अदुष्टमिन्द्रियं त्वक्षं ..
पूर्वोक्तप्रमेयदार्ढ्याय सशास्त्रसम्मति प्रमाणस्वरूपनिरूपणम्
मूलम्
- अदुष्टमिन्द्रियं त्वक्षं तर्कोऽदुष्टस्तथाऽनुमा ।
आगमोऽदुश्व्वाक्यं च स्वदृक् चानुभवः स्मृतः ।।
बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा ।
द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः ।।
तत्त्वमञ्जरी
एवं प्रसङ्गप्राप्तं प्रमाणानां बलाबलविवेकं ब्रह्मतर्कवाक्येन तल्लक्षणप्रकटनपूर्वकं प्रकटयति- अदुष्टमिति ।। प्रत्यक्षादीनां लक्षणमुक्त्वा साक्षिप्रमाणलक्षणमाह- स्वदृक् चेति ।। स्वदृक् स्वस्य साक्षिणो ज्ञानमनुभवरूपमित्यर्थः । इदमदुष्टमिति निश्चेतुं कथं दोषज्ञानं स्यादित्यत आह- बलव-दिति ।। द्वयोर्बलवत्त्वनिमित्तयोर्मध्ये कस्य बलीयस्त्वमित्यत आह- तयोरिति ।। स च स्वभाव उपजीव्यत्वं साक्षित्वं च ।
टीका
एवमतीतेन प्रबन्धेनोक्तप्रमेयजातमुपपत्तिसिद्धमपि न्यायशास्त्रसम्मत्या दृढीकर्तुं तद्वाक्यानि पठति- अदुष्टमित्यादि ।। एतेषां वाक्यानामुक्तोपयोगं तत्र तत्रैव दर्शयिष्यामः । प्रमाण-निरूपणार्थमेतानि वाक्यानि प्रवृत्तानि । स्वरूपे ज्ञात एव तदन्यधर्मज्ञानम् । स्वरूपज्ञानं च लक्षणा-धीनम् । तत्र यद्यपि सामान्यलक्षणपूर्वकं विशेषलक्षणाभिधानं प्राप्तं प्रतिपत्तिसौकर्यात्, तथाऽपि सामान्यस्य व्यवहारेष्वनुपयोगाद् विशेषाणामेव तदुपयोगाद् विशेषलक्षणान्येवाऽदावुदितानि ।
येनोपहतमिन्द्रियादिकं ज्ञानमेव न जनयति, विपरीतज्ञानं चोत्पादयति तद्रहितमदुष्टम् । इन्द्रिय-मिति ज्ञानेन्द्रियमेव विवक्षितं, प्रमाणप्रकरणात् । तुशब्दो विशेषार्थः । सेतिकर्तव्यताकं करणं करणविशेषश्चात्र प्रत्यक्षादिकमधिकृतम् । तत्र करणधर्मिणः प्राधान्यात् प्रत्यक्षधर्म्यक्षमेवात्र निरूपितं नत्वनुमानमिव सेतिकर्तव्यताकं प्रत्यक्षम् । तत्तूत्तरत्र वक्ष्याम इति । इन्द्रियस्यादुश्व्त्वं काचादि-राहित्यम् ।
व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनं तर्कः । तथाशब्देनाप्रसङ्गात्मकं समुच्चिनोति । तथाच वक्ष्यमाणविरोधादिदोषरहितमुपपत्तियुक्त्यादिशब्दवाच्यं लिङ्गमनुमा, सा च तर्कसाधनभेदात् द्विविधेत्युक्तं भवति । तर्कः प्रमाणमेव न भवतीति नैयायिकादयः, पृथक्प्रमाणमिति जैनाः, तन्निरासायैवमुक्तम् । अथवा तर्क्यतेऽनुमीयतेऽनेनेति तर्कशब्देन समस्तोपपत्तिरुच्यते । तथाशब्द उपमायाम् इन्द्रियमिवायमप्यदुष्ट इति ।
वाक्यदोषनिरूपणं प्रागेव कृतम् । चशब्दोऽवधारणे, वाक्यमेव नतु चेष्टाऽपीति । तेन चेष्टासङ्ग्रहार्थं ‘समयबलेन सम्यक्परोक्षानुभवसाधनमागमः’ इति भासर्वज्ञोक्तं निरस्तं भवति । आगमशब्दस्य वाक्य एव रूढत्वात् । लोकरूढस्यैव परीक्षकैरन्वाख्येयत्वात् । अन्यथाऽतिप्रसङ्गात् । चेष्टायाश्चा-नुमानेऽन्तर्भावात् ।
आत्मस्वरूपभूतं ज्ञानं स्वदृक् । तदिदानीमनुभव इति विवक्षितम् । चशब्दोऽवधारणे स्वदृगेव नतु निर्दोषत्वमनुवर्तनीयं, सज्जीवानां स्वरूपज्ञानस्य निर्दोषत्वनियमादिति । अत्र स्वरूपनिरूपण-मेव क्रियते प्रक्रिया तु प्रमाणलक्षणादिग्रन्थान्तरानुसारेण द्रष्टव्या । ज्ञानमात्मस्वरूपं न भवती-त्येके । तन्निरासार्थं स्मृत इत्युक्तम् । ‘विज्ञानघन एव’ इत्यादिश्रुतिस्मृतिसिद्धः । प्रत्यक्षानुमाना-गमानुभवविरुद्धमैक्यवाक्यमित्युक्तम् । तत्प्रत्यक्षाद्यज्ञाने दुर्ज्ञानम् । अतस्तत्स्वरूपनिरूपणेन सुज्ञानं कृतम् ।
नन्विन्द्रियादीनामदुष्टत्वं दोषज्ञानाधीनज्ञानम् । दोषास्तु केन ज्ञातव्या इत्यत आह- बलव-दिति ।। चशब्दस्तुशब्दार्थः । यद्यपि केचित् स्वरूपासिद्ध्यादयोऽनुमानादिदोषाः प्रत्यक्षादिसिद्धाः, तथाऽपीन्द्रियदोषास्तु बलवत्प्रमाणविरोधेनैव ज्ञेया नैवान्यथा । यथाऽन्यथा नैव ज्ञेयास्तथोक्तं पुरस्तात् ।
एतेन ‘दोषजन्यत्वं च’ इत्युक्तं दृढीकृतं भवति । ‘न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम्’ इति वचनान्नात्र छन्दोभङ्गः शङ्कनीयः ।
ननु प्रामाण्यातिरिक्तं किं बलवत्त्वमित्यतस्तद्विभज्य दर्शयति- द्विविधमिति ।। तर्हि बहूनां स्वभावबलवतश्च विरोधे कथं निर्णय इत्यत आह- तयोरिति ।। तत्रोपपत्तिं सूचयितुं स्वभावं निरूपयति- उपजीव्येति ।। आदिपदेन निरवकाशत्वादिग्रहणम् । अत एवोपजीव्यनिरवकाश-प्रमाणविरोधं प्रथममुक्त्वा बहुप्रमाणविरोधः पश्चादुक्तः ।
भावबोधः
