‘ब्रह्मा शिवः ..
मूलम्
- ॐ।।‘ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः ।
लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः ।
स्वातन्त्र्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः ।
निस्सीमत्वेन ते सर्वे तद्वशाः सर्वदैव च ।
सर्गस्थितिक्षययतिप्रकाशावृतिबन्धनम् ।
सर्वक्षराणामेकः स कुर्यात् सात्त्विकमोक्षणम् ।
सर्गस्थितियतिज्योतिर्नित्यानन्दप्रदोऽक्षरे ।
चेष्टाप्रदश्च सर्वेषामेक एव परो हरिः ।
तस्य नान्योऽस्ति सर्गादिकर्ता निर्दोषकश्च सः ।।’ इति परमश्रुतिः ।
‘ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः ।
सर्वे क्षरा अक्षरा तु श्रीरेका तत्परो हरिः ।’ इति स्कान्दे ।।
तत्त्वमञ्जरी
समतीतक्षराक्षरमित्येतद्विशेषणं सदुक्तिभिः साधयति । ब्रह्मेति । हरेः निस्सीमत्वेन निरवधिकत्वेनानन्तत्वेनेत्यर्थः । सर्वदैव चेति चशब्दात् सर्वत्र च । सर्वक्षराणां मध्ये सात्त्विकानां मोक्षणं च । अक्षरविषये सर्गः पराधीनविशेषप्रापणमेव । यतिज्योतिषी नियमनज्ञाने ।
टीका
-कलत्रं कमला यस्य पुत्रः कमलसम्भवः ।
शिवाद्यास्सेवकास्तस्मै नमो विश्वकुटुम्बिने ।
इदानी समतीतक्षराक्षरत्वं विष्णोस्समर्थयितुं द्वितीयः परिच्छेद आरभ्यते । ननु समतीतक्षराक्षर-त्वेन निर्दोषाशेषसद्गुणत्वेन च भगवान्नारायणः सदागमैर्विज्ञेय इति प्रथमपरिच्छेदे साधितम् । तेनैव सदागमप्रमाणेन विष्णोर्विशेषणद्वयं सिद्धमेव । तत्किमर्थमुत्तरपरिच्छेदद्वयारम्भः । उच्यते । सामान्यतः साधितमपि विशेषणद्वयं यावद्विशेषतः सदागमवाक्यानि नोदाह्रियन्ते तावदसाधितप्रायमेव । अतस्तदुदाहरणार्थं तत्र१ प्राप्तानुपपत्तिपरिहारार्थं चोत्तरपरिच्छेदद्वय-मारम्भणीयमेव ।
तत्राऽदौ तावत्क्षराक्षरशब्दव्याख्यानपूर्वकं विष्णोस्तत्परत्वं प्रतिपादयती श्रुतिस्मृतिवाक्ये पठति- ब्रह्मेति ।। सुराद्या जीवा इत्येवोक्ते ब्रह्मशिवयोर्जगदुत्पत्तिसंहारकर्त्रोरिदमसम्भावितमिति मन्यमानैस्तद्व्यतिरिक्ता एव जीवा गृह्येरन् । अतो ब्रह्मशिवयोः स्वरूपेणोपादानम् । क्षरणाद् विनाशात् । क्षरणं जीवस्वरूपस्य न सम्भवतीति शरीरेत्युक्तम् । स्वविनाशेन स्वामिनोऽपि विनाशोपचारो लोके दृश्यते । क्षरा उच्यन्ते । अक्षरत्वादित्येवोक्ते जीवानामपि तत्साम्याल्लक्ष्मी-रक्षरोच्यत इति विशिष्योक्तिरयुक्ता स्यात् । अतो देहग्रहणं कृतम् । ताभ्यां परः तत्परः । कथं तत्परत्वमित्यत आह- स्वातन्त्र्येति ।। १सत्ताप्रतीतिप्रवृत्तिषु स्वाधीनत्वं स्वातन्त्र्यम् । कार्योत्पत्त्याद्यनुकूलोऽतीन्द्रियः कारणधर्मविशेषः शक्तिः । स्वरूपसहकारिव्यतिरिक्ता शक्तिर्नास्ति, प्रमाणाभावादिति केचित् । तन्न । ‘न तस्य कार्यं करणं च विद्यते’ इति सहकार्यभावमभिधाय, ‘पराऽस्य शक्तिः’ इति परमेश्वरसम्बन्धित्वेन शक्तेरभिहितत्वात् । सुख-शब्देन दुःखाभाव एवोच्यत इत्यप्यसत् । बाधकाभावात् । सुखस्य दुःखाविनाभूतत्वेन दुःखपक्षे२ निक्षेपो बाधक इति चेत्तर्हि ज्ञानस्यापि दुःखकारणत्वेन तत्पक्षनिक्षेपादभावः स्यात् । जन्यमेव ज्ञानं दुःखकारणं न नित्यमिति चेत्तर्हि जन्यमेव सुखं दुःखाविनाभूतं न नित्यमिति ब्रूमः । नित्यं सुखं क्वोपलब्धमिति चेज्ज्ञानमपि नित्यं क्वोपलब्धम् । सक्लेशं ज्ञानं दुःखकारणं नान्यदित्यपि समानम् । आद्यग्रहणेन वीर्यशौर्यौदार्यकारुण्यादीनां सङ्ग्रहः । एतेषामन्यत्रान्तर्भावोऽनुभव-विरुद्धः । गुणैर्निःसीमत्वेनेति ।। निःसीमैतद्गुणत्वादित्यर्थः । लक्ष्म्यादीनां ससीमगुणत्वाच्चेत्यपि द्रष्टव्यम् ।
इतश्च क्षराक्षरपरो विष्णुरित्याह- ते सर्व इति ।। लक्ष्म्याद्याः तद्वशा विष्णुवशाः । कथं तद्वशा इत्यतो जीवानां तावदाह- सर्गेति ।। सर्गो देहसृष्टिः । स्थितिः देहाधिष्ठानेनावस्थानम् । क्षयो मरणम् । यतिः विधिनिषेधाभ्यां बन्धः । प्रकाशो ज्ञानोत्पादनम् । आवृतिः अविद्या । बन्धनं लिङ्गदेहादिबन्धः । एषां द्वन्द्व एकवद्भावश्च । सात्त्विकानां जीवानां मोक्षणम् आत्यन्तिकदुःख-निवृत्तिसहितपरमानन्दाविर्भावलक्षणं च कुर्यात् । एवं तामसानां नित्यनिरयप्राप्तिं च कुर्यादित्यपि ग्राह्यम् । अक्षरस्य तद्वशत्वमुपपादयति- सर्गेति ।। अत्र सर्गः प्रादुर्भावः । स्थितिः कदाऽपि मरणाभावः । यतिः आज्ञान्तर्गतिः । ज्योतिः नित्याविर्भूतो भगवदितरसर्वसाक्षात्कारः । अक्षरे अक्षरस्य । यद्यपि सर्गादिशब्दसाम्यम् । तथाऽप्युक्तविधयाऽर्थभेदादसाधारणधर्मोक्तिरियं भवति । साधारणं तद्वशत्वं दर्शयति- चेष्टेति ।। सर्वेषां क्षराणामक्षरस्य च । यथाऽयं सर्वेषां सर्गादेः कर्ता तथा तस्याप्येतेषां मध्येऽन्यतमः सर्गादिकर्ता चेत्तदा साम्येन न परत्वं भवति । न चेतरेतराश्रयत्वेन सम्भवः । विषयभेदेनेतरेतरवशत्वोपपत्तेरित्यत आह- तस्येति ।। इतोऽप्यसौ क्षराक्षरोत्तम इत्याह- निर्दोषकश्चेति ।। स्वार्थे कप्रत्ययः । अन्ये सदोषा इत्यपि वाच्यम् । अत ‘एक एव परः’ इति पूर्वोक्तमत्रोपसंहारत्वेन१ योज्यम् । शैवादिदर्शनेषु शिवादीनां सर्वोत्तम-त्वेनाभिधानात्तन्निरासार्थं ब्रह्मशेषेत्यादिस्वरूपग्रहणम् । एतेन क्षराक्षरशब्दौ जडजीवविषयाविति व्याख्यानं प्रत्युक्तम् ।।
भावबोधः
