व्याप्ति-विशेषणत्वे केवलामिति स्यादिति भावः । ‘क्रियाव्ययविशेषणानां क्लीबाव्ययत्वं वाच्यम्’ इतिवचनात्केवल-मित्यस्य नपुंसकत्वं युक्तमिति द्रष्टव्यम् । तदभिप्रायमाह- दृष्टान्तोक्तिमपीति ।। व्याप्तिवचनसाहित्येनोप-नयाकारं दर्शयति- यो धूमवानित्यादिना ।। तथा च धूमवांश्चायं पर्वत इत्येवोपनयाकारो न तथा चायं धूमवानिति येन दृष्टान्तोक्त्यपेक्षा स्यादिति भावः । ननूपनयवाक्यस्य व्याप्तिवचनसाहित्याङ्गीकारेऽवयवद्वयनियमापत्तिरित्यत आह- व्याप्तिमाश्रित्येत्यपीति ।। न केवलं ‘सिद्धत्वेन प्रतिज्ञायाः’ इत्युक्तप्रकारेण साध्यप्रतीतिः किन्तु व्याप्तिमाश्रित्येत्यपि साध्यप्रतीतौ पक्षान्तरप्रदर्शनं प्रकारान्तरप्रदर्शनं कृतमित्यर्थः । तथा हि । पूर्वं हेतुवाक्यस्य व्याप्त्यादिमल्लिङ्गस्मारकत्वाद्युक्तौ साध्यधर्माद्यप्रतीतौ तन्निरूपितव्याप्त्यादिस्मरणासम्भवेन तदुपेतलिङ्गादि-स्मारकत्वं न सम्भवतीत्याशङ्कायां ‘सिद्धत्वेन प्रतिज्ञायाः’ इत्यनेन साध्यधर्मादिप्रतीतिरुपपादिता । एवं धूम-वांश्चायमित्युपनयस्यापि व्याप्त्यादिमल्लिङ्गस्मारकत्वाद्युक्तौ कथमुपनयमात्रस्य व्याप्त्यादिमल्लिङ्गस्मारकत्वादिकं ततः साध्यधर्माप्रतीत्या तन्निरूपितव्याप्तिस्मरणाभावेन तदुपेतलिङ्गस्मारकत्वाद्यसम्भवादित्याशङ्कापरिहाराय व्याप्तिमाश्रित्येत्यनेन साध्यप्रतीतिर्व्याप्तिवचनेन भविष्यतीत्येवं साध्यप्रतीतौ प्रकारान्तरप्रदर्शनं कृतमिति भावः। व्याप्तिमाश्रित्येत्यस्य प्रकारान्तरेण साध्यप्रतीतिप्रदर्शनपरत्वानङ्गीकारे बाधकमाह- अन्यथेति ।। व्याप्ति-माश्रित्येत्यस्य प्रकारान्तरेण साध्यप्रतीतिप्रदर्शनपरत्वानङ्गीकारे ‘सिद्धत्वेन प्रतिज्ञायाः’ इत्युक्तरीत्यैव साध्य-प्रतीत्युपपत्तेरित्यर्थः । तथा हि । उपनयमात्रस्य कथं व्याप्त्यादिमल्लिङ्गस्मारकत्वादिकं ततस्साध्यधर्माप्रतीतेरिति शङ्कायां ‘सिद्धत्वेन प्रतिज्ञायाः’ इत्युक्तरीत्या प्रश्नवाक्येन वा साध्यप्रतीत्युपपत्त्येत्युक्तमेवोपनयमात्रस्यापि व्याप्त्यादिमल्लिङ्गस्मारकत्वादिकमतो व्याप्तिमाश्रित्येतद्व्यर्थमेव स्यादत इदं साध्यप्रतीतौ प्रकारान्तरप्रदर्शनपरं ज्ञायत इति भावः । तथा च साध्यप्रतीतिः प्रकारद्वयेन भवतीत्युक्तम्भवतीति द्रष्टव्यम् । प्रागनुक्तमिति ।। ‘युक्तिः प्रतिज्ञारूपा च’ इत्यत्रानुक्तमपीत्यर्थः ।

