तेजः परस्यां देवतायां ..
नवप्रकरण्या अपि भेदपरत्वे समाख्यावचनम्
मूलम्
- ‘तेजः परस्यां देवतायां तावन्न जानाति’ इत्यत्र च ‘यदाऽस्य प्राणादीन् परो ग्रसति तदा न जानाति, यदा ददाति तदा जानाति’ इति तद्वशत्वमेवोक्तम् ।
‘यदा प्राणान् ददातीशस्तदा चेतनकोऽखिलम् ।
जानाति ग्रस्तकरणस्तेन वेत्ति न किञ्चन ।।’ इति च ।
‘अपहार्षीत् स्तेयमकार्षीत्’ इत्यत्र च अन्याभिमतस्यैव वस्तुनोऽपहार्यत्वाद्भेद एवायं दृष्टान्तः । अन्यं सन्तं परमात्मानं स्वयमिति मन्यमानः स्तेन एवेति । न हि स्वकीयं परित्यजन् स्तेनो भवति ।
‘ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः ।
शास्त्रतत्वमविज्ञाय तथावादबलाज्जनाः ।
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।
ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः ।
वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ।
तेषां तमश्शरीराणां तम एव परायणम् ।
यतस्स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।
कथमस्मि स इत्येव सम्बन्धः स्यादसंहितः ।।’ इति मोक्षधर्मे ।
तत्त्वमञ्जरी
‘पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति । तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति । अथ यदा’ इत्यत्रापि यथोपतापिनः पुरुषस्य विशेषतः पारतन्त्र्यदर्शनात् तद्वारत्वं पर्यवसीयत एवमेव सर्वस्यापीति भगवद्वशत्वमेवोक्तम् ।
स यथा तत्र न दाह्येत, सोऽस्तेनो यथा तत्र शपथे न दाह्येत । एवमेव ब्रह्मस्तेनोऽप्यन्धे तमसि दाह्यते ।
स्वकीयं ब्रह्मत्वं नाहं ब्रह्मेति परित्यजन्नपि स्तेन एवेत्यत आह- न हि स्वेति ।। न हि लोके स्वकीयं किञ्चिद्वस्तु परित्यजन् स्तेन इति प्रसिद्धो भवति । किन्तु जड एव ।
‘शास्त्रतत्त्वमविज्ञाय ब्रूयुर्देवेषु चैकताम् ।
यान्ति चैव तमो घोरं परमात्मविनिन्दकाः ।
आलम्ब्य तन्मतं न त्वमेकत्वं विद्धि विष्णुना ।
एकताऽभावतो नैव भवेथाश्च महामनाः ।
तन्निष्ठा हि प्रजा यस्मात् तत्प्रतिष्ठाश्च मोक्षगाः ।
तन्मूलाश्च यतस्तासां तद्भावः कुत एव तु ।
यदि स्वतोऽन्यः पुरुषो देहेऽस्मिन् संव्यवस्थितः ।
न दृश्यते कुत इति भूयः पप्रच्छ पुत्रकः ।
अन्यैरदृश्यमानोऽपि न भेदो नास्ति पुत्रक ।
यथा पुष्परसा युक्ता अजानन्तोऽपि भेदिनः ।
अजानन्तोऽपि पुरुषास्तथा विष्णोर्हि भेदिनः ।
इति पित्रोपदिष्टः सन् पुत्रः पप्रच्छ तं पुनः ।
चेतनानामविज्ञानं कथमित्येव चिन्तयन् ।
तं प्रत्याह - यथा नद्यश्चेतनाश्च समुद्रगाः ।
स्ववारि नैव जानन्ति प्रजास्तद्वत् प्रजालये ।
स्वतोऽन्योऽस्ति परो देह इति ज्ञायेत मे कथम् ।
इति पृष्टः पुनः प्राह वृक्षदृष्टान्ततः पिता ।
अभिमानिनोऽस्वतन्त्रत्वाद् भेदो न ज्ञायते तरोः ।
हरिः किमु मनुष्येषु शेषो ह्यस्यास्वतन्त्रतः ।
ज्ञायते न कथं स्वस्मिन् सूक्ष्मे ज्ञाते परो हरिः ।
तत्रस्थ इति पृश्व्ः सन् तमाहोद्दालकः सुतम् ।
वटबीजे यथा सूक्ष्मे महान्यग्रोधभावयुक् ।
न दृश्यतेऽभिमानी स एवं जीवगतो हरिः ।
कथं दृश्येत तच्छक्तिः पृथक् तस्य ह्यदर्शने ।
