न च असतो ..

प्रपञ्चस्यानिर्वचनीयत्ववादिमते भ्रमस्यासद्विषयकत्वसमर्थनम्

मूलम्

- न च असतो भ्रान्तावपि प्रतीतिर्नास्तीति वाच्यम् । अनिर्वचनीयपरमार्थत्व-स्यासत एव दृष्ट्यङ्गीकारात् । न च तदप्यनिर्वाच्यम् । अनवस्थितेः । प्रथमा-निर्वचनीयासिद्ध्या सर्वानिर्वचनीयासिद्धिरिति मूलक्षतिः ।

तत्त्वमञ्जरी

नन्वनिर्वचनीयपरमार्थत्वमप्यनिर्वचनीयं नासदित्यत आह- न च तदिति ।। तस्यानिर्वचनीयस्य परमार्थत्वमप्यनिर्वचनीयं तस्यापि तस्यापीत्यनवस्थितेः । शुक्तिरजतस्य परमार्थत्ववत् शुक्तिरजतमप्यसत् स्यादित्युपालम्भपरिहाराय हि अनिर्वचनीयपरम्परा कल्प्यते । तथा च यदनिर्वचनीयं सर्वनिर्वाहकतया प्रथमं तस्यैवाप्रामाणिकत्वादसिद्ध्या सर्वानिर्वच-नीयासिद्धिरिति मूलक्षतिः ।

टीका 

भवेदयं दोषोऽन्येषां यदसतः सत्त्वेनाप्रतीतौ भ्रान्त्यभावप्रसङ्ग इति । मम त्वनिर्वच-नीयार्थावभासो भ्रम इत्यङ्गीकृतत्वादसतो भ्रान्तावपि प्रतीतिर्नास्ति इत्यङ्गीकृतेऽपि न कश्चिद्दोष इत्याशङ्क्य प्रतिषेधति- न चेति ।। प्रतीतिः सत्त्वेनेति शेषः । कुतो न वाच्यमिति चेत्, रजतमनिर्वचनीयम् इति पक्षेऽपि तत्किम् अनिर्वचनीयतया प्रतीयते, उतासत्त्वेन, अथ सत्त्वेन । न प्रथमद्वितीयौ । तथा प्रतीत्यनुपलम्भात् । प्रवृत्त्यभावप्रसङ्गाच्च । न हि असत्प्रातिभासिकं वा कदाचिदनेन अर्थक्रियासूपयुज्यमानं दृश्व्ं येनासत्त्वादिकं प्रतीत्यापि प्रवर्तेत । तस्मात्सत्त्वेनैव प्रतीयत इत्यङ्गीकार्यम् । तथा च प्रतीतिप्रवृत्ती युज्येते । न च रजतप्रतीतिमात्रात् प्रवृत्तिरिति वाच्यम् । अनुभवविरोधात् । विधिनिषेधाववधूय प्रत्ययायोगाच्च । तत्सत्त्वं सदसदनिर्वचनीयं वा । नाऽद्यः। अनिर्वचनीयताविरोधात् । न हि यस्य सत्त्वं सत्तदनिर्वाच्यमिति भवति । तस्मात् द्वितीयोऽङ्गीकार्यः। ततः किमित्यत आह- अनिर्वचनीयेति ।। अनिर्वचनीयस्य प्रातिभासिकस्य रजतस्य यत् परमार्थत्वं व्यावहारिकसत्त्वं तस्यासत एव सत्त्वेन दृष्ट्यङ्गीकारात् नासतो भ्रान्तावपि सत्त्वेन प्रतीतिर्नास्तीति वाच्यमिति ।

ननु रजतस्यापि प्रातिभासिकं सत्त्वमस्त्येव । मैवम् । व्यावहारिकत्वाप्रतीतौ प्रवृत्त्यभाव-स्योक्तत्वात् । सत्यं, प्रातिभासिकं रजतं व्यावहारिकतया प्रतीयत इति । तथाऽपि न सा सती नाप्यसती । किन्तु शुक्तिकेदन्तासंसर्गवत् तद्व्यावहारिकतासंसर्गस्याप्यनिर्वाच्यस्याऽरोपितस्य प्रतिभासः । ततो नासतः सत्त्वेन प्रतीत्यङ्गीकार इति तृतीयं पक्षं निराकरोति- न चेति ।। न केवलं रजतम् अपि तु प्रातिभासिकस्य रजतस्य यद्व्यावहारिकं सत्त्वं प्रतीयते तदप्यनिर्वाच्यं, शुक्तिका-गतमेव व्यावहारिकं  सत्त्वं रजते समारोपितमिति च नेत्यर्थः । कुत इत्यत आह- अनवस्थिते-रिति ।।

