नच तेन लोकोपकारः ..

चार्वाकमतेन लोकापकार समर्थनम्

मूलम्

-  नच  तेन लोकोपकारः  । धर्माधर्माभावज्ञाने परस्परहिंसादिनाऽपकारस्यैव प्राप्तेः ।।

तत्त्वमञ्जरी

धर्माद्यभावज्ञापनेन तदनुष्ठानादिक्लेशनिवारणाल्लोकोपकारः प्रयोजनमित्यत आह - न च तेनेति ।।

टीका  

ननु धर्माद्यनङ्गीकारेऽपि न शास्त्रस्य विषयादिशून्यत्वमापद्यते । धर्माद्यभावस्यैव विषय-त्वात्    नच धर्मादिकं पश्वादिभिरिव स्वभावत एवाप्रतिपन्नमिति किं तदभावप्रतिपादनेनेति वाच्यम् । वेदादिजनितया भ्रान्त्या धर्मादिसद्भावस्य प्रसक्तत्वेन ‘नायं सर्पः’ इतिवत् तदभाव-प्रतिपादनस्योपपन्नत्वात् । फल च लोकस्य निरङ्कुशः कामोपभोगो दुःखनिवृत्तिश्च । यद्यपि शास्त्रं न कामान् ददाति । तेषामर्थादिनैव लभ्यत्वात् । नापि भोजयति । रागत एव तत्सम्भवात् । नाप्यौषधादिवद् दुःखं शमयति । तथाऽपि धर्मादिसद्भावभ्रान्त्या केचित् कामोपभोगोपरुद्धाः । कृच्छ्रचान्द्रायणाद्यनुष्ठाननिमित्तं दुःखं च प्रसक्तम् । धर्माद्यभावप्रतिपादनेन तु भ्रान्तौ निवृत्तायां यथेष्टकामोपभोगो दुःखाद्यनुदयश्च स्यात् । शास्त्रप्रणेतुस्तु लोकोपकारः फलम् । उपकृताश्च लोका अस्माकमयं कामोपभोगोपरोधं धर्माद्यनुष्ठानादिक्लेशं च निवारितवानित्यनुरागिणो भवन्ति । ‘जनानुरागप्रभवाश्च सम्पदः’ इति । तत्राऽह- नच तेनेति ।। तेन शास्त्रप्रणेत्रा, तेन शास्त्रेण प्रणीतेन लोकोपकारः कृतो भवतीति न च वाच्यमित्यर्थः । लोकप्रयोजनादिप्रतिषेधस्याप्युप-लक्षणमेतत् । कुतो नेत्यत आह- धर्मेति ।। ज्ञाने लोकस्य लोकायतशास्त्रेणोत्पादिते सति, हिंसादिना प्राप्तेन ।

एतदुक्तं भवति । यदि धर्मादिज्ञानं प्रमा यदि वा भ्रान्तिः सर्वथा सर्वमर्यादास्थितिहेतुत्वेन महान्तमनर्थं पर्यहार्षीत् । इदानी तु धर्माद्यभावज्ञाने सति सर्वमर्यादाभङ्गेन धनवनिताद्यपहारार्थिनो लोकस्य परस्परहिंसादिकं प्राप्नोत्येव । तथा चापकार एव लोकस्यानेन कृतो भवति । नहि कपर्दिकालाभार्थं लक्षलाभं नाशयन्नुपकारी भवति । ततश्च श्रोतॄणामिदमफलमेव । फलसम्बन्धिन एव विषयत्वेन निर्विषयत्वं च । शास्त्रप्रणेतरि च लोकस्यापकारित्वबुद्ध्या द्वेष एव भवति कुतोऽनुराग इति । नन्वविवेकिनां भवतु केषाञ्चिद् द्वेषः । विवेकिनस्तु अस्मत्सुखाद्यर्थमनेनोद्यमः कृतः । यत्तु हिंसादिकं प्राप्तं तदस्मत्सामर्थ्याभावनिबन्धनम्    तत्रायं किं करोत्विति मन्वाना अनुरज्यन्त एव । यथा आरोग्यार्थं भिषजौषधे दत्ते स्वापराधेन चानिश्वेत्पादे जाते न आमयावी तस्मै द्रुह्यति, किन्तु प्रत्युपकरोत्येवेति चेन्न । तथाऽपि समव्ययफलत्वेन शास्त्रकरणस्य निष्प्रयोजनत्वात् । अङ्गीकृत्य चेदमुक्तम् । विषमश्चायमुपन्यासः । नहि रोगिणोऽप्यथ्याचरणं वैद्यनिमित्तं येन तस्मै द्रुह्येत् । हिंसादिप्राप्तिस्तु शास्त्रनिमित्तैवेति सर्वेषां द्वेष एव स्यात् । ये तु हिंसया धनवनितादिकं लभन्ते तेऽपि बलवत्तरैरन्यैर्हिंस्यन्त एव । नैवं दृश्यत इति चेत् । सत्यम् । तदास्तिकदर्शनानाम् अनुन्मूलितत्वात् । तदुन्मूलनार्थश्च परस्य प्रयत्नः ।

