नच सादृश्यात् ..
प्रत्यभिज्ञाभ्रान्तित्वनिरासः
मूलम्
- नच सादृश्यात् प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम् ; ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वप्राप्तेः ।
तत्त्वमञ्जरी
न च पूर्वाधीतवचनसादृश्यादस्य वचनस्य तदेवेदं वचनमिति प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम् । पूर्वानुभूत एव देवदत्ते सोऽयं देवदत्त इत्यादिप्रत्यभिज्ञाया अपि भ्रान्तित्वप्राप्तेः । बाधरहितस्य भ्रान्तित्वकल्पने तु एवमतिप्रसङ्गः स्यादित्याशयः ।
टीका
अस्तु तथाऽपि नानया वर्णानां नित्यत्वं सिद्ध्यति । यतः पूर्वोच्चारितेन गकारेणेदानीमुच्चा-रितस्य गकारस्य सादृश्यात् तन्निबन्धना भ्रान्तिरेवेयम् । यथा परिलूनपुनर्जातकुन्तलकलापयोः सादृश्यात् स एवायं कुन्तलकलाप इति प्रत्यभिज्ञा भ्रान्तिरित्यत आह- नच सादृश्यादिति ।। कुतो न वाच्यमिति चेद्वैषम्यात् । युक्तं कुन्तलकलापप्रत्यभिज्ञाया भ्रान्तित्वकल्पनम् । परिलून-कुन्तलकलापस्य भूमौ पतितस्य दर्शनेन नायमसाविति बाधकप्रत्ययोदयात् । नचात्र तथा बाधकप्रत्ययोऽस्ति । एवमेव भ्रान्तित्वकल्पने च अतिप्रसङ्ग इति भावः । ननु वर्णेष्वपि तीव्रत्वमन्द्रत्वादिविरुद्धधर्माध्यासेन भेदानुमानं प्रत्यभिज्ञाबाधकं विद्यते । विरुद्धधर्माधिकरणा-नामप्यभेदे कुत्रापि भेदाभावप्रसङ्गेन निरवकाशमनुमानं प्रत्यभिज्ञाप्रत्यक्षमपि बाधितुं क्षमत एवेति चेत् । किं यादृशतादृशो विरुद्धधर्माध्यासो भावभेदहेतुरङ्गीक्रियते उत विशिश्व्ः । आद्येऽतिप्रसङ्गमाह- सोऽयमिति ।। तथात्वे देवदत्तादेरपि शिखी मुण्डी जटिल इति विरुद्धधर्माध्यासेन भेदप्राप्तेः सोऽयं देवदत्त इत्यादेरपि प्रत्यभिज्ञाया भ्रान्तित्वप्राप्तेः । यत्र देशकालपुरुषावस्थादिभेदस्य व्यवस्था-पकस्याभावस्तत्रैव विरुद्धधर्माध्यासो भेदहेतुरिति द्वितीय एव पक्षोऽङ्गीकरणीयः, यथा जीवेश्वरयोः सर्वज्ञत्वाल्पज्ञत्वादिरूपः । नच तथाविधो विरुद्धधर्माध्यासो वर्णेष्वस्ति । एकस्यैव वर्णस्य कालभेदेनोच्चारयितृपुरुषभेदेन नासिकादिस्थानभेदेन विरुद्धधर्माध्यासोपपत्तेः । केनापि प्रमाणेन ज्ञानद्वयप्रामाण्यानुपपत्तौ खल्वन्यतरस्याप्रामाण्यमङ्गीकर्तव्यमित्याशयः ।
ननु वैशेषिकादयो देवदत्तादेरपि पार्थिवद्रव्यस्य पाकेन प्रतिक्षणमुत्पत्तिविनाशावङ्गीकुर्वाणाः सोऽयमिति प्रत्यभिज्ञाया भ्रान्तित्वमङ्गीकुर्वत एव । तत् कथमिदमापादनमिति चेत् । सत्यम् । तथाऽपि पार्थिवपरमाणुषु रूपादिपरिवर्तनेनाऽकाशादिषु च शब्दादिभावाभावेन प्राप्तस्यातिप्रसङ्गस्य कः प्रतीकारः । एतदेव विशदयितुम् इत्यादेरित्यादिग्रहणं कृतम् । किञ्च