‘प्रेरकः सर्व(भूतानां)..
प्रतिषेधाय चतुर्धाऽभेदप्राप्तिप्रदशनम्
मूलम्
- ‘प्रेरकः सर्व(भूतानां) जीवानां प्राणधीचोदिता च सः ।
विष्णुः संसारिणोऽन्यो यस्तमविज्ञाय मूढधीः ।
देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यते त्मनः ।
अतः संसारपदवी याति जीवेशयोः सदा ।
वैलक्षण्यं परं ज्ञात्वा मुच्यते बध्यतेऽन्यथा’ इति च ।
‘सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय’ इति, आत्मनोऽ-न्यमनूचानत्वादिगुणप्रदं परमविज्ञाय स्तब्धस्य पराधीनत्वज्ञापनेन स्तब्धतां निरस्य तन्निष्ठा ह्यत्रोपदिश्यते ।
‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इत्यादिवादिप्रसिद्धमपि निराक्रियते । ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः’ इत्यादिवद् श्रुतितात्पर्यापरिज्ञानप्राप्तं च । दर्शितं च ‘ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः’ इति ।
तत्त्वमञ्जरी
ननु कथमपौरुषेयो वेदः पौरुषेयं समयं निराकरोतीत्यत आह- तद्धेति ।। ‘तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सदजायत इति । कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति । सत्वेव सोम्येदमग्र आसीत्’ इति शून्यवादिप्रसिद्धं मतं निरा-क्रियते । ‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते । वापीकूपतटाकांश्च देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते’ इति चोक्तम् ।
टीका
एवं दृष्टान्तादिवाक्यानुसारेणेदम् अतत्त्वमसीति पदं विच्छिद्य भेदपरतया वाक्यं व्याख्या-तम् । तदसत् । एवं सति हि इदमैक्यप्रतिषेधपरमित्युक्तं स्यात् । न चैवं युक्तम् । ऐक्यस्याप्राप्तत्वेन प्रतिषेधानुपपत्तेरित्यतः प्राप्तिं दर्शयितुमागमवाक्यं पठति- प्रेरक इति ।। प्राणशब्देनेन्द्रियाणि वायवश्चोच्यन्ते । धीशब्देन मनः । यः स विष्णुरिति सम्बन्धः । इन्द्रियप्राणेत्यत्र प्राणशब्देन वायव एव गृह्यन्ते । त्मनः आत्मनः । ‘मन्त्रेष्वाङ्यादेरात्मनः’ इति स्मरणात् । न केवलं संसारपदवी याति किन्तु नित्यनरके बध्यते । अत्र वाक्ये देहादिप्रेरकत्वं यद्भगवतो लक्षणं तत्सर्वोऽपि जनोऽहङ्कारममकारवशादात्मनि मन्यते । तस्य तेन महाननर्थो भवति । तत्त्यागेन च महान् अर्थ इत्युच्यते । लक्षणाभिमानो नाम ऐक्याभिमान एव । अतस्सर्वेषां प्राणभृतामैक्यज्ञानप्राप्तौ श्वेतकेतूपलक्षितानां सज्जनानामिष्टानिष्टप्राप्तिपरिहारार्थमैक्यप्रतिषेधः क्रियत इति भावः ।
एवं साधारणी प्राप्तिं प्रदर्श्यासाधारणीमपि दर्शयति- सर्वानिति ।। स्तब्धः एयायेत्य-त्रोपदिश्यत(उच्यत)इति सम्बन्धः । ‘श्वेतकेतुर्हारुणेय आस तं ह पितोवाच- श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति । स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान्वेदानधीत्य’ इत्यादौ अत्र षष्ठेऽध्याये । तन्निष्ठा भगवन्निष्ठा भक्तिर्ह्युपदिश्यते । अविज्ञाय अहमेवानूचानत्वादिगुणः स्वातन्त्र्येणेति विज्ञाय च । स्तब्धस्याविनीतस्य श्वेतकेतोः । तथा च कथमप्राप्तप्रतिषेध इति वाक्यशेषः । परमात्मलक्षणाभिमाने तदैक्यप्राप्तेः । अनेन ‘स आत्मा तत्त्वमसि’ इत्यस्यैक्यपरतया व्याख्याने प्रक्रमासङ्गतिश्च सूचिता भवति ।