इति भावयुतं प्राह पुत्रमुद्दालकः पुनः ।
यथाऽप्सु लवणं व्याप्तं रसदृष्ट्यैव दृश्यते ।
एवं चेतनगो विष्णुस्तद्भिन्नोऽपि न दृश्यते ।
कथं स ज्ञायते विष्णुर्भिन्न इत्यत्र चाब्रवीत् ।
यथैवान्योपदेशेन बद्धाक्षः स्वगृहं व्रजेत् ।
तथाऽऽचार्योपदेशेन भिन्नमीशं व्रजेत् पुमान् ।
यथा पुंसोऽस्वतन्त्रत्वं तज्ज्ञापयतु मा भवान् ।
इत्युक्त आह- ज्ञाने हि दृष्टा ह्यस्यास्वतन्त्रता ।
अभेदज्ञानिनां दोषः कीदृशः स्यादितीरिते ।
प्राह- यस्मात् परस्वानां हर्ता राज्ञाऽभिहन्यते ।
किमु राज्ञोऽपहर्तैवं ब्रह्मस्तेनो निहन्यते ।।’ इति हि महासंहितायाम् ।
यदिदमात्मैक्यं नाम केचिदनैपुणा ब्रूयुः । सर्वदेहानामेकचेतनकत्वमैकात्म्यम् । शास्त्रतत्त्वं शास्त्रप्रतिपाद्यं तत्त्वम् । ‘अतीतानागते काले यत्तादृशमुदीर्यते । कुतश्चिदन्यथा नेयं तत् तत्त्वं तत्त्वतो विदुः’ इति । तथेति वाद एव बलमेषाम् । न तु तत्साधनोपन्यासः । याथातथ्यं यथार्थ-त्वम् । स परमो१ रूपतश्च जीवाद् अन्यो विलक्षण इति यतः । अनन्तरूपत्वात् । जातित उत्पत्ति-तश्च । नहि रेतोरक्तात्मदेहोत्पत्त्या जननम् । किन्तु प्रादुर्भावमात्रमेव । द्वा सुपर्णेत्यादिश्रुतितः । अर्थतः अर्थापत्तितश्च । स्वातन्त्र्यान्यथाऽनुपपत्तेः परतन्त्रात् जीवाद् भिन्न एवेति । तस्मात् सोऽहमस्मीत्येवैक्यानुसन्धानेन सम्बन्धोऽसंहितोऽनुपपन्न आत्मन इत्यर्थः । २आत्मना शतिनो वर्धयन्ति इत्यादिवत् ।
टीका
ननु विद्वान् केन क्रमेण ब्रह्माप्नोतीति जिज्ञासायां तत्क्रमप्रदर्शनार्थं ‘पुरुषं सोम्योपता-पिनम्’ इत्याद्युच्यते । तत्कथमुक्तं ‘स्थाननवकेऽपि’ इत्यादि । तत्राह- तेज इति ।। अत्रापि वाक्ये जीवस्य परमात्मवशत्वमेवोक्तम् । कुतः? ‘यदाऽस्य’ इत्यादेः प्रतीतेरिति सम्बन्धः । ‘तस्य यावन्न वाग्’ इत्यत्रेति वक्तव्ये ‘तेजः परस्यामित्यत्र’ इति वचनं भगवदधीनताप्रतिपादक-प्रदर्शनार्थम् ।
अयं भावः- यदि ब्रह्मप्राप्तिक्रमप्रदर्शनार्थमेतद् भवेत् तदा ‘अस्य वाङ् मनसि सम्पद्यते’ इत्यादि ‘तेजः परस्यां देवतायाम्’ इत्यन्तमेव वाक्यं स्यात् । अन्यत्सर्वं व्यर्थमेव । अतो नासावर्थः किन्त्वस्मदुक्त एवेति । वाक्यान्तरसमाख्यानाच्चैवमित्याह- यदेति ।।
ननु च यदि वागादिलयक्रमेण मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिः । तत्र विद्वान् सत्सम्पन्नो नावर्तते, आवर्तते चाविद्वान् इत्यत्र किं कारणमिति जिज्ञासायां सत्यब्रह्मात्मत्वाभिसन्धि-तत्त्यागौ तत्र कारणमिति प्रदर्शनार्थं ‘पुरुषं सोम्योत’ इत्यादिवाक्यं पठ्यते । तत्कथं स्थाननवकेऽपी-त्याद्युक्तमित्यत आह- अपहार्षीदिति ।। इत्यत्र (च) वाक्ये कथितोऽयं स्तेनापहार्यदृष्टान्तो भेद एव भेदाभेदज्ञानिनोर्मोक्ष-घातविषय एवेत्यर्थः । अन्याभिमतस्यैवेति ।। एतदुक्तं भवति- यदन्याभिमतं वस्तु तदेवापहार्यतया प्रसिद्धम् । तदभिमन्ता चापरोऽपहारीति । तथा च दृष्टान्तानुसारेणैव दार्ष्टान्तिकस्य योजनीयत्वाद्भेद एव एष दृष्टान्त इति । योजनाप्रकारमेव दर्शयति- अन्यमिति ।। अन्यस्य सम्बन्धि परमात्मत्वं स्वस्येति मन्यमान इत्यर्थः । इति भेद एवेति पूर्वेण सम्बन्धः । पराभिमतमर्थं दूषयति- न हीति ।। किन्तु मन्दो वा विरक्तो वा भवति । तथा च भेदज्ञानिनः स्तेनोपमत्वं न सम्भवतीत्यर्थः ।
