यत्र त्वस्य सर्वमात्मैवाभूत् ..

यत्र त्वस्येति श्रुत्यभिप्रेतप्रसङ्ग निर्वचनम्

मूलम्

-१(‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’ इति ह्याक्षेप एव ।) न हि भोगाभावो ‘विज्ञातारमरे केन विजानीयात्’ इति विज्ञातुरविज्ञानञ्चापेक्षितम् । ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः । स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः’ इति परमश्रुतिः । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति मोक्षधर्मे ।।

टीका 

एवं व्यतिरेकव्याप्तिमभिधायेदानी प्रसङ्गमाह- यत्र त्वस्येति ।। यदि निर्विशेषचैतन्यमात्र-मवशिष्यते न किमपि वस्त्विति मतं स्यात्तदा दर्शनघ्राणादिरूपभोगोऽस्य न स्यात् । तथा येनेश्वरेणेदं सर्वं जीवो विजानाति तज्ज्ञानाभावश्च प्रसज्येत । एवं विज्ञातुरात्मनोऽपि ज्ञानं न स्यात् । निर्विशेषत्वेन कर्तृकर्मभावविरोधात् । भवितव्यञ्च दर्शनादिभोगेनेश्वरज्ञानेनाऽत्मज्ञानेन च । अतो निर्विशेष-चैतन्यमात्रावस्थानलक्षणोऽपि मोक्षोऽनुपपन्न इति आपादनात्मकाक्षेप एवास्य वाक्यस्यार्थ इति । नन्वापादनमनिष्टस्य भवति । न च भोगोभावादिकमनिष्टम् । अतः प्रसङ्गाभासोऽयमित्यत आह- न हीति ।। विज्ञातारमिति ।। अनेनोक्तमिति शेषः । अपेक्षितम् इष्टमित्यर्थः । कुतो नेति चेत्, द्विविधमनिश्व्ं प्रामाणिकहानमप्रामाणिकस्वीकारश्चेति । तत्र तावदात्माज्ञानं प्रमाणविरुद्धं, मोक्षेऽप्यात्मज्ञानस्य प्रमितत्वादिति भावेनाऽह- अहमित्येवेति ।। १यः  सदुःखी, ससुखी, बन्ध-मोक्षयोः  पात्रं      जीव इति कीर्तितः    स सर्वा(स्व)वस्थास्वहमिति स्वेन वेद्य एवेति योजना । अन्यथेश्वरे व्यभिचारात् । दर्शनादिभोगोऽपि मोक्षे प्रमित इति भावेनाऽह- मग्नस्येति ।। परेऽज्ञाने मग्नस्य सर्वथा रूपादिज्ञानशून्यस्य, मुक्तस्य ज्ञानाभावाङ्गीकार इति यावत् । दुःखतरं दुःखातिशयो न किम् । भवेदेव । अन्धादौ दर्शनात् । न च दुःखं युक्तमतोऽस्त्येव रूपादिज्ञानमि-त्यर्थः । न च दिदृक्षाद्यभावाद्दुःखाभाव इति वाच्यम् । अप्रामाणिकत्वात् । तदेवमनिष्टप्रसङ्गपरत्वा-दस्य वाक्यस्य प्रसङ्गस्य तु विपर्यये पर्यवसानाद्युक्तमत्रोदाहरणमिति सिद्धम् ।।

भावबोधः

ननु ‘अहमित्येव’ इति वाक्येऽहमिति वेद्यमुद्दिश्य जीवत्वादिविधाने ईश्वरे व्यभिचारः । एवकारस्य प्रयोजनं न दृश्यते । प्रकारान्तरेणापि जीवस्य वेद्यत्वाद्विरुद्धार्थत्वं च स्यात् । कदाचिदप्यहमिति वेद्यत्वेनापि वाक्यस्य चरितार्थत्वात् । मुक्तौ जीवस्य ज्ञेयत्वात्फलाभावञ्चेत्यतस्तदविरुद्धार्थं सद् यथा विवक्षितार्थप्रतिपादकं स्यात्तथा योजयति- यो दुःखी सुखीत्यादिना ।। तेन यो दुःखी स जीवः यो वैषयिकसुखी स जीवः, यो संसारबन्धस्य मोक्षस्य वा पात्रमित्यन्वयो दर्शितो वेदितव्यः । अन्यथा तच्छब्दद्वयवैयर्थ्यम्, दुःखित्वाद्येकैकस्याप्य-व्यभिचारित्वेन विशेषणान्तरवैयर्थ्यं स्यात् । सर्वावस्थास्विति ।। एवकारस्य वेद्य एवेत्यन्वयेन विशेषणसङ्गतैव-कारस्यायोगव्यवच्छेदार्थकत्वादेतल्लभ्यत इति भावः ।