प्रकारान्तरेणास्य प्राप्तप्रतिषेधतां दर्शयति- तद्धैक इति ।। वादिप्रसिद्धम् ऐक्यवादिप्रवाद-प्राप्तमप्यैक्यं निराक्रियतेऽतत्त्वमसीत्यनेन । ननु अनादिना वेदेन कथं सादिवादिप्राप्तस्य निराकरणं क्रियत इति चेन्न । वादिप्रवादानामपि प्रवाहरूपेणानादित्वात् । दृश्व्ं चैतत् यद्वादिप्राप्तस्यापि निराकरणं वेदेन क्रियत इति । यतोऽत्रैव प्रकरणे ‘सदेव सोम्येदमग्र आसीत्’ इति स्वमतमभिधाय ‘तद्धैक आहुः असदेवेदमग्र आसीत् तस्मादसतः सदजायत’ इति शून्यवादिप्राप्तं शून्यस्यैव प्रलयेऽवस्थानं जगत्कारणत्वं चानूद्य ‘कुतस्तु खलु सोम्यैवं स्यात् कथमसतः सज्जायेत’ इति, निराक्रियत एक आहुरितिवचनादिति ।
प्रकारान्तरेण प्राप्तप्रतिषेधतामस्य दर्शयति- इष्टेति ।। श्रुतीनां ‘अहं ब्रह्मास्मि’ इत्यादीनां, यत् तात्पर्यम् अन्तर्यामिणो ब्रह्मत्वादिकं, तदपरिज्ञानेनान्यथाऽर्थप्रतीत्या च प्राप्तं चैक्यं निराक्रियतेऽतत्त्वमसीत्यनेन । न चैतदप्यदृष्टचरम् । यतो ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तमनीश्वरविषयं काम्यं कर्म इष्टापूर्तमित्यनूद्य ‘नाकस्य पृष्ठे सुकृते तेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति’ इति निराक्रियते । निन्दायाः प्रतिषेधे तात्पर्यात् । न चैवंविधस्य कर्मणोऽन्यतः प्राप्तिरस्ति । इश्व्ं यजनम् । पूर्तम् अन्नदानादिकम् । ततो द्वन्द्वः । तस्यैकवद्भावः । ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति वचनात् । ‘अन्येषामपि दृश्यते’ इति दीर्घः । अन्यच्छ्रेयः परं ब्रह्म पूज्यं तत्प्रसादं वेदयन्ते जानन्ति ।
नन्वाद्ये द्वे प्राप्ती भवतः प्रमितत्वात् । नोत्तरे प्रमाणाभावात् । दृष्टान्तो हि सम्भावको भवति न निश्चायक इत्यत आह- दर्शितं चेति ।। ऐक्यस्य कुवादिप्राप्तत्वं श्रुतितात्पर्यापरिज्ञानप्राप्तत्वं च मोक्षधर्मे दर्शितं च, न केवलं सम्भावितम् । केचिदिति शास्त्रतत्वमविज्ञायेति चोक्तत्वात् । अतश्चतुर्धा प्राप्तिसद्भावात् तत्प्रतिषेधो युक्त इति ।।
भावबोधः
देहेन्द्रियेति वक्ष्यमाणानुरोधादाह- प्राणशब्देनेति ।। धीशब्देनेति ।। अनेनोत्तरत्र बुद्धिशब्दो मनःपर इत्युक्तं भवति । आङीत्युपलक्षणम् । अत एव प्रक्रियाकौमुद्यामन्यत्रापी(त्याद्यु)त्युक्तमिति भावः । संसारपदवी यातीत्यनेन पौनरुक्त्यपरिहाराय बध्यत इत्येतद्व्याचश्व्े- न केवलमिति ।। एवं साधारणीमिति ।। सर्वजीवाना-मीश्वरस्य भेदप्रतिपादकानि ‘द्वा सुपर्णा’ इत्यादीनि वाक्यानि, तत्साधारणीमित्यर्थः । यद्वा सर्वजीवसाधा-रणीमित्यर्थः । ‘सर्वान् वेदानधीत्य’ इत्यत्र वाक्ये भगवद्भक्तिर्नोपदिश्यत इत्यत आह- इत्यादावत्र षष्ठेऽध्याय इति ।। अनूचानत्वादिगुणप्रदत्वेन परमात्माज्ञानमात्रस्य कथमैक्यप्राप्तिरूपत्वमित्यत आह- अहमेवेति ।। प्रक्रमासङ्गतिरिति ।। श्वेतकेतोरैक्याभिमानतस्तद्वत्त्वस्य प्राप्तत्वात्तत्प्रतिषेध एव कर्तव्यो न तु तद्विधिरिति भावः । एतस्य वाक्यस्य वादिप्राप्तनिराकरणपरत्वं केन ज्ञायते येन दृष्टान्तत्वं स्यादित्यत आह- एक आहु-रिति ।। तात्पर्यापरिज्ञानमात्रेण नैक्यप्राप्तिरित्यत आह- अन्यथाऽर्थेति ।।
भावदीपः
दृष्टान्तादीति ।। समाख्यावाक्यमादिशब्दार्थः । वायव एव गृह्यन्त इति ।। अन्यथा पौनरुक्त्या-पत्तेरिति भावः । नन्वात्मन इति भाव्यं कथं त्मन इत्युक्तिरित्यत आह- मन्त्रेष्विति ।। अङ्गपादे ‘मन्त्रेष्वा-ङ्यादेरात्मनः’ इति सूत्रेण मन्त्रगतात्मन्शब्दस्य आदेस्तृतीयाविभक्तौ परतो लोपो भवतीत्युक्तत्वादत्र चात्मन इत्यस्य मन्त्रगतत्वादाकारलोप इति ज्ञेयम् । यद्यपि ‘आङिति तृतीयैकवचनस्य पूर्वाचार्याणां संज्ञा, त्मना देवेभ्यः’ इत्युक्तं वृत्तौ । तथापि तत्रैव ‘आङोऽन्यत्रापि छन्दसि लोपो दृश्यते, त्मन्यासमजायत, त्मनि सोमेभ्यः’ इत्युक्तत्वेन प्रकृते षष्ठ्येकवचनेऽपि परतो लोपो ज्ञेय इति भावः । अपौनरुक्त्यायार्थभेदमाह- न केवल-मिति ।। कथमनेनैक्यप्राप्तिरित्यत आह- अत्रेति ।। भगवतो लक्षणमिति ।। येन वा शृणोतीत्यादिश्रुतौ भगवद्धर्मत्वप्रसिद्धेरिति भावः । कर्तृत्वाभिमानोऽहङ्कारः । देहादौ ममताऽभिमानो ममकारः । तस्य जनस्य । तेन स्वस्मिन् भगवल्लक्षणज्ञानेन । तत्त्यागेनेति ।। स्वस्मिन्नीश्वरलक्षणारोपत्यागेनेत्यर्थः । ततः किं प्रकृत इत्यत आह- लक्षणेति ।।