(श्री.टि.) प्रतिज्ञार्थसिद्धीति ।। ‘सिद्धत्वेन प्रतिज्ञायाः’ इत्युक्तरीत्या पर्वतस्याग्निमत्त्वं कुत इति प्रश्नवाक्येन प्रतिज्ञार्थसिद्धौ सत्यां केवला व्याप्तिरेव प्रमाणं व्याप्त्यादिमल्लिङ्गस्मारकत्वादिनोपयुक्ता स्यादित्यर्थः । अन्य-थेति ।। प्रतिज्ञार्थसिद्धिसमुच्चयानङ्गीकार इत्यर्थः । पक्षधर्मतेति ।। पक्षस्यैवाप्रतीत्या हेतोः पक्षधर्मता-प्रतीत्यसम्भवादित्यर्थः । व्याप्त्युक्तीति ।। कुत इति निमित्तप्रश्ने यो धूमवान् सोऽग्निमानिति व्याप्त्युक्ति-मात्रस्यान्वयाभावादित्यर्थः । इत्याद्युक्तेरिति ।। नियमेति वाच्येन तद्वाचकं पञ्चम्यन्तं पदमुपलक्ष्यत इत्युक्तम्भवति । इत्यादीत्यादिपदेन नियमेनेति तृतीयान्तपदग्रहणम् । स्मारकत्वेति ।। व्याप्त्यादिमल्लिङ्ग-स्मारकत्वेत्यर्थः । सम्पूर्णप्रयोग इवेति ।। समग्रपञ्चावयवोपेतवाक्यप्रयोगे सति यथा व्याप्त्यादिमल्लिङ्गस्मृत्यादिकं भवति तथेत्यर्थः । सर्वार्थसङ्ग्राहकत्वादिति ।। अवयवपञ्चकार्थस्याप्यत्र सद्भावादिति भावः । ननु तस्मात्तथेत्येवं निगमनस्य कथं सर्वार्थसङ्ग्राहकत्वं, तेन च साध्यादिप्रतीतिद्वारा कथं व्याप्त्यादिमल्लिङ्गस्मृत्यादीत्यत आह- अग्निना व्याप्तस्येति ।। महानस इति शेषः । वाक्यं निगमनवाक्यम्    तथा चाग्निना व्याप्तस्येत्यनेनोदाहरणार्थ-लाभः । धूमस्य पर्वते विद्यमानत्वादित्यनेन हेतूपनयवाक्यार्थलाभः, पर्वतोऽग्निमानित्यनेन प्रतिज्ञावाक्यार्थलाभः इत्येवं सर्वार्थसङ्ग्राहकत्वं निगमनवाक्यस्य द्रष्टव्यम् । उक्तविधस्येति ।। ‘प्रतिज्ञा हेतुगर्भैव’ इत्याद्युक्तप्रकारेण हेतुगर्भत्वादिविशेषयुक्तस्येत्यर्थः । तद्भावभावित्वानुभवादिति ।। पञ्चावयवप्रयोगानन्तरं जायमान-त्वानुभवादित्यर्थः । प्रतिज्ञादीनां हेतुगर्भप्रतिज्ञादीनाम् । प्रकृतोपयोगं दर्शयति- एतेनेति ।। पञ्चावयवनियमस्य आवश्यकत्वाभावप्रतिपादनेनेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

न स्फुरतीति ।। तत्प्रत्यायकपदाश्रवणादिति भावः । प्रतिज्ञायाः पञ्चम्यन्तलिङ्गवचनगर्भत्व-स्यानुपपन्नत्वादाह- हेत्वर्थेति ।। तथाऽपि शब्दरूपप्रतिज्ञाया अर्थगर्भत्वमपि कथमित्यत आह- हेत्वर्थ-विशेषणकेति ।। न चेदमिति ।। तल्लक्षणानाक्रान्तत्वादिति भावः । अधिकं न्यूनं चैतदिति ।। प्रतिज्ञायामनपेक्षितस्य