ननु प्रमाणलक्षणादेः प्रागनुक्तत्वात्तत्प्रतिपादकेनानेन वाक्यसन्दर्भेण कथमुक्तार्थदृढीकरणमित्यत आह- एतेषामिति ।। प्रागुक्तार्थप्रतिपादकत्वेनैव दार्ढ्यहेतुत्वाभावेऽपि क्वचिदुक्तप्रतिपादकत्वेन, क्वचिदुक्त-समर्थनादिना दार्ढ्यहेतुत्वमस्तीति भावः । अत एव सर्वसङ्ग्रहायोपयोगपदप्रयोगः । तदन्यधर्मेति ।। ‘बलवत्प्रमाणतश्च’ इत्यादिना वक्ष्यमाणबलवत्त्वादिधर्मज्ञानमित्यर्थः । व्यवहारेष्विति ।। प्रत्यक्षादेरागम-स्येत्यादिव्यवहारेष्वित्यर्थः । ननु दोषत्वस्यानुगतस्यैकस्याभावाददुष्टत्वं चक्षुरादिषु प्रत्येकमननुगतमिति तद्घटितं कथमक्षादीनां लक्षणमित्यत आह- येनोपहतमिति ।। अनेन प्रमाप्रतिबन्धकत्वं दोषत्वम्, प्रमाप्रतिबन्धकत्वं ज्ञानप्रतिबन्धकत्वेन वा संशयविपर्ययजनकत्वेन वेत्युक्तं भवति । ‘विशेषार्थः’ इत्युक्तमेवोपपादयति- सेतिकर्तव्यताकमित्यादिना ।। करणधर्मिण इति ।। करणभूतसमुदाये यद्धर्मिभूतमिन्द्रियं तस्येत्यर्थः । प्रत्यक्षधर्मीत्येतदप्येवमेव व्याख्येयम् । उत्तरत्र इति ।। ‘विषयान् प्रति’ इत्यत्रेत्यर्थः । तत्र हि, अत्र लक्षितस्याक्षस्य विषयान् प्रति स्थितत्वेन प्रत्यक्षत्वं विधीयते । अत्र विशिष्टाभिप्राये तत्र पुनर्विशिष्टस्यार्थसन्निकृष्टत्वेन प्रत्यक्षत्वविधानायोगादिति भावः । करणधर्मिण एवात्र लक्ष्यत्वान्नार्थदोषरहितत्वं विवक्षितमित्यभिप्रेत्याऽह- इन्द्रियस्यादुष्टत्वमिति ।। नन्वेवं सति तर्क-साधनानुगतैकलक्षणलाभः कथमित्यत आह- तथा चेति ।। अनेन ‘निर्दोषोपपत्तिरनुमा’,‘अनुमा युक्तिरेवोक्ता’,‘लिङ्गं हेतुः’ इति प्रमाणलक्षणानुव्याख्यानमिथ्यात्वानुमा-खण्डनानुसारेण विशेष्यपदाध्याहारेण अदुष्टपदेनैवोक्तलिङ्गं हेतुरित्युभयानुगतं प्रमाणलक्षणम्, तर्कतथाशब्दाभ्यां विभागश्चोच्यत इत्युक्तं भवति । एवमुक्तमिति ।। स्वशब्देन तर्कं तथाशब्देन साधनमुपादाय विभागकथनपूर्वकं लक्षणमुक्तमित्यर्थः । तथा च तर्कस्यानुमानान्तर्भावोक्त्या मतद्वयमपि निराकृतं भवतीति भावः । आत्म-स्वरूपभूतमिति ।। अनेन स्वा च सा दृक् चेति विग्रहः प्रदर्शितो भवति । ननु स्वरूपभूतज्ञानत्वं वृत्ति-रूपानुभवेऽव्याप्तमित्यत आह- तदिदानीमिति ।। ननु निर्दोषत्वाननुवृत्तावयथार्थसाक्षिणि स्वदृक्त्व-मतिव्याप्तमित्यत आह- सज्जीवानामिति ।। तथा चोत्तमसम्बन्धिस्वरूपज्ञानत्वं साक्षिप्रमाणस्य लक्षणमित्युक्तं भवति । नन्वनुभवादेर्नित्यत्व-विषयनियमादिकं कुतो नोक्तमित्यत आह- अत्रेति ।। चशब्दस्तुशब्दार्थ इत्यस्य फलितमाह- यद्यपीति ।। कथं दोषज्ञानस्य बलवत्प्रमाणजन्यत्वमित्यतो बलवत्प्रमाणत इत्यनन्तरं विरोधेनेति पदाध्याहारमभिप्रेत्याऽह- बलवत्प्रमाणविरोधेनैवेति ।। नैवान्यथेति ।। अनेन ‘न च’ इति चशब्द एवकारार्थ इत्युक्तं भवति । निरवकाशत्वादीति ।। अनेन मूले उपजीव्येति भावप्रधानो निर्देश इति सूचितं भवति । आदिपदेन श्रुतित्वोपपत्तित्वादिग्रहणम् । अत एवेति ।। तथा च ‘द्विविधं बलवत्त्वम्’ इति श्लोकस्यैक्यागमस्य क्रमेणोपजीव्यादिप्रमाणविरोधवचने उपपादकत्वेनोपयोग इति भावः ।
भावदीपः
उक्तप्रमेयजातमिति ।। तच्चाग्रे तत्रतत्र व्यक्तीकरिष्यति । स्मृत इत्यन्तस्योपयोगमाह- प्रमा-णेति ।। तन्निरूपणमपि किमर्थमित्यत आह- स्वरूपेति ।। प्राबल्यदौर्बल्यविरोधादि अन्यधर्मज्ञानम् इत्यर्थः। आदावुदितानीति ।। सामान्यलक्षणमपि ‘याथार्थ्यमेव प्रामाण्यम्’ इति पश्चाद्वक्ष्यत इत्यादावित्युक्तम् । दोषस्वरूपं वदन्नेवादुश्व्पदं व्याचश्व्े- येनेति ।। विशेषार्थ इत्युक्तं व्यनक्ति- सेतिकर्तव्यताकमिति ।। स्वस्वविषयसन्निकृश्व्मित्यर्थः । कुत एवम्? करणमात्रमेवात्र विवक्षितमस्त्वित्यत आह- करणविशेषश्चेति ।। अधिकृतमाश्रितमित्यर्थः । तर्ह्यक्षशब्देन सेतिकर्तव्यताकेन्द्रियलाभात् ‘त्वक्षम्’ इति तुशब्देन सेतिकर्तव्यता-कत्वोक्तौ पुनरुक्तिरित्यत आह- तत्रेति ।। करणविशेषस्याधिकृतत्वे सतीति वा तुशब्देन सेतिकर्तव्यताकत्वे उक्ते सतीति वाऽर्थः । सेतिकर्तव्यताकं चेदक्षं कथं निर्देश्यमित्यत आह- प्रत्यक्षमिति ।। अदुष्टमिन्द्रियं प्रत्यक्षमिति निर्देष्टव्यं न तदत्र निर्दिश्व्मित्यर्थः । अतस्तादृशार्थलाभाय त्वक्षमिति तुशब्दोऽक्षपदान्वितत्वेनोक्त इत्यर्थः । अनुमानमिवेत्युक्त्या तत्र तथा विवक्षितमिति भावः । तथाचादुश्व्मिन्द्रियं त्वक्षं सेतिकर्तव्यताकं सत् प्रत्यक्षप्रमाणमुच्यत इति योजना । तर्हि स्वस्वविषयसन्निकृष्टमक्षं प्रत्यक्षमिति कुतो नोक्तमित्यत आह- तत्तूत्तर-त्रेति ।। ‘विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षम्’ इत्यत्रेति भावः । अप्रसङ्गात्मकं समुच्चिनोतीति ।। तथात्वे कथमर्थ इत्यतः अदुष्टस्तर्कः, अदुश्व्ं व्याप्त्याद्युपेतं लिङ्गञ्चानुमेति योजनेति भावेनार्थमाह- वक्ष्य-माणेति ।। ‘विरोधश्च तथाऽधिक्यम्’ इत्यादिना वक्ष्यमाणप्रमाणविरोधादिदोषेत्यर्थः । ‘निर्दोषोपपत्तिरनुमा’, ‘अनुमा युक्तिरेवोक्ता’, ‘लिङ्गं हेतुः’ इत्यादिग्रन्थान्तरोक्त्यविरोधायोक्तम्- उपपत्तीत्यादि । समस्तोपपत्ति-रिति ।। साधनदूषणात्मिका समस्तेति वा व्याप्त्यादिसपरिकरा वेत्यर्थः । तर्कस्यापि विपर्यये पर्यवसानमुखेन क्वचित्स्वतोऽनुमितिजनकत्वादनुमीयतेऽनेनेति युज्यत इति भावः । प्रागेव कृतमिति ।। ‘अज्ञानविप्रलम्भयोः प्राप्तेः’ इत्येतद्व्याख्यानावसर इति भावः । समयबलेनेति ।। सङ्केतग्रहबलेनेत्यर्थः । अनुमानव्यावृत्त्यर्थमेतद्विशेष-णम् । स्वयं हेतुमाह- आगमशब्दस्येति ।। अन्वाख्येयत्वात् लक्षणादिना