न केवलं लोकानुसारादैक्यज्ञानी स्तेनः, किन्तु वचनान्तरादपीति भावेनाह- ऐकात्म्य-मिति ।। एकश्चासावात्मा च एकात्मा तस्य भाव ऐकात्म्यम् । सर्वात्मनां ब्रह्मैक्यमिति यावत् । यदैकात्म्यं नामेदमनैपुणा अविद्यमाननैपुणाः केचिद् ब्रूयुः । तेषां तथा वचने किं मूलमित्यत उक्तम्- शास्त्रेति ।। ‘अहं ब्रह्मास्मि’ इत्यादिशास्त्राणां तत्त्वम् अभिप्रेतार्थमविज्ञाय ब्रूयुः । कथमविज्ञानमात्रेण तदुक्तिरित्यत उक्तम्- तथेति ।। ऐक्यप्रतिपादकसदृशो यो वाद एक-विभक्तित्वादिरूपः स बलं येषां ते तथोक्ताः । ‘अहं ब्रह्मास्मि’ इत्यादिवाक्यानां तात्पर्यमविज्ञाय आपाततः प्रतीत एवार्थे भ्रान्ता इत्यर्थः । सर्वेषामविद्यमानं शास्त्रतत्वाज्ञानादिकं तेषामेव किन्निमित्तमित्यत उक्तम्- कामेति ।। यथोक्तम्- ‘इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन’ इति । ननु ‘द्वा सुपर्णा’ इत्यादिशास्त्रेषु विरोधिषु सत्सु कथमैक्यं ब्रूयुरित्यत आह- याथातथ्यमिति ।। भेदपराणां शास्त्राणां याथार्थ्यमविज्ञाय । शास्त्रदस्यवः तानि शास्त्राण्यतत्वावेदकानीति मन्य-माना इत्यर्थः । एवमैक्यं मन्यमाना ब्रह्मस्तेनाः । कामादीनामागन्तुकत्वान्मूलकारणमाह- निरा-नन्दा इत्यादि ।। एतेनाधमानां स्वरूपयोग्यतां लक्षयति । तथापि सर्वज्ञाल्पज्ञत्वादिविरुद्ध-धर्माधिकरणत्वानुमानविरुद्धमैक्यं कथं ब्रूयुरित्यत आह- वैगुण्यमेवेति ।। जीवब्रह्मणोस्तत्वतो निर्गुणत्वमेव पश्यन्तो गुणानि सर्वज्ञत्वादिगुणान्, न नियुञ्जते तत्स्वरूपेण न योजयन्ति । एवम्भूतानां फलमाह- तेषामिति ।। तमोगुणप्रचुरशरीराणाम् । तमो नरकविशेषः । परायणं प्राप्यम् । ननु ‘अहं ब्रह्मास्मि’ इत्यादिना स्फुटमैक्यं प्रतीयते । अतस्तद्बलाद्भेदशास्त्रादेरतत्वा-वेदकत्वकल्पनं युक्तमेवेत्यत आह- यत इति ।। स्वरूपतः परिमाणभेदतः । जातितो जीवत्वादिजातिभेदतः । श्रुतितः ‘द्वा सुपर्णा’ इत्यादेः । अर्थतः प्रयोजनभावाभावाभ्याम् । यतः स भगवान् अन्यः प्रतीयते अतः सोऽस्मीति सम्बन्धोऽन्वयोऽसंहितोऽयोग्यः कथमेव स्यात् ।
‘अहं ब्रह्मास्मि’ इत्यादिवाक्यानामैक्यपरत्वे निश्चितेऽन्येषामतत्वावेदकत्वादिकल्पनं युक्तं स्यात् । न चैवम् । अनुमानागमविरोधेन प्रतीतावन्वययोग्यताविरहात् । ‘सिंहो देवदत्तः’ इत्यादौ योग्यताविरहस्याकाङ्क्षासन्निधिबाधकत्वोपलम्भात् । अन्यथाऽन्योन्याश्रयत्वं स्यात् । भेद-वाक्यादेरतत्वावेदकत्वादौ सिद्धे योग्यतासम्पत्त्या अहमादिवाक्यानामैक्यार्थतानिश्चयः । सति तस्मिंस्तदतत्वावेदकत्वादिनिश्चय इति ।
भावबोधः