धूमवानित्यस्योक्तेरपेक्षितस्य हेत्वादेरप्रयोगादधिकं न्यूनं चेदं परोपदेशवाक्यमित्यर्थः । औषधविशेषार्थत्वमिति ।। अग्निशब्दस्य चित्रमूलकादावपि प्रयोगादिति भावः । छलेनेति ।। तदभिप्रेता-दर्थान्तरकल्पनेन तद्दूषणादिति भावः । विवादेन प्रश्नवाक्येन वा प्रतिज्ञाविषयसिद्धावपि तत्सिद्धेरभावात् तदुक्ति-रयुक्तेत्यतः प्रतिज्ञाशब्दं तद्विषयपरतयाऽनूद्य व्याचश्व्े- प्रतिज्ञार्थस्येति ।। प्रतिज्ञाया दृष्टान्तवचनं प्रत्यवयव-ताया बाधितत्वादाह- सहकारिणीति ।। नन्वेवं परोपदेशस्य द्व्यवयवत्वप्रसङ्ग इत्यत आह- तच्चेति ।। प्रतिज्ञार्थ-भूतं धर्म्यादिकमित्यर्थः । किं हेत्वर्थसमुच्चयेनेत्यतस्तदसमुच्चये बाधकमाह- अन्यथेति ।। ननु केवलशब्दस्य व्याप्तिविशेषणत्वे केवलामिति स्त्रीलिङ्गेन भवितव्यम् । केवलमिति तु कथमित्यतोऽस्य क्रियाविशेषणत्वेन व्याप्तिविशेषणत्वाभावान्न तत्प्रसङ्ग इत्याशयेनाह- केवलमितीति ।। साधनं परित्यज्य धात्वर्थमात्रविशेषणं क्रियाविशेषणमित्यर्थः । न चैवमपि क्रियायाः स्त्रीलिङ्गत्वात्तद्विशेषणत्वात् केवलशब्दे स्त्रीलिङ्गापत्तिरवर्जनीयेति वाच्यम् । ‘क्रियाव्ययविशेषाणानां क्लीबत्वमेकवचनान्तत्वं च वाच्यम्’ इति क्लीबत्वादिविधानेन तदप्रसङ्गात् । (पां.टि.) केवलं व्याप्तिवचनमाश्रित्य यथा भवति तथेति क्रियाविशेषणत्वोक्त्या लब्धमर्थं दर्शयति- दृष्टान्तो-क्तिमप्यनपेक्ष्येति ।। पक्षान्तरेति ।। व्याप्तिवचनाश्रयणेनोपनयस्य व्याप्त्यादिमल्लिङ्गबोधकत्वरूपपक्षान्तर-प्रदर्शनार्थमेव व्याप्तिमाश्रित्येत्युक्तम् । न तु व्याप्त्यादिवचनाश्रयणेनैवोपनयस्य व्याप्त्यादिमल्लिङ्गस्मृत्यादि-जनकत्वाभिप्रायेणेत्यर्थः । उक्तनियमाभिप्रायेणैव तदुक्तमिति किं न स्यादित्यत आह- अन्यथेति ।। अन्यथाऽप्युपपत्तेरिति सम्बन्धः । व्याप्तिवचनानाश्रयणेऽप्युपनयस्य व्याप्त्यादिमल्लिङ्गस्मृत्यादिजनकत्वोप-पत्त्योक्तनियमासम्भवान्न नियमाभिप्रायेण तदुक्तिरङ्गीकर्तुं शक्येत्यर्थः ।