साधारणीमिति ।। सर्वजनसाधारणीम् । श्वेतकेतुमात्रासाधारणीमित्यर्थः । तेन न पौनरुक्त्यमिति भावः। इत्यन्तस्यात्रोपदिश्यत इत्यनेन व्यवधानादन्वयं दर्शयति- इति सम्बन्ध इति ।। स्तब्धोऽविनीतः, एयाय आगतवानित्यत्र कुतः स्तब्धता, कुत आगतवानित्यादिशङ्कां निवर्तयितुं पूर्ववाक्यमुदाहरति- श्वेतकेतु-रिति ।। नामैतत् । अरुणाया अपत्यमारुणेयः स्त्रीभ्यो ढक् । पितेति ।। उद्दालकनामा । ब्रह्मचर्यं वेदाध्ययनमु-द्दिश्य । वस गुरुकुलवासं कुरु । कुत इत्यत उक्तम्- न वै सोम्येत्यादि ।। सोमपानार्हेत्यर्थः । अननूच्य गुरूच्चारणानूच्चारणरूपाध्ययनमकृत्वा । ब्रह्मबन्धुः ब्राह्मणाभासः । इत्युवाचेति पूर्वेणान्वयः । सः श्वेतकेतुः । इत्यादावित्यादिपदेन स्तब्ध इत्यादिमूलोक्तस्य परिग्रहः । नवप्रकरणसाधारण्यायात्रेत्यादि व्याचश्व्े- अत्र षष्ठ इति ।। स्तब्धत्वहेतुज्ञापनायाविज्ञायेत्यनूद्य तदुपलक्षणमिति भावेनाह - अविज्ञाये-त्यादि ।। अहमेवेत्यादिनोक्तान्यथाज्ञानेन कथमैक्यप्राप्तिरित्यत आह- परमात्मेति ।। प्रक्रमासङ्गति-श्चेति ।। उपक्रमे ह्यैक्याभिमानेन प्राप्तस्तब्धीभावनिरासाय प्रवृत्तस्य पितुरत्र पुनरैक्योपदेशे प्रक्रमासङ्गतिर्व्यक्तै-वेति प्रक्रमस्य स्तब्धतां निरस्येत्यर्थकथनेन सूचितेत्यर्थः । न केवलमैक्यस्य प्राप्तिरिति चार्थः । अस्येति ।। अतत्त्वमसीत्यस्य । इदमग्रे अस्य जगतोऽग्र इत्यर्थः । दृष्टान्ते वादिप्राप्तस्य निरासे ज्ञापकमाह- इति वचनादि-तीति ।। मूले तदंशोक्तेः कृत्यं व्यक्तीकृतं भवति । अपरिज्ञानमात्रेण ऐक्याप्राप्तेस्तदुलक्षणमिति भावेना-न्यार्थं प्रतीत्येति पूर्वानुषङ्गेणाकाङ्क्षां पूरयति- प्राप्तं चैक्यं निराक्रियत इति ।। प्राप्तं चेत्यनुवादः । इत्यादि- श्रुतीति ।। इत्यादिश्रुतीनां यद् अन्तःकरणशुद्धिसम्पादनेन भगवत्प्रमितितत्प्रीतिद्वारा मोक्षप्रयोजनकत्वरूप-तात्पर्यं तदज्ञानेनान्यथाऽर्थतात्पर्यज्ञानेन च प्राप्तमित्यर्थः । नाकस्य पृष्ठे स्वर्गस्य विस्तीर्णस्थलविशेषे । सुकृते सुकृतसाध्ये । अनुभूत्वा कामाननुभूयेत्यर्थः । इमं लोकं भूलोकं मानुषभावमिति यावत् । विशन्ति प्राप्नु-वन्ति । मिथ्याज्ञानपूर्वकं कर्मकृतस्तु हीनतरं लोकं तमो विशन्तीति वाशब्दो व्यवस्थितविकल्पार्थः । नात्र निषेधः श्रूयत इत्यत आह- निन्दाया इति ।। एवंविधस्येति ।। स्वर्गादिहेतुभूतस्येत्यर्थः । अन्यत इति ।। श्रुतितात्पर्यापरिज्ञानादन्यत इत्यर्थः । अन्येषामपीति ।। षष्ठस्य तृतीयपादे ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इत्यधिकारे ‘अन्येषामपि दृश्यते’ इति सूत्रेण पूर्वपदस्य दीर्घ इत्यर्थः । श्रौतपदार्थमाह- अन्यच्छ्रेयः परं ब्रह्म पूज्य-मिति ।। स्वार्थे णिजन्तमिति भावेनाह- जानन्तीति ।। परं ब्रह्म यदाराध्यं तत्प्रसादं वा फलहेतुं न जानन्तीति श्रुत्यर्थ इति भावः । मूले वादिप्राप्तमेव प्रमापितं न तु श्रुतितात्पर्यापरिज्ञानप्राप्तमित्यतः स्वयं तदाह- शास्त्रतत्वमविज्ञायेति चोक्तत्वादिति ।।
वाक्यार्थदीपिका
(श्री.टि.)