यदास्येत्यादेरिति ।। इत्यादेरर्थस्येत्यर्थः । एवंविधवाक्यस्य तस्मिन्प्रकरणेऽभावादित्यवधेयम् । अत एव तदा जानातीति प्रतीतेरिति पदाध्याहारेण वाक्यं योजितम् । ननु तर्ह्युक्तार्थप्रतिपादकत्वात्तस्य यावन्न वाङ् मनसि सम्पद्यत इत्यादितो न जानातीत्यन्तस्य सर्वस्य ग्रहणाय प्रतीकत्वेन ‘तस्य यावन्न वाक्’ इत्यादिनेति वक्तव्यम् । अन्त्यभागोदाहरणं किमर्थमित्यत आह- तस्येति ।। अन्यत्सर्वमिति ।। तावन्न जानातीत्येतच्छेष-वाक्यम् । ‘तस्य यावन्न वाङ् मनसि सम्पद्यते’ इत्यादिसमग्रमित्यर्थः । अयं चाभिप्रायस्तावन्न जानातीत्यंश-मुदाहृत्य यदा प्राणानित्यादिना समग्रवाक्यार्थानुवादेनावगम्यत इति भावः । ननु स्तेनापहार्यदृष्टान्तस्य भेदा-भावबोधः
विषयत्वात्कथं भेदविषयोऽयमित्यतः परम्परया तदुपपादकत्वमाह- भेदाभेदज्ञानिनोरिति ।। ननु निरानन्दत्वापक्वमनस्त्वादेर्यथायथं जडमुक्तियोग्यादिष्वतिप्रसक्तत्वान्न मूलकारणत्वमित्यत आह- एतेनेति ।।
भावदीपः
इत्यत्रेत्यस्य तद्वशत्वमेवोक्तमित्यन्वयमुपेत्यार्थमाह- अत्रापीति ।। वाक्य इति शेषोक्तिः । जानातीति पदानन्तरं ‘कुतः’ इति हेत्वाकाङ्क्षापूरकपदमध्याहृत्य दर्शयति- प्रतीतेरिति सम्बन्ध इति ।। इत्याद्यैः इत्यवान्तर-वाक्यैस्तद्वशत्वस्य प्रतीतेरित्यर्थः । इति वक्तव्य इति ।। ग्रस्ताग्रस्तकरणत्वयोः पूर्ववाक्याभ्यामेव प्रतीतेरिति भावः । तावता परोक्तार्थे को दोष उक्त इत्यतस्तद्वशत्वमेवेत्येवकारसूचितमाह- अयं भाव इति ।। व्यर्थ-मेवेति ।। सिद्धान्ते त्वन्वयव्यतिरेकाभ्यामीशाधीनत्वज्ञापनायार्थवदिति भावः । असङ्गतिनिरासाय शेषोक्त्या वाक्यं योजयति- इत्यत्र वाक्ये कथित इति ।। भेद एवेत्युक्तिरुपलक्षणमिति भावेन तदर्थमाह- भेदाभेद-ज्ञानिनोरिति ।। ननु भेदाभेदज्ञानिनोरर्थानर्थोक्तिपरत्वं कथम्? तावता कथं जीवेशभेदविषयोऽयं दृष्टान्त इत्यत आह- एतदुक्तमिति ।। अपहारीतीति ।। प्रसिद्धमित्यनुषङ्गः । योजनेति ।। दार्ष्टान्तिकयोजना-प्रकारमित्यर्थः । परकीयापहारस्पष्टीकरणाय व्याचश्व्े- अन्यस्येति ।। स्तेनो न चेत्स क इत्याकाङ्क्षां स्वयं पूरयति- किन्तु मन्द इत्यादिना वाक्येन । जीवानां ब्रह्मैक्यलाभप्रकारं व्यक्तीकर्तुमाह- एकश्चासाविति ।। बहुव्रीहिपक्षे जीवानां ब्रह्मैक्यलाभादिति भावः । निपुणभावो नैपुणं, बहुव्रीहिश्च समास इति भावेनाह- अविद्यमाननैपुणा इति ।। तत्पुरुषत्वे अनिपुणा इति स्यादिति भावः । एकविभक्तीति ।। समानविभक्तिकत्वेत्यर्थः । ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादौ प्रथमाविभक्तिरूपसमानविभक्त्योः प्रातिपदिकद्वये सत्त्वात् । आदिपदेनैकीभवन्ती-त्यादिपरिग्रहः । यथोक्तमिति ।। सप्तमे गीतायां इच्छाद्वेषाभ्यां समुत्थेन जीवेश्वररूपद्वन्द्वविषयमिथ्याज्ञानेन तथा तद्धर्मभूतसर्वज्ञत्वाल्पज्ञत्वस्वातन्त्र्यपारतन्त्र्यसर्वशक्त्यल्पशक्त्यादिरूपद्वन्द्वविषयकमोहेनेत्यर्थः । ‘मां तु वेद न कश्चन’ इति पूर्वेणान्वयः । ‘सर्वभूतानि संमोहं सर्गे यान्ति परन्तप’ इत्युत्तरेण वाऽन्वयः । सर्गे सर्गकाले । सर्गकालमारभ्यैव । संमोहं जीवेश्वरैक्यज्ञानरूपं मिथ्याज्ञानं वा प्रागुक्तद्वन्द्वमोहदार्ढ्यं वा यान्तीति । ननु निरानन्दत्वस्याचेतनेष्वपि सत्त्वात्तेषामप्यद्वैतज्ञानरूपमिथ्याज्ञानप्रसक्तिः, मुक्तियोग्य-जनेष्वप्यपक्वमनस्कत्वस्य सत्त्वान्मिथ्याज्ञानप्रसक्तिरित्यत आह- एतेनेति ।। तादृशस्वरूपयोग्यतैव मूलकारणमित्यर्थः । अनुमानागमेति ।। विरुद्धधर्माश्रयत्वरूपानुमान-द्वासुपर्णेत्यागमाभ्यां विरोधेनेत्यर्थः। ननु योग्यताविरहेऽप्याकाङ्क्षाऽऽसत्तिभ्यामस्तु शाब्दप्रमेत्यत आह- सिंहो देवदत्त इति ।। बाधकत्वेति ।। प्रमित्यहेतुत्वेत्यर्थः । अन्योन्या-श्रयत्वमेव व्यनक्ति- भेदवाक्यादेरिति ।।