भावदीपः

लिङोऽर्थः-प्रसज्येतेति ।। आपाद्यस्यानिष्टत्वद्योतनाय विपर्यये पर्यवसानमाह- भवितव्यं चेति ।। मूल एवानिष्टत्वस्य प्रकारान्तरेण कथनात्स्वयमत्र नोक्तम् । इतिपदानन्तरमनेनोक्तमिति शेषमाह- विज्ञातार-मिति इति प्रतीकग्रहणम् । ‘विज्ञातारमरे केन विजानीयात्’ इत्यनेनोक्तं विज्ञातुरविज्ञानमित्यर्थः । यः स दुःखीति ।। अत्र तच्छब्दचतुष्टयश्रवणाद्वाक्यचतुष्टयं ध्येयम् । यो दुःखी स जीवः, यः प्राकृतसुखी स जीवः, यो बन्धमोक्षयोः पात्रं  स जीव इति कीर्तितः    सर्वास्ववस्थास्वहमिति स्वेनेति शेषः, वेद्य एवेत्येवं योजना सूचिता । कुत एवम्, योऽहमिति स्वेन वेद्यः स जीव इति यथाश्रुतैवास्तु योजनेत्यत आह- अन्यथेति ।। ‘तद्ब्रह्म वेदाहं ब्रह्मास्मीति’ ईश्वरस्याप्यहमिति स्वेन वेद्यत्वसत्त्वेऽपि जीवत्वाभावादिति भावः । भोगोऽपि मोक्षे प्रमित इति ।। भावेनाऽहेति ।। विपर्यये पर्यवसानेन तस्य प्रमितत्वावगमादिति भावः । द्वितीये गीता-भावदीपः

भाष्यटीकायां तु

तथाऽपि तत्त्वं परमं शृणु सम्यङ् मयेरितम् ।

इन्द्रियाणि च बुध्यन्ते स्वदेहं देहिनो नृप ।

करणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ।।’

इत्युत्तरश्लोके ‘यद्यपीदं दुर्बोधं तथाऽपि स्वः स्वरूपभूतो देहो यस्य तं स्वदेहं परमात्मानम् । मुक्तमन्यान्देहिनो विषयांश्च मुक्तस्येन्द्रियाणि बुध्यन्ते । किं तानि कर्तॄणि? नेत्याह- करणानीति । कस्तर्हि पूर्वार्धस्यार्थ इत्यत आह- सूक्ष्म इति । इति सूक्ष्मो जीवस्तैरिन्द्रियैः पश्यतीति भोगोक्त्या प्रमितो भोगः’ इत्युक्तम् । अप्रामाणिकत्वादिति ।। दिदृक्षाद्यभावे प्रमाणाभावात् । ‘स यदि पितृलोककामो भवति’ इत्यादिप्रमाण-विरुद्धत्वाच्चेत्यर्थः ।  ‘तदेवं विरुद्धार्थस्य वाक्यस्यात्रोदाहरणमयुक्तम्’ इति प्राक्कृतचोद्यस्योत्तरमाह- तदेव-मिति ।। यत्र त्वस्येतिश्रुत्यर्थे ।

वाक्यार्थदीपिका

(श्री.टि.)

इदानी प्रसङ्गमाहेति ।। वह्निमत्त्वादेव धूमवत्त्वम् अन्यथा तन्न स्यादितिवद् ‘यदा द्वैतसद्भावस्तदैव दर्शनादिभोगो दृष्ट’ इति व्याप्तिमुक्त्वेदानीम् ‘अन्यथा तन्न स्यात्’ इति प्रसङ्गमाहेत्यर्थः । आत्मनः स्वस्य । ननु विशेषबलेन कर्तृकर्मभावविरोधः परिहर्तव्य इत्यत उक्तम्- निर्विशेषत्वेनेति ।। त्वया तदनङ्गीकारादिति भावः । प्रसङ्गत्रयस्य विपर्यये पर्यवसानमाह- भवितव्यं चेति ।। ‘इति विज्ञातुरविज्ञानम्’ इत्यत्र इतीत्यनन्तरं शेषं पूरयति- इत्यनेनोक्तमिति ।। अत्र

नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ।

तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।।’