पाकेन देवदत्तादेर-प्यापरमाणुविनाशे पुनर्द्व्यणुकादिक्रमेणोत्पादाङ्गीकारेण प्रत्यभिज्ञाभ्रान्तित्वाभ्युपगमोऽनुपपन्न एव । तथा सति सौगतैस्सह विवादाभावप्रसङ्गात् । पार्थिवं हि सर्वं द्रव्यं देवदत्तसमानम् । आप्यतैजसवायवीयानां च वायूपघातादिमात्रेणावयवापगमोऽस्त्येव । आकाशस्य स्थायित्वं तैरप्यङ्गीकृतमेव । आत्मा तु स्वरूपत एव नाङ्गीकृतः । तथा कर्मसामान्यविशेषसमवाया गुणाश्च द्रव्यातिरिक्ता न सन्त्येव । केवलं परमाणुषु विवादोऽवशिष्यते । तेषां चातीन्द्रियत्वेना-स्मत्प्रत्यभिज्ञाऽगोचरत्वेन स्थायित्वसाधनोपायाभावः । निबिडावयवं स्फटिकादिकं विवादपदमिति चेन्न । तस्यापि प्रबलवातातपाद्यभिघातेनावयवापगमस्यावर्जनीयत्वात् । पूर्वापरकलाविकलकाल-वर्तित्वं क्षणिकत्वं बौद्धैरङ्गीकृतम्, वैशेषिकादिभिस्त्वाशुतरविनाशित्वमिति चेत् । सत्यम् । अयं तु विवादो न प्रत्यभिज्ञामात्रेण निरसनीयः ।
नन्वस्माभिरपि देवदत्तादेराशुतरविनाशित्वेन भेदोऽङ्गीक्रियत एव । सत्यम् । परिणामवादेऽ-भेदस्यापि विद्यमानत्वेन सोऽयमिति प्रत्यभिज्ञानस्याभ्रान्तित्वोपपत्तेः । अवयवोपचयापचय-निमित्तकपरिमाणभेददर्शनेन देवदत्तादौ परिणामोऽङ्गीक्रियते । नच वर्णेषु परिणामज्ञापकं किमप्यस्तीत्यत्यन्ताभेदः कूटस्थनित्यत्वं चाभ्युपगम्यते । अत एवात्र सोऽयमिति निरवधारण-मुक्तम्, तत्र तु तदेवेदमिति सावधारणमिति । विरुद्धधर्माधिकरणत्वमात्रस्य भेदहेतुत्वमङ्गीकृत्य प्रत्यभिज्ञाभ्रान्तित्वाङ्गीकारेऽतिप्रसङ्ग इति ।।
भावबोधः
।। भावभेदहेतुरिति ।। अभावो निर्धर्मक इति पक्षे न विरुद्धधर्माधिकरणत्वेनाभावभेदः, किन्तु प्रतियोग्यादिभेदेनेत्यभिप्रेत्य भावग्रहणं कृतमिति द्रष्टव्यम् ।। प्राप्तस्यातिप्रसङ्गस्येति ।। वैशेषिकादिमते योगिसद्भावेन परमाण्वादिविषयकतदीयप्रत्यभिज्ञाभ्रान्तित्वापादनरूपस्येत्यर्थः ।। परिमाणभेददर्शनेने-ति ।। परिमाणस्य यावद्द्रव्यभावित्वेन तद्भेदस्य द्रव्यभेदव्याप्तत्वादिति भावः ।। अत एवात्रेति ।। यतः परिणामवादिनां मते देवदत्तादौ भेदोऽप्यस्ति वर्णेषु चात्यन्तभेद एव, अत एवेत्यर्थः ।
भावदीपः
।। परिलूनेति ।। छिन्नपुनर्जातयोः केशसमूहयोरित्यर्थः । ‘सोऽयं देवदत्त इत्यादेः’ इति वाक्यस्य प्रागुक्तदृष्टान्तवैषम्यविवृतिपूर्वं तात्पर्यमाह- युक्तमित्यादिना भाव इत्यन्तेन । दुर्बलं कथं बाधकमित्यत आह- विरुद्धधर्माधिकरणानामिति ।। कुत्रापीति ।। घटपटादिष्वपीत्यर्थः ।। यादृशतादृश इति ।। देशकाल-पुरुषावस्थादिभेदरूपभेदव्यवस्थापकयुक्तो विरुद्धधर्माध्यास इत्यर्थः ।। विशिश्व् इति ।। उक्तरूपव्यवस्थापक-स्याभावेन युक्त इत्यर्थः ।। तथात्व इति ।। यादृशतादृशस्यापि भेदकत्व इत्यर्थः ।। इति विरुद्धधर्माध्यासे-नेति ।। अवस्थाभेदेन कालभेदेन वा भेदप्रतीतिव्यवस्थापकेनोपर्युक्तेन विरुद्धधर्माध्यासेनैव वस्तुनो देवदत्तस्य भेदप्राप्तेरित्यर्थः ।। व्यवस्थापकस्येति ।। भेदप्रत्ययव्यवस्थापकस्येत्यर्थः ।। नासिकादीति ।। ‘मुखनासिकावचनोऽनुनासिकः’ इति पाणिन्युक्तेर्नासिकादिस्थानेत्युक्तम् ।। ज्ञानद्वयेति ।। विरुद्धधर्म-ज्ञानादनुमित्यभेदप्रत्यभिज्ञारूपज्ञानद्वयेत्यर्थः ।। पाकेनेति ।। घटादौ पाके सति कपालद्वयसंयोगरूपासमवायि-कारणनाशपरम्परया परमाणुद्वयसंयोगनाशपर्यन्तमसमवायिकारणनाशेन परमाणुपर्यन्तं कार्यनाशे सति भोजका-दृष्टबलेन पुनः परमाणुक्रियावशेनाणुद्वयसंयोगादिपरम्परया घटादिकार्योत्पत्तिरिति पीलुपाकप्रक्रियया प्रतिक्षण-मुत्पत्तिविनाशावङ्गीकुर्वाणा इत्यर्थः । पाकेनेत्युपलक्षणम् । नोदनाभिघातादिनैकैकावयवापगमेनापीत्यपि ध्येयम् ।। भ्रान्तित्वमिति ।। परिणामभेदेन देवदत्तादिदेहेऽपि प्रतिक्षणमुत्पत्तिविनाशयोरङ्गीकाराद्भ्रान्तित्वमङ्गी-कुर्वत एवेत्युक्तम् ।। तथाऽपीति ।। सोऽयमित्यादिबुद्धेर्भ्रान्तित्वेऽपीत्यर्थः ।। रूपादिपरिवर्तनेनेति ।। प्राप्तस्येत्यन्वयः । तद्रूपादेः पाकजत्वोपगमादिति भावः । आकाशादिष्वित्यादिपदेनाऽत्मदिक्कालग्रहणम् । शब्दादीत्यादिपदेन ज्ञानसुखदुःखेच्छासंयोगादिपरिग्रहः । तेषाम् अव्याप्यवृत्तित्वादिति भावः ।। अतिप्रसङ्ग-स्येति ।। यादृशतादृशविरुद्धधर्माश्रयपरमाण्वादिभेदस्येत्यर्थः । तत्र कालादिभेदेनोपपन्नेनापि विरुद्धधर्माध्यासेन प्राप्ताश्रयभेदापादनस्य न किञ्चिदुत्तरमिति भावः । तत्प्रक्रियैवायुक्तेत्याह- किञ्च पाकेनेति ।। सौराऽलोककृत-पाकेनेति वा जाठराग्निकृतपाकेनेति वाऽर्थः ।। सौगतैरिति ।। सर्वक्षणिकत्ववादिभिः । समानमित्युक्तं व्यनक्ति- आप्येति ।। अस्त्येवेति ।। तथाच तत्रापि पीलुपाकप्रक्रियया प्रतिक्षणमुत्पत्त्यादेरङ्गीकार्यत्वान्न तत्रापि तैस्तव विवादः । आकाशादिषु स भविष्यतीत्यत आह- आकाशस्येति ।। द्रव्यातिरिक्ता इति ।। अङ्गुल्य इव द्रव्येभ्यः पृथग्भूता इत्यर्थः । येन तेषु क्षणिकत्वाक्षणिकत्वविवादो घटेतेति भावः । वर्णेष्वपि किमेवं भेदाभेदौ स्त इत्यतो नेत्याह- अवयवेति ।। देवदत्तादाविति ।। देवदत्तदेहादावित्यर्थः ।। कूटस्थेति ।। कूटमाकाशम् । ‘कूटं खं विदलं व्योम’ इत्यादेः । तद्वत्तिष्ठतीति कूटस्थतया आद्यन्तशून्यत्वं निर्विकारनित्यत्वमित्यर्थः।। अत्रे-ति ।। देवदत्तादौ ।। तत्रेति ।। वर्णविषये । सोऽयमित्यादेः फलितार्थमुपसंहरति- विरुद्धधर्मेति ।।
वाक्यार्थदीपिका
(श्री.टि.)