प्राप्तिं दर्शयितुमिति ।। साधारणप्राप्तिरसाधारणप्राप्तिर्वादिप्राप्तिः श्रुतितात्पर्यापरिज्ञानप्राप्तिरिति चतुर्धा प्राप्तिदर्शनायादौ साधारणप्राप्तिं दर्शयितुमागमवाक्यं पठतीत्यर्थः । वायवः प्राणापानाद्या वृत्तयः । अन्यो यस्तमविज्ञायेति यत्तच्छब्दयोर्विद्यमानत्वात्स इत्येतदधिकमित्यत आह- यस्य विष्णुरिति ।। स प्रसिद्धो विष्णुरित्यनुवादरूपत्वान्न वैयर्थ्यमित्यर्थः । प्राणशब्देन वायव इति ।। पूर्वमिन्द्रियपदसमभिव्याहाराभावात् प्राणशब्द इन्द्रियवायूभयपरत्वेन व्याख्यातः । अत्र तु तद्भावाद्वायुमात्रपरत्वेन व्याख्यात इति द्रष्टव्यम् । ननु आत्मन इति वक्तव्ये त्मन इति कथमुक्तमित्यत आह- मन्त्रेष्विति ।। आङिति टासंज्ञा । मन्त्रेषु आङि परे आत्मन आदेराकारस्य लोपो भवतीत्यर्थः । पुरु त्मनेत्याद्युदाहरणम् । नन्वत्र सूत्रे तृतीयाविभक्तावेवात्मन आदेर्लोपो विहितो न षष्ठीविभक्तौ परतः । अतो अत्रैतत्सूत्रोदाहरणमसङ्गतमिति चेन्न । आङीत्युपलक्षणम् । षष्ठीविभक्तौ परतो लोपो भवतीत्यपि व्याख्यानान्नासङ्गतिः । अत एवोक्तं प्रक्रियाकौमुद्याम् ‘आङि अन्यत्रापि’ (श्री.टि.) इति । ‘अन्यथा बध्यते’ इत्यस्य संसारपदवी यातीत्यनेन पौनरुक्त्यं प्रतीयतेऽतो व्याचश्व्े- न केवलमिति ।। तथा च अन्यथा= जीवेशयोर्वैलक्षण्यमज्ञात्वा आत्मनो देहादिनेतृत्वज्ञानेन केवलं संसारपदवी यातीत्येव न, किन्तु नित्यनरके बध्यते चेत्यर्थः । ननु कथमनेनैक्यप्राप्तिरुपपादितेत्यत आह-अत्रेत्यादिना ।। नन्वेतावता भगवल्लक्षणाभिमान एव प्राप्तो न तदैक्याभिमान इत्यत आह- लक्षणाभिमानो नामेति ।। यावद्द्रव्य-भाविलक्षणस्य धर्मिणाऽत्यन्ताभिन्नत्वात् तल्लक्षणाभिमाने तदैक्याभिमान एव प्राप्त इति भावः ।
सर्वेषां प्राणभृतामैक्यज्ञानप्राप्तावित्यनेन साधारणी प्राप्तिरुपपादितेति ज्ञेयम् । ननु तर्हि सर्वान्प्रत्यैक्यप्रतिषेधः कर्तव्यः । श्वेतकेतुं प्रत्यैक्यप्रतिषेधः कस्मात्क्रियत इत्यत उक्तम्- श्वेतकेतूपलक्षितानामिति ।। असाधा-रणीमिति ।। श्वेतकेतोरेवैक्यज्ञानं प्राप्तमस्तीत्येवंरूपामसाधारणीमित्यर्थः । स्तब्ध एयायेत्यात्मनोऽन्यमित्यत्र स्तब्ध एयायेतीतिशब्दस्य अत्रोपदिश्यत इत्यनेन सम्बन्ध इत्याह- स्तब्ध एयायेत्यत्रोच्यत इति सम्बन्ध इति ।। उपदिश्यत इत्यस्यार्थानुवादः उच्यत इति ।। सर्वान्वेदानधीत्येत्यत्र वाक्ये भगवद्भक्तिर्नोपदिश्यत इत्यत आह- इत्यादावत्र षष्ठेऽध्याय इति ।। अनूचानत्वादिगुणप्रदत्वेन परमात्माज्ञानमात्रस्य कथमैक्य-प्राप्तिरूपत्वमित्यत आह- अहमेवेति ।। अविनीतस्य आर्येष्वनम्रस्येत्यर्थः । ननु तल्लक्षणाभिमान एव प्राप्तो न तदैक्यज्ञानमित्यत आह- परमात्मलक्षणाभिमाने तदैक्यप्राप्तेरिति ।। पूर्व एवाभिप्रायः । प्रक्रमासङ्गति-रिति ।। श्वेतकेतोः परमात्मैक्याभिमानेन स्तब्धतायाः प्राप्तत्वात्तत्परिहारायेदं वाक्यमुपक्रान्तम् । तथा चातत्त्वमसीति परमात्मभेदोपदेशेन तत्प्रतिषेध एव कर्तव्यो न तु तत्त्वमसीत्यैक्यबोधनं कार्यम् । तथात्वे स्तब्धतादार्ढ्यस्यैव प्राप्तेरित्युपक्रमासङ्गतिरित्यर्थः ।
प्रवाहरूपेणेति ।। यथोक्तमनुव्याख्याने-
‘अनादिकालतो वृत्ताः समया हि प्रवाहतः ।
न चोच्छेदोऽस्ति कस्यापि समयस्य ।।’ इति ।