कथमुपनयस्य व्याप्तिवचनानाश्रयणेऽपि व्याप्त्यादिमल्लिङ्गस्मृत्यादिजनकत्वसम्भव इत्यतस्तं दर्शयति- ‘सिद्धत्वेन प्रतिज्ञायाः’ इत्युक्तरीत्येति ।। ‘प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यधर्मविशिष्टस्य धर्मिणो विवादतः, पर्वतस्याग्निमत्त्वं कुत इत्यादिप्रश्नवाक्येन वा सिद्धत्वेन बुद्धिस्थत्वेन कारणेन’ इत्युक्तरीत्येत्यर्थः । ततश्च हेतो-रिवोपनयस्याप्युक्तरीत्या व्याप्त्यादिमल्लिङ्गस्मृत्यादिजनकत्वं युक्तमिति भावः । तर्कताण्डवे तु ‘व्याप्तिमाश्रित्ये-त्यपि पक्षान्तरमित्युक्त्योपनयस्य व्याप्तिमाश्रित्य व्याप्त्यादिमल्लिङ्गस्मृत्यादिजनकत्ववत् प्रतिज्ञादेरपि व्याप्ति-माश्रित्य व्याप्त्यादिमल्लिङ्गस्मृत्यादिजनकत्वरूपपक्षान्तरमपि सूचितम्’ इति वर्णितम् । भावबोधे तु ‘यथा प्रतिज्ञादीनां हेतुगर्भत्वादिनैकैकधैव व्याप्त्यादिमल्लिङ्गस्मारकत्वादि न तथोपनयस्य । किन्तु भिन्नभिन्नसहकारि-योगेनानेकधा तत्स्मारकत्वादीत्येवंरूपपक्षान्तरेत्यर्थः ।  तदेव विपक्षे बाधकेनोपपादयति- अन्यथेति ।।’ इत्यु-क्तम् । तदसमुच्चये बाधककथनेन तस्यावश्यकत्वं सूचयति- अन्यथेति ।। नियमपदं नात्रार्थपरं किन्तु लक्षणया पञ्चम्यन्ततदुक्तिपरमित्याशयेनाह- यो य इति ।। ततश्च यो धूमवानसावग्निमानिति व्याप्त्युक्तिमात्रस्य कुतः पर्वतोऽग्निमानिति प्रश्नवाक्येन सहान्वयाभावेऽपि यो धूमवानसावग्निमानिति नियमादित्येवंरूपनियमोक्तेः प्रश्नवाक्येनान्वयसत्त्वान्नानुपपत्तिरिति भावः । तस्मात्तथेति निगमनस्य सर्वार्थसङ्ग्राहकत्वाभावात्तदुक्तिरयुक्ते-त्यतस्तस्यात्र निगमनशब्देनाविवक्षितत्वाद्विवक्षितस्य च सर्वार्थसङ्ग्राहकतायाः सत्त्वाददोष इति भावेन विवक्षित-निगमनस्वरूपं दर्शयति- अग्निना व्याप्तस्येति ।।

लघुप्रभा

(व्या.टि.)

प्रतिज्ञावयवस्य हेत्ववयवगर्भितत्वासम्भवमाशङ्क्य व्याचश्व्े- हेत्वर्थेति ।। एवार्थ इति ।। एवस्यार्थ इत्यर्थः । तदीय इति ।। तच्छब्दस्य ‘त्यदादीनि च’ इति वृद्धसञ्ज्ञायाम् ‘वृद्धाच्छः’ इति छप्रत्यय इति भावः । सुस्मूर्षते, स्मरतेः सनि ‘अज्झनगमां सनि’ इति दीर्घे ‘उदोष्ठ्यपूर्वस्य’ इत्युत्त्वे ‘हलि च’ इति दीर्घे ‘ज्ञाश्रुस्मृदृशां सनः’ इत्यात्मनेपदे च रूपम्, स्मर्तुमिच्छति । अनुसन्धत्ते परामृशति । जिज्ञासते ज्ञातुमिच्छति वेति । व्याप्त्यादि-ग्रहाग्रहाभ्यां  वा  व्यवस्थितविकल्पः    नियमवादी शङ्कते- अधिकमित्यादिना ।। ब्रवीतीति ।। ब्रुवो लट ईट् । वाचोयुक्तीनामिति ।। ‘वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेष्वलुग्वाच्यः’ इत्यलुक्समासः । सांव्याव-हारिकत्वेनेति ।। संव्यवहारसिद्धत्वेनेत्यर्थः । लोकशास्त्रातिक्रमे बाधकमाह- अन्यथेति ।। औषधविशे-षेति ।। वैद्यशास्त्रेऽग्निशब्दस्य चित्रमूले प्रसिद्धेरिति भावः । निगृह्यते पराजीयते । तदेवेति ।। छलमेवेत्यर्थः । (व्या.