तदेव सादृश्यमत्रापि ..

मृत्पिण्डमृन्मयादिदृष्टान्तबोधकश्रुतिवाक्यानां सादृश्य प्रभेद परत्वस्य समर्थनम्

मूलम्

- तदेव सादृश्यमत्रापि विवक्षितम् ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्’ इत्यादिना । अन्यथैकशब्दः पिण्डशब्दश्च व्यर्थः स्यात् । मृदा विज्ञातयेत्येतावता पूर्णत्वात् । न ह्येकमृत्पिण्डात्मकान्यन्यमृन्मयानि  । सादृश्यमेव तेषाम् । ‘यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्, यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’ इत्यादिकमपि व्यर्थं स्यात् । न ह्येकमण्यात्मकमन्यल्लोहमयम् । न चैकनखनिकृन्तनात्मकं सर्वं कार्ष्णायसम् ।

तत्त्वमञ्जरी

अन्यथा प्रकृतिविकारभावविवक्षायाम् । एकेन नखनिकृन्तनेन, लोहमणिनेत्यत्रापि एकनखनिकृन्तनमणिशब्दाश्च व्यर्था स्युः ।

टीका 

नन्वेकविज्ञानेन सर्वविज्ञाने प्राधान्यादिकं हेतुरित्ययुक्तं, श्रुत्यनभिप्रेतत्वात् । श्रुतौ हि तद्बोधनाय मृत्पिण्डमृन्मयादिदृष्टान्तत्रयमुक्तम् । तत्र चाधिष्ठानाध्यस्तत्वरूपोपादानोपादेयभाव एव स्फुटं प्रतीयत इत्यत आह- तदेवेति ।। यदस्माभिरेकविज्ञानेन सर्वविज्ञाने हेतुत्वेन सादृश्यमुक्तं तदेव अत्र श्रुतावपि ‘यथा सोम्य’ इत्यादिना दृष्टान्तवाक्यत्रयेण तत्र कारणतया विवक्षितम् । अतो नास्मद्व्याख्यानस्य श्रुत्यभिप्रायविसंवादः  । अत एव मध्योक्तस्यापि सादृश्यस्योपपादनमन्ते कृतम् । सादृश्यस्य सन्निधाने तदेवेति परामर्शसौकर्यात् । ननु सादृश्यस्यैवात्रापि हेतुत्वेन विवक्षितत्वे दृष्टान्तत्रयं व्यर्थमिति चेत्, विकारमिथ्यात्वस्य हेतुत्वेन विवक्षायामपि वैयर्थ्यं सममेव । दुर्गमत्वात् तत्त्वस्य अनेकदृष्टान्तोपपादनमिति चेत् सममस्मन्मतेऽपि । उक्तश्चाचार्यैरेवान्यत्र दृष्टान्तत्रये विवक्षाभेदः ।

दृष्टान्तवाक्यत्रयेऽप्यधिष्ठानत्वादिरूपोपादनत्वादिकमेव विवक्षितमिति किं न स्यात् । उपादानोपादेययोस्तादात्म्येन तद्विज्ञानेन तद्विज्ञानस्य सम्भवादित्यतो मृत्पिण्डदृष्टान्तवाक्ये तावदनुपपत्तिं दर्शयति- अन्यथेति ।। यद्यत्रोपादानोपादेयत्वेन तादात्म्यं विवक्षितं स्यादित्यर्थः । व्यर्थो विगतप्रयोजनो विरुद्धप्रयोजनश्च । प्रत्येकमन्वयादेकवचनम् । विगतप्रयोजनत्वं तावदुपपादयति- मृदेति ।। पूर्णत्वाद् विवक्षितार्थप्रयोजनस्येति शेषः । येन विना विवक्षित-वाक्यार्थप्रतिपत्तिर्भवति  तद्ध्यनाकाङ्क्षितत्वाद्विगतप्रयोजनमेव । विरुद्धप्रयोजनत्वमुपपादयति- न हीति ।। अन्यानि मृत्पिण्डान्तरकार्याणि । तथा चैकमृत्पिण्डशब्दावुपादानोपादेयभावविवक्षायां विरुद्धावेवेति । यथा परस्य विरोधो न तथाऽस्माकमित्यभिप्रायवानाह- सादृश्यमेवेति ।। तेषाम् अन्यमृन्मयानामेकेन मृत्पिण्डेनेति शेषः । लोहमणिनखनिकृन्तनदृष्टान्तवाक्ययोरप्यनुपपत्तिं दर्शयति- यथेति ।। अन्यथेति वर्तते । इत्यादिकमित्यत्रेतिशब्देन एकशब्दः परामृश्यते । एतयोरपि वाक्ययोरेकादिकं पदं व्यर्थं विगतप्रयोजनं विरुद्धप्रयोजनं च स्यात् । लोहेन कृष्णायसेनेत्येतावता पूर्णत्वादिति विगतप्रयोजनत्वमुपपादनीयम् । विरुद्धप्रयोजनतां पूर्ववदुपपादयति- न हीति ।।