नन्वस्य वाक्यस्य वादिप्राप्तनिराकरणपरत्वं कथं ज्ञायते येन दृष्टान्तत्वं स्यादित्यतस्तज्ज्ञापकमाह- एक आहुरिति वचनादिति ।। श्रुतितात्पर्यापरिज्ञानमात्रेण कथमैक्यप्राप्तिरित्यत आह-१अन्यार्थप्रतीत्या चेति ।। जीवस्य ब्रह्मैक्यरूपान्यार्थेत्यर्थः । इत्यादिश्रुतितात्पर्येति ।। स्वरूपभूतरमणज्ञानरूपमुक्तिकामो भगवत्प्री-त्यर्थं ‘दर्शपूर्णमासाभ्यां यजेत’ इत्येवंरूपश्रुतितात्पर्येत्यर्थः । अनीश्वरविषयमिति ।। ईश्वरविषयम् ईश्वरार्पण-बुद्ध्या क्रियमाणं, न भवतीत्यर्थः । नन्वत्र काम्यकर्मनिन्दैव प्रतीयते न तु प्रतिषेध इत्यत आह- निन्दाया इति ।। निन्दारूपार्थवादस्येत्यर्थः । तथा चाश्रूयमाणोऽपि काम्यकर्मप्रतिषेधो निन्दावचनबलात्कल्पनीय इति भावः । नन्वीश्वरविषयकाम्यकर्मणः श्रुतिव्यतिरिक्तप्रमाणादेव प्राप्तत्वान्न श्रुतितात्पर्यापरिज्ञानेन प्राप्ताविद-मुदाहरणमित्यत आह- न चैवंविधस्येति ।। अन्नदानादिकमित्यत्रादिपदेन प्रपादानादिकं ग्राह्यम् । अत एव (श्री.टि.) कर्मनिर्णयटीकायां ‘पूर्वमन्नप्रपादानादि’ इति व्याख्यातम् । ततो द्वन्द्व इति ।। ततः इष्टपूर्त-शब्दयोर्भिन्नार्थत्वादित्यर्थः । पदप्रतिपाद्ययोरर्थयोर्भेदे द्वन्द्वसमासस्य ‘भेदे द्वन्द्वः’ इति विधानादिति भावः । नन्विश्व्ं च पूर्तं चेष्टापूर्ते इति द्विवचनं स्यादित्यत आह- तस्यैकवद्भाव इति ।। द्वन्द्वस्यैकवद्भावे नियामकमाह- सर्वो द्वन्द्व इति ।। तथा च ‘स नपुंसकम्’ यस्यैकवद्भावः स नपुंसकं स्यादिति नपुंसकत्वे इष्टापूर्तमिति युक्तमिति भावः । नन्विष्टापूर्तमिति कथं दीर्घः । ‘देवताद्वन्द्वे च’ देवतावाचिपदयोर्द्वन्द्वसमासे पूर्वपदे दीर्घो भवतीति सूत्रार्थः । इन्द्राग्नी, इन्द्राबृहस्पती, इन्द्रावरुणौ, अग्नीषोमावित्याद्युदाहरणम् । तथा च प्रकृते इष्टापूर्तमित्यस्य देवताद्वन्द्वत्वाभावात्कथं दीर्घ इत्यत आह- अन्येषामिति ।। देवतावाचिपदभिन्नपदानामपि द्वन्द्वसमासे क्वचि-द्दीर्घो भवतीति सूत्रार्थः । तथा चेष्टापूर्तमिति द्वन्द्वसमासे दीर्घोपपत्तिरिति भावः । अन्यदित्यस्य व्याख्यानं परं ब्रह्मेति । श्रेय इत्यस्य पूज्यमिति व्याख्यानम् । तात्पर्यमाह- तत्प्रसादमिति ।। इति यावदिति शेषः । वेदयन्त इति स्वार्थे णिजिति भावेनोक्तम्- जानन्तीति ।। द्वे प्राप्ती इति ।। साधारणासाधारणाख्ये द्वे प्राप्ती इत्यर्थः । प्रमितत्वादिति ।। प्रेरकः सर्व(जीवानां) देहानां, सर्वान्वेदानधीत्येति प्रमितत्वादित्यर्थः । ननु वादिप्राप्तिश्रुति-तात्पर्यापरिज्ञानप्राप्त्योः कथं प्रमितत्वाभावः । ‘तद्धैक आहुः’ ‘इष्टापूर्तम्’ इति वाक्यद्वये वादिप्राप्तश्रुति-तात्पर्यापरिज्ञानप्राप्तयोर्निषेधस्य दृष्टत्वादिति चेत्तत्राह- दृष्टान्तो हीति ।। कथं दर्शितमित्यत आह- केचि-दितीति ।। केचिदिति कुवादिप्राप्तत्वं, शास्त्रतत्त्वमविज्ञायेति श्रुतितात्पर्यापरिज्ञानप्राप्तत्वं चोक्तमित्यर्थः । उपसंहरति- अत इति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
वायव एवेति ।। प्राणधीचोदितेति पूर्ववाक्ये इन्द्रियाणां पृथग्ग्रहणात् प्राणशब्देन वायूनामिव इन्द्रियाणामपि ग्रहणेऽपि इन्द्रियप्राणेत्यत्रेन्द्रियाणां पृथग्ग्रहणात्, प्राणशब्देनापि तद्ग्रहणे पौनरुक्त्यप्रसङ्गात् न प्राणशब्देन इन्द्रियवायुग्रहणम् । किन्तु वायूनामेवेति भावः । नन्वात्मन्शब्दस्य ङसि परत आत्मन इत्येव षष्ठ्येकवचनेन भवितव्यम्, त्मन इति तु कथमित्यत आह- मन्त्रेष्विति ।। यद्यपि पूर्वाचार्यप्रक्रियया आङिति तृतीयैकवचनग्रहणात् तस्मिन् परतो मन्त्रविषयेष्वात्मन आदेर्लोपस्यानेन विधानात् यत्रात्मन्शब्दस्य तृतीयैकवचनपरताऽस्ति ‘त्मना सोमेभ्यः’ ‘त्मना देवेभ्यः’ ‘त्मना पितृभ्यः’ इत्यादौ तत्रैवानेनात्मन आदेर्लोपसिद्धावपि यत्र न तृतीयैकवचनं परतोऽस्ति तत्रात्मन्शब्दस्य आदिलोपविधायकत्वाभावाद् अस्य योगस्य न षष्ठ्येकवचने तद्विधायकतयोपन्यासो युक्तः । तथापि ‘उप त्मनि दधानो धुर्यां३शून्’ ‘त्मन्या समभजन्’ ‘त्मनि सोमेभ्यः’ इति आङोऽन्यत्रापि छन्दसि तल्लोपदर्शनेन आङ्ग्रहणं