व्युत्पाद्यत्वादित्यर्थः । अतिप्रसङ्गा-दिति ।। प्रमाणतुल्यादावपि प्रयोगात्तत्सङ्ग्रहार्थमपि लक्षणोक्तिप्रसङ्गादित्यर्थः । चेष्टाऽपि प्रमापिकाऽस्तीत्यत आह- चेष्टायाश्चेति ।। प्रक्रिया त्विति ।। तदवान्तरभेदतल्लक्षणतद्व्यावर्त्यान्तर्भावादिरूपा प्रक्रियेत्यर्थः । इत्यादिश्रुतिस्मृतीति ।। ‘पुंस्त्वादिवत्त्वस्य’ इति सूत्रभाष्योक्तश्रुत्यादिरादिपदार्थः । इत्युक्तमिति ।। ‘अनुमानसिद्धत्वे च’ इत्यादिना ‘शुक्तिरजतादौ’ इत्यन्तेन ग्रन्थेनेति योज्यम् । विशेषार्थ इत्युक्तं व्यनक्ति- यद्यपीत्यादिना ।। पुरस्तादिति ।। न ‘तावत्प्रत्यक्षेण’ इत्यादिनोक्तमिति भावः । नात्रेति ।। ‘बलवत्प्रमाण-तश्चैव’ इत्यत्र नवाक्षरत्वेऽपि अश्वक्षरत्वरूपछन्दोभङ्गो नेत्यर्थः । निरवकाशत्वादीत्यादिपदेन जात्या प्राबल्यवतो ग्रहः । अत एवेति ।। स्वभावस्य बलवत्त्वादेव । बहुप्रमाणसंवादश्चेत्यनेन पश्चादुक्त इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
न्यायशास्त्रसम्मत्येति ।। ब्रह्मतर्कसम्मत्येत्यर्थः । ‘ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम्’ इति वचनात्सिद्धान्ते ब्रह्मतर्कस्यैव न्यायशास्त्रत्वप्रसिद्धिरिति भावः । ननु प्रमाणलक्षणादेः प्रागनुक्तत्वात्तत्प्रति-पादकेनानेन वाक्यसन्दर्भेण कथमुक्तार्थदृढीकरणमित्यत आह- एतेषामिति ।। प्रागुक्तार्थप्रतिपादकेनैव दार्ढ्य-हेतुत्वाभावेऽपि क्वचिदुक्तप्रतिपादकत्वेन क्वचिदुक्तसमर्थनादिना दार्ढ्यहेतुत्वमस्तीति भावः । अत एव सर्व-सङ्ग्रहायोपयोगपदप्रयोग इति ज्ञातव्यम् । प्रवृत्तानि ब्रह्मतर्कग्रन्थ इति शेषः । स्वरूपे प्रमाणस्वरूपे । तदन्य-धर्मेति ।। ‘बलवत्प्रमाणतश्चैव’ इत्यादिना वक्ष्यमाणबलवत्त्वादिधर्मज्ञानमित्यर्थः । स्वरूपज्ञानं चेति ।। इतरव्यावृत्तत्वेन स्वरूपज्ञानमित्यर्थः । व्यवहारेष्विति ।। प्रत्यक्षादेरागमस्येत्यादिविशेषव्यवहारेष्वित्यर्थः । अनुपयोगादिति ।। तस्यातिप्रसक्तत्वात् । न हि पशुत्वं गौरिति व्यवहारे निमित्तमिति भावः । तेन प्रमाणमिति प्रमाणसामान्यव्यवहारे सामान्यलक्षणस्याप्युपयुक्तत्वात् कथमेतदिति शङ्काऽनवकाश इति ध्येयम् । विशेषाणां विशेषलक्षणानाम् । तदुपयोगात् विशेषव्यवहारेषूपयोगात् । अदुश्व्त्वस्य दोषज्ञानाधीनत्वात्तं लक्षयति- येने-ति ।। उत्पादयतीत्यनन्तरं स दोष इति शेषः । अनेन प्रमाप्रतिबन्धकत्वं दोषत्वम् । प्रमाप्रतिबन्धकत्वं च द्वेधा । सर्वथा ज्ञानाजनकत्वेन तज्जनकत्वेऽपि संशयविपर्ययजनकत्वेन चेत्युक्तं भवति । ज्ञानेन्द्रियमेवेति ।। न कर्मेन्द्रियमित्यर्थः । कुत इत्यत आह- प्रमाणप्रकरणादिति ।। कर्मेन्द्रियस्य कर्मकरणत्वेन प्रमाकरणत्वा-भावादिति भावः । तमेव विशेषं दर्शयितुं तदुपयुक्तां काञ्चन वस्तुस्थितिमाह- सेतिकर्तव्यताकमिति ।। (श्री.टि.) कारकमिति शेषः । सन्निकर्षादिरूपावान्तरव्यापाराख्येतिकर्तव्यतासहितं यत्कारकं तत्करणमि-त्युच्यत इत्यर्थः । यद्यपि क्रियाऽयोगव्यवच्छिन्नमेव कारकं करणं नियमेन क्रियाजनकमिति यावत् । ‘क्रियां कुर्वद्धि कारकम्’ इति वचनात् । न तु सेतिकर्तव्यताकम् । तथापीतिकर्तव्यतारहितस्य क्रियाऽयोगव्यवच्छिन्न-त्वाभावादेवमुक्तमिति ज्ञातव्यम् । अत्र ब्रह्मतर्कवाक्ये । अधिकृतं लक्ष्यतयेति शेषः । एवं वस्तुस्थितिमुक्त्वा ननु तर्हि प्रत्यक्षनिरूपणमकृत्वाऽक्षमेवात्र कस्मान्निरूपितमित्याशङ्कापरिहाराय तुशब्दार्थभूतं विशेषं दर्शयति- तत्रेति ।। करणधर्मिण इत्यत्र करणे धर्मिण इति योज्यम् । इतिकर्तव्यतासहितकारकरूपकरणशब्दार्थे यद्धर्मिभूतं कारकं तस्येतिकर्तव्यतापेक्षया प्राधान्यादित्यर्थः । प्रत्यक्षधर्म्यक्षमेवेति ।। करणविशेषभूतविषयसन्निकृष्टाक्ष-रूपप्रत्यक्षशब्दार्थेऽपि यद्धर्मिभूतं प्रधानम् अक्षं तदेव सन्निकर्षरूपेतिकर्तव्यतापरित्यागेन निरूपितमित्यर्थः । प्रत्यक्षधर्म्यक्षमेवेत्यत्र स्ववाक्येऽवधारणव्यावर्त्यमाह- न त्विति ।। प्रत्यक्षं निरूपितमिति वर्तते । यथा हि ‘तर्कोऽदुष्टस्तथाऽनुमा’ इत्यत्र सेतिकर्तव्यताककरणवाचिनाऽनुमापदेन सेतिकर्तव्यताकमेवानुमानं निरूपितम्; एवं सेतिकर्तव्यताकं प्रत्यक्षं न निरूपितमित्यर्थः । तर्हि यदधिकृतं प्रत्यक्षं तन्न निरूपितमेवेति न्यूनतेत्यत आह- तत्त्विति ।। यदधिकृतं सन्निकर्षरूपेतिकर्तव्यतासहितं प्रत्यक्षं तत्त्वित्यर्थः । उत्तरत्रेति ।। ‘विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति कीर्तितम्’ इत्युत्तरत्रेत्यर्थः । व्याप्याङ्गीकार इति ।। व्यतिरेकव्याप्तौ साध्याभावस्य व्याप्यत्वादग्निर्मास्तु इत्यग्न्यभावरूपव्याप्याङ्गीकार इत्यर्थः । व्यापकप्रसञ्जनं धूमाभावापादनम् । अप्रसङ्गात्मकं साधनानुमानम् । नन्वेवं सति दूषणानुमानरूपतर्कसाधनानुमानोभयानुगतानुमानलक्षणालाभ इत्यत आह- तथा चेति ।। अत्रादुश्व् इत्यनन्तरं लिङ्गमिति विशेष्याध्याहारः । अदुश्व् इति