टि.) सममिति ।। प्रकरणाद्यनुसन्धाने न्यूनाधिकत्वशङ्काया अप्यनुदयादित्यर्थः । निपुणतरमेतत् प्रमाणलक्षणे ‘हेतुगर्भा प्रतिज्ञा केवलाऽपि’ इत्यत्रोपपादितम् । एवं ‘युक्तिः प्रतिज्ञारूपा’ इत्युक्तमाक्षिप्य समाहितम् । हेतुरूपेत्येतदाक्षिपति- नन्विति ।। स्मरणादीति ।। ससम्बन्धिकपदार्थस्मरणे सम्बन्धिज्ञानस्य हेतुत्वादित्यर्थः । प्रतिज्ञापदेन तदर्थो लक्ष्यत इत्याह- प्रतिज्ञार्थस्येति ।। एतदप्युक्तं प्रमाणलक्षणे ‘सिद्धौ प्रतिज्ञायां हेतुमात्रं च’ इति । एवं दृष्टान्तरूपिकेत्येतत् साधयितुं पृच्छति- नन्विति ।। तच्चेति ।।  प्रतिज्ञाऽवयव-त्वम् । तत्समुच्चेयं दर्शयति- तेनेति ।। तुशब्देन हेतुगर्भत्वसमुच्चयः कुत इत्यत आह- अन्यथेति ।। सति हेतुगर्भत्वसमुच्चये दृष्टान्तोऽपि भवति व्याप्त्यादिमल्लिङ्गस्मारक इति भावः । एतदप्युक्तं प्रमाणलक्षणे ‘दृष्टान्तः सप्रतिज्ञो हेतुगर्भः’ इति । तथोपनयरूपेत्युक्तं दृढयितुं शङ्कते- लिङ्गधर्मिण इति ।। प्रतीतावपीति ।। अपिर्गर्हा-याम् । ससम्बन्धिकपदार्थस्मरणे यावत्सम्बन्धिज्ञानं कारणम् । अन्यथा वनस्पतिमात्रप्रत्यक्षे वायुवनस्पतिसंयोग-स्मरणापत्तिरित्याशयेनाऽह- साध्यधर्मस्येति ।। व्याप्तिपदोपलक्ष्यमाह- व्याप्तिवचनमिति ।। क्रियाविशेषण-मिति ।। केवलमाश्रयणं कृत्वेत्यर्थः । वर्तते अनुवर्तते । पूर्णत्वादिति ।। आकाङ्क्षाया इति शेषः । पक्षान्त-रेति ।। उपनयस्य व्याप्त्यादिमल्लिङ्गस्मारकत्वे इति शेषः । एतदभावे कथमुपनयस्य युक्तिस्मारकत्वमित्यत आह- अन्यथेति ।। एतदनुक्तावित्यर्थः । उपपत्तेरिति ।। स्मारकत्वसम्भवादित्यर्थः । केवलव्याप्तिवचन-स्यासङ्गतत्वादपेक्षितसमुच्चयपरतया तुशब्दं व्याचष्टे-प्रतिज्ञार्थेति ।। समुच्चयपरतायामावश्यकतामाह-अन्य-थेति ।। उक्तेराश्रयणादिति ।। अनेन मूले नियमवचनाश्रयणादिति व्याख्यातं भवति । स्वरूपत इति भावप्रधानं मत्वाऽऽह- सङ्ग्राहकत्वादिति ।। पञ्चाद्यवयवस्येति ।। पञ्चप्रभृत्यवयवस्येत्यर्थः । प्रयोगा इति ।। हेतुमात्राद्य-वयवप्रयोगा इत्यर्थः । समाहिता इति ।। न्यूनाधिक्यराहित्येनेत्यर्थः ।