शुक्तिकागतमेव व्यावहारिकं सत्त्वं रजते समारोपितममनिर्वचनीयमिति कोऽर्थः, किं व्याव-हारिकम् उत प्रातिभासिकमिति । नाऽद्यः । अनङ्गीकारात् । अङ्गीकारे वा रजतस्यापि व्यावहारि-कतापातात् । द्वितीयेऽपि किं प्रातिभासिकतयैव प्रतीयते उत व्यावहारिकतया । नाऽद्यः । प्रवृत्त्य-भावप्रसङ्गात्    न हि प्रातिभासिकमर्थक्रियासूपयुक्तं क्वचिदनेनोपलब्धं  यतस्तथात्वं  प्रतीत्यापि प्रवर्तेत । द्वितीये तद्व्यावहारिकता किं सती उतासती । नाऽद्यः । प्रातिभासिकत्वानुपपत्तेः । द्वितीये असतोऽपि सत्त्वेन प्रतीतिप्रसङ्गः । अथ सा व्यावहारिकताऽपि अनिर्वचनीयैवाऽरोपितेत्युच्यते तदाऽनिर्वचनीयमिति कोऽर्थ इत्यादेरावृत्त्या आरोपपरम्पराऽपर्यव-सानानुपपत्तिः स्यात् । यत्रैवाऽरोपपर्यवसानं तत्रैव प्रवृत्त्यभावो वाऽसतोऽपि सत्त्वेन प्रतीतिर्वा प्रसज्येत । न चेयमपर्यवसिता परम्परा सिद्धविषया येन बीजाङ्कुरपरम्परावददूषणं स्यादिति । ननु मूलक्षतेरभावात् नेयमनवस्था दूषणमिति चेत् । केयं मूलक्षतिर्नाम । किं परम्पराकल्पकाभावो वा अथ वा प्रयोजनपरिक्षयः । आद्या त्वस्ति प्रकृत इत्याह- प्रथमेति ।। प्रथमस्य रजतस्यानिर्वचनीयत्वे सिद्धे हि तदुपपत्त्यर्थ-मुत्तरोत्तरानिर्वचनीयारोपपरम्पराकल्पनं स्यात् । न च तदस्तीति । द्वितीयेऽप्येतदेवोत्तरम्- प्रथ-मेति ।। पूर्वपूर्वारोपानुपपत्तौ उत्तरोत्तरारोपाभाव इति ।

भावबोधः

‘अनिर्वचनीयपरमार्थत्वस्य’ इति मूले परमार्थत्वशब्देन व्यावहारिकत्वं ग्राह्यम् । भ्रान्तेः परमार्थ-विषयत्वस्य परेणानङ्गीकारात् । एवं चानिर्वचनीयशब्दस्य सदसद्विलक्षणमात्रपरत्वे तत्सम्बन्धिव्यावहारिकत्व-स्यासत्त्वं नाऽपतति । प्रपञ्चरूपानिर्वचनीयसम्बन्धिव्यावहारिकत्वस्य सत्त्वोपपत्तेः । तत्कथमसत एव इत्युक्तमि-त्यतः सामान्यवाचकानिर्वचनीयशब्दस्य तद्विशेषप्रातिभासिकपरत्वं वक्तव्यमित्यभिप्रेत्य मूलं व्याचश्व्े- अनिर्वच-नीयस्य प्रातिभासिकस्येत्यादिना ।। सदिदं रजतमिति प्रतीयमानं सत्त्वं नासत् । येनासतः सत्त्वेन प्रतीति-प्रसङ्गः । किं नाम ब्रह्मणि पारमार्थिकमिवाम्बरादेर्मायोपाधिकं व्यावहारिकमिव शुक्तिरजतादेरप्यविद्योपाधिकं प्रातिभासिकं सत्त्वमस्त्येवेति सत्त्वत्रैविध्यवादिनो मतमाशङ्कते- ननु रजतस्यापीति ।। प्रवृत्त्यभावो वेति ।।