पुल्लिङ्गस्य व्यत्ययः । एवं सत्यदुश्व्ं लिङ्गमनुमेत्येवमुभयानुगतलक्षणलाभ इत्यभिप्रेत्योक्तम् । वक्ष्यमाणविरोधादिदोषरहितं लिङ्गमनुमेति ।। ‘निर्दोषोपपत्तिरनुमा’,‘अनुमा युक्तिरेवोक्ता’,‘लिङ्गं हेतुः’ इति प्रमाणलक्षणानुव्याख्यानमिथ्यात्वानुमान-खण्डानानुसारेणोपपत्तियुक्त्यादिशब्दवाच्यं लिङ्गमित्युक्तम् । तर्कतथाशब्दाभ्यां विभाग उक्त इत्यभिप्रेत्याऽह- सा चेति ।। एवमुक्तमिति ।। स्वशब्देन कण्ठरवेण तर्को गृहीत इत्यर्थः । प्रमाणत्वमङ्गीकृत्य तस्यानु-मानेऽन्तर्भावकथनेन मतद्वयस्यापि निरासादिति भावः । समस्तोपपत्तिरिति ।। साधनानुमानदूषणानुमानरूपे-त्यर्थः । तथा चात्रानुमेत्यनेनैव सामान्यलक्षणं तर्क इत्यनेनैव विभागश्चोक्त इति ज्ञातव्यम् । अयमपीति ।। साधनानुमानदूषणानुमानरूपस्तर्क इत्यर्थः ।
वाक्यदोषेति ।। अबोधकत्वविपरीतबोधकत्वादिरूपेत्यर्थः । तेनेति ।। चेश्वया आगमत्वव्यावर्तनेने-त्यर्थः । समयबलेनेति ।। सङ्केतबलेनेत्यर्थः । चेश्वया अप्येतादृशत्वेन तन्मते आगमान्तर्भावो द्रश्व्व्यः । कथं निरस्तमित्यतस्तदुपपादयति- आगमशब्दस्येति ।। वाक्य एवेति ।। न तु चेष्टायामित्यर्थः । ननु वाक्ये आगमशब्दस्य रूढत्वेऽपि चेश्वयां प्रयोगः कुतो न कर्तव्य इत्यत आह- लोकरूढस्यैवेति ।। अन्वाख्येयत्वात् प्रयोक्तव्यत्वात् व्यवहर्तव्यत्वादिति यावत् । लोकरूढस्यैव परीक्षकैरन्वाख्येयत्वाभावेऽतिप्रसङ्गमाह- अन्य-(श्री.टि.) थेति ।। प्रत्यक्षशब्दस्याप्यागमे प्रयोगः स्यादित्यतिप्रसङ्गः स्यादित्यर्थः । ननु चेष्टाया आगमानन्तर्भावे प्रमाणान्तरत्वं स्यादित्यत आह- चेष्टायाश्चेति ।। नन्वत्र सुधाविरोधः शङ्क्यः । तत्र लिप्यक्षरचेष्टयोर्वर्णस्मरण-हेतुत्वेन मानसप्रत्यक्षेऽन्तर्भावकथनात् । यथोक्तं सुधायां नविलक्षणत्वाधिकरणे ‘पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्टव्या’ इति । न चात्र पुरुषलिपिरेवोक्ता नाक्षरचेष्टेति वाच्यम् । भक्तिपादीयसुधायाम् ‘शाकुनलिप्यक्षरचेष्टानामन्तर्भावस्य नविलक्षणत्वाधिकरणे सूचितत्वात्’ इत्युक्तत्वात् । न हि नविलक्षणत्वाधि-करणस्थमुक्तवाक्यं विनाऽक्षरचेष्टान्तर्भावसूचकं तत्रत्यवाक्यान्तरमस्तीति चेत् । उच्यते । भक्तिपादीय-सुधायामक्षरचेष्टाशब्देन अक्षरत्वेन सङ्केतितचेष्टायाः करपल्लवसंज्ञाया विवक्षितत्वात् । अत्र चेष्टाशब्देनार्थ-विशेषबोधकभ्रूविक्षेपादिरूपाया एव चेष्टाया अभिप्रेतत्वेनाक्षरचेष्टान्तर्भावानुक्त्या सुधाविरोधाभावात् । अत एवात्र चेष्ठेत्येव सामान्येनोक्तं नाक्षरचेष्टेति । अत्रत्यचेष्टाशब्दस्याक्षरचेष्टाभिप्रायकत्वे तु चेष्टकबुद्धिस्थशब्दानु-मापकत्वेन वा तदवबुद्धार्थानुमापकत्वेन वाऽनुमानेऽन्तर्भावादिति पररीत्या व्याख्येयमिति सम्प्रदायविदः । आत्मस्वरूपभूतमिति ।। अनेन स्वा च सा दृक् चेति स्वदृगिति विग्रहः प्रदर्शितो भवति । ननु वृत्तिरूपज्ञान-स्याप्यनुभवत्वेनानुभवलक्षणभूतात्मस्वरूपज्ञानत्वरूपस्वदृक्त्वलक्षणस्य तत्राव्याप्तिरित्यत आह- तदिदानी-मिति ।। आत्मस्वरूपभूतं यत्साक्षिरूपं ज्ञानं तदेवेदानीमनुभव इति विवक्षितं न वृत्तिरूपं ज्ञानम् । तथा च साक्षिरूपानुभवस्यैव लक्ष्यत्वेन अत्राभिप्रेतत्वान्न वृत्तिरूपज्ञाने लक्षणाभावो दोषायेति भावः । ननु निर्दोषत्वा-ननुवृत्तावयथार्थभूते साक्षिण्यात्मस्वरूपभूतज्ञानत्वरूपस्वदृक्त्वस्यातिव्याप्तिरित्यत आह - सज्जीवाना-मिति ।। तथा चोत्तमजीवसम्बन्धिस्वरूपज्ञानत्वं साक्षिप्रत्यक्षस्य लक्षणमित्युक्तं भवति । ननु साक्ष्यनुभवस्य नित्यत्वं विषयनियमादिकं च कुतो नोक्तमित्यत आह- अत्रेति ।। प्रक्रिया त्विति ।। नित्यत्वविषयनियमादि-प्रक्रिया त्वित्यर्थः । आदिपदेन ‘इच्छाद्वेषस्सुखं दुःखं भयाभयकृपादयः । साक्षिसिद्धाः’ इत्यनुव्याख्यानादि-ग्रहणम् ।
ननु प्रत्यक्षादिस्वरूपनिरूपणस्य कः प्रकृतोपयोग इत्यतस्तं दर्शयति- प्रत्यक्षेति ।। ‘एतेषां वाक्याना-मुक्तोपयोगं तत्र तत्रैव दर्शयिष्यामः’ इत्युक्तं प्रदर्शितं भवतीति द्रश्व्व्यम् । दोषज्ञानाधीनज्ञानमिति ।। अभाव-ज्ञानस्य प्रतियोगिज्ञानाधीनत्वादिति भावः । प्रत्यक्षादिसिद्धा इति ।। शब्दे चाक्षुषत्वाभावस्य प्रत्यक्षसिद्धत्वादिति भावः । इन्द्रियदोषास्त्विति ।। इन्द्रियाणामतीन्द्रियत्वेन तद्दोषाणामप्यतीन्द्रियत्वादिति भावः । बलवत्प्रमाणत इत्यनन्तरं विरोधपदमध्याहार्यमित्याशयेनोक्तम् । बलवत्प्रमाणविरोधेनैवेति ।। पुरस्तादिति ।। ‘दोषजन्यत्वं च बलवत्प्रमाणविरोधादेव ज्ञायते’ इति वाक्यव्याख्यानावसरे ‘न तावत्प्रत्यक्षेण’ इत्यादिना ग्रन्थेनास्माभि-रुक्तमित्यर्थः । अस्य प्रकृतोपयोगं दर्शयति- एतेनेति ।। बलवत्प्रमाणविरोधस्य दोषज्ञाने कारणत्वकथनेने-त्यर्थः । नन्वनुष्टुप्छन्दःपादस्याष्टाक्षरत्वात् कथं नवाक्षरत्वमित्यत आह- न वा एकेनेति ।। एकेनाक्षरेण न्यूनेनाधिक्येन वेत्यर्थः । वियन्ति नश्यन्ति । द्वाभ्यामक्षराभ्यां न्यूनाभ्यामधिकाभ्यां वा न वियन्तीत्यर्थः । (श्री.