परिलूनाः परितश्छिन्नाः । ‘लूञ् छेदने’ इति धातोः ।। एवमेवेति ।। बाधकप्रत्ययाभावेऽपीत्यर्थः ।। अतिप्रसङ्ग इति ।। सोऽयं देवदत्त इत्यादिप्रत्यभिज्ञाया अपि भ्रान्तित्वं स्यादित्यर्थः । तीव्रत्वं तारत्वम् ।। भेदानुमानमिति ।। श्रुतश्रूयमाणौ तीव्रमन्द्रगकारौ भिन्नौ तीव्रत्वमन्द्रत्वरूपविरुद्धधर्माधिकरणत्वात् । यद् विरुद्धधर्माधिकरणं तद् भिन्नमिति व्याप्तेरित्यर्थः । अनुमानेऽप्रयोजकताशङ्कापरिहारायानुकूलतर्कमाह- विरुद्धेति ।। कुत्रापि जगति ।। यादृशतादृश इति ।। अविशेषित इत्यर्थः । अध्यासोऽधिकरणत्वम् ।। भावभेद-हेतुरिति ।। पदार्थभेदहेतुरित्यर्थः । भावबोधे तु ‘अभावो निर्धर्मक इति पक्षे न विरुद्धधर्माधिकरणत्वेन अभाव-भेदस्सम्भवति । किन्तु प्रतियोग्यादिभेदेनेत्यभिप्रेत्य भावग्रहणं कृतमिति द्रष्टव्यम्’ इति व्याख्यातम् ।। विशि-श्व् इति ।। देशकालपुरुषावस्थादिभेदरूपव्यवस्थापकाभावविशिश्व् इत्यर्थः ।। तत्रैवेति ।। यत्र देशादिव्यवस्थापक-(श्री.टि.) सद्भावस्तत्र विरुद्धधर्माध्यासो न भावभेदहेतुः । तद्यथा एकस्यैव देवदत्तस्य सत्त्वासत्त्वयोर्देशभेदेन, शिखित्वमुण्डित्वयोः कालभेदेन, एकस्यैव घटस्यैकदैव ज्ञातत्वाज्ञातत्वयोः पुरुषभेदेन, एकस्यैव देवदत्तस्य नीलशुक्लकेशवत्त्वयोर्यौवनाद्यवस्थाभेदेनोपपन्नत्वादित्यवधेयम् ।। जीवेश्वरयोरिति ।। जीवे सार्वज्ञस्य ईश्वरेऽ-ल्पज्ञत्वस्य च देशादिभेदेन कदाऽपि व्यवस्थाया असम्भवादिति भावः । तथाविधो व्यवस्थापकाभावविशिष्टः ।। कालभेदेनेति ।। एक एव देवदत्तः कदाचिद्गकारं तीव्रतयोच्चारितवान्कदाचिन्मन्द्रतयेति कालभेदेनेत्यर्थः । उच्चारयितृपुरुषभेदेनेति ।। एकमेव गकारम् एकः पुमान्तीव्रतयोच्चारयति अपरस्तु मन्द्रतयेत्यर्थः ।। नासि-कादीति ।। नासिकाध्वनिनोच्चारिते सति गकारो मन्द्रस्सम्पद्यते । सम्यगुच्चारिते सति तीव्रस्सम्पद्यत इत्यर्थः ।। उपपत्तेरिति ।। तथा च विशिश्व्स्य हेतुत्वेऽसिद्धिरिति भावः । ननु तारो गकारो, मन्द्रो गकार इति तारत्व-मन्द्रत्वरूपविरुद्धधर्मावगाहिज्ञानद्वयमध्ये एकस्य ज्ञानस्याप्रामाण्यमेवाङ्गीकृत्य विरुद्धधर्माधिकरणत्वमेव नास्तीति हेतोस्स्वरूपासिद्धिरित्येव कस्मान्नोच्यते । किं विशिष्टस्य हेतुत्वमङ्गीकारयित्वा तस्य स्वरूपासिद्ध्यु-क्त्येत्यत आह- केनापि प्रकारेणेति ।। प्रकृते च उक्तप्रकारेण ज्ञानद्वयस्यापि प्रामाण्यं युक्तमिति भावः ।