वाक्यार्थदीपिका
(श्री.टि.)
इत्यादीत्यादिपदेन भेद एव दृष्टान्ताभिधानादित्यस्य ग्रहणम् । इत्यत्र चेत्यस्यार्थः- अत्रापि वाक्य इति ।। यदाऽस्य प्राणादीनित्येवंरूपवाक्यस्यास्मिन् प्रकरणेऽभावादाह- इत्यादेरिति ।। अर्थस्येत्यर्थः । अत एव प्रतीतेरिति प्रतीतिपदाध्याहारेण वाक्यं योजितमित्यवगन्तव्यम् । इति वक्तव्य इति ।। यदा ददाति तदा (श्री.टि.) जानातीत्यर्थप्रतिपादनाय ‘तस्य यावन्न वाक्’ इत्यत्रेति वक्तव्यम् । इदमुपलक्षणम् । यदाऽस्य प्राणादीन्परो ग्रसतीत्यर्थप्रतिपादनाय ‘अथ यदाऽस्य वाङ् मनसि सम्पद्यते’ इत्यत्र चेति वक्तव्यमित्यर्थः । इति वचनमिति ।। एवं समग्रवाक्योदाहरणे कर्तव्ये एकदेशोदाहरणमित्यर्थः । प्रदर्शनार्थमिति ।। तद्वशत्वमेवोक्तमित्युक्ते केनांशेन तद्वशत्वमुक्तमिति शङ्कापरिहाराय तत्प्रतिपादकप्रदर्शनार्थमित्यर्थः । अन्यत् सर्वमिति ।। एतद्वाक्यशेषभूतं ‘तावन्न जानाति’ इति वाक्यं तथा ‘तस्य यावन्न वाङ् मनसि सम्पद्यते’ इत्यारभ्य ‘तावज्जानाति’ इत्यन्तं समग्रं वाक्यमित्यर्थः । ब्रह्मात्मत्वाभिसन्धितत्त्यागाविति ।। तत्त्यागो ब्रह्मात्म-त्वाभिसन्धित्यागः । अनृतब्रह्मान्यत्वाभिसन्धिरित्यर्थः । ननु स्तेनापहार्यदृष्टान्तस्य साक्षाद्भेदाविषयकत्वाद्भेद एवायं दृष्टान्त इति कथमुक्तमित्यतः परम्परया तदुपपादकोऽयमित्याशयेनाह- मोक्षघातविषय एवेति ।। अन्याभिमतम् अन्याभिमानविषयम् । तदभिमन्ता मदीयमिति तत्र स्वाभिमानकर्ता । पराभिमता(तम)र्थ-मिति ।। यथाऽनृताभिसन्धस्तेनो हन्यते एवमनृतभेदाभिसन्धिमत्त्वेन सत्यब्रह्मात्मत्वाभिसन्धित्यागवत्त्वेन च स्तेनत्वात् सत्सम्पन्नोऽप्यविद्वानावर्तते । आवर्तनमेव चास्य हननस्थानीयमित्येवं स्वकीयब्रह्मात्मत्वाभि-सन्धित्यागवतो भेदज्ञानिनः स्तेनोपमत्वरूपं पराभिमतार्थमित्यर्थः । स्वकीयं परित्यजन् स्तेनो न भवति चेत्कीदृश इत्यत आह- मन्दो वेत्यादि ।। मन्दो मूर्खः । लोकानुसारादिति ।। अन्याभिमते वस्तुनि स्वाभिमतिकर्तुः स्तेनत्वस्य लोके दृष्टत्वादित्यर्थः । नैपुणं कौशलम् । अभिप्रेतार्थम् अन्तर्यामिणो ब्रह्मत्वादिरूपम् । एक-विभक्तित्वादिरूप इति ।। अहं ब्रह्मेति समानविभक्तिकत्वरूप इत्यर्थः । आदिपदेन भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिरूपं सामानाधिकरण्यं ग्राह्यम् । अज्ञानादिकमिति ।। शास्त्रतत्त्वज्ञानाभावः । आदिपदेन मिथ्याज्ञानं ग्राह्यम् । अज्ञानस्य कामादिहेतुकत्वे गीतासंमतिमाह- इच्छाद्वेषेति ।। द्वन्द्वमोहो नाम वैषयिकसुखस्य दुःखादेश्च हेयतया ज्ञानाभावः । यथोक्तं गीताभाष्ये ‘द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्धयोः सतोर्न हि किञ्चित्सुखादिकं हेयतया ज्ञातुं शक्यम्’ इति । आगन्तुकत्वादिति ।। शास्त्रतत्वज्ञानिन इति शेषः । सृष्ट्यनन्तरं शरीरे सति प्राप्तत्वादिति भावः । यथोक्तं गीतायाम्-
