टीका
तार्किकोक्तसार्वज्ञसिद्धिप्रकारनिरासः
टीका
ननु क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदिति क्षित्यादेः कर्तरि सिद्धे तस्य सार्वज्ञमपि सिद्धमेव । उपादानादिसाक्षात्कारवत एव कर्तृत्वात् । सर्वस्यापि क्षित्याद्युपादानादौ प्रविष्टत्वादिति चेन्न । घटादीनां कर्तरि कुलालादौ तदुपादानादिविषयसाक्षात्कारस्यादृष्टत्वात् । नहि कुलालो घटं पलपरिमाणेयत्ताविशेषवन्तं तन्निमित्तं वा कालं देशमदृश्व्ं तदाश्रयं वा पुरुषं तत्प्रयोजनविशेषं वा साक्षात्करोति । किञ्च घटादौ सपक्षेऽदृष्टस्यैककर्तृकत्वस्य क्षित्यादौ कुतस्सिद्धिः? यतस्तस्य सार्वज्ञं स्यात् । कल्पनालाघवादिति चेन्न । अतिबहुतरकार्यजातस्यानेककर्तृताया एवोचितत्वादित्यलं प्रपञ्चेन ।
भावदीपः
सिद्धमेवेत्युक्तं व्यनक्ति- उपादानादीति ।। दृष्टान्ताभावेन वा अदृष्टकल्पनारूपतर्कपराहत्या वा सार्वज्ञसिद्धिं निराह- घटादीनामिति ।। तदुपादानादीत्यतद्गुणसंविज्ञानबहुव्रीहिः । मृत्पिण्डगतपलपरिमाणा-ज्ञानाभिप्रायेण वा तदुपादानादीत्युक्तम् । तदेव व्यनक्ति- न हीति । तदाश्रयमिति ।। यद्भोजकादृष्टजन्यं तं पुरुषमित्यर्थः ।। तत्प्रयोजनेति ।। जलाहरणतैलाहरणधान्याहरणादिरूपमित्यर्थः। प्रकारान्तरेण सार्वज्ञसिद्धिं निराह- किञ्चेति ।। अन्यत्रादृश्व्स्यैककर्तृकत्वस्येति मूले शेषमुपेत्य योजयति- घटादौ सपक्षेऽदृष्टस्येति ।।
वाक्यार्थदीपिका
(श्री.टि.)
ननूपादानादिसाक्षात्कारसिद्धावपि कथं सर्वविषयकज्ञानसिद्धिरित्यत आह- सर्वस्यापीति ।। घटादीनामित्यादि ।। तथा च साध्यवैकल्यमिति भावः । तदेवोपपादयति- न हीति ।। पलपरिमाणयोरियत्ता-विशेषो मर्यादाविशेषस्तद्वत्त्वम् ।। कुतः सिद्धिरिति ।। क्षितिकर्तैकः, अपरो जलस्य कर्तेत्येवं प्रतिज्ञार्थस्योप-पत्तेरर्थान्तरतेति भावः ।। कल्पनालाघवादिति ।। क्षित्यादेरेककर्तृकत्वकल्पने कल्पनालाघवमनेककर्तृकत्वे कल्पनागौरवम् ।। अतिबहुतरेति ।। दृश्वनुसारिणी हि कल्पना । अतिबहुतरप्रासादाद्युपेतगृहादिकार्यजातस्या-(श्री.टि.) नेककर्तृताया एव दृष्टत्वेन प्रकृतक्षित्यादिकार्यजातस्यापि तथात्वकल्पनस्यैवोचितत्वेन एककर्तृकत्व-स्यासिद्ध्या न तस्य सार्वज्ञसिद्धिरिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
तार्किकोक्तं सार्वज्ञसिद्धिप्रकारमनुवदति- नन्विति ।। ततश्च न तस्याप्रामाणिकत्वमिति भावः । दृश्वन्तं साध्यवैकल्येन दूषयति- घटादीनामिति ।। कुलालादौ तदुपादानादिसाक्षात्काराभावमेवोपपादयति- न हीति ।। कुतस्सिद्धिरिति ।। कार्यत्वहेतोः कर्तृमात्रसाधने सामर्थ्येऽपि तदेकत्वसाधनेऽसमर्थत्वादिति भावः ।। कल्पनालाघवादिति चेदिति ।। न चानुमितेर्व्यापकांशे व्यापकतावच्छेदकमात्रप्रकारकत्वादिहापि व्यापकस्य कर्तुर्व्यापकत्वावच्छेदककर्तृत्वेन सिद्धावप्येकत्वेन कथं तत्सिद्धिः स्यादिति वाच्यम् । अनुमितिसामग्री-महिम्ना तथात्वेऽपि लाघवतर्कसहकारिरूपप्रमाणसामग्रीमहिम्ना कर्त्रेकत्वस्य सिद्ध्युपपत्तेरित्याशयात् ।। अति-बहुतरकार्यजातस्येति ।। लोके गजगवयगर्दभादीनां घटपटादीनां च निर्मातारो विजातीया एवोपलब्धा इति लोकदर्शनानुसारेण कर्तारं कल्पयतो गौरवानुसरणस्यैवोचितत्वादिति भावः । ‘अनुपलब्धप्राक्कोटिषु भूभूधरादिषु कार्यत्वमेव कुतस्सिद्धम्’ इत्यादि वक्ष्यमाणदूषणजातं मनसि निधायाऽह- अलं प्रपञ्चेनेति ।।
लघुप्रभा
(व्या.टि.)
अधुना सार्वज्ञसिद्धिफलकं नैयायिकोक्तमनुमानं दूषयितुमनुवदति- नन्विति ।। घटवदिति ।। उपलक्षणमेतत् । यद्वक्ष्यति घटादाविति ।। सिद्धमिति ।। हेतोः पक्षधर्मताबलादिति शेषः । यथोक्तं प्रमाणलक्षणे विमतं सकर्तृकमित्यत्र ‘सर्वज्ञत्वस्य पक्षधर्मताबलेन सिद्ध्यङ्गीकारात्’ इति । उपादानादीत्यादिपदेन उपादेय-निमित्तफलादिपरिग्रहः । अन्यथा उत्तरग्रन्थासङ्गतेः । साक्षात्कारवत एवेति तस्य कर्तृत्वव्यापकतामाह- कर्तृ-त्वादिति ।। प्रेक्षापूर्वकारित्वादित्यर्थः । उपादानादिज्ञत्वेऽपि सर्वज्ञत्वं कुत इत्यत आह- सर्वस्यापीति ।। प्रविष्टत्वादिति ।। अन्तर्भावादित्यर्थः । सर्वज्ञत्वस्यानुषङ्गतः सिद्धिं दूषयितुं कृतेरुपादानादिसाक्षात्कारव्याप्तिं दूषयति- घटादीनामिति ।। सार्वज्ञप्रयोजकैककर्तृत्वासिद्ध्या तदसिद्धिं विवक्षुराह- किञ्चेति ।। कुत इति ।। व्याप्तेर्व्यापकतावच्छेदकप्रकारकसाध्यसिद्ध्यङ्गत्वादिति भावः ।। लाघवादिति ।। कर्त्रेकत्वसिद्धिरिति शेषः । बहुतरेति ।। विचित्रेत्यपि पूरणीयम् ।। उचितत्वादिति ।। ‘औचित्यादर्थनिर्णयः’ इति न्यायादित्यर्थः । अलमिति ।। प्रपञ्चेन साध्यं नास्तीत्यर्थः । साधनक्रियापेक्षया करणविभक्तिः ।