टि.) अस्यापि ब्रह्मतर्कस्य छन्दस्तुल्यत्वादिति भावः । तत्रेति ।। स्वभावस्य बलवत्त्व इत्यर्थः । सूचयितु-मिति ।। ‘उपजीव्यादिकश्च सः’ इत्युक्त्या उपजीव्यविरोधेनैवोपजीवकस्याप्रामाण्यं वाच्यं नान्यथा । ‘विषयाभावे स्वस्यैवाप्रामाण्यप्राप्तेः’ इत्युक्तोपपत्तिस्सूचितेति ज्ञातव्यम् । निरवकाशत्वादीत्युक्त्योपजीव्येति भावप्रधानो निर्देश इति सूचयति । निरवकाशत्वादीत्यत्र आदिपदेन साक्षिनिष्ठविषयाव्यभिचरितत्वनियमस्य ग्रहणम् । अत एवाऽगमप्रामाण्यानुभवस्याप्यप्रामाण्यप्राप्तेरित्यत्र उक्तम्- ‘अनेनाव्यभिचरितत्वनियमः साक्ष्यनुभवस्य प्राबल्ये हेतुरित्युक्तं भवति’ इति । भावबोधे तु श्रुतित्वोपपत्त्यादिग्रहणमिति व्याख्यातम् । अत एवेति ।। स्वभावस्य बलवत्त्वादेवेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु प्रमाणलक्षणादेः प्रागनुक्तत्वात् कथं तत्प्रतिपादकेनानेनोक्तार्थदृढीकरणमित्यतः, प्रागुक्तार्थ-प्रतिपादकत्वेनैव दार्ढ्यहेतुत्वाभावेऽपि तदुपपत्तेर्नानुपपत्तिरिति भावेनाऽह- एतेषामिति ।। तत्रतत्रैवेति ।। तत्तद्वाक्यव्याख्यानावसर एव ‘इति पूर्वोक्तमनेनोपपादितं भवति’ इत्युपयोगं वक्ष्याम इत्यर्थः । प्रतिपत्ति-सौकर्यादिति ।। सामान्यलक्षणेनैक्यमापन्नस्यैव वस्तुनो विभज्योद्देश्व्व्यत्वेन सामान्यलक्षणाभिधानस्य विशेषोद्देशद्वारा विशेषलक्षणाभिधानार्थत्वेन तेन विना तस्यानवसरग्रस्तत्वादिति भावः । व्यवहारेष्वनुपयोगा-दिति ।। किमत्र प्रमाणमिति प्रश्ने प्रत्यक्षादिविशेषाणामिव प्रमाणसामान्यस्य ‘प्रमाणं प्रमाणम्’ इत्येवमनुपयोगा-दिति भावः । येनोपहतमिति ।। नन्वेवं सति ज्ञातज्ञापकत्वादीनां दोषत्वं न स्यात् । तेषां ज्ञानप्रतिबन्धकता-यास्तद्युक्तकरणस्य विपरीतज्ञानजनकतायाश्चासत्त्वात् । न चेन्द्रियदोषमात्रस्यैवैतल्लक्षणमिति न शब्ददोषेऽ-व्याप्तिरिति वाच्यम् । तथा सत्युत्तरत्रानुमानादिदोषस्याप्यनिरुक्तिप्रसङ्गात् । इन्द्रियादिकमित्यादिपदानर्थक्य-प्रसङ्गाच्च । न चेन्द्रियविषयसङ्ग्राहकत्वान्न तदिति वाच्यम् । विषयस्य ज्ञानाजनकत्वेनाऽदिपदसङ्ग्राह्यत्वायोगादिति चेन्न । ‘ज्ञानं न जनयति’ इत्यत्र ज्ञानपदस्य सप्रयोजनज्ञानपरत्वेन ज्ञातज्ञापकत्वादीनां च सप्रयोजनज्ञान-प्रतिबन्धकत्वेन तत्राव्याप्तेरनवकाशात् । ज्ञातज्ञापकत्वादिभिन्नदोषाणामेवेदं लक्षणमित्यप्याहुः । न चैतल्लक्षणद्वयं परस्पराव्याप्तत्वादयुक्तमिति वाच्यम् । प्रमाप्रतिबन्धकत्वस्यैकस्यैव तल्लक्षणत्वेनात्राभिप्रेततया तदनवका-शात् । तस्य च क्वचिज्ज्ञानप्रतिबन्धकत्वेन क्वचिच्च संशयविपर्ययजनकत्वेनाविशिष्टत्वात् । कुतोऽत्रेन्द्रियशब्दस्य ज्ञानेन्द्रियपरत्वमित्यत उक्तम्- प्रकरणादिति ।। प्रमाणप्रकरणादित्यर्थः । विशेषमेवाऽह- सेतिकर्तव्यताक-मिति ।। अनुमानमिवेति व्यतिरेकदृष्टान्तः । वक्ष्यामः, ‘विषयान् प्रति स्थितम्’ इत्यादिनेति शेषः । ‘वक्ष्याम इति’ इत्यत्रत्यस्येतिशब्दस्य ‘इति विशेषार्थः’ इति पूर्वेण सम्बन्धः ।
तर्कलक्षणमाह- व्याप्याङ्गीकार इति ।। अत्र धूलीपटले धूमभ्रमानन्तरं वह्न्यनुमितिस्थले यद्यग्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति तर्केऽव्याप्तिप्रसङ्गाद्व्याप्यारोप इत्यारोपगर्भत्वं परित्यज्याऽरोपपदस्थानेऽङ्गीकारपदं प्रयुक्तम् । जलह्रदे निर्धूमत्वापादनव्यावृत्त्यर्थमनिश्व्ेति । शब्दो यद्यनित्यः स्यात्तर्हि सावयवः स्यादित्याद्यनिश्व्-प्रसञ्जनव्युदासाय व्यापकेति । न चात्र प्रसञ्जनं न तर्कः, तस्यैव निरुच्यमानतयाऽऽत्माश्रयप्रसङ्गाद् व्यर्थ-(पां.टि.)विशेषणत्वापाताच्च । नाप्यारोपमात्रं भ्रमानुमितावतिव्याप्त्यापातादिति वाच्यम् । प्रसञ्जनपदस्याऽ-पादनपरत्वात् । अत एवोक्तं सुधायाम् ‘प्रसङ्ग आपादनम्’ इति । न चैवमप्युक्तदोषः । तत्रैव ‘आपादनमङ्गी-कर्तव्यतया ज्ञापनम्’ इत्युक्तत्वेन तदप्रसङ्गात् । ननु चात्र व्याप्त्यादिपदव्यावर्त्यमस्ति न वा । अस्ति चेत् ‘कस्यचिदर्थस्याङ्गीकारेऽर्थान्तरस्याऽपादनम्’ इति पद्धत्युक्तलक्षणेऽपि तत्कर्तव्यं स्यात् । यदि च नास्ति तर्ह्यत्रापि तन्न कर्तव्यमिति चेन्मैवम् । भावानवबोधात् । सेतिकर्तव्यताकं हि करणम् । तत्र तर्कः करणधर्मी, तस्य वक्ष्यमाणानि व्याप्त्यादीन्यङ्गानि । तत्र करणधर्मिणः प्राधान्यविवक्षयाऽङ्गेभ्यः पृथक्कृत्य पद्धतौ तर्कतयोक्तिः । अत्र तु सेतिकर्तव्यताकस्यैवेति न कश्चिद्दोषः । न चैवमत्रोक्तलक्षणाभावेऽपि पद्धत्युक्तलक्षणसत्त्वेनाव्यापकानिश्व्-प्रसङ्गानामपि तर्कत्वं स्यादिति वाच्यम् । इश्वपत्तेः । तर्हि ततोऽप्यनुमितिः स्यादिति चेन्न । अङ्गाद्विनाकृतस्य करणस्य क्रियां प्रत्यजननकतयाऽङ्गसाचिव्याभावेन तदप्रसङ्गादित्यवधेयम् । तर्क इत्यादि ।। अयमाशयः । सोऽयं लिङ्गज्ञानादिवन्न प्रमारूपं प्रमाणम् । तस्याऽहार्यरूपत्वात् । न तत्करणतयाऽपि प्रमाणम् । प्रमाफलत्वा-भावात् । नापीन्द्रियादिवदप्रमारूपम् । आरोपितविषयत्वात् । विपर्यये प्रामाण्योपगतौ तु तेनास्य नियामकः सम्बन्धो नास्ति । असम्बद्धस्य जनकत्वे चातिप्रसङ्गः । शास्त्रे तन्निरूपणं च प्रमाणानुग्राहकत्वादिति ।