‘सर्वभूतानि संमोहं सर्गे यान्ति परन्तप’ इति ।
व्याख्यातं च तद्भाष्ये भगवच्चरणैः ‘सर्गमारभ्य शरीरे हि सतीच्छादयः’ इति । ननु निरानन्दत्वापक्वमनस्त्वा-शिवत्वानां यथायथं जडमुक्तियोग्येष्वतिप्रसक्तत्वेन कथं मूलकारणत्वमित्यत आह- एतेनेति ।। पदत्रयेणे-त्यर्थः । गुणानीत्यनूद्य नपुंसकत्वं छान्दसमित्यभिप्रेत्य व्याचश्व्े- गुणानि सार्वज्ञादिगुणानिति ।। न योज-यन्तीति ।। तथा च ब्रह्मनिष्ठसार्वज्ञादिगुणानां जीवनिष्ठदुःखादिगुणानां च मिथ्यात्वमुक्त्वा चिन्मात्रैक्यमेव वदन्तीति भावः । तम एव परायणमित्यत्रापि तमःशब्दस्य पूर्वप्रकृततमोगुणपरत्वप्रतीतिवारणाय व्याचश्व्े- तमो नरकविशेष इति ।। ‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम्’ इति प्रमाणप्रमितनित्यनरकविशेष इत्यर्थः । तद्बलादिति ।। तद्विरोधादिति भावः । परिमाणेति ।। महत्त्वाणुत्वरूपेत्यर्थः । जीवत्वादीति ।। (श्री.टि.) ईश्वरे तदभावादिति भावः । प्रयोजनेति ।। स्वप्रयोजनेत्यर्थः । ईश्वरः स्वप्रयोजनानपेक्षयैव प्रवर्तते नैवं जीव इति भावः । अन्वयः तादात्म्यरूपः । अयोग्यो बाधितः । ननु किं योग्यतया, आकाङ्क्षासन्निध्योः सद्भावात् तावन्मात्रेणैव वाक्यप्रामाण्योपपत्तेरित्यत आह- सिंहो देवदत्त इत्यादाविति ।। आदिपदेनाग्निना सिञ्चेदित्यादेर्ग्रहणम् । तथा च तत्र आकाङ्क्षासन्निध्योः सद्भावेऽपि योग्यताया अभावेन वाक्याप्रामाण्यदर्शनादिति भावः । अन्यथेति ।। ऐक्यवाक्येषु योग्यताऽङ्गीकार इत्यर्थः । योग्यतासम्पत्त्येति ।। भेदवाक्यविरोधाभावेन योग्यतासम्पत्त्येत्यर्थः । सति तस्मिन्नित्यनन्तरं तद्विरोधेनेति शेषः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
गुणानीति छान्दसो लिङ्गव्यत्यय इति भावेनाह- गुणानिति ।। श्रुतितो द्वा सुपर्णेत्यादेरिति ।। न च द्वा सुपर्णेत्यादिमन्त्रोक्ते स्थित्यदने बुद्धिजीवगते । न तु जीवेशगते । ‘तावेतौ सत्त्वक्षेत्रज्ञौ’ इति पैङ्गिरहस्य-ब्राह्मणेन अस्य मन्त्रस्य सत्त्वक्षेत्रज्ञशब्दार्थत्वेन प्रसिद्धबुद्धिजीवविषयत्वेन व्याख्यातत्वादिति वाच्यम् । ब्राह्मणे सत्त्वशब्दस्य ‘ऊनं न सत्त्वेष्वधिको बबाधे’ इति प्रयोगात्, ‘सत्त्वमस्त्री तु जन्तुषु’ इति नामानुशासनात्, ‘सत्त्वं जीव इति प्रोक्तः’ इति स्मृतेश्च जीवपरत्वात् । क्षेत्रज्ञशब्दस्य च
‘प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।
क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंयुतम् ।।’
इति मोक्षधर्मादिवचनैः ब्रह्मपरत्वात् । अन्यथा द्वा सुपर्णेत्यस्मात् उत्तरम् ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः’ इत्यादिकमयुक्तं स्यात् । न हि बुद्धौ पुरुषशब्दो मुह्यमानत्वं वीतशोकत्वं च युक्तमिति भावः ।
लघुप्रभा
(व्या.टि.)