इत्यनुव्याख्यानोक्तरीत्या येनेदं सर्वमित्युक्तेश्वरज्ञानाभावस्यानिष्टत्वं द्रष्टव्यमित्याशयेन भोगाभावो विज्ञातुर-विज्ञानं चेति द्वयमेवोक्तमित्यवधेयम् । यस्स दुःखीत्यादि ।। तथा च यस्स दुःखी स जीव इति कीर्तितः । यस्स दुःखी बन्धमोक्षयोः पात्रं च स जीव इति कीर्तितः । सः अहमिति स्वेन वेद्य एवेति योजना द्रष्टव्येत्यर्थः । सर्वावस्थास्विति ।। ननु कथमयमर्थो लभ्यते । उच्यते । विशेषणसङ्गतैवकारस्येतरपदार्थतावच्छेदके एवकार-समभिव्याहृतपदार्थतावच्छेदकव्याप्यत्वमर्थः । यथा शङ्खः पाण्डुर एवेत्यत्र शङ्खत्वं पाण्डुरत्वव्याप्यम् । यः शङ्खः स सर्वदा पाण्डुर एव न त्वपाण्डुर इत्यर्थो लभ्यते । एवं यो जीवः सोऽहमिति स्वेन वेद्य एवेति विशेषण-सङ्गतैवकारमहिम्ना जीवत्वम् अहमिति स्वेन वेद्यत्वव्याप्यम् । यो जीवः स सर्वदाऽहमिति स्वेन वेद्य एवेत्यर्थ-लाभात्स सर्वावस्थास्वित्युक्तमिति द्रष्टव्यम् । ननु ‘अहमित्येव यो वेद्यः’ इत्यहमिति वेद्यमुद्दिश्य ‘स जीव इति कीर्तितः’ इति जीवत्वं विधीयत इति यथाश्रुतैव योजना किं न स्यादित्यत आह- अन्यथेति ।। व्यभिचारा-दिति ।। ‘तदात्मानमेवावेदहं ब्रह्मास्मि’ इति वाक्ये ईश्वरस्याप्यहमिति वेद्यताया उक्तत्वेन तत्र जीवत्वाभावाद् (श्री.टि.) व्यभिचारः स्यादित्यर्थः । परेऽज्ञान इति ।। केवलाज्ञान इत्यर्थः । न च दुःखं युक्तमिति ।। ‘सर्वदुःखविमुक्तास्ते गुणमात्रस्वरूपिणः’ इति मुक्तानां निर्दुःखत्वावगमादित्यर्थः । ‘यदीच्छा नैव तत्रास्तीत्येव तत्कल्प्यते मृषा’ इत्यनुव्याख्यानं मनसि निधायाऽह- न च दिदृक्षादीति ।। द्रष्टुमिच्छा दिदृक्षा, आदिपदेनाऽ-घ्राणादीच्छाग्रहणम् । अहमिदं रूपादिकं द्रक्ष्यामीत्यादीच्छायां सत्यामपि तज्ज्ञानाभावो दुःखातिशयहेतुः । मुक्तस्य तु रूपादिदर्शनेच्छाया एवाभावेन तज्ज्ञानाभावो न दुःखहेतुरिति न च वाच्यमित्यर्थः । कुतो न वाच्यमित्यत आह- अप्रामाणिकत्वादिति ।। ‘स यदि पितृलोककामो भवति’, ‘कामान्नी’, ‘कामस्य यत्राऽप्ताः कामाः’ इत्यादिश्रुतिभ्यो मुक्तानां कामशब्दवाच्येच्छासद्भावावगमेन कामाभावस्याप्रामाणिकत्वादित्यर्थः । अस्य वाक्यस्य यत्र त्वस्येति वाक्यस्य । विपर्यये पर्यवसानादिति ।। विपर्ययपर्यवसानेनाद्वितीयचैतन्यमात्रस्य मुक्तित्वाभावावगमादिति भावः । युक्तमत्रोदाहरणमिति ।। मोक्षानन्तरमपि भेदप्रतिपादनाय श्रुतीनामुदाहरण-समयेऽस्य वाक्यस्योदाहरणं युक्तमित्यर्थः ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