ननु प्रत्यक्षागमयोरिवानुमानलक्षणमात्रस्यैव वक्तव्यत्वात्तत्रानुक्तविभागस्यात्रोक्तिर्न श्लिष्टेत्यत आह- अथ वेति ।। प्रागेवेति ।। ‘अपौरुषेयत्वाद्वेदस्य’ इत्येतद्वाक्यव्याख्यानावसर इत्यर्थः । किमवधारणस्य प्रयोजन-मित्यतश्चेश्वया आगमत्वव्यावृत्तिरेवेत्यभिप्रेत्य तां दर्शयति- न त्विति ।। किं चेष्टाया आगमत्वाभावोक्तेरपि प्रयोजनमित्यतः, परोक्तागमलक्षणनिरासद्वाराऽस्योक्तलक्षणदृढीकरणमेवेत्यभिप्रेत्य तदनुवादपूर्वकं तन्निरासं दर्शयति- तेनेति ।। समयबलेनेति । इदं चानुमानं व्यावर्तयितुमुक्तम् । शब्दाभासं व्यावर्तयति- सम्यगिति ।। नामविशिष्टदेवदत्तादिप्रत्यक्षम्, उपदेशसहकृतचक्षुषा जायमानं रत्नतत्त्वप्रत्यक्षं व्यावर्तयितुम्- परोक्षेति ।। पदार्थस्मरणं व्यावर्तयति- अनुभवेति ।। कर्तृकर्मणी व्यावर्तयति- साधनमिति ।। अर्थविशेषे चेष्टाविशेषस्य सङ्केते गृहीत एव चेष्टाविशेषादर्थविशेषप्रतिपत्त्या चेष्टायाः सङ्केतज्ञानपुरःसरं प्रवृत्तप्रमाणत्वनिश्चयात् तादृश-प्रमाणस्यैव च शब्दत्वाद्युक्तं चेष्टायाः शब्दत्वमिति भावः । सङ्ग्राह्यस्यैव सङ्ग्रहो युक्तो न त्वसङ्ग्राह्यस्यापि । नचेह चेष्टाया आगमतया सङ्ग्राह्यत्वमस्ति, तन्नियामकाभावादिति भावेन दूषयति- आगमशब्दस्येति ।। ननूर्ध्वं तर्जनीन्यासाद्दशसङ्ख्यामात्रप्रतिपत्त्या चेश्वयाः प्रामाण्यनिश्चयात्प्रत्यक्षादित्वस्य च बाधितत्वादागमत्व-स्याप्यनङ्गीकारे तस्याः प्रमाणान्तरत्वापत्त्याऽनुप्रमाणत्रित्वभङ्ग इत्यतः, सर्वेषामप्रतीत्या ऊर्ध्वतर्जनीमात्र-न्यासस्यार्थविशेषेण गृहीताविनाभावस्यैव पुरुषस्य ततोऽर्थविशेषप्रतिपत्त्याऽविनाभावबलेन चेष्टाया अर्थ-गमकतयाऽनुमान एवान्तर्भावसम्भवान्नानुप्रमाणत्रित्वभङ्ग इत्याशयेनाऽह- चेष्टायाश्चेति ।। स्वस्य दृग् इति विग्रहे स्वसम्बन्धिवृत्तिरूपज्ञानस्याप्यनुभवत्वप्राप्तेस्तत्परिहाराय स्वा स्वरूपभूता चासौ दृक् चेति विग्रहमभिप्रेत्य स्वदृक्पदं व्याख्याति- आत्मस्वरूपभूतमिति ।। विवक्षितमिति ।। वृत्तिरूपज्ञानस्योत्तरत्र वक्ष्यमाणानुभव-(पां.टि.) प्रकारत्वस्य बाधितत्वादिति भावः । स्वदृगप्यनुभव इति समुच्चयस्यानुपपत्त्या चशब्दस्य समुच्चयार्थ-त्वासम्भवात्तदर्थमाह- चशब्द इति ।। व्यावर्त्याभावेन तद्वैयर्थ्यमित्यतस्तद्व्यावर्त्यं दर्शयति- न त्विति ।। निर्दोषत्वस्याननुवृत्तौ कारणमाह- सज्जीवानामिति ।। (अ)सम्भवव्यभिचारयोरेव विशेषणस्यार्थवत्त्वादिति भावः । इयमेव प्रमाणप्रक्रियेति भ्रान्तिनिरासायाह- अत्रेति ।। नेयं प्रमाणप्रक्रियेत्यर्थः । तर्हि केत्यत आह- प्रमाणेति ।। मूले स्मृतिग्रहणं तन्मूलश्रुत्युपलक्षणमिति भावेनाह- श्रुतिस्मृतिसिद्ध इति ।। दोषज्ञानाधीनज्ञान-मिति ।। अभावस्य ससम्बन्धिकपदार्थत्वेन प्रतियोगिनिरूप्यत्वादिति भावः । मूले चशब्दस्तुशब्दार्थ इति भावेनाह- इन्द्रियदोषास्त्विति ।। मूले प्रमाणपदं तद्विरोधोपलक्षणम्, आद्यादित्वात्तृतीयान्तात्तसिरिति भावेनाह- प्रमाणविरोधेनैवेति ।। पुरस्तादिति ।। ‘दोषजन्यत्वं च बलवत्प्रमाणविरोधादेव ज्ञायते’ इत्येतद्वाक्य-व्याख्यानावसर इत्यर्थः । ननु नवाक्षरत्वादाद्यपादस्याष्टाक्षरत्वाभावाच्छन्दोभङ्ग इत्यत आह- न वेति ।। एकेना-क्षरेण न्यूनेनाधिकेन वा द्वाभ्यामक्षराभ्यां न्यूनाभ्यामधिकाभ्यां वा गायत्र्यादिछन्दांसि न वियन्ति न नश्यन्तीति वेदेन वेदे न्यूनत्वाधिक्यप्रयुक्तछन्दोविनाशाभावस्योक्तत्वाद्ब्रह्मतर्कस्यापि वेदतुल्यत्वान्नात्र छन्दोभङ्गः शङ्कनीय इत्यर्थः । आदिपदेन निरवकाशत्वादिग्रहणमिति ।। अत्रोपजीव्यत्वप्रयुक्तप्राबल्यस्येव निरवकाशत्व-प्रयुक्तप्राबल्यस्यापि बहुत्वप्रयुक्तप्राबल्यबाधकत्वेन तस्याप्यवश्यवक्तव्यत्वात्पृथगभिधाने च ‘द्विविधं बलवत्त्वं च’ इत्युक्तद्वैविध्यानुपपत्तेर्यावता प्राबल्येन बहुत्वप्रयुक्तप्राबल्यस्य बाधस्तस्य सर्वस्यापि बहुत्वप्रयुक्त-प्राबल्यपरिपन्थित्वेन स्वभावप्राबल्यरूपत्वविवक्षया निरवकाशत्वस्यादिपदेन ग्रहणमिति निरवकाशत्वस्य तत्त्वकथनम्, न तु वस्तुतः । अन्यथोपजीवकत्वादिना स्वभावदुर्बलस्यापि निरवकाशत्वस्यान्यत्राभिधानेन तद्विरोधापत्तेः । वस्तुतस्तु उपजीव्यत्वमेव स्वभावप्राबल्यं न तु निरवकाशत्वमिति ध्येयम् । एवमेव ‘एवमुपजीव्यत्वनिरवकाशत्वलक्षणस्वभावबलवत्प्रमाणबाधितत्वात्’ इति पूर्वग्रन्थस्य ‘स्वभावश्चोपजीव्यत्व-निरवकाशत्वादिरूपः’ इत्यादिपद्धतेश्च तात्पर्यं वर्णनीयम् । आदिपदेन श्रुतित्वादेः परामर्श इति । अत एवेति ।। बहुप्रमाणविरोधापेक्षयोपजीव्यादिप्रमाणविरोधस्य बलवत्त्वादेवेत्यर्थः ।
लघुप्रभा
(व्या.टि.)