एतत्परिच्छेदप्रतिपाद्यसमतीतक्षराक्षरत्वस्य व्याख्यानपूर्वकं तद्धर्मयुक्तं हरिं नमति-कलत्रमिति ।। सामान्यतः साधितमिति ।। ‘सर्वज्ञं सर्वकर्तारम्’ इत्यस्य ‘सर्वोत्तमं सर्वदोषव्यपेतम्’ इत्यस्य च सर्वोत्तमत्व-प्रतिपादकत्वेऽपि समतीतक्षराक्षरत्वेन रूपेण विशिष्य तदप्रतिपादकत्वात् । ‘द्वाविमौ’ इत्यस्य तु तत्प्रति-पादकत्वेऽपि ‘कूटस्थः’ इति ‘सर्वाणि भूतानि’ इत्येव श्रूयते । न तु लक्ष्मीरिति ब्रह्मरुद्राद्या इति च । क्षराक्षरशब्दस्य व्याख्यानं च न क्रियत इति भावः । अत एव ‘ब्रह्मा शिवः’ इत्याद्युदाहृतवाक्येषु लक्ष्मीब्रह्मरुद्रादीनां स्वपदेनोपादानस्य प्रयोजनं वक्ष्यति- स्वरूपेणोपादानमिति ।। ब्रह्मत्वशिवत्वरूपेणेत्यर्थः । स्वविनाशे-नेति ।। जीवस्य शरीरमपि स्वीयम्भवतीति भावः । तथा च रूढोपचारत्वान्न प्रयोजनापेक्षेति हृदयम् । शरीरक्षरणात्क्षरा इत्यनेन शरीरक्षरणस्य स्वरूपतो क्षरेषु क्षरपद प्रवृत्तनिमित्तमेवोच्यते । न तु स्वरूपनाशहेतुत्व-मित्याह- क्षरा उच्यन्त इति ।। ताभ्यामिति ।। क्षराक्षराभ्यामित्यर्थः । तच्छब्देन सन्निहितलक्ष्मीमात्रग्रहणे तस्या ब्रह्मशिवाद्युत्तमत्वस्य स्पष्टमनुक्तत्वादर्थतोऽपि ब्रह्माद्युत्तमत्वं न लभ्यत इति भावः । ननु शक्तेः सहकारिस्वरूपत्वादीश्वरे सुखाभावेन सुखपदेन दुःखाभावार्थत्वे तयोर्गुणत्वाभावात्कथं गुणैरित्युक्तमित्याशङ्क्य परिहरति- स्वरूपसहकारीत्यादिना ।। ननु वीर्यशौर्यादीनां प्रयत्नौदार्यकारुण्यादीनामिच्छायामन्तर्भावात्कथं पृथग्गुणत्वमित्यत आह- एतेषामिति ।। ननु जीवस्वरूपस्यानादित्वात्सर्वदा विद्यमानत्वान्नित्यत्वादत्र कथं सर्गस्थितिक्षयान् ईश्वरः कुर्यादित्यतो व्याचश्व्े- सर्गो देहसृष्टिरित्यादिना ।। सर्गस्थितियतिज्योतिर्नित्यानन्दानां चेष्टावत्क्षरसाधारण्यात्कथं तेषां पृथग्वचनमित्याशङ्क्य परिहरति- यद्यपीति ।। ननु तत्पर इत्युक्तत्वात् ‘एक एव परो हरिः’ इति पुनः साध्यनिर्देशो व्यर्थ इत्यत आह- अत एक एवेति ।। निगमनरूपत्वादस्य न वैयर्थ्यमिति भावबोधः
भावः । अत एव अतःशब्दाध्याहारेण योजितम् । क्षराक्षरशब्दाविति ।। ‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च’ इत्येतद्वाक्यगतावित्यर्थः ।
भावदीपः
एतत्परिच्छेदप्रतिपाद्ये क्षराक्षरातीतत्वे कारणं वदन् मङ्गलमाचरति- कलत्रमिति ।। आक्षिप्य समाधातुं प्रतिपाद्यमाह- समतीतेति ।। साधितमिति ।। ‘सर्वज्ञं सर्वकर्तारम्’, ‘सर्वोत्कर्षे देवदेवस्य विष्णोः’ इत्यादिवचनानामुक्तेरिति भावः । प्राप्तानुपपत्तीति ।। ब्रह्मरुद्रादेर्जगदुत्पादकत्वतत्संहर्तृत्वयोः प्रसिद्धेस्तदती-तत्वम् अयुक्तमित्याद्यनुपपत्तिपरिहारार्थं तत्रोपपत्त्युक्त्यर्थं चेत्यर्थः । स्वविनाशेनेति ।। वित्तविनाशेन । स्वामिनः वित्तपतेः । शेषमाह- उच्यन्त इति ।। तेन व्यवहारे निमित्तमेतदिति सूचितम् । स्वरूपेति ।। कारणस्वरूपेत्यर्थः। इत्यपि समानमिति ।। वैषयिकसुखं वा कुत्सितविषयजन्यसुखं वा दुःखव्याप्यं नान्यदिति समानमित्यर्थः । योग्यतया निस्सीमत्वं गुणेष्वन्वेतीति भावेनाऽह- निस्सीमैतद्गुणत्वादिति ।। गजेन धनीत्यादाविवेति भावः । सर्गादिशब्दसाम्यमिति ।। सर्गादिशब्दैः पूर्वोक्तजीवपरवाक्यसाम्यमित्यर्थः । यद्वा सर्गादिशब्दानां पूर्वत्रात्र च साम्यमित्यर्थः । असाधारणेति ।। तेनाक्षरपरत्वमस्येति भावः । साधारणमिति ।। क्षराक्षर-साधारणमित्यर्थः । मन्त्रोपसंहारत्वेनेति ।। निर्दोषकश्चेत्यनन्तरमत इत्यध्याहृत्य एक एव परो हरिः इत्याकृष्य पूर्वोक्तस्य मन्त्रकृतोपसंहारपरत्वेन योज्यमित्यर्थः । तेन तत्परो हरिरिति पूर्वोक्तोपसंहाररूपत्वान्न पौनरुक्त्य-दोष इति भावः । तत्परो हरिरिति पूर्वोक्तमन्त्रस्योपसंहाररूपत्वेनेति वाऽर्थः । ‘श्रुतिस्मृती पठति’ इति प्रागेवावतारितत्वाद्विशिष्योक्तेः कृत्यमाह- शैवादिदर्शनेष्विति ।। एतेनेति ।। श्रुतिस्मृत्योर्व्याख्याकरणेन ‘क्षरश्चाक्षर एव च’ इत्यादिवचनगताविति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
महालक्ष्मीर्यस्य पत्नी तनुजः पद्मसम्भवः ।
भृत्या रुद्रादिकास्तस्मै जगद्भर्त्रे नमो नमः ।।
मध्येऽपि मङ्गलाचरणस्यावश्यं कर्तव्यत्वादेतत्परिच्छेदप्रतिपाद्यसमतीतक्षराक्षरत्वव्याख्यानपूर्वकं तद्धर्म-युक्ततया हरिं नमति- कलत्रमिति ।। विश्वमेव कुटुम्बः पोष्यवर्गो यस्यासौ तथोक्तस्तस्मै । शिष्याणां मनोव्याकुलीभावपरिहाराय परिच्छेदप्रतिपाद्यमाह- इदानीमिति ।। विशेषणद्वयमिति ।। समतीतक्षराक्षरत्वं निर्दाषाशेषसद्गुणत्वं चेति विशेषणद्वयमित्यर्थः । सामान्यत इति ।। ‘सर्वज्ञं सर्वकर्तारम्’ इत्यस्य ‘सर्वोत्तमं सर्वदोषव्यपेतम्’ इत्यस्य च सर्वोत्तमत्वप्रतिपादकत्वेऽपि समतीतक्षराक्षरत्वेन रूपेण विशिष्य तद प्रतिपादकत्वात्, ‘द्वाविमौ’ इत्यस्य तु तत्प्रतिपादकत्वेऽपि कूटस्थ इति सर्वाणि भूतानीत्येव श्रूयते । न तु लक्ष्मीरिति ब्रह्मरुद्राद्या इति च । क्षराक्षरशब्दव्याख्यानं च न क्रियत इति भावः । अत एव ‘ब्रह्मा शिवः सुराद्याश्च’ इत्याद्युदाहृतवाक्येषु लक्ष्मीब्रह्मरुद्रादीनां स्वपदेनोपादानस्य प्रयोजनं वक्ष्यतीति ज्ञातव्यम् । अत्र समतीतक्षराक्षरत्वादौ । प्राप्तानुपप-त्तीति ।। ‘यस्मात्परं नापरमस्ति’ इति मन्त्रे सर्वस्यासत्त्वमुच्यते । अतः कथं तस्य सर्वोत्तमत्वम् । उत्तमत्वस्य (श्री.टि.) प्रतियोगिसत्तासापेक्षत्वात् । तथा ‘हिरण्यगर्भः समवर्तताग्रे’ इत्यादिश्रुतिषु ब्रह्मादीनामपि सर्वेश्वर-त्वादिकमुच्यते । तत्कथं विष्णोस्तदङ्गीक्रियते । उभयोस्तद्विरोधादित्येवं समतीतक्षराक्षरत्वे प्राप्तानुपपत्तिपरि-हारार्थं, तथा विष्णोर्मानुषेषूत्पत्त्यन्यथाऽनुपपत्त्या निर्गुणत्वादिना च न निर्दोषाशेषसद्गुणत्वं युक्तमित्येवं निर्दोषा-शेषसद्गुणत्वे प्राप्तानुपपत्तिपरिहारार्थं चेत्यर्थः । इदमिति ।। शरीरक्षरणमित्यर्थः । स्वरूपेणेति ।। स्वस्य रूपेण ब्रह्मत्वशिवत्वरूपासाधारणधर्मेणेत्यर्थः । ‘क्षर विनाशसन्ततदानयोः’ इति धातुमभिप्रेत्याऽह- विनाशा-दिति ।। न सम्भवतीति ।। नित्यत्वादिति भावः ।
ननु शरीरनाशेन जीवनाशव्यवहारः कथम्? अन्यनाशेनान्यनाशव्यवहारादर्शनात्प्रयोजनाभावाच्चेत्यत आह- स्वविनाशेनेति ।। स्वस्य द्रव्यस्य विनाशेनेत्यर्थः । ‘स्वमज्ञातिधनाख्यायाम्’ इत्यत्र ज्ञातिधनान्यवाचिनः स्वशब्दादिति व्याख्यातत्वेन स्वशब्दस्य धनवाचित्वादिति ज्ञेयम् । लोके दृश्यत इति ।। द्रव्ये नश्व्े सत्यहं विनष्टोऽस्मीति व्यवहारो दृश्यत इत्यर्थः । तथा च जीवस्य शरीरमपि स्वीयं भवतीति तद्विनाशेन जीवनाशव्यवहारः सम्भवति । स्वस्वामिभावसम्बन्धरूपनियामकसद्भावादिति भावः । एवं च रूढोपचारत्वान्न प्रयोजनापेक्षेति हृदयम् । नन्वनेन क्षरशब्दः शरीरे मुख्यः ब्रह्मादौ तूपचार इति प्राप्तं न मुख्यवृत्तिरिति चेन्न । क्षरशब्दस्य ब्रह्मादौ रूढोपचारत्वाङ्गीकारात् । मुख्यार्थातिरिक्तगुणयोगेन वृत्तिरुपचारः । तत्र प्रयोगबाहुल्यं रूढोपचारः । अत एवात्र प्रयोगबाहुल्यप्रदर्शनाय लोके दृश्यत इत्युक्तम् । तथा च रूढोपचारस्याभिधातुल्यत्वान्मुख्यवृत्ति-तुल्यतैवेत्यभिप्रायः । यथोक्तं मणिकृता ‘रूढोपचारोऽप्यभिधातुल्यः’ इतीति सम्प्रदायः । तत्परो हरिरित्यत्र तच्छब्दस्य सन्निहितलक्ष्मीमात्रपरत्वप्रतीतिनिरासायाऽह- ताभ्यामिति ।। क्षराक्षराभ्यामित्यर्थः ।