न कर्तव्यमिति आङ्ग्रहण-स्याकरे प्रत्याख्यातत्वात्, आङि अनाङि च आत्मन्शब्दस्य छन्दसि तल्लोपविधायकत्वादस्य योगस्य युक्तो ङसि परतोऽपि तद्विधायकतयोपन्यास इति द्रष्टव्यम् । द्वन्द्व इति ।। इश्व्ं च पूर्तं चेति इष्टापूर्तमितीतरेतरयोगद्वन्द्वम् इत्यर्थः । नन्वेवं धवखदिरावित्यादिवत् इष्टापूर्ते इति द्विवचनेन भवितव्यत्वादिष्टापूर्तमिति एकवचनन्तु कथमित्यत एकवद्भावात्तदुपपत्तिरित्याह- तस्यैकवद्भाव इति ।। किमस्यैकवद्भावविधायकमित्यतः परिभाषासूत्रमेवेति तत्पठति- सर्वो द्वन्द्व इति ।।
(पां.टि.) नन्वेवं समाहारद्वन्द्वेऽपि ‘वाक्त्वचम्’, ‘त्वक्स्रजम्’ इत्यादावपि द्विवचनं प्राप्नोति । तथा इतरेतर-योगद्वन्द्वेऽपि पक्षे एकवचनं स्यादिति, उच्यते । सर्वो द्वन्द्व इत्यनेन समाहारद्वन्द्वस्तथेतरेतरद्वन्द्वो नापूर्वतया विभाषयैकवत्क्रियते । किन्तु न्यायसिद्धार्थोऽनूद्यते । तथा हि । सर्वो द्वन्द्व इति चार्थे द्वन्द्वः क्रियते । चार्थश्चेत-रेतरयोगः । स एव यदोद्रिक्तावयवभेदो भवति तदाऽवयवभेदानुगमाद् द्विवचनबहुवचने सिद्धे एव । यदा तिरोहितावयभेदविवक्षा तदा समाहार इति संहतिप्रधानत्वादेकवचनं भवति । तदेवं चार्थ एव सर्वो द्वन्द्वो विभाषया एकवद्भवतीति परिभाषारूपेण पठ्यते । ननु चार्थः समुच्चयः । नेतरेतरयोगः । चशब्दप्रयोगे समुच्चयस्य प्रतीतेरिति चेत् सत्यम्, किन्तु तत्प्रभेद एव इतरेतरयोगो न समुच्चयादन्यः । तथा हि- समुच्चय एव युग-पदर्थाभिधायिनां परस्परापेक्षाणां पदानां भवति तदा द्वन्द्वः क्रियते । एतावतैवेतरयोगश्चार्थ इत्युच्यते । नन्वेवं ‘द्वन्द्वश्च प्राणितूर्य’ इति सूत्रमनर्थकं स्यात् । तेन हि समाहारद्वन्द्वे एकवद्भावो विधीयते । तत्र हि समाहार-द्वन्द्वैकत्वादेकवचनसिद्धेरिति चेन्न । प्राण्यङ्गादीनां समाहारद्वन्द्व एव यथा स्याद्, इतरेतरयोगो मा भूदिति सूत्रप्रयोजनम् । ननु तर्हि किमर्थं समाहारैकत्वं क्रियते इतरेतरयोग एवैकवद्भावः क्रियताम् । एवं समाहारग्रहणं यत्नप्रतिपाद्यं न भवति । कार्यं च विधिमुखेनैव प्रवर्तते । उच्यते । इतरेतरयोगे एकवद्भावे सति ‘अस्थित्वचम्’ इत्यत्र समाहारद्वन्द्वलक्षणे ‘द्वन्द्वाच्चुदषहान्तात् समाहारे’ इति न स्यात् । नन्वेवमपि पूर्वोक्तप्रकारेण समाहार एवैकवचनं भवति । समाहारश्चैक एव । एवं च एकवदिति वतिर्नोपपद्यते । नह्येक एव एकवदित्युच्यते । उच्यते । बुद्ध्याऽनेकत्वमध्यारोप्य भविष्यति । उक्तं च- ‘बुद्धिर्हि भवन्ती अभेदेऽपि भेदं जनयति’ यथा ‘राहोः शिरः’ इति । यद्वा नायं वतिः, किं तर्हि? वदेर्विजन्तादेकवदिति । ननु तथाप्यशेषद्वन्द्वे एकत्वाविधानात् सर्वो द्वन्द्व इति अघटना स्यात् । उच्यते । सर्वो द्वन्द्व इति कोऽर्थः । इतरेतरयोगः समाहारात्मक इत्यर्थः । न चैवमपि वृक्षमृगादिसूत्रमनर्थकम्, अनयैव परिभाषया बाभ्रव्यशालङ्कायनं, बाभ्रव्यशालङ्कायनाः, (इत्येतद्वस्तु) प्लक्षन्यग्रोधं प्लक्षन्यग्रोधा इत्येवमादीनां सिद्धत्वादिति वाच्यम् । सिद्धे परिभाषयैकत्वे वृक्षादीनां सजातीयैरेव द्वन्द्वो यथा स्यात् न विजातीयैरिति व्यतिकरनिरासार्थं विभाषया एकत्वविधानमिति दिक् ।
नन्वेवम् इष्टपूर्तमिति भवितव्यम् इष्टापूर्तमिति दीर्घत्वं तु कथमित्यत आह- अन्येषामपीति ।। मन्त्र इति निवृत्तम् । अमन्त्रविषये अन्येषामपि दीर्घो दृश्यत इति सूत्रार्थः । तथा च केशाकेशीत्यादिवत् इष्टापूर्तमिति दीर्घो युक्त इति भावः । केचित् इष्टापूर्तमित्यस्य देवताद्वन्द्वत्वाभावाद् दीर्घानुपपत्तिमाशङ्क्य आहेति ग्रन्था-वतारमाहुः । न निश्चायक इति ।। सम्भावनाया अप्रमाणत्वेनानिश्चायकत्वादिति भावः ।
लघुप्रभा
(व्या.टि.)