श्रोतृशेमुषीमनुकूलयिष्यन् वृत्तवर्तिष्यमाणप्रबन्धसम्बन्धं दर्शयति- एवमित्यादिना ।। ननु तेषामुक्तोपयोगाभावे कथं तत्सम्मत्या दृढीकरणमित्यत आह- एतेषामिति ।। ननु कथमेतेषां लक्षण-वाक्यानामुक्तोपयोगः, लक्षणस्य पूर्वमनुक्तेः । प्राबल्यनिदानत्वेनोक्तोपजीव्यत्वादेरत्रानुपन्यासादित्यत आह- प्रमाणेति ।। तन्निरूपणस्य क्वोपयोग इत्यत आह- स्वरूप इति ।। तदन्येति ।। उपजीव्यत्वादीत्यर्थः । अज्ञातस्वरूपे उपजीव्यत्वादेर्निरूपयितुमशक्यत्वादित्यर्थः । तर्हि स्वरूपमेवाभिधानीयं किं लक्षणेनेत्यत आह- स्वरूपज्ञानमिति ।। अतीन्द्रियेन्द्रियादिरूपे प्रमाणे प्रत्यक्षाद्यप्रसरादित्यर्थः । तथा चोपोद्घातसङ्गत्या लक्षणाभि-धानादुक्तोपयोग इति भावः । ननु तथाऽपि विदितसामान्यस्यैव पुंसो विशेषजिज्ञासा न त्वविदितसामान्यस्येति प्रथमोपस्थितत्वात् सामान्यस्यैवादौ लक्षणं वाच्यमिति शङ्कामुट्टङ्कयति- तत्र यद्यपीति ।। प्राप्तम् अवसर-(व्या.टि.) प्राप्तम् । तत्र हेतुमाह- प्रतिपत्तीति ।। समाधत्ते- तथाऽपीति ।। व्यवहारेषु आनयनादिप्रवृत्तिषु, कथारूपवाक्यव्यवहारेषु । अनुपयोगाद् अयोग्यत्वादित्यर्थः । विशेषाणामेवेति ।। ‘पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये’ इति कथालक्षणोक्तेः । दोषाभावस्य प्रतियोगिज्ञानाधीनज्ञानत्वाद्दोषं लक्षयति- येनेति ।। विपरीतेति संशयस्यापि ग्रहणम् । तस्यापि वस्तुतत्त्वज्ञानाद्विपरीतज्ञानत्वात् । सदोष इति शेषः । इन्द्रियादिकमित्यादिपदेन विषयग्रहणे तस्य ज्ञानजनकत्वस्यैवाभावात् । अनुमानादेर्ग्राह्यत्वात् तद्दोषस्य पृथग् वक्ष्यमाणत्वाच्च । प्रमाकरण-दोषसामान्यलक्षणमिदम् । प्रमाजननशक्तिप्रतिबन्धकत्वेन ज्ञानजननशक्तिप्रतिबन्धकत्वविपरीतज्ञान-जननशक्त्याधायकत्वान्यतरत्वेन वाऽनुगमान्नान्योन्यमव्याप्तिः । ज्ञानपदस्य सप्रयोजनज्ञानपरत्वात् न ज्ञातज्ञापके(त्वे)ऽव्याप्तिः । तद्भिन्नस्य वा लक्ष्यत्वमित्यवधेयम् ।
ननु कर्मेन्द्रियेऽतिव्याप्तिरित्यत आह- ज्ञानेन्द्रियमेवेति ।। प्रमाणप्रकरणादिति ।। प्रक्रंस्यमानत्वादि-त्यर्थः । विशेषार्थ इति ।। ‘तुशब्दस्तु विशेषे स्यात् स्वसिद्धान्तेऽवधारणे’ इति नाममहोदधावुक्तेः । तं वक्ष्यति- सेतिकर्तव्यताकमित्यादिना ।। अधिकृतं प्रतिपाद्यम् । करणधर्मिण इति ।। करणे व्यापारविशिष्टे विशेष्यस्ये-त्यर्थः । प्रत्यक्षैकदेशो धर्मी प्रत्यक्षधर्मीति शाकपार्थिवादिषु बोध्यः । अनुमानमिवेति ।। वैधर्म्यदृश्वन्तः । तर्कानुमानादिशब्दानां व्याप्यादिपर्यायत्वेन सेतिकर्तव्यताकवाचित्वादिति भावः । उत्तरत्रेति ।। ‘विषयान् प्रति’ इत्यत्रेत्यर्थः । तथा च सेतिकर्तव्यताकस्य लक्ष्यत्वे धर्मिमात्रेऽतिव्याप्तिर्नाऽशङ्कनीया, तन्मात्रलक्ष्यत्वद्योतक-तुशब्दादिति भावः । तथा चादुष्टमिन्द्रियं त्वक्षं सेतिकर्तव्यताकेन्द्रियं सत्प्रत्यक्षं प्रमाणमित्युच्यते इति योजनेति स्वामिनः । इन्द्रियदोषमुद्घाट्य व्याचश्व्े- काचादीति ।। ‘काचाः शिक्यमृद्भेददृग्रुजः’ इत्यमरोक्तेश्चक्षूरोगः काचः । तर्कं लक्षयति- व्याप्याङ्गीकार इति ।। निष्कर्षयति- तथा चेति ।। तर्कसाधनभेदादिति ।। दुष्टिप्रमितिसाधनस्यापि साधनेऽन्तर्भावाभिप्रायेणेत्थमकथीति न पद्धतिविरोधः । तर्कः प्रमाणमेव नेति ।। तत्प्रकारस्तु, तर्कः प्रमाणमेव न भवति । कुतोऽनुमानम् । तथा हि । सः प्रमारूपं वा प्रमाणं स्यात् लिङ्गदर्शन-वत् । अप्रमारूपं वेन्द्रियादिवत् । न तावदाद्यः । तस्याहार्यरूपत्वात् । न तत्करणमपि प्रमाणम् । प्रमाफलत्वा-भावात् । न द्वितीयः । आरोपितविषयत्वात् । विपर्यये प्रामाण्योपगतौ तेनास्य नियामकसम्बन्धो नास्ति । असम्बद्धस्य गमकत्वे चातिप्रसङ्गात् । अनुमानत्वे चास्याऽपादकं लिङ्गम् आपाद्यं साध्यमिति वाच्यम् । न च तद्युक्तम् । आपादकस्याहार्यत्वेनान्यतरासिद्धत्वात् । आपाद्यस्य चानिष्टत्वेन बाधितत्वात् । न ह्यसिद्धं लिङ्गं भवति । नापि बाधितं साध्यम् । सति चाश्रयेऽनुमानं भवति । न (हि) भूतले घटोऽस्ति यः साध्यसाधनयोराश्रयः स्यात् । व्यधिकरणता चापाद्यापादकयोर्बहुलमुपलभ्यते । यद्यूर्ध्वदेशो वृष्टिमान्न स्यात् तर्ह्यधोदेशो नदीपूरवान्न स्यादित्यादौ । आपाद्यस्य साध्यत्वेऽपसिद्धान्तश्च स्यात् । धूमसद्भावस्य स्वयमभ्युपगतत्वात् । तस्माद्विपर्ययपर-तन्त्रत्वादप्रमाणमेव प्रमाणानामनुग्राहकस्तर्क इति कुतोऽस्यानुमानेऽन्तर्भाव इति । तन्निरासायेति ।। तत्प्रकारस्तु, निर्वह्नित्वाङ्गीकारस्याप्रमारूपत्वेऽप्यापाद्याङ्गीकर्तव्यताप्रमाजनकत्वेन प्रामाण्यसम्भवात् । अनिष्टोप-(व्या.टि.) दर्शनरूपदूषणस्य परसिद्धैरेव न्यायैः कार्यतया नाश्रयासिद्ध्यन्यतरासिद्धी दूषणे, किन्तु भूषणे एव । ‘व्यधिकरणत्वं न क्वापि दूषणम्’ इत्यन्यत्रोक्तम् । शक्यसम्पादं च तर्के समानाधिकरणत्वम् । वस्तुतस्तु सामानाधिकरण्याभावेऽपि व्याप्त्यपेक्षया गमकत्वसद्भावादनुमानं भवत्येव । विशेषलक्षणाभावेनानुमानत्वाभावे केवलान्वयिलक्षणानाक्रान्तस्य केवलव्यतिरेकिणोऽनुमानता न स्यात् ।