भावबोधः

।। लोकप्रयोजनादिप्रतिषेधस्येति ।। शास्त्रप्रणेतृकर्तृकधर्माद्यभावप्रतिपादननिमित्तकः कामोप-भोगो धर्माद्यनुष्ठानक्लेशनिवृत्तिश्च लोकप्रयोजनशब्देनोच्यते । शास्त्रप्रणेतरि तदुपकृतलोककर्तृकानुराग आदि-शब्देनोच्यत इति ज्ञातव्यम् ।

भावदीपः

।। स्वभावत इति ।। प्रत्यक्षाद्यग्राह्यस्वरूपत्वादिति भावः । विषयमुपपाद्य प्रयोजनं च स्वशास्त्र-स्योपपादयति- फलमिति ।। नन्वस्त्वयं धर्माद्यभावो विषयः । तेन सह प्रतिपाद्यप्रतिपादकभावः सम्बन्धश्च । शास्त्रस्य फलत्वेन सम्मताभ्यां कामोपभोगदुःखनिवृत्तिभ्यां कः सम्बन्ध इत्यतो धर्मादिभ्रान्तिनिवृत्तिद्वारा कामोपभोगजननरूपः, कृच्छ्रचान्द्रायणाद्यनुष्ठाननिवृत्तिद्वारा तदनुष्ठाननिमित्तदुःख-निवृत्तिसम्पादनरूप इति (रा.टि.)विवक्षुः प्रसक्तं निषेधति- यद्यपीत्यादिना । न कामानिति ।। स्रक्चन्दनादिविषयानित्यर्थः । अस्तु लोकस्यैतत्फलम् । शास्त्रप्रणेतुः किं फलमित्यत आह- शास्त्रप्रणेतुरिति ।। स्वतोऽपुमर्थत्वात् कथं तस्य फलत्वमित्यत आह- उपकृताश्चेति ।। लोकेति ।। लोककर्तृकप्रणेतृप्रयोजनप्रतिषेधोऽपि ग्राह्य इत्यर्थः । एकदेशानुवादेन शेषमाह- ज्ञाने लोकस्येत्यादिना ।। उक्तदिशोपकारस्य सयुक्तिकत्वेन कथमपकारस्य प्राप्तिरित्यत आह- एतदुक्तमिति ।। अनेन शास्त्रप्रणेत्रा शास्त्रेण च कृतो भवतीत्यर्थः । धर्माद्यनुष्ठाननिमित्त-दुःखनिवृत्तिरूपोपकारोऽस्त्येवेत्यत आह- न हि कपर्दिकेति ।। समुद्रोद्भववस्तुविशेषो देशविशेषे क्रयसाधन-भूता कपर्दिका ।। फलसम्बन्धिन इति ।। स्वज्ञानद्वारा फलजनकस्येत्यर्थः । स्वापराधेनेति ।। अपथ्या-चरणेनेत्यर्थः । आमयावी रोगी ।। तस्मै द्रुह्यतीति ।। ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ इति चतुर्थी ।। अयमुपन्यास इति ।। रोगिदृष्टान्तोपन्यास इत्यर्थः। केषाञ्चिद्वाऽस्त्युपकार इत्यत आह- ये त्विति ।।

वाक्यार्थदीपिका

(श्री.टि.)