ननु त्वत्पक्षेऽपि शुक्तिरजतस्य प्रतीयमानं सत्त्वं सद् असद्वा । नाऽद्यः । रजतस्यापि सत्त्वापत्तेः । द्वितीयेऽपि किमसत्त्वेन प्रतीयते किं वा सत्त्वेन । नाऽद्यः । प्रवृत्त्यभावप्रसङ्गात् । द्वितीये तदपि सदसद्वेति विकल्पप्रसरेणानवस्था । अथ त्वन्मते शुक्तिरजतादिनिष्ठत्वेन प्रतीयमानव्यावहारिकताया अपसिद्धान्तात्सत्त्वा-सम्भवेनानिर्वचनीयत्वे वाच्ये तत्र च तस्यासद्वैलक्षण्यार्थं प्रातिभासिकसत्त्वार्थं च सत्त्वप्रतीत्या भाव्यम् । एवं तदपि सत्त्वमनिर्वाच्यं चेत्तस्यापि सत्त्वप्रतीत्या भाव्यमित्यनवस्थापत्तेरसत्त्वं वाच्यम् । न चैवमस्मन्मतेऽनवस्था सम्भवति । त्वन्मतेऽनिर्वाच्यभूतव्यावहारिकतायाः सत्त्वेनाभानेऽसद्वैलक्षण्यार्थप्रातिभासिकत्वासिद्धिवन्मन्मते असतः सत्त्वस्य सत्त्वेनाप्रतीतावसत्त्वासिद्धेरभावादिति चेन्न । एवमपि मां प्रत्यसतः सत्त्वेन प्रतीतिरुपपादिता स्यात् । उक्तानवस्थाभिया शुक्तिरजतादिनिष्ठत्वेन प्रतीयमानव्यावहारिकताया असत्त्वस्य मया अङ्गीकार्यत्वेऽपि तदा तस्याः सत्त्वेन प्रतीतेरङ्गीकार्यत्वात् । अनिर्वाच्यत्व एव हि तस्या असद्वैलक्षण्यनिर्वाहार्थं सत्त्वेन प्रतीतिरङ्गी-कार्या त्वन्मतेऽपि शुक्तिरजतादिनिष्ठतया प्रतीयमानसत्त्वस्यासत्त्वोपपत्त्यर्थं सत्त्वेन प्रतीतेरनङ्गीकार्यत्वेऽपि असत्त्वेन प्रतीतौ प्रवृत्त्यभावप्रसङ्गात्सत्त्वेन प्रतीतेरङ्गीकार्यत्वेनानवस्थाया अपरिहाराच्चेति । मैवम् । इदं रजतमिति विधिप्रत्ययस्यैव सत्त्वविशिष्टविषयत्वाभ्युपगमात् । नच सत्त्वस्यापरं सत्त्वमस्माभिरभ्युपगम्यते । किन्तु रजतविधि-प्रत्ययमात्रादेव प्रवृत्त्युपपत्तेः । न चैवं परस्याभ्युपगमः । सत्त्वेऽप्यवान्तरभेदाङ्गीकारेण तत्प्रतीतिमात्रस्य प्रवृत्त्य-नुपयोगादिति । पूर्वपूर्वारोपेति ।। अनेन मूले अनिर्वचनीयपदेन तद्विषयकारोपो लक्षणीय इत्युक्तं भवति ।

भावदीपः

सदसद्विलक्षणरूपानिर्वचनीयवादी शङ्कते- भवेदयमिति ।। सत्त्वप्रतीतिप्रस्तावादाह- सत्त्वेनेति शेष इति ।। प्रवृत्त्यभावप्रसङ्गं व्यनक्ति- न ह्यसदिति ।। अनेनेति ।। भ्रान्तेनेत्यर्थः । तथा च प्रतीतीति ।। सदिदं रजतमिति प्रतीतीत्यर्थः । तत्सत्त्वमिति ।। अनिर्वचनीयरजते प्रतीयमानं सत्त्वमित्यर्थः । अनिर्वचनीये-त्युक्त्या व्यावहारिकस्यापि प्रतीतेराह- अनिर्वचनीयस्य प्रातिभासिकस्येति ।। पररीत्या परमार्थपदं व्याचश्व्े- व्यावहारिकं सत्त्वमिति ।। सत्तात्रैविध्यपक्षे शङ्कते- ननु रजतस्यापीति ।। अनिर्वचनीयस्यापीत्यपेरर्थः । शङ्कते- सत्यमिति ।। न सेति ।। व्यावहारिकतेत्यर्थः । शुक्तिकेदन्तेति ।। प्रातिभासिके रजते पृथगिदन्ता-शब्दितैतद्देशकालसम्बन्धस्याभावेन शुक्तिनिष्ठेदन्तासंसर्गोऽनिर्वचनीय एव रजते भासते तथैव शुक्तौ व्यावहारिकतेत्यर्थः । तृतीयमिति ।। तत्सत्त्वं सदसदित्यादिना विकल्पिततृतीयपक्षमित्यर्थः । व्यावहारिक-तापातादिति ।। रजते आरोपितसत्त्वस्य व्यावहारिकत्वे तदाश्रयस्य रजतस्य घटादेरिव व्यावहारिकता-पातादित्यर्थः । प्रातिभासिकत्वानुपपत्तेरिति ।। आरोपितसत्त्वस्येति योज्यम् । सत्त्वाश्रयस्य सत्यत्वस्यैव प्राप्तेरिति भावः । अथ सेति ।। रजतनिष्ठतयाऽरोपितेऽनिर्वचनीयरूपे व्यावहारिकत्वे प्रतीयमाना व्यावहारि-कताऽप्यनिर्वचनीया चेत्प्रवृत्त्यनुपपत्त्या व्यावहारिकत्वेन प्रतीयत इति वाच्यम् । तच्च व्यावहारिकत्वमनिवर्चनीयं चेदुक्तदिशाऽनवस्था प्राप्नोतीत्यसदेव सत्त्वेन प्रतीयत इति वाच्यम् । एवं चासतः सत्त्वेन प्रतीतिः प्राप्तैवेत्यर्थः। किमनेनोक्तं भवतीत्यतस्तन्निष्कृष्य दर्शयति- यत्रैवेति ।। त्रिचतुरकक्षानन्तरमारोपितं सत्त्वमनिर्वचनीयमेव प्रतीयते न तु सत्त्वेन । येन तदपि सत्त्वमारोपितमिति तस्यापि सत्त्वेन प्रतीत्या भाव्यमित्यनवस्था स्यादिति । तत्राऽरोपपर्यवसानं चेत्प्रवृत्त्यभावः । अतः सत्त्वेन प्रतीयत इति वाच्यम् । तदपि सत्त्वं तत्रासदेवेति तस्य सत्त्वेनैव प्रतीत्या भाव्यमित्यनवस्थानादतोऽसतस्सत्त्वेन प्रतीतिः प्राप्तैवेत्यर्थः ।