परपक्षप्रतिक्षेपायोपक्षिपति- नन्विति ।। इतीत्यस्य यदास्येत्यादेरिति व्याख्या । अर्थस्येति शेषः । षष्ठ्यन्तस्यापेक्षितं पूरयति- प्रतीतेरिति ।। ननु गृहीतवाक्ये तेजसः परस्यां लयप्रतीतावपि यदास्येत्यर्थस्या-प्रतीतेरसिद्धिरित्यत आह- तस्य यावदिति ।। इति वक्तव्य इति ।। अनेन तावदत्र गृहीतमनुसंहितमिति नासिद्धिरिति भावः । व्यर्थमेवेति ।। क्रमस्य तावतैवोक्तेरित्यर्थः । मूले तेन ग्रस्तकरण इति सम्बन्धः । ननु छान्दोग्यभाष्ये अष्टमप्रकरणोपसंहारे नियतज्ञानानियतज्ञानयोरिति भेदनिर्देशविरोध इति चेन्न । तत्र, नियतं सर्वदाऽप्येकप्रकारेण स्थितमिति प्राणादिनियामकस्यैव ग्रहणात् । अत एवात्र यदास्येति मूलेन तदेव समस्पष्टयदिति न विरोधः । अत एव गीतातात्पर्यनिर्णये अज्ञज्ञान्यादय इत्युक्तम् । नवमस्थाने प्रत्यवस्थानप्रकारं दर्शयति- ननु चेति ।। मुमुक्षोरिति ।। उत्क्रान्तस्येत्यर्थः । उत्तरयति- सत्येति ।। ‘तस्मादभेदज्ञानेन महान्तं विनाशं प्रदर्श्य भेदज्ञानान्मुक्तिपरमेवैतद्वाक्यम्’ इति तद्भाष्यमनुसन्धाय व्याचश्व्े- भेदाभेदज्ञानिनोरिति ।। अन्याभि-मतमिति ।। अन्याभिमानविषयीभूतमित्यर्थः । ननु किं केन सङ्गतम् । अन्याभिमताभिमन्ताऽपहारीत्युक्तः । अत्र चान्यस्यात्मत्वाभिमन्तोच्यत इत्यतः पूर्वानुगुण्येन व्याचश्व्े- अन्यस्येति ।। यद्यपि मूले अत्रोत्तरत्र च (व्या.टि.) अन्यं सन्तं परमात्मानं स्वयमिति मन्यमानो अपहार्येवेति, न हि स्वकीयं परित्यजन् अपहारी भवतीत्येव वक्तव्यम् । तथा स्वभाववञ्चनात् स्तेन एव । न हि स्वावञ्चकः स्तेनो भवतीत्युपसंहर्तव्यम् । स्तैन्यापहारशब्दार्थभेदस्य व्याख्यातत्वात् उपधेयसङ्करेऽपि उपाधेरसङ्कराच्च । छान्दोग्यभाष्येऽपि ‘अदुःखित्वपूर्ण-ज्ञानानन्दस्वातन्त्र्यादिब्रह्मस्वभावाननुभवं स्वात्मनोऽपि ज्ञात्वैव तद्भावाभिमतेः स्तैन्यम् । परकीयाभिमतेरप-हारः’ इत्यर्थभेदोक्तेश्च । ‘न च स्वकीयस्य ब्रह्मभावस्य अज्ञो अपहर्ता भवति । किन्तु अविद्यमानब्रह्मभावाभि-मतेरेव’ इति तत्र तथैवोपसंहाराच्च । तथापि उभयसमावेशेन उपधेयसाङ्कर्येण व्यामिश्रोक्तावपि तथैव उपसंहारद्वये तात्पर्यम् । अत्र उभयसाङ्कर्यमुक्तं छान्दोग्यभाष्ये-
‘परस्वभावाभिमतेरपहर्ता स्ववञ्चनात् ।
स्तेनश्चाभेदवेत्ता तु ब्रह्मणा हन्यते सदा ।।
इति तत्त्वविवेके’ इति । इत्थमधस्तात् परस्ताच्चेति बोध्यम् ।