शक्तिं लक्षयति- कार्योत्पत्त्याद्यनुकूल इति ।। वह्न्यादौ दाहजनकत्वशक्तिर्नाम दाहादिकार्योत्पत्त्याद्य-नुकूलोऽतीन्द्रियो वह्न्यादिरूपकारणगतो धर्मविशेष इत्यर्थः । कारणधर्मः शक्तिरित्युक्ते वह्न्यादिगतसङ्ख्या-परिमाणादिधर्मेष्वतिव्याप्तिः स्यात् । अत उक्तमतीन्द्रिय इति । तावत्युक्ते वायुवनस्पतिसंयोगवत्प्रत्यक्षा-प्रत्यक्षसंयोगस्याप्रत्यक्षत्वेन वह्न्यादिगते परमाण्वादिसंयोगेऽतिव्याप्तिः स्यादत उक्तम्- कार्योत्पत्त्याद्यनुकूल इति ।। कार्योत्पत्त्याद्यनुकूलो धर्मः शक्तिरित्युक्ते दाहाद्यनुकूले करतलानलसंयोगे उष्णस्पर्शे चातिव्याप्तिः स्यादत उक्तमतीन्द्रिय इति । ननु विशेषपदं किमर्थमिति चेदुच्यते । आत्मनिष्ठज्ञानादिजनकत्वशक्तेरपि लक्ष्यतया अदृष्टेऽतिव्याप्तिस्स्यात् । तस्यापि ज्ञानादिकार्योत्पत्त्याद्यनुकूलत्वादतीन्द्रियत्वात्कारणीभूतात्मधर्मत्वाच्च । अतो विशेषपदम् । अदृष्टभिन्नो धर्म इत्यर्थः ।
ननु शक्तिविज्ञानसुखाद्यैर्गुणैरित्ययुक्तम् । शक्तेस्सहकारिस्वरूपत्वेन सहकारिणो गुणत्वाभावात् । सुखस्य च दुःखाभावरूपत्वेन तस्यापि गुणत्वाभावादित्याशङ्क्य शक्तेस्सहकारिव्यतिरिक्तत्वं सुखस्य च दुःखाभाव-रूपत्वाभावं च समर्थयितुमाह- स्वरूपसहकारीति ।। वह्निस्वरूपकरतलानलसंयोगरूपसहकारिणोस्समव-धानमेव दाहजनकत्वशक्तिःन तु तद्व्यतिरिक्ता वह्नौ दाहजनकत्वशक्तिरस्ति । एवं हरिस्वरूपदेहेन्द्रियादि-(श्री.टि.) रूपसहकारिसमवधानमेव स्रश्व्ृत्वादिशक्तिः न तु तद्व्यतिरिक्तो हरौ शक्तिनामकगुणोऽस्तीत्याशयः। सहकार्यभावमिति ।। कार्यं देहः करणम् इन्द्रियादिकं च न विद्यत इति सहकार्यभावमभिधायेत्यर्थः । सम्बन्धित्वेनेति ।। अस्य शक्तिरिति सम्बन्धित्वेनेत्यर्थः । तथा च स्वरूपातिरिक्ता शक्तिः सिद्धेति भावः। उच्यत इति ।। बौद्धविशेषयोर्वैभाषिकसौत्रान्तिकयोर्मते दुःखाभाव एव सुखं न तु भावरूपं सुखमस्ति । यथोक्तम्-‘दुःखाभावं सुखं चाऽहुः’ इति । तथा च न तस्य गुणत्वमिति भावः । बाधकाभावादिति ।। सुखशब्देन भावरूपसुखाख्यगुणग्रहणे बाधकाभावादित्यर्थः । बाधकमाशङ्कते- सुखस्येति ।। दुःखपक्षनिक्षेप इति ।। विषसम्पृक्तमधुवदित्यर्थः । तथा च यत्र सुखं तत्र दुःखमिति व्याप्त्या सुखस्य दुःखसम्भिन्नत्वेन परमेश्वरस्य सुखाङ्गीकारे दुःखमप्यङ्गीकार्यं स्यादित्याशयः । ज्ञानस्येति ।। अनिष्टपदार्थज्ञानस्येत्यर्थः । तत्पक्षनिक्षेपाद् दुःखपक्षनिक्षेपादित्यर्थः । तथा च ज्ञानरूपदुःखकारणाङ्गीकारे कार्यभूतदुःखस्याप्यङ्गी-कार्यत्वापत्त्या ज्ञानरूपगुणस्याप्यभावः स्यादिति भावः । नित्यं ज्ञानमिति वर्तते । परमेश्वरश्च नित्यज्ञानः । अतो न तत् तस्य दुःखकारणमिति भावः । न नित्यमित्यत्र सुखमित्यनुवर्तते । परमेश्वरश्च नित्यसुखः । अतो न तद् दुःखाविनाभूतमिति न परमेश्वरस्य सुखाङ्गीकारे दुःखाङ्गीकारप्रसङ्ग इति भावः । ननु ज्ञानाङ्गीकारे तस्य दुःखकारणत्वेन तदप्यङ्गीकार्यं प्रसज्यत इत्ययुक्तम् । रागद्वेषरूपक्लेशसमानाधिकरणस्यैव ज्ञानस्य दुःख-कारणत्वाङ्गीकारात् । परमेश्वरे च सक्लेशज्ञानाभावान्न दुःखप्रसक्तिरतो न ज्ञानाङ्गीकारे बाधकमिति चेत्तर्हि सक्लेशमेव सुखं दुःखाविनाभूतमिति तादृशमेव सुखं दुःखपक्षनिक्षिप्तम् । परमेश्वरे च तदभावान्न दुःखप्रसक्तिरतो न सुखाङ्गीकारे किञ्चिद् बाधकमस्तीति समानमित्याह- सक्लेशज्ञानमिति ।। रागद्वेषरूपक्लेशसमानाधि-करणमित्यर्थः । यथोक्तं समयपादीयसुधायां जैनमतानुवादसमये- ‘क्लेशो रागद्वेषौ’ इति । ननु वीर्यशौर्ययोः प्रयत्ने, औदार्यकारुण्यादीनामिच्छायामन्तर्भावात्कथं पृथग्गुणत्वमित्यत आह- एतेषामिति ।। अनुभवविरुद्ध इति ।। सत्यपि प्रयत्ने नास्ति वीर्यं शौर्यं च, सत्यामपीच्छायां नास्त्यौदार्यादिकमिति व्यवहारसिद्धो योऽनुभवो वीर्यादेः प्रयत्नादिभेदावगाही तद्विरुद्ध इत्यर्थः । ससीमगुणत्वादिति ।। ब्रह्मापेक्षया लक्ष्म्याः कोटिगुणाधिकत्वेन ससीमगुणत्वं द्रष्टव्यम् ।
ननु जीवस्वरूपस्यानादित्वात्कथमीश्वरो जीवस्य सर्गं करोतीत्यतस्सर्गपदं व्याचश्व्े-सर्गो देहसृष्टिरिति ।। ननु जीवस्वरूपस्य सर्वदा विद्यमानत्वात्कथमीश्वरो जीवस्य स्थितिं करोतीत्यतः स्थितिपदं व्याचश्व्े- स्थिति-रिति ।। ननु जीवस्य नित्यत्वात्कथमीश्वरो जीवस्य क्षयं करोतीत्यतः क्षयपदं व्याचश्व्े- क्षयो मरणमिति ।। देहवियोग इत्यर्थः । ननु द्वन्द्वसमासे बन्धनानीति स्यादित्यत उक्तम्- एकवद्भावश्चेति ।। ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति वचनादिति भावः । रमाया देहसृष्टिरूपसर्गाभावेन हरेस्तत्प्रदत्वायोगादाह- प्रादुर्भाव इति ।। रमाया भिन्नदेहाभावेन देहाधिष्ठानेनावस्थानरूपस्थित्यसम्भवादाह- कदाऽपीति ।। आज्ञान्तर्गतिः आज्ञान्तर्वर्तमानत्वम् । मुक्तामुक्तऋजुसाधारण्यव्यावृत्त्यर्थं नित्याविर्भूतेत्युक्तम् । (श्री.