सिद्धविषयेति ।। प्रमितविषयेत्यर्थः । प्रयोजनपरिक्षयः उत्तरोत्तराऽरोपाभावः । उत्तरोत्तरेति ।। रजते प्रतीतं सत्त्वमनिर्वाच्यम्, तत्रापि प्रतीतं सत्त्वमप्यनिर्वाच्यमित्येवंरूपेणारोपपरम्पराकल्पनमित्यर्थः । पूर्व-पूर्वेति ।। प्राथमिकरजतत्वस्यानिर्वचनीयत्वानुपपत्ताविति वा तत्र प्रतीतेदन्त्वसत्त्वयोरनिर्वचनीयत्वरूपाऽ-रोपानुपपत्ताविति वाऽर्थः । ननु परमते शुक्तिकागतेदन्तासंसर्गवत्तद्गतसत्त्वमपि रजते प्रतीतमनिर्वाच्यं चेत्तस्य तथैव प्रतीतौ प्रवृत्त्ययोगेन सत्त्वेन प्रतीतौ च तस्मिन्नपि सत्त्वासत्त्वानिर्वचनीयत्वविकल्पप्रसरेणानवस्थाप्रसङ्गवत् सिद्धान्तेऽप्यसति रजते प्रतीतं यत्सत्त्वं तस्य सत्त्वायोगादसत्त्वे च तथैव प्रतीतौ प्रवृत्त्ययोगात्सत्त्वेन प्रतीतौ च तस्मिन्नपि सत्त्वे उक्तविकल्पप्रसङ्गेनानवस्थेति चोद्यं सममिति चेत्परमते अनिर्वाच्यस्य सत्त्वस्य सत्त्वेनाप्रतीतौ प्रातिभासिकत्वायोगवत्सिद्धान्तेऽसतः सत्त्वस्य सत्त्वेनाप्रतीतौ असत्त्वासिद्धेरभावादिति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

मम तु न कश्चिद्दोष इत्यन्वयः । अनिर्वचनीयतया प्रातिभासिकतया । तथेति ।। अनिर्वचनीयतया असत्त्वेन चेत्यर्थः । प्रवृत्त्यभावप्रसङ्गमुपपादयति- न हीत्यादिना ।। प्रतीतिमात्रादिति ।। तथा च प्रवृत्त्य-न्यथानुपपत्त्या सत्त्वेन प्रतीतिर्नाङ्गीकार्येति भावः । अनुभवेति ।। तथात्वे रजतपदश्रवणमात्रादपि प्रवृत्त्यापत्ते-रिति भावः । विधिनिषेधौ अस्तित्वनास्तित्वे । रजतमिति प्रतीतावस्तीति वा विषयीक्रियेत नास्तीति वा ताववधूय प्रत्ययायोगादित्यर्थः । तत्सत्त्वं रजतनिष्ठं सत्त्वम् । अनिर्वचनीयताविरोधादिति ।। रजतस्येति शेषः । अत्र सर्वत्रानिर्वचनीयशब्दः प्रातिभासिकपरो द्रष्टव्यः । तदुपपादयति- न हीति ।। ननु सदिदं रजतमिति प्रतीयमानं सत्त्वं नासत् येनासतः सत्त्वस्य सत्त्वेन प्रतीतिप्रसङ्गः । किं नाम ब्रह्मणि पारमार्थिकमिव अम्बरादेर्मायो-पाधिकं व्यावहारिकमिव रजतेऽप्यविद्योपाधिकं प्रातिभासिकं सत्त्वमस्त्येव, सत्त्रैविध्याङ्गीकारादित्याशयेन शङ्कते- ननु रजतस्यापीति ।। व्यावहारिकत्वाप्रतीतौ प्रातिभासिकत्वेनैव प्रतीतावित्यर्थः । तस्माद्व्यावहारिकत्वं प्रतीयत इति वाच्यम् । तच्च प्रातिभासिकेऽसदेवेत्यसतस्सत्त्वेन प्रतीतिः प्राप्तेति भावः । तृतीयं पक्षमाशङ्कते- सत्यमिति ।। सा व्यावहारिकता । शुक्तिकेदन्तेति ।। शुक्तिकानिष्ठेदन्तासंसर्गो यथा रजतेऽनिर्वचनीय एवाऽरोपितः प्रतीयत इदं रजतमिति तद्वदित्यर्थः । तद्व्यावहारिकतासंसर्गस्येति ।। शुक्तिगतव्यावहारिकता-संसर्गस्यापीत्यर्थः । प्रतिभासो रजत इति शेषः । आपातादिति ।। न हि यस्य व्यावहारिकत्वं व्यावहारिकं तत्प्रातिभासिकमिति सम्भवतीति भावः । तथात्वं प्रातिभासिकत्वम् । तद्व्यावहारिकतेति ।। रजते प्रतीयमानव्यावहारिकसत्त्वनिष्ठा व्यावहारिकतेत्यर्थः । प्रातिभासिकत्वानुपपत्तेरिति ।। रजतस्येति शेषः । रजतनिष्ठव्यावहारिकसत्वनिष्ठव्यावहारिकतायाः सत्त्वे रजतस्य प्रातिभासिकत्वानुपपत्तेरित्यर्थः । द्वितीये रजत-निष्ठव्यावहारिकसत्त्वनिष्ठव्यावहारिकत्वस्यासत्त्व इत्यर्थः । अथ सेति ।। रजतनिष्ठव्यावहारिकसत्त्वनिष्ठा (श्री.टि.) व्यावहारिकताऽपीत्यर्थः । यत्रैवाऽरोपपर्यवसानमिति ।। अपर्यवसानरूपानवस्थाङ्गीकारे व्यापा-रान्तराभावप्रसङ्गेन तत्परिहाराय कियद्दूरं गत्वा यत्रैव व्यावहारिकताया अनिर्वचनीयत्वमनङ्गीकृत्य प्रातिभासि-कत्वमसत्त्वं वाऽङ्गीकृत्यारोपपरम्परापर्यवसानमुच्यते तत्रैवेत्यर्थः । प्रवृत्त्यभाव इत्यादि ।। प्रातिभासिकत्वे तथैव प्रतीतौ प्रवृत्त्यभावः । असत्त्वेऽसतः सत्त्वेन प्रतीतिप्रसङ्ग इत्यर्थः ।