आदिपदं सङ्गमयितुमाह- नन्विति ।। वैशेषिकादय इत्यत्राऽदिपदेन नैयायिका ग्राह्याः । देवदत्तादेः ‘एष चेतनया युक्तो जीव इत्यभिधीयते’ इति वचनाद्देवदत्तशरीरस्येत्यर्थः ।। पाकेनेति ।। आतपादिरूपतेजस्सं-योगेनेत्यर्थः ।। अङ्गीकुर्वाणा इति ।। पीलुपाकप्रक्रिययेत्यर्थः ।। तत्कथमिति ।। वर्णानित्यत्ववादिनो वैशेषिकादीन्प्रति हीदमापादनं कर्तव्यं, तन्न सम्भवति । अनिष्टत्वाभावादित्यर्थः ।। रूपादिपरिवर्तनेनेति ।। पार्थिवपरमाणुगतरूपादीनां पाकजत्वादिति भावः ।। प्राप्तस्यातिप्रसङ्गस्येति ।। वैशेषिकमते योगीश्वराणां सत्त्वेन तेषां सोऽयं परमाणुः सोऽयमाकाश इति प्रत्यभिज्ञा भवति । तस्या भ्रान्तित्वं स्यात् । रूपादिपरिवर्तन-शब्दभावाभावादिरूपविरुद्धधर्माधिकरणत्वस्य परमाण्वादावपि सत्त्वादित्यर्थः । मूले भगवत्पादैः सोऽयं देवदत्त इति प्रत्यभिज्ञाया भ्रान्तित्वमङ्गीकृत्य ‘इत्यादेः’ इत्युक्तम् । वस्तुतस्तु सा प्रत्यभिज्ञा भ्रान्तिर्न भवत्येवेत्या-शयेनाऽह- किञ्चेति ।। अभ्युपगमो वैशेषिकादीनाम् ।। सौगतैस्सहेति ।। देहदीपफलादिदृष्टान्तेन सर्वस्यापि घटादिप्रपञ्चस्य क्षणिकत्वे सौगतैः प्रतिपादिते सति ‘सोऽयं देवदत्तः, सोऽयं घटः’ इत्यादिप्रत्यभिज्ञया स्थायित्वं तान्प्रति वैशेषिकादिभिः प्रतिपादनीयम् । देवदत्तादेरपि पाकेन प्रतिक्षणमुत्पत्तिविनाशावङ्गीकृत्य प्रत्यभिज्ञाया भ्रान्तित्वाङ्गीकारे स्थायित्वसाधकाभावेन सौगतमतमेवाङ्गीकृतं स्यात् । तथा च तैः सह वैशेषिकादीनां विवादो न स्यादित्यर्थः । ननु कथं विवादाभावः । देवदत्तादेः पाकेन प्रतिक्षणमुत्पत्तिविनाशाङ्गीकारेऽपि घटादि-पार्थिवद्रव्यस्य क्षणिकत्वं सौगतैरुच्यते । तत्र स्थायित्वं प्रत्यभिज्ञया साध्यत इति पार्थिवद्रव्यमेव विवादपदं भविष्यतीति वैशेषिकेणोक्ते सत्याह- पार्थिवं हीति ।। समानमिति ।। तत्रापि पाकेन देवदत्तदेहवत् प्रतिक्षणमुत्पत्तिविनाशयोस्सत्त्वादित्यर्थः । तथा च प्रत्यभिज्ञा भ्रान्तिरिति भावः । नन्वाप्यतैजसवायवीयपदार्थानां क्षणिकत्वे तैरभिहिते प्रत्यभिज्ञया स्थायित्वं साधयिष्यामीति तेषामेव विवादपदत्वं भविष्यतीत्यत आह- आप्येति (श्री.टि.) ।। अवयवापगम इति ।। तथा च तत्र प्रत्यभिज्ञा भ्रान्तिरेवेति भावः । नन्वस्तु तर्ह्याकाशे विवादः। तस्य क्षणिकत्वे परैरभिहिते प्रत्यभिज्ञया स्थायित्वं तत्र साधयिष्यामीति चेत् तत्राऽह- आकाशस्येति ।। तैः सौगतैः ।। अङ्गीकृतमिति ।। ‘आकाशो द्वौ विनाशौ च नित्यं त्रयमसंस्कृतम्’ इति तद्वचनाद् इत्यर्थः । तथा च स्थायित्वस्योभयसम्मतत्वान्न तत्र विवाद इति भावः । नन्वस्तु तर्ह्यात्मनि, कर्मसामान्यविशेषसमवायेषु च विवादः । तेषां तैः क्षणिकत्वेऽभिहिते प्रत्यभिज्ञया स्थायित्वं तेषां मया साध्यत इति चेत् तत्राऽह- आत्मा त्विति ।। ‘समवायाः’ स्वरूपत एव नाङ्गीकृता इति वर्तते ।