टि.) अयमर्थः । ‘त्यब्नेर्ध्रुवे’ ध्रुवं नियतं तस्मिन्नर्थे नेः नीत्युपसर्गात्परं त्यप्प्रत्ययो भवतीति सूत्रार्थः । तथा च नित्येत्यस्य नियमेन सर्वदा कालत्रयेऽप्यनालोचनदशायामित्यर्थः । तथा च कालत्रयेऽप्यनालोचनदशायां भगवदितरसर्वसाक्षात्कार इत्युक्तं भवति । तत्रानालोचनदशायामित्यनेनामुक्तऋजुसाधारण्यपरिहारः । मुक्त-ऋजुसाधारण्यपरिहाराय कालत्रयेऽपीत्युक्तमिति ज्ञातव्यम् । ननु सर्गस्थितियतिज्योतिर्नित्यानन्दानां चेष्टावत् क्षरसाधारणत्वात् सर्गस्थितियतिज्योतिरित्यादिना कथमक्षरासाधारणधर्मतयोच्यन्त इत्याशङ्क्य परिहरति- यद्यपीति ।। उक्तविधयेति ।। सर्गो देहसृष्टिरित्याद्युक्तविधया, अत्र सर्गः प्रादुर्भाव इत्याद्युक्तविधया, चेत्यर्थः। तस्यापि ईश्वरस्यापि । एतेषां क्षराणाम् । इतरेतरेति ।। ईश्वरसृष्टानामेतेषामपीश्वरसर्गादिकर्तृत्वाङ्गीकारे इतरेतराश्रयापत्त्यैतेषामीश्वरसर्गादिकर्तृत्वं न सम्भवतीत्यर्थः । विषयभेदेनेति ।। ब्रह्मादीनां देहसृष्ट्यादावीश्वर-वशत्वम्, ईश्वरस्य तु स्वप्रवृत्त्यादौ ब्रह्मादिवशत्वमिति विषयभेदान्नेतरेतराश्रय इत्यर्थः । केचिद्विषयभेदेनेत्यस्य कल्पभेदेनेत्यर्थः इत्याहुः । कप्रत्ययेन निर्दोषत्वस्य कुत्सितत्वप्रतीतेराह- स्वार्थ इति ।। तथा च निर्दोष एव निर्दोषक इत्यर्थः । ननु तत्परो हरिरित्युक्तत्वादेक एव परः इति पुनस्साध्यनिर्देशो व्यर्थ इत्यत आह- अत इति ।। तत्परो हरिरिति प्रतिज्ञाय स्वातन्त्र्येत्यादिनोपपाद्योपसंह्रियते । तथा च ‘एक एव परो हरिः’ इत्येत-न्निर्दोषकश्च स इत्यनन्तरं योज्यम् । एवं चोपसंहाररूपत्वान्न वैयर्थ्यमिति भावः । उपसंहारत्वज्ञापनायैवात इत्यध्याहारेण योजितमिति ज्ञातव्यम् । स्वरूपग्रहणमिति ।। स्वेषां ब्रह्मादीनां ये रूपा ब्रह्मत्वशेषत्वाद्यसाधारण-धर्मास्तद्युक्ततया ग्रहणमित्यर्थः । एतेनेति ।। ‘ब्रह्मा शिवः सुराद्याश्च’ इत्युदाहृतपरमश्रुतिविरोधेनेत्यर्थः । क्षराक्षरशब्दाविति ।। ‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च’ इत्येतद्वाक्यगतावित्यर्थः । जडजीवविषया-विति ।। क्षरशब्दो विनाशिजडप्रतिपादकः । अक्षरशब्दो नित्यभूतजीवप्रतिपादक इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
यस्माद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते ।
तदस्त्वेषा भक्तियुक्ता सेवा तत्पूज्यपादयोः ।।
द्वितीयपरिच्छेदं व्याचिख्यासुष्टीकाकारः एतत्परिच्छेदप्रतिपाद्यसमतीतक्षराक्षरत्वविवरणपूर्वकं तद्युक्त-भगवन्नतिस्तुतिरूपमङ्गलमादावाचरति- कलत्रमिति ।। श्रोतृशेमुषीमनुकूलयितुं सङ्गतिकथनपूर्वकं एतत्परि-च्छेदप्रतिपाद्यं दर्शयंस्तदारम्भं प्रतिजानीते- इदानीमिति ।। सामान्यतः साधितमपीति ।। ‘सर्वज्ञं सर्वकर्तारम्’ सर्वोत्तमं सर्वदोषव्यपेतम्’ इत्यादिना सामान्यतः साधितमपीत्यर्थः । अत्रानुपपत्तिपरिहारार्थं चेत्येव मूल-पाठः । मूलकोशेषु तथैव दर्शनात्स्वरसत्वाच्च । अनुपपत्तिपरिहारार्थमिति तु लेखकदोषपतित इत्यवधेयम् । जगदुत्पत्तिसंहारकर्त्रोरिति हेतुगर्भं विशेषणम् । सकलजगदुत्पत्तिसंहारकर्तृत्वाद् ब्रह्मशिवयोरेतदसम्भावित-मिति । तथा सति तयोस्तत्कर्तृत्वानुपपत्तिप्रसङ्गादिति योजना । स्वरूपेणोपादानमिति ।। ब्रह्मत्वरूपेणेत्यर्थः। ‘शरीरक्षरणात्क्षराः’ इत्यत्र शरीरपदानर्थक्यमाशङ्क्य क्षरणानुपपत्तिपरिहारार्थात्वान्न तदिति भावेन तत्प्रयोजनं वक्तुं क्षरणशब्दार्थं तावदाह- क्षरणाद्विनाशादिति ।। न सम्भवतीति ।। अविनाशित्वादिति भावः । नन्वेता-(पां.टि.) वताऽपि शरीरिणां कथं क्षरत्वनिर्वाह इत्यत आह- स्वविनाशेनेति ।। स्वीयविनाशस्य स्वामिनो विनाशे निमित्तत्वदर्शनाच्छरीरस्यापि स्वीयत्वात्तद्विनाशस्यापि तन्निमित्तत्वं युक्तमिति भावः । प्रयोजनाभावा-न्नोपचारः, स्वायत्तन्यायविरोधादित्यतः रूढोपचारत्वात्तस्य न प्रयोजनापेक्षत्वमिति भावेनोक्तम्- लोके दृश्यत इति ।। क्षर इत्यस्य किमित्याकाङ्क्षावत्त्वात्प्राप्तां वाक्याभासतामपेक्षितपूरणेन परिहरति - उच्यन्त इति ।। तत्साम्यादिति ।। तेषामप्यनादिनित्यत्वसाम्यादिति भावः । तत्पर इत्यत्र सन्निहिताक्षरमात्रपरामर्शो न युक्तः । तथा सति तन्मात्रपरत्वलाभेऽपि क्षरातीतत्वालाभेन प्रकृतासङ्गतिप्रसङ्गात् । किन्तु योग्यत्वात्क्षरस्यापि परामर्श इति भावेन तद्व्याख्याति- ताभ्यां परस्तत्पर इति ।। स्वाधीनत्वमिति ।। स्वेच्छाधीनत्वमित्यर्थः । ‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः’ इत्यन्यत्र भगवत्पादैस्तन्निर्वचनादिति भावः । ननु शक्तेः स्वरूपसहकारिमात्ररूपत्वान्न गुणत्वं, दुःखाभावातिरिक्तसुखाभावान्न तस्यापि गुणत्वमिति तदुक्तिरयुक्ते-त्यभिप्रेत्य चोदयति- स्वरूपेति ।। पदार्थस्वरूपव्यतिरिक्ता सहकारिव्यतिरिक्ता च शक्तिर्नास्तीत्यर्थः ।
सहकार्यभावमिति ।। अनेन श्रौतं करणपदं सहकारिपरमित्युक्तं भवति । समानमिति ।। सक्लेशं सुखं दुःखाविनाभूतं नान्यदितीश्वरस्य तदभावान्न तेन तत्प्रसङ्ग इति समानमित्यर्थः । ननु वीर्यशौर्यादीनां प्रयत्ने औदार्यकारुण्यादीनामिच्छायामन्तर्भावात्कथं पृथग्गुणत्वमतो न तेषामादिपदार्थत्वमित्यत आह- एतेषा-मिति ।। विष्णुवदेव लक्ष्म्यादीनामपि निःसीमगुणत्वेनोभयोरपि तुल्यत्वान्न तेन तत्परत्वसाधनं सम्भवतीत्यत आह- लक्ष्म्यादीनामिति ।। ननु जीवस्वरूपस्यानादित्वात् सर्वदा विद्यमानत्वाच्च नित्यत्वाच्च कथं सर्गस्थिति-क्षयान् ईश्वरः कुर्यादित्यतो व्याचश्व्े- सर्गो देहसृष्टिरित्यादिना ।। द्वन्द्वत्वे बन्धनमित्येकवचनं कथमित्यत आह- एकवद्भावश्चेति ।। ‘सर्वो द्वन्द्वो विभाषया एकवद्भवति’ इतिवचनादिति भावः । ननु सर्गस्थिति-यतिर्ज्योतिर्नित्यानन्दानां चेष्टावत्क्षरसाधारण्यान्नासाधारण्यमिति कथमसाधारण्येन कथनमित्यतः शब्दतस्तेषां साधारण्येऽप्युक्तरीत्या अर्थतः साधारण्याभावाद्युक्तमसाधारण्येन कथनमित्याह- यद्यपीति ।। ईश्वरस्यापी-त्यर्थः । अन्धपङ्गुवद्विषयभेदेन परस्परापेक्षत्वेऽप्येकस्मिन् व्यापारे परस्परानपेक्षत्वान्नेतरेतराश्रयत्वमित्याशयेन परिहरति- विषयभेदेनेति ।। कप्रत्ययस्य कुत्सार्थत्वे जीववदीश्वरस्यापि सदोषत्वप्राप्तेराह-स्वार्थ इति ।। निर्दोषप्रातिपदिकार्थ इत्यर्थः । ननु तत्पर इत्युक्तत्वात् ‘एक एव परो हरिः’ इति पुनः साध्यनिर्देशो व्यर्थ इत्यतः निगमनरूपत्वात्तस्य न वैयर्थ्यमिति भावेन तथा योजयति- अत एक एवेति ।। क्षराक्षरशब्दाविति ।। ‘द्वाविमौ’ इति वाक्योक्तक्षराक्षरशब्दावित्यर्थः ।
लघुप्रभा
(व्या.टि.)
‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि कार्याणि निर्विघ्नं परिसमाप्यन्ते प्रचीयन्ते च’ इति महाभाष्यवचनान्मङ्गलभूयस्त्वाय रमाब्रह्माद्युत्तमत्वरूपं समतीतक्षराक्षरत्वमुपवर्णयन्मध्येऽपि तदाचरति- कलत्रमिति ।। भार्येत्यर्थः । ‘कलत्रं श्रोणिभार्ययोः’ इत्यभिधानात् । कमला महालक्ष्मीः । ‘कमला श्रीर्हरिप्रिया’ इत्यभिधानात् । भगवत उपादानत्वभङ्गाय कलत्रमित्यादिसम्बन्धिशब्दप्रयोगः । तेन ‘मम योनिर्महद्ब्रह्म तस्मिन् (व्या.टि.) गर्भं दधाम्यहम्’ ‘सम्भवः सर्वभूतानां मत्तो भवति भारत’ इति, ‘अहं बीजप्रदः पिता’ इति, ‘अहं सुवे पितरमस्य मूर्धन्’ इति, ‘स मनसा वाचा मिथुनं समभवत्ततः संवत्सरोऽजायत’ इत्यादिश्रुतिस्मृतीः सूचयति । न च ‘यद् भूतयोनिं परिपश्यन्ति धीराः’ इति योनित्वोक्त्या विष्णोः स्त्रीत्वोपगमान्न पितृत्वमिति वाच्यम् । ‘यो नः पिता’ इति स्पष्टश्रुतेः । न च योनित्वोक्तिविरोधः । किं प्रातिपदिकार्थे विरोध उत स्त्रीलिङ्गार्थस्य । नाऽद्यः । ‘योनिश्च हि गीयते’ इति सूत्रभाष्येऽव्यवधानेनोत्पत्तिद्वारत्वस्यैव प्रकृत्यर्थताऽभिधानेन तस्य ‘उभयात्मकसूतित्वाद् वासुदेवः परः पुमान्’ इति स्मृत्या भगवत्यभिधानेनाविरोधात् । न द्वितीयः । ‘स एवैनं योनौ प्रतिष्ठितमाधत्ते’ इति ‘स्वयमेव योन्यां समारोहयत्’ इति च वैदिकोभयलिङ्गत्वनिश्चयात् । ‘श्रोणियोन्यूर्मयः पुंसि च’ इत्युभयलिङ्गानुशासनाच्च । अनेन रमाया अत्यन्तरङ्गत्वं सूचितम् । ‘न च भार्यासमं मित्रम्’ इति स्मृतेः । कमलसम्भव इत्यनेन ‘यदासीत्तत एवाऽद्यः स्वयम्भूः समभूदजः’ इति स्मृतिं पद्मभूरिति प्रसिद्धिं ‘नारायणाद्ब्रह्म जायते’, ‘तस्माद्विराडजायत’, ‘अहमस्मि प्रथमजा ऋताऽस्य’, ‘हिरण्यगर्भं पश्यत जायमानम्’ इत्यादिश्रुतिं च सूचयता हिरण्यगर्भस्वातन्त्र्यवादी निरस्तः । अनेनान्यदेवेभ्योऽप्यतिप्रेयस्त्वं सूचि-तम् । ‘पुत्रो हि हृदयम्’ इति श्रुतेः । शिवेति तन्नामग्रहणेन शैवमतमपास्तम् । सेवका इति ।। सिवेर्ण्वुलि लघूपधलक्षणगुणः, परिचारका इत्यर्थः । नृत्तगानादिनेति शेषः । शिवस्य नर्तकत्वं तु ‘त्रियम्बको महादेवो नृत्यते यस्य सन्निधौ’ इति स्मृतिसिद्धम् । इतरेषां तु ‘शृण्वन्ति गायन्ति गृणन्ति साधवः’ इत्यादिस्मृति-सिद्धम् । अत एवोक्तं सप्तमस्तोत्रे-‘नृत्यति शिवः प्रकटोरुशक्तिः’ इति, ‘गायन्ति विष्णुमृषयः’ इति च । तस्मा इति च ‘नमः स्वस्ति’ इत्यादिना चतुर्थी । विश्वकुटुम्बिन इति ।। ननु न कर्मधारयान्मत्वर्थीय इतीनोऽ-योगः । नञा निर्दिष्टत्वेन तस्यानित्यत्वात् । चकोरपारणपटुज्योतिष्मतीत्यादिप्रयोगाच्च । एवं हरिप्रीतितारतम्येन तद्भक्तितारतम्येन च लक्ष्म्यादीनां तारतम्यं सूचितम् । यथोक्तमनुव्याख्याने-
‘लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रगिराम्पतिः ।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ।।’ इति ।
‘तद्भक्तितारतम्येन’ इति च ।
उत्तरपरिच्छेदद्वयानारम्भं चोदयति- नन्वित्यादिना ।। तेनैवेति ।। प्रथमेनैवेत्यर्थः । सिद्धमेवेत्यतः परम् इति साधितमेवेति शेषः । प्रमेयसिद्ध्यविनाभावात् प्रामाणिकत्वसिद्धेरिति भावः । असाधितप्रायमेवेति ।। विशिष्य सिद्धिकरणानुपन्यासेन तत्करणकसिद्धेरसिद्धेरिति भावः । तत्रेति ।। उदाहृतवाक्येष्वित्यर्थः । प्रतिपादयती इति शत्रन्तं द्विवचनम् । मन्यमानैरिति श्यना निर्देशः । वादिभिरिति शेषः । ननूपचारे को हेतुरित्यतो रूढोप-चारोऽयमित्याह- स्वेति ।। धननाशे धनिनि नष्टपदप्रयोगादित्यर्थः । रूढोपचारस्याभिधातुल्यत्वेन ब्रह्मादौ मुख्यत्वं पूर्वोक्तं जडोपलक्षकत्वं च युक्तमित्यवधेयम् । ताभ्यामिति- परशब्दस्य दिक्छब्दत्वात् पञ्चम्या विगृ-ह्णाति । समासस्तु ‘पञ्चमी’ इति योगविभागात् साधुः । स्वातन्त्र्यं निर्वक्ति- सत्ताप्रमितिप्रवृत्तिष्विति ।। न (व्या.टि.) च सत्तात्रैविध्य इत्यान्यत्रिकोक्तिविरोधः । तत्र सत्तादित्रैविध्य इति तदर्थात् । इतरथा प्रमितेरपि सत्तात्वेन सदसद्विभागो न स्यादिति हृदयम् । अथवा सत्तात्रैविध्य इत्यस्य त्रिविधसत्तायामित्यर्थः । अत एव ‘सत्ता प्रधानपुरुषशक्तीनां च प्रतीतयः प्रवृत्तयश्च ताः सर्वाः’ इत्यनुव्याख्याने सुधायां ‘केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति । अपरे तु प्रमाणयोग्यत्वम् । अन्ये तु पुनरर्थक्रियावत्त्वं तदिदं त्रयमपि प्रकृत्यादीनां भगवद-धीनमेव’ इत्युक्तम् । अत्र सत्त्वेन प्रमाणयोग्यत्वस्य विवक्षितत्वान्नासति प्रसङ्ग इति मन्तव्यम् । अत्र स्वाधीनत्वं परानपेक्षत्वम् । तथा च सत्तादौ परानपेक्षत्वं स्वतन्त्रत्वम् । अत्र स्वातन्त्र्यनिर्वचनेनैव सत्तादौ परापेक्षत्वं परतन्त्रत्वमिति लब्धम् ।