ननु सिद्धान्तेऽपि शुक्तिरजते सत्त्वं तावत्प्रतीयत इत्यङ्गीकार्यम् । अन्यथा प्रवृत्तिर्न स्यात् । तथा च तत्सत्त्वं सदसद्वा । नाऽद्यः । रजतस्यापि सत्त्वापत्तेः । द्वितीये किमसत्त्वेन प्रतीयते सत्त्वेन वा । नाऽद्यः । प्रवृत्त्यभाव-प्रसङ्गात् । द्वितीये तदपि सदसद्वेति विकल्पकरणेनानवस्था समानेति चेत् । मैवम् । रजतमिति विधिप्रत्ययमात्रस्यैव सत्त्वविशिष्टरजतविषयकत्वाभ्युपगमात् । न च सत्त्वस्यापरं सत्त्वमस्माभिरभ्युपगम्यते येनानवस्था स्यात् । किन्तु रजतविधिप्रत्ययमात्रादेव प्रवृत्त्युपपत्तेः । न चैवं परस्याभ्युपगमः । सत्त्वेऽप्यवान्तरभेदाङ्गीकारेण तत्प्रतीतिमात्रस्य प्रवृत्त्यनुपयोगित्वादिति ।

ननु बीजाङ्कुरानवस्थावत्प्रमाणसिद्धवस्तुविषयकत्वान्नेयमनवस्था दूषणमित्यत आह- न चेयमिति ।। रजतानिर्वचनीयत्वस्यैवाप्रामाणिकतयाऽसिद्धत्वादिति भावः । मूलक्षतेरभावादिति ।। यदर्थमुत्तरोत्तरानुसरणं तत् मूलं, तत्क्षतेरभावादित्यर्थः ।

मूलक्षयकरी प्राहुरनवस्थां हि दूषणम्’

इति वचनादिति भावः । परम्पराकल्पकाभावो वेति ।। उत्तरोत्तरपरम्पराकल्पकं मूलं तदभावो मूलक्षतिः साऽत्र नास्ति । परम्पराकल्पकमेवास्तीति यावदित्यर्थः । अथ वा प्रयोजनपरिक्षय इति ।। मूलं नाम प्रयोजनं तत्परिक्षयो मूलक्षतिः । साऽत्र नास्ति प्रयोजनमेवास्तीति यावदित्यर्थः । आद्या त्वस्तीति ।। परम्परा-कल्पकाभावरूपा मूलक्षतिरस्तीत्यर्थः । न च तदस्तीति ।। प्रथमस्य रजतस्यानिर्वचनीयत्वं नास्ति । रजतस्या-सत्त्वेन तदनिर्वचनीयत्वस्याप्रामाणिकत्वादित्यर्थः । तदभिप्रायमाह- पूर्वपूर्वेति ।। प्रयोजनपरिक्षयरूपाऽपि मूलक्षतिरस्ति । प्रथमस्य पूर्वपूर्वस्य रजतस्यानिर्वचनीयत्वसिद्धिर्हि उत्तरोत्तरानिर्वचनीयपरम्पराकल्पने प्रयोजनम्, तदिह नास्ति । पूर्वस्य रजतस्यानिर्वचनीयताया अप्रामाणिकत्वेनासिद्धतया तदर्थं कल्प्यमानोत्तरोत्तरा-रोपपरम्पराया अप्यसिद्धिरिति प्रयोजनपरिक्षयरूपाऽपि मूलक्षतिरस्तीत्यर्थः । अपरे तु पूर्वपूर्वेत्यस्य इत्यभिप्राय-माहुः । तथा हि- रजतानिर्वचनीयत्वस्य अद्याप्यसिद्ध्या तदारोपानुपपत्तौ तस्य प्रवृत्तिजनकत्वाय कल्प्य-मानोत्तरोत्तरव्यावहारिकत्वारोपाणामसिद्ध्या प्रथमारोपात्प्रवृत्तिलक्षणं कार्यं त्वन्मते न स्यादिति प्रयोजन-परिक्षयरूपा मूलक्षतिरस्तीति ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