व्यतिरेकव्याप्तिमिति ।। न च यदा दर्शनादिभोगस्तदाऽद्वैतसद्भाव इत्येवमाकारिकैव व्याप्तिः प्रसङ्गाङ्ग-भूता । आपाद्याभावस्य व्याप्यत्वादापादकाभावस्य व्यापकत्वात् । तत्कथमुक्तरूपा व्यतिरेकव्याप्तिः स्यादिति वाच्यम् । व्यतिरेकव्याप्तिशब्देन आपादकापाद्ययोः द्वैताभावभोगाभावयोरन्वयव्याप्तेरेव ग्रहणेन प्रसिद्धाया यत्र आपाद्यविपर्ययः तत्राऽपादकविपर्यय इति प्रसङ्गाङ्गव्यतिरेकव्याप्तेरग्रहणेन उक्तदोषानवसरात् । न चान्वयव्याप्तेः कथं व्यतिरेकव्याप्तित्वं येन व्यतिरेकव्याप्तिशब्देन ग्रहणं स्यादिति वाच्यम् । अभावरूपाभ्यामापादकापाद्याभ्यां निरूप्यत्वमात्रेण व्यतिरेकव्याप्तित्वसम्भवात् । वस्तुतो यत्र हि द्वैतमिव भवतीत्यनया वाचोभङ्ग्या सूचिताया यत्र इतर इतरं पश्यति तत्र द्वैतमस्तीत्यस्या आपाद्यविपर्ययस्य आपादकविपर्ययेण व्याप्तित्वाद्व्यतिरेकव्याप्तितया प्रसङ्गाङ्गभूतव्यतिरेकव्याप्तितया ग्रहणमिदमिति नोक्तदोषः । ननु च त्वन्मत इव मन्मतेऽपि एकस्यैव कर्तृकर्मभावः किं न स्यादिति वाच्यम् । तन्निर्वाहकविशेषस्य मयाऽङ्गीकृतत्वेन तद्बलेन मन्मते तदुपपत्तावपि त्वया तदनभ्युप-गमनेन त्वन्मतेऽपि तदनुपपत्तेरवर्जनीयत्वादिति भावेनोक्तम्- निर्विशेषत्वेनेति ।। प्रसङ्गस्य विपर्यये पर्यवसानं दर्शयति- भवितव्यं चेति ।। ननु अहमित्येवेति वाक्ये अहमिति वेद्यमुद्दिश्य तस्य जीवत्वादिविधाने ईश्वरे व्यभिचारः । एवकारस्य वैयर्थ्यञ्च । प्रकारान्तरेणापि दृश्यमानत्वाद् विरुद्धार्थत्वं च । कदाचित्तस्याहमिति वेद्यत्वेनापि वाक्यस्य चरितार्थतया मुक्तौ तस्य तदलाभेन तस्य जीवत्वालाभश्चेत्यतः, तदविरुद्धार्थं विवक्षितार्थ-प्रतिपादकं च यथा स्यात् तथा योजयति- यो दुःखी स सुखीत्यादिना ।। अनेन यो दुःखी स जीवः, यो वैषयिकसुखी स जीवः, यो बन्धस्य मोक्षस्य पात्रं स जीवः इत्यन्वयो दर्शितो वेदितव्यः । अन्यथा तच्छब्दद्वयवैयर्थ्यं दुःखित्वादेरेकैकस्याव्यभिचरितत्वेन विशेषणान्तरवैयर्थ्यं च स्यादिति द्रष्टव्यम् । सर्वास्ववस्थास्विति ।। एवकारस्य वेद्य एवेत्येवं विशेषणेन सङ्गतस्य अयोगव्यवच्छेदार्थकत्वादेतल्लभ्यत इति भावः । अत्रोदाहरण-मिति ।। मोक्षे भेदप्रतिपादकतयोदाहरणमित्यर्थः ।

लघुप्रभा

(व्या.टि.)