उत्तरग्रन्थोपक्षेपाय वृत्तमनुवदति- एवमिति ।। एवं सतीति ।। अतदिति पदविच्छेद इत्यर्थः । ऐक्यप्रतिषेधेति ।। अतदिति तन्नेति च समासव्यासयोरैक्यादिति भावः । प्रतिषेधानुपपत्तेरिति ।। अध्यारोपाप-वादन्यायेनाप्राप्तप्रतिषेधानुपपत्तेरित्यर्थः । प्राप्तिमिति ।। चतुर्धेति शेषः । सर्वभूतानामिति मूलस्य सर्वभूतात्मक-देहानामित्यर्थः । प्राणशब्देनेति ।। ‘सप्त वै शीर्षण्याः प्राणाद्वाव वाचौ’ इति ‘तथा प्राणाः पञ्चवृत्तिः’ इति (व्या.टि.) चोभयत्र प्रयोगादित्यर्थः । धीशब्देनेति ।। उत्तरबुद्धिशब्देन चेति ग्राह्यम् । ‘ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ इति श्रुतेरिति भावः । वायव एवेति ।। इन्द्रियाणां पृथग्ग्रहणादित्यर्थः । त्मन इति पदं व्याचश्व्े- आत्मन इति ।। तत्राकारलोपे सूत्रं पठति- मन्त्रेष्विति ।। नन्वाङिति टासंज्ञा । न चात्र टाऽस्ति । अस्य ङसन्तत्वादिति चेन्न । काशिकावृत्तौ आङीत्यस्योपलक्षणत्वमुपेत्य ‘आङोऽन्यत्रापि छन्दस्याकारलोपो भवति । यथाऽत्मनि सोमेभ्यः’ इत्युदाहृतत्वेनान्यत्राप्याकारलोपसम्भवात् । दृश्यते चान्यत्राप्याकारलोपः ‘त्मन्यासमञ्जन्नश्वो घृतेन’ ‘त्मन्यासक्तः’ इत्यादिषु । अतोऽत्रापि ङस्याकारलोपोऽनेनावधेयः । बध्यत इति ।। पात्यत इत्यर्थः । ननु तल्लक्षणाभिमानेऽपि न स्वरूपैक्याभिमान इत्यत आह- लक्षणाभिमानो नामेति ।। तस्य तन्नान्तरीयकत्वादित्यर्थः । ननु यथाप्राप्ति निषेद्धव्यतया साधारणप्राप्तौ विशेषनिषेधो नोपपन्न इत्यत आह- श्वेतकेतूपलक्षितानामिति ।। इष्टानिष्टेति ।। ‘स दह्यतेऽथ बध्यते’ इति ‘स न दह्यतेऽथ मुच्यते’ इति नवमस्थाने तदुपदेशार्थमित्यर्थः । एयायेति ।। इणो णलि वृद्धौ ‘अभ्यासस्यासवर्णे’ इत्यभ्यासस्येयङादेशे इयायेति सिद्धे पूर्वत्राङः संश्लेषे रूपम् । इति सम्बन्ध इति ।। इत्यत्रेति दूरस्थयोर्निपातयोः सम्बन्ध इत्यर्थः । आरुणेय इति ।। ‘स्त्रीभ्यो ढक्’ इति ढकि ‘आयनेयीनीयियः’ इत्यादिना एयादेशे रूपमिति भावः । आसेति ।। नन्वासेति कथम्? ‘अस्तेर्भूः’ इत्यस्यार्धधातुके नित्यत्वादिति चेन्न । एधामासेत्यादावनुप्रयोगे दृष्टविभक्तिप्रतिरूपकाव्ययत्वात् । अस गतौ इति प्रकृत्यन्तरं वा । एवं ‘तस्माद्धान्यं न परः किञ्चनाऽस’ इत्यादयः समाधेयाः । ब्रह्मचर्यमिति ।। प्रतीतिशेषः । सोम्येति ।। ‘सोममर्हति यः’ इति यः । कुलीन इति ।। ‘कुलात्खः’ इति खः । अननूच्येति ।। यद्यपि ‘समासेऽनञ्पूर्वे’ इति पर्युदासान्न ल्यप् सम्भवति । तथापि ल्यबन्तान्नञ्समासो बोध्यः । अज्ञानमात्रं नाहङ्कारे हेतुरित्यत आह- विज्ञाय चेति ।। ‘उपेयिवान-नाश्वाननूचानश्च’ इति वेदानधीतवति अनूचानशब्दो निपातितः । सर्वान् वेदानधीत्येति सर्ववेदाध्ययनोक्ते-रनूचानोऽसौ । तथा च कथमिति ।। कथमित्याक्षेपे । न कथमपीत्यर्थः । ननु लक्षणाभिधानेऽपि नैक्याभिधान-मित्यत आह- परमात्मेति ।। प्राप्तेरिति ।। अवर्ज्यत्वादित्यर्थः । अनेन परपक्षप्रतिक्षेपोऽप्यनुषङ्गसिद्ध इत्याह- अनेनेति ।। प्रक्रमासङ्गतिश्चेति इति ।। ‘स्तब्ध एयाय’ इति स्तब्धस्योपसत्तिविधानेनोपसन्नस्य स्तब्धता-निरासकोपदेशेन भाव्यम् । ऐक्योपदेशे पुनः स्तब्धतास्थापनप्रसङ्गेन प्रक्रमासङ्गतिरित्यर्थः ।