‘न च वाच्यम्’ इति प्रतिज्ञाय कुत इति तत्र हेत्वाकाङ्क्षायाम् ‘अनिर्वचनीयपरमार्थत्वस्य’ इति हेतुरुच्यते । स न युक्तः । रजतानिर्वचनीयत्ववादिनो मते भ्रान्तौ रजतस्य व्यावहारिकतायाः प्रतीतेरभावाद्, (पां.टि.) भावे वा व्यावहारिकत्वस्यासत्त्वस्यैवासिद्धेः, सिद्धौ वा तस्य सत्त्वेन प्रतीतेरसिद्धेरित्यतः, अत्र मूले एवशब्देन सत्त्वस्यानुभवसिद्धतायाः तत्प्रतीतेश्च युक्त्युपेततायाः कथनेन कल्पान्तरेऽनुभवाभावस्य युक्तिविरोधस्य च सूचनात् कल्पान्तरनिरासेन सत्त्वप्रतीतिपक्षपरिशेषाय कल्पान्तरनिरासे तौ व्यापारयितुं विकल्पयति- रजतमनिर्वचनीयमिति पक्षेऽपीति ।।  एवशब्दसूचितं साधकमाह- तथा चेति ।। प्रती-तीति ।। सदिदं रजतमिति प्रतीतीत्यर्थः । उक्तेरन्यथासिद्धिमाशङ्क्य निराकरोति- न चेति ।। कुत इत्यतः कल्पान्तरनिरासे व्यापारितमनुभवविरोधमत्रापि व्यापारयति- अनुभवेति ।। सदिदं रजतमित्यनुभवेत्यर्थः । ननु नास्त्येव सदिदं रजतमित्यनुभवः किन्त्विदं रजतमित्येव । स च स्वरूपमात्रविषयक एवेति कथमनुभवविरोध इति चेन्न । अनुभवापलापापातात् । अस्तु वेदं रजतमित्येव अनुभवः । तथाऽपि तद्विरोधः स्यादेवेत्याह- विधीति ।। तथा चेदं रजतमिति विधिप्रत्ययस्यैव सत्त्वविषयकत्वमिति सत्त्वाविषयकत्वे विधिप्रत्ययत्वमेव न स्यादिति भावः । तत्सत्त्वमिति ।। आद्यस्य न्यायमतेन द्वितीयस्य स्वमतेन तृतीयस्य मायिमतेन प्रसक्तिरिति द्रश्व्व्यम् । विरोधमेवोपपादयति- न हीति ।। द्वितीयपक्षस्य मूलारूढत्वसिद्ध्यर्थं तदुपयुक्ततया व्याचश्व्े- अनिर्वच-नीयस्येत्यादिना ।। ननु रजतेऽसतः आविद्यकस्यैव सत्त्वस्य सदिदं रजतमिति प्रतीतिसम्भवात् किमसतो व्यावहारिकत्वस्य सत्त्वेन प्रतीत्याग्रहेणेत्याशङ्कते- नन्विति ।। उक्तत्वादिति ।। ‘न ह्यसत्प्रातिभासिकं वा’ इत्यादिनेति शेषः । ननु व्यावहारिकसत्त्वस्यानिर्वचनीयत्वेऽपि व्यावहारिकत्वेन, प्रातिभासिकत्वेऽपि प्राति-भासिकत्वेनैव प्रतीत्या व्यावहारिकत्वेन प्रतीतावपि व्यावहारिकताया सत्त्वेनासत्त्वेनैवोपपत्तौ नानवस्थाप्रसङ्ग इत्यतो दूषणान्तरेण पक्षान्तरं निरस्य प्रातिभासिकस्य प्रातिभासिकव्यावहारिकतया प्रतीतिपरम्पराकल्पनेऽन-वस्थाप्रसङ्गं व्युत्पादयति- शुक्तिकागतमेवेत्यादिना ।। व्यावहारिकत्वापातादिति ।। न हि यस्य व्यावहारि-कत्वं व्यावहारिकं तस्य प्रातिभासिकत्वं सम्भवति । तथा सति घटादेरपि प्रातिभासिकत्वापातादिति भावः । तदेति ।। रजतव्यावहारिकताया अनिर्वचनीयत्वस्य व्यावहारिकत्वरूपत्वानङ्गीकाराद्, अङ्गीकारे वा रजतस्यापि व्यावहारिकत्वप्रसङ्गात् । प्रातिभासिकत्वरूपत्वे च प्रतीतेरावश्यकत्वात्प्रातिभासिकत्वेनैव प्रतीतौ प्रवृत्त्यभाव-प्रसङ्गाद्व्यावहारिकत्वेन प्रतीतौ च तस्या व्यावहारिकताव्यावहारिकतायाः सत्त्वे व्यावहारिकतायाः प्रातिभासिक-त्वानुपपत्त्याऽसत्त्वे चासतः सत्त्वेन प्रतीत्यापत्त्या व्यावहारिकतानिष्ठव्यावहारिकताया अनिर्वचनीयत्वे ‘अनिर्वच-नीयेति कोऽर्थः’ इत्युक्तरीत्याऽनवस्थेत्यर्थः ।