ननु त्रिष्वपि दृष्टान्तेषु तत्तद्विकारमात्रं सर्वशब्देनोच्यते । अतो नोक्तदोष इति चेन्न । तथा सति तद्वैयर्थ्यापातात् । मृन्मयमित्यादिनैव पूर्णत्वात् । नखनिकृन्तनदृष्टान्तस्त्वत्यन्तासम्बद्धः । नखनिकृन्तनस्यान्त्यावयवित्वेनानुपादानत्वात् । नखनिकृन्तनग्रहणं कृष्णायःपिण्डोपलक्षणमिति चेन्न । सादृश्याभिप्राये मुख्यार्थसम्भवादिति ।

भावबोधः

उक्तश्चेति ।।

यथा मृत्पिण्डविज्ञानात् सादृश्यादेव मृन्मयाः ।

विज्ञायन्ते तथा विष्णोः सादृश्याज्जगदेव च ।

यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा ।

प्राधान्याद्विष्णुविज्ञानाद्विज्ञातं स्याज्जगत्सदा ।

अत्यल्पेऽपि हि विज्ञाते सदृशे तादृशं बहु ।

ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ।

किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम् ।’

इत्यन्यत्रोपनिषद्भाष्ये प्रथमदृष्टान्ते सदृशमात्रज्ञानात्सदृशमात्रज्ञानं, द्वितीयदृष्टान्ते प्रधानभूतसदृशज्ञानादप्रधान-सदृशज्ञानं, तृतीयदृष्टान्तेऽल्पभूतसदृशज्ञानान्महासदृशमात्रज्ञानमिति दृष्टान्तत्रये विवक्षाभेद उक्तश्चेत्यर्थः । अत एव प्रथमदृष्टान्तवाक्यव्याख्याने सादृश्यादेवेति सादृश्यमात्रविवक्षाज्ञापनार्थम् एवेत्युक्तम् । द्वितीयदृष्टान्तवाक्य-व्याख्यानपरवाक्यगतप्राधान्यादित्येतल्लोहमयत्वेन सदृशानां मध्ये स्वर्णस्य प्राधान्यादिति व्याख्येयमिति भावः। एतयोरपीति ।। अनेन मूले विज्ञातं स्यादित्यनन्तरम् इत्येतयोरित्यध्याहृत्य तत्र अपिशब्दो योजनीय इत्युक्तं भवति । एकादिकमिति ।। अत्रादिपदेन मणिशब्दोऽवयविरूपविशेषवाचकनखनिकृन्तनशब्दश्च ग्राह्यौ । मुख्यार्थसम्भवादिति ।। न चैतद्वाक्यशेषे ‘कृष्णायसमित्येव सत्यम्’ इति कृष्णायसशब्दप्रयोगान्नखनिकृन्तनपदं तदुपलक्षकमिति ज्ञायत इति वाच्यम् । तस्य वक्ष्यमाणरीत्यैतच्छेषत्वाभावादिति भावः ।

भावदीपः

तद्बोधनायेति ।। एकविज्ञानेन सर्वविज्ञानबोधनायेत्यर्थः । यदस्माभिरित्यत्रत्ययच्छब्दस्य तदित्य-नेनान्वयः । अत्रेत्यनुवादः श्रुताविति व्याख्या । येनाश्रुतं श्रुतमिति श्रुतावपीत्यर्थः । न केवलमस्माभिरेवोक्त-मित्यपेरर्थः । तत्रेति ।। एकविज्ञानेन सर्वविज्ञान इत्यर्थः । अत एव सादृश्यस्य श्रुत्यभिप्रेतत्वज्ञापनार्थत्वादेव । ‘प्राधान्यात्किञ्चित्सादृश्यात्कारणत्वाच्च’ इति वाक्ये मध्ये उक्तस्यापि हेतोः ‘सादृश्याच्चैकस्त्रीज्ञानात्’ इत्यन्ते कृतमित्यर्थः । अत एवेत्यस्य तदेव सादृश्यमिति परामर्शसौकर्यार्थत्वादेवेति वाऽर्थः । अत एवाह- तदेवेति परामर्शसौकर्यादिति ।। अन्यत्रेति ।। छान्दोग्यभाष्ये ।