ननु तथाऽपि नेदं स्वतन्त्रत्वलक्षणं युक्तम् । किमिदं प्रत्येकलक्षणं विशिष्टं वा । नाऽद्यः । तत्र सत्ता-शब्दोक्तस्थितेरैश्वर्या अपि कालाधिष्ठानाद्यपेक्षत्वेनासम्भवात् । ‘देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते’ इत्यनुव्याख्यानोक्तेः । असतः सत्ताभावेन तत्र परानपेक्षत्वेनासत्यतिव्याप्तेश्च । एवं प्रमितिपदेन स्वकर्तृकप्रमितिर्वा स्वविषयकप्रमितिर्वा विवक्षिता । आद्ये तस्यास्सर्वविषयतया विषयतया परानपेक्षणादसम्भवः । ‘ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद्भवेत्’ इत्यनुव्याख्यानोक्तेः । द्वितीयेऽन्यदीयस्वविषयकप्रतीतेरुत्पत्त्यादौ कारणापेक्षत्वादसम्भव एव । एवं प्रवृत्तिपदेन स्वकर्तृकव्यापारविवक्षायां सर्जनादिव्यापारस्य ‘तत्तेजोऽसृजत’, ‘तदपोऽसृजत’ इत्यादि-श्रुत्या सृज्यादिपरापेक्षत्वादसम्भवः । स्वविषयकविवक्षायां तु स्तुत्यादिरूपपरकीयप्रवृत्तेः परापेक्षत्वं सिद्धमित्य-सम्भव एव । विशिष्टलक्षणत्वे विशेषणवैयर्थ्यं च । व्यावृत्त्यभावात् । एवं परतन्त्रलक्षणमप्ययुक्तम् । पृथग्लक्षणत्वे सत्तापदेन स्थितेर्वक्तव्यतयोक्तदिशा स्वतन्त्रेऽतिव्याप्तेः । प्रमितिपदेन स्वकर्तृकविवक्षायामचेतनेऽव्याप्तिः । स्वविषयकविवक्षायामुक्तदिशाऽतिव्याप्तिः स्वतन्त्रे । असतोऽपि स्वविषयकप्रतीतौ परापेक्षत्वेनास्वतन्त्रता-पत्तिश्च । एवं प्रवृत्तिपदेन स्वकर्तृकव्यापारविवक्षायामचेतनेऽव्याप्तिः । ‘रचनानुपपत्तेः’ इति स्वतःप्रवृत्तिनिषे-धात् । स्वविषयकविवक्षायामुक्तदिशा स्वतन्त्रेऽतिव्याप्तिः । समुदितलक्षणे विशेषणवैयर्थ्यं च । व्यावर्त्याभावादिति चेत् ।
अत्राऽहुर्विजयीन्द्रस्वामिनः-‘स्वान्यूनशक्तिकस्वरूपासहकारिकस्वरूपत्वम्, स्वान्यूनविषयकप्रमित्यसह-कारिकप्रमितिमत्त्वम् । स्वान्यूनप्रकारकप्रवृत्त्यसहकारिकप्रवृत्तिमत्त्वं चेत्यर्थः । प्रवृत्तिशब्देनेच्छादिव्यापारो विवक्षितः’ इति । तेषामयं भावः । पृथगेवेदं लक्षणत्रितयम् । न चात्रोक्तदोषः । सत्तापदेन स्वरूपग्रहणात् । अत एव तत्त्वसङ्ख्यानटीकायां स्वरूपेति न्यरूपि । न चासत्यतिव्याप्तिः । तस्य निःस्वरूपत्वात् । न चैवम-सम्भवः । अन्यदीयस्वरूपस्य स्वन्यूनशक्तिकत्वेन विशिष्टाभावसत्त्वात् । एवं द्वितीयलक्षणेऽपि प्रमितिपदेन स्वकर्तृकप्रमितिरेव विवक्षिता । तस्यावलोकनादिरूपायाः ‘करुणारसपूर्णाभ्यां लोचनाभ्यां विलोकय’ इति प्रार्थनारूपपरप्रमितिसहकारिकत्वेऽपि विषयतया परापेक्षत्वेऽपि च तस्याः स्वन्यूनविषयकत्वेन विशिष्टाभाव-सम्भवात् । एवं तृतीयेऽपि प्रवृत्तिपदेन स्वेच्छादेरेव ग्रहणात् । तस्य च स्वाधिष्ठितलक्ष्मीब्रह्मादीच्छाद्यपेक्षायामपि तस्य स्वन्यूनप्रकारकत्वेन विशिष्टव्यतिरेक एवेति स्वतन्त्रलक्षणत्रयं सुस्थम् ।
(व्या.टि.) अत्र तद्विपर्ययेण परतन्त्रलक्षणकरणे स्वान्यूनशक्तिकस्वरूपसहकारिकस्वरूपकत्वमित्येकमेव लक्षणं सर्वास्वतन्त्रसाधारणम् । न चैवमपि नित्यस्य पराधीनताऽभावादव्याप्तिः । ‘द्रव्यं कर्म च कालश्च’ इति ‘नित्यं नित्यात्मना यतः’ इति च श्रुत्या, आकाशाधिकरणन्यायेन च तस्यापि परापेक्षत्वात् । स्वतन्त्रे तु स्वन्यूनशक्तिकस्वरूपसहकारिकत्वेऽपि स्वान्यूनशक्तिकस्वरूपकस्यान्यस्याभावेन तत्सहकारिकत्वाभावा-न्नातिव्याप्तिः । स्वान्यूनविषयकप्रमितिसहकारिकप्रमितिमत्त्वम् । स्वान्यूनप्रकारकप्रवृत्तिसहकारिकप्रवृत्तिमत्त्वं चेति शिष्टे परतन्त्रलक्षणे प्रमितिप्रवृत्तिपदाभ्यां स्वकर्तृकप्रमितिप्रयत्नविवक्षायां चेतनासाधारणे इति ज्ञातव्यम् । द्वितीये प्रमितिपदेन स्वविषयकप्रमितिविवक्षायां तु साधारणत्वेऽपि न दोषः । न चासत्यतिव्याप्तिः । प्रमितिपदेन सर्वांशप्रमितिस्वीकारात् । असतश्च सर्वांशप्रमाविषयत्वाभावात् । न च तथाऽपि नृशृङ्गमसच्छशशृङ्गं नास्तीत्यादिसर्वांशप्रमाविषयत्वादतिव्याप्तिप्रत्यापत्तिः । सत्त्वेन सर्वांशप्रमाविषयत्वं लक्षणमित्यर्थात् । अत एव ‘असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिः’ इत्यन्यथाप्रतीतिर्विवेचिताऽऽचार्यसूर्येणेति मन्तव्यम् । तृतीयलक्षणे प्रवृत्तिपदेन ‘पयोऽम्बुवच्चेत्तत्रापि’ इति सूत्रदिशाऽचेतनसाधारणस्वकर्तृकव्यापारमात्रविवक्षायां साधारण-त्वम् । सर्वस्यापि स्वान्यूनशक्तिकप्रवृत्तिसहकारिकप्रवृत्तित्वेन नासम्भवः । श्रीतत्त्वादिप्रवृत्तेरपि ‘यां यां परेश उरुधैव करोति लीलां तां तां करोत्यनु तथैव रमाऽपि देवी’ इत्यादिना ‘प्रकृतिं तु विकारिणीम् । अनुप्रविश्य गोविन्दः’ इति स्वान्यूनविषयकप्रमित्याद्यनपेक्षत्वेऽपि यत्किञ्चित्प्रमित्यादिकमादाय लक्षणसम्भवः । लक्ष्याति-रिक्तत्वस्य स्वान्यूनविषयकप्रमित्यादिविशेषणत्वान्नेश्वरे देवदत्तादिप्रमितिमादायातिव्याप्तिः । स्वविषयक-प्रमित्यादिमात्रस्य तत्त्वविवक्षणेऽप्यभेदेऽपि साकाङ्क्षत्वाङ्गीकारान्न दोषः । स्वतन्त्रलक्षणेऽपि लक्ष्यातिरिक्तेति स्वान्यूनविषयकप्रमित्यादेर्विशेषणान्नासम्भवः । अत एव छान्दोग्येऽप्रवृत्तीति पराप्रवर्त्यत्वं लक्षणत्वेनोक्तमिति रहस्यम् । वस्तुतस्तु स्वरूपसत्त्वस्य प्रमितेः सर्जनादिप्रवृत्तेश्च भगवत्स्वरूपत्वेनेतरानधीनत्वमेव । अधीनत्वं चान्यदेव यथेष्टविनियोगयोग्यत्वादिरूपम् । न सापेक्षत्वमात्रम् । अतीतादिविषयकस्यासद्विषयकस्य च ज्ञानादेस्तत्सापेक्षत्वेन तदधीनत्वे तत्र स्वामित्वापत्तेः । सर्जनस्य सृज्याधीनत्वेऽन्योन्याश्रयतापत्तेश्च । अत्रोक्तं स्वाधीनत्वमभेदे स्वस्वामिभावोपगमेऽप्यनतिव्याप्तये लक्ष्यान्यानधीनत्वरूपमेवेत्यवधेयम् । अत्र भगवतः सृष्ट्याद्यष्टके पञ्चकाभावादवशिष्टत्रितयानपेक्षत्वमेव लक्षणघटकम् । अन्यस्य तु यद्यपि यथायथं सृष्ट्याद्यष्टके परापेक्षत्वं लक्षणं विवक्षितुं शक्यम् । अत एवात्र ‘सृष्टिस्थितिक्षययतिप्रकाशवृतिबन्धनम्’ इत्यादिना यथायथं परापेक्षां वक्ष्यति । तथाऽपि तत्त्वसङ्ख्याने ब्रह्मलक्षणवैलक्षण्यसिद्धये तावदेवोक्तमिति ध्येयम् ।