।। स्वभावत एवेति ।। शास्त्रं विनैवेत्यर्थः । यथा पश्वादीनां धर्मादिज्ञानाभावः स्वभावत एवास्ति । अतो न शास्त्राद् धर्माद्यभावस्तान् प्रति प्रतिपादनीयः । एवं सर्वपुरुषाणामपि धर्मादिज्ञानाभावस्य शास्त्रं विना स्वत एव सद्भावात्तान् प्रति शास्त्रेण तदभावप्रतिपादनं व्यर्थमित्यर्थः ।। नायं सर्प इतिवदिति ।। रज्ज्वां भ्रान्त्या सर्पप्रसक्तौ सत्यामिति शेषः । निरङ्कुशः अनिवारितः । काम्यत इति व्युत्पत्त्या कामो विषयः । एव-मुत्तरत्रापि । भोगोऽनुभवः ।। दुःखेति ।। विषयभोगानन्तरं तदप्राप्तिनिमित्तं यद्दुःखं तन्निवृत्तिर्भवतीत्यर्थः । ननु निरङ्कुशकामोपभोगादिरूपप्रयोजनेन यद्यपि लोकायतशास्त्रस्य न साक्षात्साध्यसाधनभावोऽस्ति । तथाऽपि परम्परया प्रयोजकत्वमस्तीत्युपपादयति- यद्यपीत्यादिना ।। भोजयति विषयभोगान् ददातीत्यर्थः ।। नापी-ति ।। अधीतेऽपि शास्त्रे दुःखशान्त्यदर्शनादिति भावः । ननु सुखदुःखावाप्तिहान्योरन्यतरत्वाभावात् कथं लोकोपकारस्य फलत्वमित्याशङ्क्य सुखरूपत्वाभावेऽपि सुखसाधनीभूतसम्पदादिहेतुत्वाद्युक्तं तस्य फलत्व-मित्याह- उपकृताश्चेति ।। अनुरागिणः शास्त्रप्रणेतरीति शेषः । अनुरागस्यापि न स्वतः प्रयोजनत्वमित्यभिप्रेत्य तत्साध्यं प्रयोजनमाह- जनानुरागेति ।।

जितेन्द्रियत्वं विनयस्य  कारणं  गुणप्रकर्षो विनयादवाप्यते ।

गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवाश्च सम्पदः ।।’

इति वचनादिति भावः । ननु मूले शास्त्रप्रणेतृप्रयोजनस्यैव निराकरणं प्रतीयते न लोकप्रयोजनादेरतो न्यूनतेत्यत आह- लोकप्रयोजनादीति ।। शास्त्रप्रणेतृकृतधर्माद्यभावप्रतिपादननिमित्तकः कामोपभोगो धर्माद्यनुष्ठानक्लेश-निवृत्तिश्च लोकप्रयोजनशब्देनोच्यते । आदिपदेन धर्माद्यभावरूपविषयसङ्ग्रहः । अनेन शास्त्रप्रणेत्रा ।

ननु धनवनिताद्यपहारेण तात्कालिकसुखभोगस्तावत् प्राप्त एवेत्युपकारित्वमेव तस्येत्यत आह- नहीति ।। तात्कालिकसुखप्राप्तिः कपर्दिकालाभस्थानीया । लक्षलाभस्थानीयं जीवनमिति ज्ञातव्यम् ।। फलसम्बन्धिन (श्री.टि.) एवेति ।। लोके फलसाधनस्यैव विषयत्वदर्शनान्निरङ्कुशकामोपभोगस्य चोक्तरीत्याऽफलत्वात् तत्साधनस्य धर्माद्यभावस्य न विषयत्वमित्यर्थः । कुतोऽनुराग इति ।। कुतश्च तत्प्रयुक्ताः सम्पद इत्यपि द्रश्व्व्यम् । आमयावी रोगवान् ।। समव्ययफलत्वेनेति ।। अविवेकिद्वेषप्रयुक्तापकारो व्ययो विवेक्यनु-रागप्रयुक्तोपकारः फलम्, तदुभयं सममेवेति । समव्ययफलकशास्त्रकरणाय विचक्षणस्य न प्रवृत्तिर्युक्तेत्याशयः। यथोक्तम्-

असत्यानि दुरन्तानि समव्ययफलानि च ।

अशक्यानि च वस्तूनि नाऽरभेत विचक्षणः ।।’

इति ।। इदमिति ।। समव्ययफलत्वमित्यर्थः । उपन्यासो नन्वविवेकिनामित्यादिना कृतः । सर्वेषां विवेकिना-मविवेकिनां च ।

नन्वेवं निराकरणमयुक्तम् । येऽबलिष्ठस्य हिंसया धनवनितादिकं लभन्ते तेषां बलवतां पुनरन्येन हिंसाऽभावा-न्निरङ्कुशकामोपभोगः फल भविष्यत्येव । तदनुरागप्रयुक्तसम्पच्छास्त्रप्रणेतुर्भविष्यत्येवेत्यत आह- ये त्विति ।। तटस्थः शङ्कते- नैवमिति ।। परस्परधनवनिताद्यपहारेण निरङ्कुशकामोपभोगकरणं, तत्कर्तुः परस्परहिंसादि-नाऽपकारप्राप्तिश्चेत्येतन्नेदानी लोके दृश्यते । अतो भवद्भिः कथमेवं निराक्रियत इत्यर्थः ।। तदेति ।। यदैवं न दृश्यते तदानीमित्यर्थः ।। आस्तिकदर्शनानामिति ।। अस्ति स्वर्गनरकाख्यः परो लोकः । तत्साधनीभूतौ धर्माधर्मौ च स्त इत्येवं प्रतिपादकानां शास्त्राणामित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