‘यथा मृत्पिण्डविज्ञानात् सादृश्यादेव मृन्मयाः ।

विज्ञायन्ते तथा विष्णोस्सादृश्याज्जगदेव च ।

यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा ।

प्राधान्याद्विष्णुविज्ञानाद्विज्ञातं स्याज्जगत्सदा ।

अत्यल्पेऽपि हि विज्ञाते सदृशे तादृशं बहु ।

ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ।

किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम् ।।’

इत्यादिना  सादृश्यप्राधान्यकैमुत्यज्ञापनार्थतया  मृत्पिण्डलोहनखनिकृन्तनरूपदृष्टान्तत्रये  विवक्षाभेद उक्त इत्यर्थः । अन्यथेत्यस्य सादृश्यहेतुकत्वाभाव इत्यर्थकत्वे त्वापाद्यासङ्गतिं मत्वाऽर्थमाह- यद्यत्रेति ।। व्यर्थौ स्यातामिति भाव्यमित्यत आह- प्रत्येकमन्वयादिति ।। तदेव सादृश्यमत्रापि विवक्षितमित्यादिना प्रागुक्तत्वात् पुनरिह वचनं कुत इत्यत आह- यथा परस्येति ।। अन्यार्थं पुनर्वचनमिति भावः । परामर्शविषयाप्रतीतेराह- इतिशब्देनेति ।। तथा च कोऽर्थः सम्पन्न इत्यत आह- एतयोरपीति ।। एकादिकमिति ।। मणिपदमादि-पदार्थः  । तत्पक्षे नखनिकृन्तनेत्यनुवादोऽसङ्गतः, तदविकारत्वात्कार्ष्णायसस्येति भावेन कृष्णायसेनेत्येवो-क्तम् । नोक्तदोष इति ।। विरुद्धार्थतादोषो नेत्यर्थः । तद्वैयर्थ्येति ।। सर्वपदवैयर्थ्येत्यर्थः । मुख्यार्थसम्भवादि-तीतिपदं दृष्टान्तत्रयव्याख्यासमाप्तौ ।

(श्री.टि.) अत एवेति ।। मृदादिदृष्टान्तत्रयेऽपि एकविज्ञानेन सर्वविज्ञाने सादृश्यस्यैव कारणतया विवक्षितत्वा-देवेत्यर्थः । मध्योक्तस्यापीति ।।  ‘प्राधान्यात्किञ्चित्सादृश्यात्कारणत्वाच्च’ इति वाक्ये मध्योक्तस्यापी-त्यर्थः । अत एवेत्युक्तं विशदयति- सादृश्यस्येति ।। सौकर्यादिति ।। अन्यथा क्रमेणैवोपपादने अन्ते कारणत्व-स्योपपादनप्रसङ्गेन तदेवेति परामर्शायोगादिति भावः । अत्रापि हेतुत्वेनेति ।। श्रुतावपि यथा सोम्येत्यादिना दृष्टान्तवाक्यत्रयेणैकविज्ञानेन सर्वविज्ञाने हेतुत्वेन विवक्षितत्व इत्यर्थः । त्वन्मतेऽपि वैयर्थ्यं सममित्याह- विका-रेति ।। हेतुत्वेन एकविज्ञानेन सर्वविज्ञाने हेतुत्वेन । तत्त्वस्येति ।। एकविज्ञानेन सर्वविज्ञानरूपतत्त्वस्येत्यर्थः। उक्तश्चाचार्यैरेवान्यत्रेति ।।

यथा मृत्पिण्डविज्ञानात् सादृश्यादेव मृन्मयाः ।

विज्ञायन्ते तथा विष्णोः सादृश्याज्जगदेव च ।

यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा ।

प्राधान्याद्विष्णुविज्ञानाद्विज्ञातं स्याज्जगत्सदा ।

अत्यल्पेऽपि हि विज्ञाते सदृशं तादृशं बहु ।

वाक्यार्थदीपिका

(श्री.टि.)

ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ।

किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम् ।।’

इत्यत्र छान्दोग्यभाष्ये प्रथमदृष्टान्ते सदृशमात्रज्ञानात्सदृशमात्रज्ञानम्, द्वितीयदृष्टान्ते प्रधानसदृशज्ञानादप्रधान-सदृशज्ञानम्, तृतीयदृष्टान्तेऽल्पसदृशज्ञानान्महासदृशज्ञानं यदा भवति तदा बहुज्ञानादल्पं ज्ञातं भवतीति कैमुत्य-मभिप्रेतमिति दृष्टान्तत्रये विवक्षाभेदः श्रीमदाचार्यैरेवोक्तश्चेत्यर्थः । अधिष्ठानत्वेति ।। आरोपाधिष्ठानत्वेत्यर्थः। ननूपादानोपादेययोर्भेदेऽन्यज्ञानेन अन्यज्ञानासम्भवात् कथमेकविज्ञानेन सर्वविज्ञाने उपादानत्वादेहर्ेुतुत्वमित्यत आह- उपादानोपादेययोस्तादात्म्येनेति ।। नन्वेकशब्दः पिण्डशब्दश्च व्यर्थौ स्यातामिति वक्तव्यम्, व्यर्थः स्यादित्येकवचनं कथमुक्तमित्यत आह- प्रत्येकमिति ।। एकशब्दो व्यर्थः स्यात्, पिण्डशब्दश्च व्यर्थः स्यादित्येवं प्रत्येकमन्वयादेकवचनं युक्तमित्यर्थः । एकशब्द इति ।। तथा चेत्यादिकमित्यस्य एकादिकमित्यर्थो द्रष्टव्यः । अत्रादिपदेन मणिशब्दोऽन्त्यावयविवाचकनखनिकृन्तनशब्दश्च ग्राह्यौ । कृष्णायसेनेति ।। नखनिकृन्तन-स्यान्त्यावयवित्वेनानुपादानतया तत्स्थाने कृष्णायसेनेति वक्तव्यमित्यर्थः । तत्तद्विकारमात्रमिति ।। ‘एकेन मृत्पिण्डेन सर्वं मृन्मयम्’ इत्यादिवाक्ये सर्वशब्देन व्यक्तिविशेषभूतमृत्पिण्डविकारभूतमेव सर्वमुच्यते न मृत्पिण्डान्तरकार्यमपीत्यर्थः । तद्वैयर्थ्येति ।। सर्वशब्दवैयर्थ्येत्यर्थः । अन्त्यावयवित्वेनेति ।।  द्रव्यानारम्भक-कार्यद्रव्यत्वेनेत्यर्थः । यथाहुः पदार्थविदः ‘द्रव्यानारम्भकं कार्यद्रव्यमन्त्यावयवी’ इति । एतद्दूषणपरिहारं शङ्कते- नखनिकृन्तनग्रहणमिति ।। उक्तरीत्या मुख्यार्थस्य बाधितत्वादित्यर्थः । सादृश्येति ।। अल्पसदृशज्ञानाद्द्बहु-सदृशज्ञानमित्यस्मदुक्तरीत्या सादृश्याभिप्रायेण नखनिकृन्तनशब्दस्य मुख्यार्थसम्भवेनोपलक्षणत्वाभावादि-त्यर्थः । नन्वेतद्वाक्यशेषे नखनिकृन्तनमेव सत्यमित्यनुक्त्वा कृष्णायसमित्येव सत्यमिति कृष्णायसपद-प्रयोगान्नखनिकृन्तनपदं कृष्णायःपिण्डोपलक्षकमिति ज्ञायत इति चेन्न । तस्य वक्ष्यमाणरीत्या प्राधान्ये स्वतन्त्रदृष्टान्तत्वेनैव तच्छेषत्वाभावादिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

उक्तश्चेति ।।

यथा मृत्पिण्डविज्ञानात् सादृश्याज्जगदेव च ।

यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा ।

प्राधान्याद्विष्णुविज्ञानाद्विज्ञातं स्याज्जगत्सदा ।

अत्यल्पेऽपि हि विज्ञाते सदृशे तादृशं बहु ।

ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ।

किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीश्वरम् ।।’