ननु कथमेतत् । वैभाषिकसौत्रान्तिकाभ्यामात्मनोऽङ्गीकृतत्वात् । यथोक्तमनुव्याख्याने तन्मतानुवादावसरे ‘आत्मानं च क्षणस्थितम्’ इति । उच्यते । स्वरूपत एव नाङ्गीकृत इत्यस्य आकाशादिवत्पञ्चस्कन्धातिरिक्तो नाङ्गीकृत इत्यर्थः । तौ ह्यात्मानं पञ्चस्कन्धानां मध्ये संज्ञास्कन्धेऽन्तर्भावयतः । ततश्च ताभ्यामात्मनः क्षणि-कतयाऽङ्गीकृतत्वेन पञ्चस्कन्धातिरिक्तस्य स्थायिन आत्मनः स्वरूपेणैवानङ्गीकारात् कुत्र विवादः स्यात्? धर्मिण एवाभावात् । अत एवोदाहृतानुव्याख्यानावसरे सुधायामुक्तम्- ‘सन्तन्यमानं ज्ञानमेवाऽत्मा’ इति । ‘अन्योन्यापेक्षया पुंसस्समुदायत्ववेदनम्’ इत्येतद्व्याख्यानसमयेऽप्युक्तम् ‘ज्ञानं हि द्विविधम् । प्रवृत्तिज्ञानम् आलयज्ञानं चेति । तत्राऽलयज्ञानमेव प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते’ इति । तथा चाऽत्मनः पञ्चस्कन्धान्तर्गतत्वेन सौगतैः क्षणिकत्वाङ्गीकारात् त्वयाऽपि देवदत्तादेरात्मनः पाकेन क्षणिकत्वाङ्गीकारान्न तत्र प्रत्यभिज्ञया स्थायित्वं साधयितुं शक्यमिति हृदयम् । अस्तु तर्हि रूपादिगुणेषु विवादः । तेषां क्षणिकत्वे सौगतैरुक्ते प्रत्यभिज्ञया स्थायित्वं साधयिष्यामीति चेत् तत्राऽह- गुणाश्चेति ।। द्रव्येषु च पार्थिवादिषु विवादो न सम्भवतीत्युक्तमेवेति भावः ।। अस्मदिति ।। योगिसद्भावे मानाभावादिति भावः ।। प्रत्यभिज्ञाऽ-गोचरत्वेनेति ।। प्रत्यभिज्ञाविषयत्वाभावादिति भावः ।। निबिडेति ।। तथाच स्फटिकादेः क्षणिकत्वे तैरभिहिते प्रत्यभिज्ञया स्थायित्वं साध्यते, तस्य निबिडावयवत्वेनावयवापचयाभावात् प्रत्यभिज्ञाया न भ्रान्तित्वमिति भावः ।। तस्यापीति ।। तथा च तत्रापि प्रत्यभिज्ञाया भ्रान्तित्वमेवेति भावः । ननूक्तरीत्या पार्थिवादिद्रव्यस्य क्षणिकत्वं सौगतवद्वैशेषिकैरप्यङ्गीकृतमेवेति न विवादः, तथाऽपि क्षणिकत्वलक्षणे विवादोऽस्तीत्याशयेन शङ्कते- पूर्वापरेति ।। कला विभागः । ‘अयं पूर्वभागोऽयमपरभागोऽयं मध्यभागः’ इति विभागो यत्र कर्तुं न शक्यतेऽसौ पूर्वापरकलाविकलकालः, तत्र वर्तित्वं क्षणिकत्वमित्यर्थः । ‘पूर्वमध्यापरकलारहितः क्षण इष्यते’ इत्युक्तत्वादिति भावः ।। आशुतरविनाशित्वमिति ।। त्रिक्षणावस्थायित्वमित्यर्थः । तथा चाऽशुतरविनाशित्वग्राहिप्रत्यभिज्ञया तदभिमतं क्षणिकत्वं निरस्यत इति भावः ।। अयं तु विवाद इति ।। इदं वस्तु न पूर्वापरकलाविकलकालवर्ति किन्त्वाशुतरविनाशीत्यर्थे प्रत्यभिज्ञाया अप्रवृत्तेः, प्रत्यक्षेणातिसूक्ष्मकालभेदानाकलनादिति भावः । शिष्यः शङ्कते- नन्विति ।। अवयवोपचयापचयाभ्यां प्रतिक्षणं देवदत्तादेरुत्पत्तिविनाशाङ्गीकारेण भेदाङ्गीकारादस्मन्मतेऽ-पि सोऽयं देवदत्त इति प्रत्यभिज्ञा भ्रमरूपैवेत्यर्थः । तथा च वैशेषिकादिभिरिवास्माभिरपि प्रत्यभिज्ञाया भ्रान्ति-(श्री.