केचित्तु स्वनिष्पत्तिस्वप्रमितिस्वप्रवृत्त्यन्यतमेषु परानपेक्षत्वमित्यर्थः। निष्पत्तिशब्देन स्वरूपलाभः । प्रमितिपदेन विशिष्य स्ववृत्तियावद्धर्मप्रकारकयथार्थज्ञानं विवक्षितम् । कार्यप्रपञ्चस्य स्वनिष्पत्त्यादित्रितये परापेक्षत्वात्तदन्यस्य चेतनस्याचेतनस्य वा स्वप्रमितौ प्रवृत्तौ च परापेक्षत्वात् । अव्यक्ततत्त्वस्यापि स्ववृत्तियावद्धर्मवत्तया स्वतन्त्र-विष्णुप्रमितिविषयत्वात्तत्प्रवृत्तिविषयत्वाच्च परापेक्षता । ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (व्या.टि.) इति श्रुतेः । ‘अनुकृतेस्तस्य च’ इति सूत्राच्च । स्वतन्त्रविष्णौ तु नैवम् । तस्य स्ववृत्त्यशेषधर्मवत्तया स्वान्यप्रमित्यविषयत्वात् । अन्यप्रवृत्त्यविषयत्वाच्चेति नातिप्रसङ्ग इति वदन्तीति त एव पक्षान्तरं पपक्षुः । वस्तुतस्तु परतन्त्रलक्षणे प्रमित्यादिवन्निष्पत्तेरपि वियन्नयन्यायेन पराधीनविशेषावाप्तिरूपायाः सार्वत्रिकत्वेन पृथगेव लक्षणत्वं सुवचमिति रहस्यम् । अत्र श्रुतिर्नैयायिकेष्टां गुणाष्टककाष्ठां निरसिसिषुरधिकान् वक्ति । स्वातन्त्र्य-शक्तीत्यादिना । तत्र स्वातन्त्र्यं निरुक्तम् । परानभिमतां शक्तिं निर्वक्ति- कार्योत्पत्त्यादीति ।। आदिपदेन क्वचित्पूर्वशक्तिप्रतिबन्धोऽपि ग्राह्यः । कारणतावच्छेदकव्युदासायातीन्द्रिय इति । न्यायमतं प्रतिक्षेप्तुमुपक्षिपति- स्वरूपेति ।। निरासं प्रतिजानीते-तन्नेति ।। परोक्तहेतुमसिद्ध्या दूषयति-न तस्येति ।। प्रकृतिविवक्षयैवैतत् ।
वस्तुतस्तु सर्वत्रापि शक्तिरुररीकरणीया । तथा हि वह्न्यादौ दाहादिकार्यविशेषहेतुतया मणिमन्त्रादि-प्रतिबध्यतया च कारणनिष्ठो विशेषोऽङ्गीकरणीयः । न च कार्यवैजात्यसिद्धकारणवैजात्येनान्यथासिद्धिः । सजातीयसामग््रयाऽपि सति प्रतिबन्धे कार्यानुत्पत्तेः । न च प्रतिबन्धकाभावेनान्यथासिद्धिः । उत्सर्गापवाद-भावाभावप्रसङ्गेन तस्याकारणत्वात् । न चोत्तेजकाभावविशिष्टमण्याद्यभावेनान्यथासिद्धिः । दत्तोत्तरत्वात् । विशिष्टस्य शुद्धानतिरेकादिति वदता मणिकृता विशिष्टाभावनिरासात् । अतिरेकेऽपि कारणान्तरस्वीकारा-पत्तिश्च । धर्मिकल्पनातो धर्मकल्पनाया ज्यायस्त्वाच्च । दावदहनदग्धवेत्रबीजस्य कदलीकाण्डजननशक्तिपरित्यागे पूर्वत्र विशिष्टाभावकारणत्वमपरत्र विशिष्टकारणमिति द्वैविध्यविकल्पनाप्रसङ्गेन गौरवाच्च । अनन्तविशिष्टाभाव-कल्पने च तस्य प्रागभावाद्यन्यतमत्वेन कारणत्वकल्पनेऽवच्छेदकगौरवम् । तत्प्रयोजकतया विशेषणाद्यन्य-तमाभावकल्पनं चेत्यतिगौरवम् । शब्दशक्तिस्थले आधेयशक्तिस्थले न विशिष्टाभावसम्भवोऽपीत्यलम् । स च भावो विधिमुखप्रत्ययवेद्यत्वात्, घटवत् । स च न द्रव्येऽन्तर्भवति, अगुणित्वाद्धर्मिपारतन्त्र्याच्च । नवस्व-नन्तर्भावाच्च । न तावत्पृथिवी । गन्धाभावात्पाकजरूपाभावाच्च । न जलम् । शीतस्पर्शाभावादभास्वरशुक्लाभा-वाच्च । नापि तेजः । उष्णस्पर्शाभावाद्भास्वरशुक्लाभावाच्च । नापि वायुः । त्वाचस्पर्शाभावात्सदागत्यभावाच्च । नाऽकाशम् । शब्दाभावाच्छिद्रत्वाभावाच्च । विभुत्वाभावाच्च । अत एव न कालदिशौ । परत्वापरत्वासमवायि-कारणसंयोगानाधारत्वाच्च । नापि मनः । अणुत्वाभावात् । सर्वोपलब्धिसाधनत्वाभावाच्चेति । नापि गुणे । चतुर्विंशत्यन्यत्वात् । ‘अहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’ इत्यादिना ज्ञानेऽप्य-ज्ञाननिवृत्तिशक्त्युक्तेः । नापि कर्मणि । चलनात्मकत्वविरहात् । यागादिक्रियास्वपि वृत्तेश्च । नापि जातौ । अनेकसमवेतत्वाभावात् । नित्यत्वाभावाच्च । ‘न हि ब्राह्मणस्यौदनं किञ्चन हिनस्ति’ इति ‘ब्राह्मणो न हन्तव्यः’ इति ‘ब्राह्मणम् उद्धरेत्’ इति ‘आपः शुन्धन्तु मैनसः’ इति, ‘हिरण्यवर्णाः शुचयः पावकाः’ इति ब्राह्मणत्वादिजातावहन्यत्वपावकत्वादिशक्त्युक्तेश्च । नापि विशेषे । अनित्येऽपि वृत्तेः । नापि समवाये । असम्बन्धत्वादनेकत्वाच्च । ‘पराऽस्य शक्तिर्विविधैव’ ‘इमांल्लोकानीशत ईशिनीभिः’ ‘विचित्रशक्तिः’ ‘इन्द्रो मायाभिः’ ‘सर्वोपेता च’ इति विचित्रतैकत्वश्रुतेः । ‘शक्त्या मायाख्यया’ इति भागवतोक्त्या मायाशब्दस्य (व्या.टि.) शक्तिसञ्ज्ञात्वात् । संमतं चैतच्छाब्दिकानाम् । ‘शक्लृ शक्तौ’ ‘क्षय्यजय्यौ शक्यार्थे’ ‘आख्यातानामर्थं ब्रुवतां शक्तिधीः सहकारिणी’ इति वदताम् । भगवद्गीतायामपि ‘शक्नोतीहैव’ इत्यादिना प्रयुङ्क्ते । सम्मतं चैतन्मीमांसकानामपि । ‘वचनात्त्वयथार्थमैन्द्री स्याद्’ इति, ‘ऐन्द्य्रा गार्हपत्यमुपतिष्ठते’ इति वाचनिकविनियोगे मुख्यसामर्थ्याभावेन गौणं ब्रुवताम् । पेठुश्च भट्टपादाः । ‘सामर्थ्यं सर्वभावानां लिङ्गमित्यभिधीयते’ इति । स च धर्मः पारतन्त्र्यात्सविषयत्वाज्ज्ञानेच्छादिवत् । न चासिद्धिः । ‘शक्तिसदोश्च’ इति कर्मणि यतो विधानात् । ‘कृत्यानां तयोरेव’ इति नियमितत्वात् । शक्यार्थ इति प्रयोगाच्च । न च कार्योत्त्पत्याद्यनुकूलत्वमसम्भवि । सोऽहं शक्नोमि वक्तुं शक्नोति तदेव जेतुं नाशक्नुवन्प्राप्तुं शक्नुयुः क्वचिदित्यादिना, भोक्तुं व्रजतीतिवत्क्रियार्थोप-पदविहिततुमुना शक्तेः क्रियार्थत्वनिश्चयात् । तस्माच्छक्तिः पदार्थान्तरमिति सिद्धम् । न्यायमतं निरस्यति- सुखशब्देनेति ।। बाधकेति ।। मुख्यार्थग्रहण इति शेषः । परित्याजकाभावे परित्यागो नोचित इति भावः ।