इत्यन्यत्र छन्दोगोपनिषद्भाष्ये प्रथमदृष्टान्ते सदृशमात्रज्ञानात् सदृशमात्रज्ञानम्, द्वितीयदृष्टान्ते प्रधानभूतसदृश-ज्ञानादप्रधानसदृशज्ञानम्, तृतीयदृष्टान्ते अल्पसदृशज्ञानान्महासदृशज्ञानम् इति दृष्टान्तत्रये विवक्षाभेद उक्तश्चे-(पां.टि.)त्यर्थः । अत एव प्रथमदृष्टान्तवाक्यव्याख्याने सादृश्यादेवेति सादृश्यमात्रज्ञापनार्थमेवेत्युक्तम् । द्वितीयदृष्टान्तव्याख्यानेऽपि परवाक्यगतप्राधान्यादित्येतल्लोहमयत्वेन सदृशानां मध्ये स्वर्णस्य प्राधान्यादिति व्याख्येयमिति भावः ।

लघुप्रभा

(व्या.टि.)

एवं परिणामवादिना विवर्तवादिना च ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’ इति सूत्रगृहीत-प्रतिज्ञावाक्यतया गृहीताम् ‘उत तमादेशमप्राक्ष्यः’ इत्यादिकां प्रतिज्ञां स्वमतेन व्याख्याय दृष्टान्तम(न्तेना)पि यथावद्व्याचिख्यासुस्तदुपरोधं शङ्कते- नन्वित्यादिना ।। अत्र तच्छब्दः प्रकृतपरामर्श इत्याह- यदित्यादिना ।। तत्रेत्यादि(वि)शेषोक्तिः । निगमयति- अत इति ।। किन्तु परस्यैवेति भावः । हेतूपादानक्रमव्यत्ययेनोपपादन-मपि सङ्गमयति- अत एवेति ।। तवापि समो दोष इत्याह- विकारेति ।। समः समाधिरित्याह- सममिति ।। ननु तर्हि हेतुत्रये दृष्टान्तानुपादानदोषः प्रादुःष्यादित्यत आह- उक्तश्चेति ।। अन्यत्रेति ।। ‘अतस्सादृश्य एव च । विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना’ इत्यनुव्याख्यान इत्यर्थः । अथ वा छान्दोग्यभाष्य इत्यर्थः। विवक्षाभेद इति ।। सादृश्येऽप्यवान्तरविवक्षाभेद उक्त इत्यर्थः । यथोक्तम्-

यथा मृत्पिण्डविज्ञानात् सादृश्यादेव मृन्मयाः ।

विज्ञायन्ते तथा विष्णोः सादृश्याज्जगदेव च ।

यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा ।

प्राधान्याद्विष्णुविज्ञानाद्विज्ञातं स्याज्जगत्सदा ।

अत्यल्पेऽपि तु विज्ञाते सदृशे तादृशं बहु ।

ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ।

किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम् ।

अनन्याधीनविज्ञानादन्याधीनं तथैव च ।

मृदयोलोहनाम्नां हि ज्ञानात् साङ्केतिकं यथा ।।’

इत्यादि सामसंहितायाम्’ इति । विगतप्रयोजन इति ।। विफल इत्यर्थः । विरुद्धप्रयोजन इति ।। बाधितविषय इत्यर्थः । प्रयुज्यतेऽनेनेति व्युत्पत्तेः । प्रत्येकमिति ।। समासवृत्तेरकरणादित्यर्थः । पूर्णत्वादिति ।। निराकाङ्क्षत्वा-दित्यर्थः । अन्यानीति ।। मृद्विशेषणत्वेऽनेकाच्त्वात् ‘एकाचो नित्यम्’ इति मयटो दौर्लभ्यादिति भावः । यथा परस्येति ।। अनेन परमते प्रतिज्ञादृष्टान्तानुपरोधोऽसिद्ध इति सूचयति । वर्तते अनुवर्तते । इतिशब्देन वाक्यपरामर्शभ्रान्तिं वारयति- एकशब्द इति ।। मूलं शेषेण पूरयति - लोहेनेत्यादिना ।। अत्र मूले लोहमणिशब्देन स्वर्णमुच्यते । ‘स्वर्णं लोहमणिश्चैव पुरटं चाभिधीयते’ इति शब्दनिर्णयोक्तेः । सर्वशब्देनेति ।। सर्वेभ्यः कामेभ्यः इत्यादौ सङ्कोचदर्शनादित्यर्थः । तदिति ।। सर्वपदेत्यर्थः । द्रव्यानारम्भककार्यद्वयमन्त्यावयवीति तल्लक्षणशिक्षणादित्यर्थः । सम्भवादिति ।। तथा च मुख्यार्थबाधाभावात्तल्लक्षणाऽयोग इति भावः ।