ननु रजतव्यावहारिकत्वस्य व्यावहारिकत्वसत्त्वपक्षयोरनङ्गीकारपराहतत्वेनानाशङ्कनीयत्वेऽपि प्राति-भासिकस्य प्रातिभासिकत्वेन प्रतीतौ च सतोऽसत्त्वेन सत्त्वेन वा प्रतीत्यभ्युपगमे आरोपपरम्पराप्रसक्तेर-भावान्नानवस्थेत्यतः, एतत्पक्षत्रयेऽनवस्थाप्रसक्तावपि आद्यद्वये प्रवृत्त्यभावापत्त्या तृतीये सतोऽपि सत्त्वेन प्रतीत्यापत्त्यै तत्पक्षत्रयं प्रदूष्य प्रातिभासिकस्य प्रातिभासिकत्वेन व्यावहारिकत्वेन प्रतीतिपक्षं परिशेष्यानवस्था-प्रसङ्गस्यात्रोच्यमानत्वान्नानुपपत्तिरित्याशयेनाऽह- यत्रैवेति ।। प्रातिभासिकानां शुक्तिरजततद्व्यावहारिकत्व-(पां.टि.) तद्व्यावहारिकत्वव्यावहारिकत्वादीनामारोपेषु पूर्वपूर्वारोपस्योत्तरोत्तरारोपं प्रत्यधिष्ठानसिद्धितया कारणत्वेन अधिष्ठानसिद्धितया कारणीभूतपूर्वपूर्वारोपस्य उत्तरोत्तरारोपार्थमपेक्षणीयत्वेनाधिष्ठानसिद्धिरूप-प्रातिभासिकरजताद्यारोपस्याप्रामाणिकत्वेनानुपपन्नतया अधिष्ठानासिद्ध्या तत्सिद्ध्युत्तरकालीनव्यावहारिकत्वा-द्यारोपस्याप्यनुपपन्नतया प्रवर्तकज्ञानविरहेण रजतार्थिप्रवृत्तिविलयादस्त्येव प्रयोजनपरिक्षय इत्याशयेनाऽह- पूर्वपूर्वेति ।। प्रवृत्त्यनुपपत्तिरिति शेषः ।

लघुप्रभा

(व्या.टि.)

अनिर्वचनीयख्यातिवादी प्रत्यवतिष्ठते- भवेदयमिति ।। अङ्गीकृतेऽपीति भावे क्तः । त्वयाऽपि परिशेषेण असतः सत्त्वप्रतीतेरनिच्छताऽपि अङ्गीकार्यत्वेन स्वक्रियाविरोधप्रसङ्गादित्याशयेन प्रसक्तपक्षान् प्रति-क्षेप्तुं विकल्पेनोपक्षिपति- इति पक्षेऽपीति ।। अनुपलम्भादिति ।। व्यवसायस्यानुव्यवसायैकप्रमाणकस्य तदभावेनाभावनिश्चयादिति भावः । आद्ये भ्रान्तिव्यवहारलोपप्रसङ्गश्चाधिकः । प्रवृत्त्यभावेति ।। तत्प्रतीतेः प्रवृत्त्यनुपयोगादिति भावः । तत्कुत इत्यत आह- न हीति ।। नन्विष्टतावच्छेदकप्रतीतेरेव प्रवर्तकतया सत्त्वेन प्रतीत्यनुपयोग इति निषेधति- न चेति ।। अनुभवेति ।। अत्रास्ति रजतमिति प्रतीत्यैव प्रवृत्तेरनुभवात् । इष्टतावच्छेदकप्रतीतिमात्रस्य प्रवर्तकत्वेनास्ति  रजतमित्यस्यापीष्टतावच्छेदकप्रकारकतया  प्रवृत्तिप्रसङ्ग इति ध्येयम् । अभ्युपेत्य चेदमुक्तम् । वस्तुतस्तदेव नास्तीत्याह- विधिनिषेधाविति ।। सत्त्वासत्त्वेत्यर्थः । विरोधा-दिति ।। सहानवस्थानादित्यर्थः । तदुपपादयति- न हीति ।। सम्भवतीति ।। अनिर्वाच्यत्वस्य सद्वैलक्षण्य-रूपत्वादिति हृदयम् । अत्रानिर्वचनीयपरमार्थशब्दौ प्रातिभासिकव्यावहारिकपरावित्याशयेन व्याचश्व्े- प्राति-भासिकस्येत्यादिना ।। सत्त्वेनेति ।। सिद्धवत्कृत्योक्तम् । अस्त्येवेति ।। तथा च सद्रूपेणैव प्रतीयतां किमसद्रूपान्वेषणेनेति वाक्यशेषः । अभावस्य ।। तत्प्रसङ्गस्येत्यर्थः । ननु प्रातिभासिकस्य व्यावहारिकत्वेन भ्रान्तौ प्रतीतावपि नासतः सत्त्वेन प्रतीत्यङ्गीकारः । किन्तु प्रातिभासिकरजते प्रकारीभूतमवभासमानं व्याव-हारिकत्वमपि प्रातिभासिकसदेवेत्याशयेन शङ्कते- सत्यमिति ।। न सा सतीति ।। बाधाविरोधादिति भावः । प्रकारस्य व्यावहारिकत्वस्य तत्र सत्त्वे धर्मिणः प्रातिभासिकत्वानुपपत्तेः । न हि यस्य व्यावहारित्वं व्यावहारिकं तत्प्रातिभासिकमिति युज्यते, विरोधादिति भावः । नापीति ।। प्रतीतिविरोधादिति भावः । उपसंहरति- ततो नेति ।। असतः अत्यन्तासतः । तृतीयमिति ।। प्रातिभासिके प्रकारीभूतं सत्त्वमनिर्वचनीयमिति तृतीयमित्यर्थः। शुक्तिकागतमेवेति प्रसिद्धिद्योतनाय । अन्यथा अन्यथाख्यात्यापत्तेः । अनिर्वचनीयत्वस्योभयसाधारण्याभि-मानात्प्रश्नः । अनङ्गीकारे बीजमाह- अङ्गीकार सति ।। न हि यस्य व्यावहारिकत्वं व्यावहारिकं तत्प्राति-भासिकमिति युज्यते विरोधादिति भावः ।