।। लोकोपकार इति ।। वैदिकानां धर्माधर्मव्यवस्थापकैर्वचनै रुद्धकामभोगानां प्राणिनां धर्माद्यभाव-प्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपमस्य प्रयोजनमित्यर्थः । ननु लोकोपकारो न स्वरूपेण प्रयोजनम् । सुखदुःखाभावेतरत्वात् । नाप्यदृष्टहेतुत्वेन । तदनङ्गीकारात् । तत्कथं वाऽचार्यप्रयोजनं स्यादित्यतो जनानुरागरूप-दृष्टफलसम्पादकत्वेन तस्य प्रयोजनत्वमित्याह- उपकृताश्चेति ।। ननु जनानुरागोऽपि न स्वतः प्रयोजनमित्यत आह- जनेति ।। आमयावीति ।। ‘आमयस्योपसङ्ख्यानम् दीर्घश्च’ इति ‘बहुलं छन्दसि’ इत्येतत्सूत्रीयोप-सङ्ख्यानबलाद् रोगवाचिन आमयशब्दाद् विन्प्रत्यये दीर्घत्वे च सति आमयाविन्निति प्रातिपदिकसिद्धिरिति ज्ञेयम् ।। नैवं दृश्यत इति ।। धनवनिताद्यपहारेण परस्परहिंसादिकं न दृश्यत इत्यर्थः ।

लघुप्रभा

(व्या.टि.)

।। पश्वादिभिरिवेति ।। बुद्धेर्मान्द्यद्योतनाय पशुसाम्योक्तिः । यथोक्तं वेदे- ‘एतावन्तो वै पशवो द्विपादश्च चतुष्पादश्च’ इति । प्रतिपादनस्य स्वयमफलत्वात् फल चाऽह- फल चेति ।। निरङ्कुशो निराबाधः । कामोपभोगदुःखनिवृत्त्योर्भोग्यादानेन भोगानुत्पादनेन प्राप्तदुःखाशमनेन च शास्त्रफलत्वाभावमाशङ्क्य भोगोपरोधतपोनुष्ठानप्रसक्तदुःखनिवर्तकतया फलत्वं साधयति- यद्यपीत्यादिना ।। शास्त्रश्रवणफलमुक्त्वा प्रणयनफलमाह- शास्त्रप्रणेतुरिति ।। अनुरागफलमाह- जनेति ।। तेनेति पदं कर्तृकरणोभयपरतया व्याचश्व्े- (व्या.टि.) प्रणेत्रेत्यादिना । लोकप्रयोजनादीति ।। लोकस्य कामोपभोगादिरूपं, प्रणेतुश्च अनुरागसम्प-दादिरूपं प्रयोजनं तत्प्रतिषेधस्येत्यर्थः । ज्ञानस्य शास्त्रेण सम्बन्धमाह- उत्पादित इति । यदि वेति ।। वाशब्देनानास्था सूचिता । ननु सुखार्थप्रयत्ने कथमपकार इत्यत आह- न हीति ।। कपर्दिका वराटिका । बलवदनिष्टानुबन्धित्वेन परस्वापहारस्याविधेयत्वादिति भावः । निर्विषयं च स्यादिति शेषः ।। अनुरज्यन्त एवेति ।। दैवादिकः श्यन् ।। आमयावीति ।। ‘आमयस्योपसङ्ख्यानम्’ इति विनिर्दीर्घश्चेति भावः ।। तस्मा इति ।। ‘क्रुधद्रुह’ इत्यादिना चतुर्थी ।। द्रुह्यतीति ।। अयमपि दैवादिकः ।। तथाऽपीति ।। विवेक्यनुरागेऽप-ित्यर्थः ।। समेति ।। अनुरागद्वेषयोः समत्वादित्यर्थः ।। इदमिति ।। समफलत्वम् ।। शास्त्रनिमित्तैवेति ।। धर्माद्यभावबोधनेनेति भावः ।। तदास्तिकदर्शनानामिति ।। अस्ति परलोक इति मतिर्येषां ते आस्तिकाः    ‘अस्ति नास्ति दिश्व्ं मतिः’ इति ठक् । तेषां दर्शनानि सिद्धान्तास्तेषामित्यर्थः ।। अनुन्मूलितत्वादिति ।। निश्शेषनिरस्तत्वाभावादित्यर्थः ।