नैयायिको बाधकमाशङ्कते- सुखस्येति ।। दुस्तरां प्रतिबन्दी दीपयति- तर्हीति ।। ज्ञानस्यापीति ।। अपिना इच्छादेर्ग्रहः । ईश्वरस्येति शेषः । तदुत्तरं समीकरोति- तर्हीति ।। क्वेति ।। पक्षादन्यत्रेत्यर्थः । सक्लेशमिति ।। बाधितमित्यर्थः । ‘क्लिशू विबाधने’ इति धातोः । चिन्ताश्रमसहितमिति वा । समानमिति ।। सक्लेशमेव सुखं दुःखाविनाभूतमितरं समानमित्यर्थः । उपलक्षणमेतत् ‘को ह्येवान्यात्’ इति श्रौतार्थापत्तिसद्भावाच्चेत्यपि ग्राह्मम् । आद्यग्रहणेनेति ।। यद्यपि ‘शूर वीर विक्रान्तौ’ इति धातुं पठन्ति । तथाऽपि शौर्यं पराक्रमः, वीर्य-मारब्धान्तगामित्वमिति भेदो बोध्यः । अनुभवेति ।। वीर्यादीनां परपरिगणितगुणविलक्षणतयाऽनुभवसिद्धत्वेन तदन्तर्भावस्तद्विरुद्ध इति भावः । तत्पर इत्युक्त्याऽर्थलब्धे प्रतियोग्यवरत्वे हेतुं समुच्चिनोति- लक्ष्म्यादीना-मिति ।। अवधिनिष्ठससीमगुणत्वसहितस्यैवाऽश्रयनिष्ठनिःसीमगुणत्वस्य परत्वे हेतुत्वमिति वा समुच्चयः । सर्गादिशब्दानां क्षरसाधारण्यायार्थभेदमाह- देहसृष्टिरित्यादिना ।। ‘विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय’ इति श्रुतेः । मरणमिति ।। ‘तान्पद्यानुविशति’ इति श्रुतेरित्यर्थः । यतिर्बन्ध इति ।। ‘यमो बन्धने’ इत्युक्त्या धात्वनैकार्थ्यद्योतनार्थाद्यमेः क्तिनि यतिरिति भावः । यतिर्नियतिर्बन्ध इति तत्तात्पर्यं वा । विधिनिषेधाभ्या-मिति ।।
ननु नेदं सर्वक्षरसाधारणम् । देवानामनियतत्वेन ब्रह्मणः स्वेच्छानियतत्वेन विधिबन्धविधुरत्वात् । ‘अनियता हि देवा ब्रह्मैव स्वेच्छानियतः’ इति श्रुतेरिति चेत्सत्यम् । भूम्ना गौणोऽयं व्यपदेश इति गृहाण । वस्तुतस्तु ‘विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वेच्छानियतः’ इति श्रुतावुच्यमानं मनुष्याणां विधिनियतत्वं वर्णाश्रमादिव्यवस्थयैवानुष्ठेयकर्मवत्त्वम् । देवानां त्वनुष्ठेयानां मध्ये कामचारानुज्ञावन्तः’ इति टीकावाक्यादव्य-वस्थितानुष्ठेयवत्त्वमनियतत्वम् । ब्रह्मणस्त्ववश्यकर्तव्यस्वेच्छाविषयत्वं स्वेच्छानियतत्वम् । तथा च देवाना-मनुष्ठेयानां कामचारे विधिबद्धत्वं ब्रह्मणोऽपि स्वेच्छाचरणस्यैव विहितत्वेन विधिबद्धत्वमस्त्येवेति विध्यादि-बन्धोपपत्तिः । यद्वाऽपरोक्षज्ञानिनां मनुष्याणां विधिनिषेधबद्धत्वं नाम क्लृप्तानन्दप्रतिबन्धकविहितकरण-(व्या.टि.) निषिद्धकरणत्वम् । देवानां तु प्राप्तव्यप्रतिबन्धसद्भावेऽप्युक्तक्लृप्तानन्दानुभवप्रतिबन्धक-विहिताकरणनिषिद्धकरणरहितत्वमनियतत्वम् । ब्रह्मणस्तु पुण्यजनकस्वेच्छाविषययावद्व्यापारकत्वं स्वेच्छा-नियतत्वम् । सर्वथा विधिबन्धस्य सर्वसाधारण्यान्न दोष इत्यवधेयम् । ज्ञानोपादनमिति ।। ननु नेदं सर्वक्षरसाधा-रणं योगिनामृजूनामनादिनित्यमित्यृजुज्ञानस्य, सादि च तात्त्विकेभ्योऽन्यत्रेति तात्त्विकज्ञानमात्रस्यानादि-त्वोक्तेः । मैवम् । प्रवाहतोऽनादित्वेऽपि प्रवाह्युत्पादनसम्भवात् । यद्यपि प्रवाहानादित्वं लोकविषये सर्वसाधार-णम् । तथाऽपि ब्रह्मविषयेऽनादित्वमृजूनां तात्त्विकानां च ज्ञानस्यैव । तत्रापि तात्त्विकानां प्रवाहिरूपमुत्पद्यमानं ज्ञानं प्रायेणाज्ञातविषयं संशयादिनिवर्तकं च जायते । ब्रह्मणस्तु प्रायः प्रतिभासितविषयमेव । गुणविशेष-विषयेऽज्ञातविषयमपि क्रमेण वर्धमानमित्युक्तेः । ब्रह्मणस्तु प्रायो नाप्रतिभासितमित्युक्तेश्च । ‘जानन्तोऽपि विशेषार्थज्ञानाय’ इत्युक्तेश्च । ‘ब्रह्मेन्द्ररुद्रादिदेवतानां ज्ञानस्फूर्तिः’ इत्यस्याप्राप्तज्ञानलाभ इति टीकायां व्याख्यातत्वाच्च । किञ्चिदप्राप्तलाभश्चेति टीकोक्तेश्च । तदीयश्रवणस्यापि दृष्टार्थत्वावश्यंभावाच्च । विष्णोः प्रीत्यर्थमेवेति विरिञ्चस्य केवलं धर्मकारणमित्युक्तिश्च तिरोहितलाभाभावपरा । संशयनिवर्तकत्वाभावपरा च । इतरेषामिव ब्रह्मणस्तिरोधानसंशययोरप्रसक्तेः । हनुमदादेः संशयाद्युक्तिरपि परकीयसंशयाद्याहरणविषयाऽतः सर्वथा ज्ञानोत्पादनं सर्वक्षरसाधारणम् ।
आवृतिरविद्येति ।। अविद्या च भावरूपा विरिञ्चसाधारणा । दग्धपटायमानत्वेन संशयमिथ्याज्ञान-जननासामर्थ्येऽपि यावत्स्वरूपानन्दानुभवप्रतिबन्धकतयाऽऽवरणस्याऽवश्यकत्वात् । लिङ्गदेहादीति ।। आदिना स्थूलपरिग्रहः । एकवद्भावश्चेति ।। ‘सर्वोऽपि द्वन्द्वः’ इति वार्तिकादिति भावः । यद्यपि ‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’इत्युक्तमुक्तिः सर्वसाधारणी । तथाऽपि सात्त्विकासाधारणी तामाह-मोक्षणमिति ।। मोक्षश्च णश्चेति द्वन्द्वैकवद्भावमभिप्रेत्य व्याचश्व्े- निवृत्तिसहितपरमानन्देति ।। ‘णस्तु निर्वृतिवाचकः’ इति स्मृतेरिति भावः । ननु देहवियोगमात्रस्य क्षरत्वेन तामसानामपि तथात्वात् तत्साधारण्यालाभ इत्यतस्तदर्थं ‘मुक्तिस्तु द्विविधा तत्र सुखं नित्यं तथा परम्’ इत्यनुव्याख्यानं मनसि निधायाऽह- एवमिति ।। प्रादुर्भाव इति ।। ‘कामादितरत्र तत्र चाऽयतनादिभ्यः’ इत्यधिकरणोक्तेरित्यर्थः । मरणाभाव इति ।। समनानयन्यायादिति भावः । आज्ञान्तर्गतिरिति ।। ‘एतस्य वाऽक्षरस्य प्रशासने गार्ग्याकाश ओतश्च प्रोतश्च’ इत्युक्तं सर्वाधारतया भगवदाज्ञयाऽवस्थानमित्यर्थः । अतो नातिप्रसङ्गः । साक्षात्कार इति ।। ज्योतिःशब्दस्य प्रकाशे प्रसिद्धेरिति भावः । नन्वक्षरायेति चतुर्थ्या भवितव्यम्, सम्प्रदानत्वात् । तदविवक्षायामपि षष्ठ्याः आवश्यकत्वादित्यतस्तथा व्याचश्व्े- अक्षरस्येति ।। ननु सर्गादिशब्दस्य साधारण्यात्कथमसाधारणार्थलाभ इत्यत आह- उक्तेति ।। श्रुतावुक्तेरित्यर्थः । विधेयेत्यनेनावान्तरभेदेऽपि न शब्दसाम्यभङ्ग इति भावः । विषयभेदेनेति ।। अन्धपङ्गुवदिति भावः । स्वार्थ इति ।। वैभाषिकोऽयं समासान्त इति भावः । अत्रेति ।। उभयशेषतयेति भावः । ब्रह्मादीनां नामग्रहणेन निरासे हेतुमाह- शैवादीति ।। आप्तताप्रतीतिं निराह-एतेनेति ।। श्रुतिस्मृतिविरोधादिति भावः।