आद्यमवद्यति- प्रवृत्तीति ।। प्रातिभासिकत्वेति ।। रजतीयव्यावहारिकत्वस्येति शेषः । सेति ।। व्यावहारिकत्वनिष्ठेत्यर्थः । इत्यादेरिति ।। किं व्यावहारिकी उत प्रातिभासिकी । नाऽद्यः । रजतीयव्याव-हारिकत्वस्य प्रातिभासिकत्वानुपपत्तेः । न द्वितीयः । साऽपि प्रातिभासिकी व्यावहारिकता किं प्रातिभासिकतयैव (व्या.टि.) प्रतीयते उत व्यावहारिकतया । आद्ये प्रवृत्त्यभावप्रसङ्गः । द्वितीये सा किं सती उतासती । आद्ये प्रातिभासिकत्वानुपपत्तिः । द्वितीये असतः सत्त्वेन प्रतीत्यनुपपत्तिरित्यादेर्विकल्पदोषस्येत्यर्थः । नन्वारोपस्य क्वचित्पर्यवसाने को दोष इत्यतो व्यवस्थया दोषद्वयमित्याह- यत्रैवेति ।। प्रतीयमानस्य व्यावहारिकत्वस्य प्रातिभासिकतामुपेत्य व्यावहारिकत्वेन प्रतीतावेवं तस्यापीति प्रतीतावनवस्थोक्ता तत्र चरमव्यावहारिकत्वस्य प्रातिभासिकत्वेनैव प्रतीतौ वाऽसत्त्वमुपेत्य सत्त्वेन प्रतीतौ वाऽपर्यवसानम् । आद्ये प्रवृत्त्यभावः । द्वितीयेऽभि-मतासिद्धिरिति भावः । सत्त्वेन प्रतीतिं विना प्रातिभासिकत्वायोगवदसत्त्वानुप-पत्तेरभावात्सिद्धान्ते रजते प्रतीयमानसत्त्वस्यासत्त्वेऽपि नानवस्थेत्यवधेयम् । ननु परम्पराऽपर्यवसानं न दोषः । बीजाङ्कुरपरम्परावदुप-पत्तेरित्यतो वैषम्यमाह- न चेयमिति ।। मूलक्षतेरिति ।। क्षणू हिंसायामस्मात् स्त्रियां क्तिन्यनुनासिकलोपे रूपम् । अनवस्थेति ।। ननु कथमिदं ‘स्थागापापचो भावे’ इति क्तिनोऽङपवादित्वादिति चेन्न । व्यवस्थायामिति निर्देशात्सोऽपीत्यवेहि । केयमिति ।। मूलपदेन किं प्रयोजकं कल्पकं वेति मूलपदार्थविकल्पात्समासार्थविकल्पो बोध्यः । मूलत्वोपपादनम्- सिद्ध इति ।। द्वितीये प्रथमपदस्य पूर्वार्थत्वं तत्प्रथमपरत्वं चोपेत्य व्याचश्व्े- पूर्व-पूर्वेति ।। रजतारोपे सिद्धे अधिष्ठानसिद्ध्या तत्र सत्त्वारोप इति पूर्वस्यैवाभावे उत्तरस्यैव अभावात् । उत्तरा-रोपपरम्परया पूर्वपूर्वारोपोपपत्तिरूपप्रयोजनपरिक्षय इत्यर्थः । अनुपपद्यमानस्य प्रामाणिकस्य कल्पकत्वं, तदुपपत्तेः प्रयोजनत्वं, प्रकृते त्वप्रमाणिकत्वान्नोभयमपीति भावः ।