टि.) त्वाङ्गीकारान्न तान्प्रति प्रत्यभिज्ञाया भ्रान्तित्वापादनं भवतां युक्तमित्याशयः ।। परिणामवाद इति ।। अवयवोपचयापचयाभ्यां परिणामवाद इत्यर्थः ।। अभेदस्यापीति ।। भेदाभेदाङ्गीकारादिति भावः ।। प्रत्यभिज्ञानस्येति ।। अभेदावगाहिप्रत्यभिज्ञाया इत्यर्थः । अत एव ‘स एवायं देवदत्त इत्यत्यन्ताभेदावगाहि-प्रत्यभिज्ञाया भ्रान्तित्वेऽपि सोऽयमिति तु न भ्रमः’ इत्युपपादितमन्यत्रेति द्रश्व्व्यम् । ननु वर्णेषु प्रत्यभिज्ञयाऽभेदः सिद्ध्यतु, देवदत्तादाविव भेदोऽप्यस्ति किम्? इत्याशङ्कायां प्रत्यभिज्ञाबलादत्यन्ताभेद एव सिद्ध्यतीत्याह- अवयवेति ।। किमपीति ।। निरवयवत्वेन तदुपचयापचयकल्पनाऽयोगादित्याशयः । कूटस्थनित्यत्वं निर्विकारत्वे सति नित्यत्वम् । अत्र ज्ञापकमाह - अत एवेति ।। यतः परिणामवादिनां मते देवदत्तादौ भेदोऽप्यस्ति वर्णेषु चात्यन्ताभेदोऽत एवेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
भ्रान्तित्वं किं बाधकबलात्कल्प्यते किं वा तदभावेऽपि । आद्येऽपि बाधकत्वेनाभिमता भेदधीः किं प्रात्यक्षिकी किं वाऽनुमानिकी इति विकल्पं मनसि निधायाऽद्यं दूषयति- नचात्र तथेति ।। नायमसौ इतिवत् ‘स गकारोऽयं गकारो न भवति’इति न विशेषेण भेदप्रत्यक्षमस्तीत्यर्थः । पूर्वविकल्पद्वये द्वितीयं दूषयति- एव-मेवेति ।। बाधकाभावेऽपीत्यर्थः । अन्तिमविकल्पद्वये द्वितीयं शङ्कते- नन्विति ।। विरुद्धधर्माध्यासेनेति ।। विरुद्धधर्माधिकरणत्वेनेत्यर्थः । अत एवोत्तरत्र ‘विरुद्धधर्माधिकरणानामपि’ इति वक्ष्यतीति ज्ञेयम् । ननु दुर्बल-स्यानुमानस्य कथं प्रबलप्रत्यक्षबाधकत्वमित्यत उक्तम् ।। निरवकाशमिति ।। तत्कथमित्यतोऽनुकूल-तर्कसहकृतत्वादिति भावेन तमाह- विरुद्धेति ।। कुत्रापीति ।। जीवेश्वरादावपीत्यर्थः ।। भावभेदहेतुरिति ।। इदं चाभावस्तुच्छत्वान्निर्धर्मक इति मतमाश्रित्योक्तम् । तन्मत एवाभावस्य विरुद्धधर्माधिकरणत्वाभावेन, तस्य भावाभावसाधारण्येन पदार्थमात्रभेदकत्वाभावेन भावमात्रभेदकत्वस्य सत्त्वात् । अत एव भाववदभावस्यापि प्रामाणिकत्वसधर्मकत्वव्युत्पादनेनैतन्मतं सुधायां निरस्तम् । मतान्तरे तु भावपदं पदार्थमात्रवचनमिति द्रश्व्-व्यम् । ननु किमनेनैकस्यैव कालादिभेदाद्विरुद्धधर्माधिकरणत्वव्युत्पादनप्रयासेन । प्रत्यभिज्ञाविरोधेन भेदानु-मानस्य, भेदानुमानविरोधेनाभेदप्रत्यभिज्ञानस्य वाऽप्रामाण्यस्यैवाऽश्रयितुं शक्यत्वादित्यत आह- केनापी-ति ।। तत्कथमित्यतः किमनया प्रत्यभिज्ञया घटादिषु स्थिरत्वं साध्यते नित्यत्वेनाभ्युपगतेषु परमाणुषु वेति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- पार्थिवं हीति ।। तथेति ।। स्वरूपेणैवानङ्गीकृता इति सम्बन्धः । द्वितीयमनूद्य दूषयति- केवलमित्यादिना ।। प्रबलतरेति ।। निबिडावयवत्वं हि न