प्रसञ्जकं दर्शयति- मतं स्यादिति ।। विपर्ययपर्यवसानमाह- भवितव्यं चेति ।। निगमयति- अत इति ।। ‘ये यजमानास्ते ऋत्विजः’ इतिवद् यत्तच्छब्दौ वैपरीत्येन योजयति- य इति ।। यः सदुःखी ससुखी बन्धमोक्षयोः पात्रं च स जीव इति कीर्तितः । स सर्वावस्थासु इत्यादिः प्रचुरः पाठः । अत्र भावप्रधानयोः दुःखि-सुखिशब्दयोः सहशब्देन बहुव्रीहिर्भाति । विशिष्टलक्षणो(णे)क्तौ कृत्याभावात् प्रत्येकं लक्षणम् । दुःखित्वा-त्यन्ताभावानधिकरणत्वस्य विवक्षितत्वान्न मुक्तादावव्याप्तिः । रमाया अलक्ष्यत्वान्नाव्याप्तिः । सुखित्वं च प्राकृतसुखवत्वमिति न द्वितीयलक्षणस्य रमादावतिव्याप्तिः । नित्यसंसारिणामपि लिङ्गभङ्गरूपमोक्षोपगमान्न तृतीयस्याव्याप्तिः । चशब्दश्च लक्षणसमुच्चयेन विशेषणसमुच्चय इति द्रष्टव्यम् । यो दुःखी सुखीत्यादिः क्काचित्कः पाठः । तत्राप्यविशिष्टयोस्तच्छब्दयोः ‘स यश्चायं पुरुषे’ इत्यादाविव प्रसिध्यर्थयोः सुखिदुःखिपदाभ्यां प्रत्येकमन्वय इति त्रीणि लक्षणानि । यद्वा तच्छब्दचतुष्टयेन यच्छब्दमावर्त्य वाक्यचतुष्टयम् । ‘पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत्’ इत्युक्तेः । तत्र दुःखीति नित्ययोगे इनिः ।

सम्बन्धेऽस्ति विवक्षायां नित्ययोगेऽतिशायने ।

भूमनिन्दाप्रशंसासु भवन्ति मतुबादयः ।।’ इत्युक्तेः ।

तथा च, यो दुःखी सर्वदाऽत्यक्तदुःखो राजसतामसश्च स जीव इति प्रथमं वाक्यम् । एवं, यः सुखी पराधीनानल्पसुखी महालक्ष्मीः स जीव इति द्वितीयं वाक्यम् । एवं, बन्धमोक्षयोः पात्रं सात्त्विकमात्रं स जीव इति तृतीयम् । एवं, यो जीव इति कीर्तितः स सर्वास्ववस्थास्वहमिति वेद्य एवेति चतुर्थं वाक्यम् । अत्र परतन्त्रचेतनत्वं जीवसामान्यलक्षणम् । जीवस्य च रमामुक्तियोग्यतदितरभेदेन त्रैविध्यं विवक्षितम् । विधात्रय-कथनपरञ्चेदम् । जीवत्वावच्छेदेनाहमिति स्वेन वेद्यत्वं विधेयम् । न च महालक्ष्म्या जीवत्वग्रहे हेत्वभावः । ‘कामात्’ इति सूत्रे

नामादयस्तु बद्धत्वान्मोचकत्वात्परोऽपि च ।

उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ।

श्रुतौ तथा जीवपरावुच्येते किञ्च नेतरत् ।

नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम् ।।’

इति श्रीतत्त्वस्य जीवत्वेन जीवपरतत्वद्वयप्रवेशोक्त्या ‘द्वा सुपर्णा’ इत्यादिजीवपरभेदस्य श्रुत्यर्थत्वोक्तेः । ‘जीवेश्वरभिदा चैव’ इति श्रुतावपि जीवपदेन तद्ग्रहणाच्च । अन्यथा षष्ठभेदापत्तेः । न च ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’ इत्यत्रापि जीवपदेन श्रीतत्त्वमुच्यतामिति वाच्यम् । अनादिमाययेति बन्धकतयोक्तमायाशब्देन चित्प्रकृतिवत्प्रकृतेरपि ग्रहणोपपत्तेः । ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतेः चिद्विमुक्ताया अचितो बन्धकत्वायो-गात् । ‘अबद्धा बन्धिका सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः । स्पश्व्ं च जीवत्वम् उक्तं चित्प्रकृतेः ‘प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो’, ‘देहे देहिनमव्ययम्‘, ‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां (व्या.टि.) प्रकृतिं सिसृक्षतीम्’ इत्यादाविति बोध्यम्    इतरेषामिव  श्रियोऽपि  स्वाहम्प्रत्ययत्वम् ‘अहं रुद्रेभिः’ इत्यादितद्वाक्यादवगतमिति सकलमकलङ्कम् । श्रीपक्षे, सर्वास्ववस्थासु भूतभवद्भविष्यत्सु कालेष्विति भावः । तस्या जाग्रदाद्यवस्थात्रयाभावादिति भावः । अप्रामाणिकत्वादिति ।। प्रमाणाभावात् ‘स यदि पितृलोककामो भवति’ ‘कामान्नी कामरूप्यनुसञ्चरन्’ इत्यादि प्रमाणविरोधाच्चेत्यर्थः । अकामहतत्वश्रुतिर्विरुद्ध-कामाभावपरेत्यन्यत्र निरणायि । उपसंहरति- तदेवमिति ।।