यदुक्तं बाधापसिद्धान्ताविति । तन्न । किमापाद्यतोपेतस्य निर्धूमत्वादेर्बाध्यत्वं तत्प्रोक्तौ वाऽपसिद्धान्त उच्यते । उत केवलस्य । नाऽद्यः । यत आपादनं नाम, अङ्गीकर्तव्यताज्ञापनं न पुनः सद्भावप्रतिपादनम् । न च तत्प्रमाणादिविरुद्धम् । यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीति यथा । द्वितीये तु स्यादेव बाधादि । न च तदत्रोच्यते । तथा सति ‘यदि’ ‘स्यात्’ इति न स्यादिति । असिद्धिरप्येवमेव परिहर्तव्या । तथा हि । यद्यलङ्कृतस्य निरग्निकत्वादेरसिद्धिरुच्यते । किं वा केवलस्य । नाऽद्यः । पर्वतो यदि निरग्निकः स्यादित्यस्य हि यदि निरग्निक-त्वेनाङ्गीक्रियत इत्यर्थः । न चायमसिद्धः । तथा सति तर्कस्याप्यनुत्थानात् । न द्वितीयः । तस्यात्रानुपादानात् । तथात्वे हि यदीति न स्यादिति । विस्तरस्तु सुधायामनुसन्धेयः । अत एव भगवान् सूत्रकारोऽपि साधनवद्दूषणानु-मानभूततर्कस्य स्वतन्त्रप्रमाणत्वसूचनाय यथा ‘आनन्दमयोऽभ्यासात्’ इति साधनेन स्वपक्षमसाधयत्, तथा ‘स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’,‘इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः’, ‘कृत्स्नप्रसक्तिः’ इत्यादिभिः केवलतर्केण परपक्षं प्रत्यक्षिपत् । भाष्यकारोऽपि ‘जीवकर्तृत्वपक्षे हिताकरणमहित-करणं च न स्यात्’ इत्येव व्याचश्व्े न तु तेन किञ्चिदनुमानमिति रहस्यम् । पृथगिति ।। अनुमानादिति शेषः । एवमिति ।। ‘तर्कोऽनुमा’ इति मुखत इत्यर्थः । तर्कशब्दे करणव्युत्पत्तिमाश्रित्य सामान्योद्देशपरतया व्याचश्व्े- अथवेति ।। समस्तेति ।। साधनदूषणोभयरूपेत्यर्थः । उपमां दर्शयति- इन्द्रियमिवेति ।।
ननु वाक्यदोषानाविष्करणे कथं तदभावो विज्ञेय इत्यत आह- वाक्येति ।। प्रागेवेति ।। अपौरुषेयत्ववाद इत्यर्थः । चशब्दस्य समुच्चयार्थत्वेऽवाक्यस्याप्यागमत्वप्राप्तेराह- चशब्द इति ।। अन्वयं प्रदर्श्य व्यावर्त्यं दर्शयति- वाक्यमेव न त्विति ।। चेष्टाव्यावृत्त्या तत्साधारण्येन परोक्तं लक्षणं निरस्तमित्याह- तेनेति ।। निरासप्रकार-माह- आगमेति ।। परीक्षकैरिति ।। मीमांसकैरित्यर्थः । लोकवेदयोः पदपदार्थानन्यत्वस्य लोकवेदाधि-करणसिद्धत्वादित्यर्थः । अन्यथेति ।। रूढिपरित्याग इत्यर्थः । अतिप्रसङ्गादिति ।। योगमात्रस्येति शेषः । तर्हि ततोऽर्थानुभवविरोध इत्यत आह- चेष्टाया इति ।। हस्ताग्रस्य स्वाभिमुखचलनादिरूपचेष्टाया आह्वानादि-तात्पर्येण गृहीताविनाभावं पुरुषं प्रत्यवबोधकत्वेन अनुमानलक्षणाक्रान्तत्वादित्याशयः। स्वशब्दस्यात्मार्थकत्वं कर्मधारयश्च विवक्षित इत्याह- आत्मेति ।। समुच्चेयाभावाच्चशब्दो व्यर्थ इत्यत आह- अवधारण इति ।। अनभिमतं व्यावर्तयति- न त्विति ।। व्यावर्त्यान्तराभावादित्यर्थः । ननु कथं व्यावर्त्यान्तराभावः । अधममध्यमानां स्वरूपस्यायाथार्थ्यनियममिश्रीभावाङ्गीकारादित्यत आह- सज्जीवानामिति ।। यथोक्तमनुभाष्ये ‘निर्दोष-त्वातिनियमात् तद्बलिष्ठतमं मतम्’ इति । अत्रानुभवपदवाच्यत्वं लक्ष्यतावच्छेदकम् । उत्तमस्वरूपभूतज्ञानत्वं (व्या.टि.) लक्षणम् । ज्ञानपदं करणव्युत्पत्त्येन्द्रियपरम् । अनुप्रमाणप्रस्तावात् । भावव्युत्पत्तौ तावद्व्यञ्जकत्व-मनुप्रमाणलक्षणं सूचितम् । पूर्वत्रापि साक्षात्कारादिप्रमायाः प्रत्यक्षादिजन्यत्वलक्षणं सूच्यम् । पूर्वमक्षपदस्य स्वरूपबाह्यसाधारणत्वमिति सामान्यलक्षणत्वम् । बाह्यमात्रपरत्वेऽनुभवेऽतिव्याप्तेः । इन्द्रियपदस्य प्राकृतपरत्वे वा सामान्यलक्षणानुक्त्यापाताच्च । विशिष्यानुभवलक्षणोक्तिस्तु बलवत्त्वादिज्ञापनायेत्यवधेयम् । ननु स्वरूप-निरूपणमात्रं कृतं न तु विशेषो विचारित इत्यत आह- अत्रेति ।। प्रक्रियेति ।। विस्तर इत्यर्थः । न भवती-ति ।। तस्य ज्ञानित्वेन तत्त्वासम्भवः, गुणगुणिनोः समवायादित्याकूतम् । अत्र स्मृत इत्युपलक्षणमभिप्रेत्य व्याचष्टे- श्रुतिस्मृतीति ।। दुर्ज्ञानं सुज्ञानमिति च कर्मणि ल्युट् । दुःशकं ज्ञानं यस्येति बहुव्रीहिर्वा । ननु खलु । दोषज्ञानेति ।। प्रतियोगिज्ञानाधीनत्वादभावस्येत्यर्थः । चशब्दस्य समुच्चयादर्थान्तरमाह- तुशब्दार्थ इति ।। दोषशब्देन करणमात्रदोषं मन्वान आह- यद्यपीति ।। असिद्ध्यादय इति ।। प्रत्यक्षयोग्यार्थप्रतियोगिका इत्यर्थः । दोषपदमिन्द्रियदोषमात्रपरमित्युपेत्य समाधत्ते- तथाऽपीति ।। बलवदित्युपलक्षणम् । विरोधीत्यपि चोह्यमित्युपेत्याह- बलवत्प्रमाणविरोधेनैवेति ।। इन्द्रियदोषाणामतीन्द्रियधर्मत्वादिति भावः । अस्योपयोगं दर्शयति- एतेनेति ।। नन्वस्य श्लोकस्यानुष्टुप्छन्दस्त्वादनुष्टुभश्च ‘अष्टाक्षरानुष्टुप्’ इति श्रुत्यैवाष्टाक्षरत्वोक्ते-रक्षराधिक्ये छन्दोभङ्ग इत्यत आह- न वा इति ।। वियन्ति गच्छन्ति । वचनात् बह्वृचब्राह्मणवचनादित्यर्थः । कथमिति ।। बलसाम्यादित्याक्षेपः । उपजीव्येति मूलं भावप्रधानं मत्वा व्याचश्व्े- आदिपदेनेति ।। बहुत्वबलात् स्वभावबलस्य बलवत्त्वे ज्ञापकमाह- अत एवेति ।।