विरक्तो वेति ।। बुद्धिपूर्वाबुद्धिपूर्वत्यागेनेति भावः । स्तेनोपमत्वमिति ।। सदृशार्थकोपमाशब्दस्यैव ‘अतुलोपमाभ्याम्’ इति निषेधो न सादृश्याद्यर्थकस्येति भावः । वस्तुतस्तु नात्र स्तेनेन उपमा यस्येति विग्रहः, किन्तु स्तेनः उपमा यस्येतीति । अतो नैव शङ्काऽवकाशः । आत्मनां प्रतिस्वम् एकात्मत्वात् तद्वादिनां कुतोऽनैपुण्यमित्यतो वाद्यभिप्रेतार्थमाह- एकश्चासाविति ।। सर्वात्मनामिति विप्रतिपन्नार्थप्रदर्शनम् । निपुण-पदस्य युवादिषु पाठादण् । ततो नञा बहुव्रीहिरित्याह- अविद्यमानेति ।। ‘नञोऽस्त्यर्थानां वाच्यो वा चोत्तर-पदलोपः’ इति विद्यमानपदलोपः । अविज्ञायेति ।। ल्यबन्तान्नञ्समासः । ननु तत्वाज्ञाने असदुक्तिर्न भवेत् कारणाभावात् । तदुक्तिस्तु कुत इत्याशयेन शङ्कते- कथमिति ।। एकविभक्तिकत्वादि रूपं प्रकारो यस्येति बहुव्रीहिः । तथावादः आपातप्रतीतिः । तथावादपदलब्धाभिप्रेतमाह-अहमित्यादि ।। सर्वेषामिति ।। शास्त्राध्येतॄणामित्यर्थः । द्वन्द्वमोहेनेति ।। द्वन्द्वमोहो विपरीतज्ञानं तेनेत्यर्थः । याथातथ्यमिति ।। तथा तत्प्रकारम् अनतिक्रम्य यथातथं यथार्थमित्यर्थः । यथार्थे अव्ययीभावः । ‘अव्ययीभावश्च’ इति नपुंसकत्वम् । ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ इति ह्रस्वत्वं च यथातथम् । तस्य भावो याथातथ्यं- याथार्थ्यम् । ब्राह्मणादित्वात् ष्यञ् इति भावः । दस्युपदस्वारस्यमाह- तानीति ।। ब्रह्म स्तेनयन्तीति ब्रह्मस्तेनाः । लक्षयतीति ।। ‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसुराः’ इति तल्लक्षणोक्तेरित्यर्थः । गुणानि नियुञ्जत इत्यत्र ‘छन्दस्युभयथा’ इति तिङः आर्धधातुकत्वाण्णिलोपः सार्वधातुकत्वात् श्नमिति, अन्तर्णीतण्यर्थ इति वाऽऽशयेन व्याचश्व्े- न योजयन्तीति ।। तमोगुणप्रचुरेति ।। ‘सृष्टीरुपदधाति’ इतिवत् भूम्ना गौणव्यपदेश इत्युक्तं भवति । नरक-विशेष इति ।। ‘अपि सप्त’ इति सूत्रोक्ततामिस्राख्ये इत्यर्थः । परिमाणेति ।। अणुत्वमहत्त्वादिपरिमाणे-त्यर्थः । जातितः जीवत्वादिजातितः । प्रयोजनेति ।। मोक्षेत्यर्थः । असंहित इति ।। सम्पूर्वाद्दधातेर्निष्ठायां ‘दधातेर्हिः’ इति ह्यादेशे संहितः- सन्धानवान् । स नेत्यसंहितः अयोग्य इत्यर्थमभिप्रेत्य व्याचश्व्े- अयोग्य (व्या.टि.) इति ।। अभिसन्धिमुद्घाटयति- अहमस्मीतिवाक्यानामिति ।। बाधकत्वेति ।। प्रमाजनन-शक्तिप्रतिबन्धकत्वेत्यर्थः । अन्योन्याश्रयत्वं स्फुटयति- भेदवाक्यादेरिति ।।