वादिप्रसिद्धमित्येतद्वादिभ्यः प्रसिद्धं प्राप्तमित्यभिप्रेत्य व्याचश्व्े- वादिप्रवादेति ।। प्रवाहरूपेणेति ।। यथोक्त-मनुव्याख्याने ‘अनादिकालतो वृत्ताः समया हि प्रवाहतः’ इति । असत्कारणत्वं पराभिमतमिति कुतो ज्ञायत इत्यत आह- एक आहुरिति वचनादिति ।। ‘एके मुख्यान्यकेवलाः’ इत्यमरोक्तेरेकशब्दस्यान्यार्थत्वात् । कुतस्तु, कथमिति च दूषणेनान्यार्थत्वनिश्चयाच्च । तात्पर्यं तात्पर्यविषयः। तत्किमित्यत आह- अन्तर्यामिण इति ।। मूले अपरिज्ञानपदं विपरीतज्ञानोपलक्षकमिति भावेनाह- अन्यथार्थप्रतीत्येति ।। अधिष्ठानब्रह्मतत्व-ज्ञानेनेत्यर्थः । अदृष्टचरमिति ।। भूतपूर्वे चरडिति भावः । तत्रापि किं तदित्याशङ्क्याह- अनीश्वरविषयं (व्या.टि.) काम्यं कर्म चेति ।। वेदोपबृंहणार्थमुदितायां गीतायाम्-
‘यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ।।’
इति भगवदर्पणबुद्ध्या निष्कामककर्मणो विधानादिति भावः । पृष्ठ इति ।। पृष्ठशब्द उन्नतिवाची । ‘विश्वतः पृष्ठेषु’ इति अत्रैव प्रयोगात् । यजुषि ‘बार्हस्पत्यं शितिपृष्ठमालभेत ग्रामकामो यः कामयेत पृष्ठसमानानास्या-मिति बृहस्पतिमेव स्वेन भागधेयेनोपधावति स एवैनं पृष्ठसमानानां करोति’ इति समानानामुत्तमं करोतीत्यर्थस्य स्पष्टवचनाच्च । सुकृत इति ।। सुकृतप्राप्य इति प्राप्यप्रापकयोरभेदव्यपदेशः । ‘ते पुण्यमासाद्य सुरेन्द्रलोकम्’ इति यथा । इमं लोकं तिर्यग् लोकम् । हीनतरं यातनां वा । यथोक्तं श्रुतौ ‘त्रेधा हवाऽवाग्गतिस्तिर्यग्यातना तम इति’ इति । एतदुपबृंहणं गीतायाम् । ‘त्रैविद्या माम्’ इत्यारभ्य ‘ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ इत्यधोलोकप्राप्तेरुक्तत्वात् । न तु निराक्रियते निषेधाश्रवणादित्यत आह- निन्दाया इति ।। अत एव मीमांसायाम् ‘अश्रुजहि यो बर्हिषि ददाति पुरास्य संवत्सराद् गृहे रुदन्ति’ इति निन्दाया बर्हिषि रजतं न देयमिति निषेधे तात्पर्यमुक्तमिति हृदयम् । यजेः किति सम्प्रसारणं मत्वाह- इश्व्ं यजन-मिति ।। अन्नदानादिकमिति ।। ‘पूर्तं खातादिकर्मसु’ इत्यादिपदेनास्यापि परिग्रहादित्यर्थः । वस्तुतस्तु पूर्यतेऽनेनेति करणे क्तः । ‘व्यत्ययो बहुलम्’ इति सूत्रात् । ‘अन्नात् प्राणा भवन्ति’ इति श्रुतेरिति । श्रेयः-शब्दाभिधेयमाह- परं ब्रह्मेति ।। तत्र प्रवृत्तिनिमित्तमाह- पूज्यमिति ।। प्रशस्यशब्दादीयसुनि ‘प्रशस्यस्य श्रः’ इति श्रादेशे श्रेयः पूज्यमिति भवति । तद्भावमाह- तत्प्रसादमिति ।। ननु ‘सदिरप्रतेः’ इति प्रतिभिन्नात्सदेः सस्य षः स्यादिति षत्वे प्रषाद इति स्यात् कथं प्रसादमित्यवादीदिति । मैवम् । ‘इण्कोः’ इति पूर्वसूत्रात् इण्-ग्रहणानुवृत्तेरिगन्तादुपसर्गादेव षत्वं निषीदतीति । न त्वदन्तोपसर्गादिति बोध्यम् । वेदयन्त इति । ‘सुप्तिङुप-ग्रह’ इति उपग्रहव्यत्ययः । स्वार्थे णिजिति भावेन व्याख्याति- जानन्तीति ।। चशब्दसमुच्चेयं दर्शयति- न केवलमिति ।। केचिदिति वादिवादस्य विजातीयतायाः, तात्पर्यापरिज्ञानस्य चोक्तत्वादित्यर्थः । चतुर्धेति ।। आद्याया अभिमानतः प्राप्तेः साधारण्यासाधारण्याभ्यां द्वैविध्यात् प्राप्तिचातुर्विध्यं बोध्यमिति दिक् ।