विभागायोग्यावयवत्वम् । विभागस्य प्रत्यक्षसिद्धत्वात् । किन्तु घटादितोऽप्युत्कृष्टकारणापेक्षत्वम् । ततश्च यादृशतादृशकारणेना-वयवविभागस्य तत्राभावेऽपि प्रबलतरवातातपाद्यभिघातेनावयवापगमस्यावर्जनीयत्वाद् अवयवविभागेनासम-वायिकारणसंयोगनाशेन द्व्यणुकनाशापत्त्या तन्नाशे च समवायिकारणनाशात् त्र्यणुकनाश इत्यनेन क्रमेण स्फटिकादिनाश आवश्यक इति भावः । क्षणिकत्वस्योभयसम्मतत्वेन तत्र विप्रतिपत्त्यसम्भवेऽपि तद्विशेषे विप्रतिपत्तेः सत्त्वान्न विवादाभावप्रसङ्ग इत्याशङ्कते- पूर्वेति ।। न च ‘अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः (पां.टि.) कलाः । तास्तु त्रिंशत्क्षणः’ इति स्मरणात् क्षणस्य पूर्वापरकलाराहित्याभ्युपगमेऽपि सभागत्वमात्रा-भ्युपगमात् कथमेतदपीति वाच्यम् । कलाशब्दस्य भागमात्रवचनत्वेन प्रसिद्धकलारूपकालविशेषपरत्वाभावेना-दोषात् ।। अस्माभिरपीति ।। परिणामवादिभिरपीत्यर्थः । ततश्च तदत्यन्ताभेदावगाहिनी प्रत्यभिज्ञा भ्रान्तिरेवेति शेषः । आरम्भवादे तत्तत्परिमाणविशिश्व्देवदत्तस्वरूपद्वयस्यात्यन्तभेदेन प्रत्यभिज्ञाविषयीभूताभेदाभावात् प्रत्यभिज्ञाया भ्रान्तित्वप्रसक्तावपि परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात्पूर्वोत्तरकालभाविनोरभेदस्य प्रत्यभिज्ञाविषयत्वपक्षे सावधारणस्य तस्य भ्रमत्वेऽपि सोऽयमित्यभेदविषयस्याभ्रमत्वान्न तेन स्थैर्यसाधना-नुपपत्तिरित्याह- परिणामवाद इति ।।
लघुप्रभा
(व्या.टि.)
प्रत्यभिज्ञाया वर्णविषयत्वमङ्गीकृत्य प्रमात्वमाक्षिपति- अस्त्वित्यादिना ।। सादृश्यनिबन्धना भ्रान्तिः क्व दृष्टा इत्यतस्तां दर्शयति- यथा परिलूनेति ।। परिपूर्वाल्लुनातेः ‘ल्वादिभ्यश्च’ इति निष्ठा-नत्वे रूपम् ।। वैषम्यादिति ।। बाधकभावाभावाभ्यामिति शेषः । क्रमेण तौ दर्शयति-नायमसाविति, न चात्रेति च ।। एवमेवेति ।। बाधकं विनेत्यर्थः । अत्र यदुक्तं बाधकाभावान्नेयं प्रत्यभिज्ञा भ्रान्तिरिति । तन्न । श्रुतपुनः-श्रूयमाणवर्णाः परस्परं भिन्ना विरुद्धधर्माध्यासाद् इत्यनुमानस्यैव बाधकत्वात् । विपक्षे कुत्रापि भेदाभावप्रसङ्गेन हेतोर्निरवकाशत्वादित्याशयेन शङ्कते- नन्विति ।। दूषयितुं विकल्प्य पृच्छति- किमिति ।। यादृशतादृश इति ।। याथातथिक इत्यर्थः ।। विशिश्व् इति ।। व्यवस्थापकाभावेनेति शेषः ।। शिखीति ।। व्रीह्यादित्वादिनिः ।। जटिल इति ।। पिच्छादित्वादिलच् । प्रथमदूषणे द्वितीयं परिशेष्य प्रकृते तदभावमाह- यत्रेत्यादिना ।। अत इति पुरस्तादुपस्कर्तव्यम् ।। नासिकादिस्थानभेदेनेति ।। अनुनासिकाऽननुनासिकभेदेन अचां हलां च भेदसिद्धये स्थानभेदाङ्गीकारादित्यर्थः । कुत एवं तारमन्द्रध्वनिव्यङ्ग्यत्वरूपतारमन्द्रत्वयोर्वर्णेषु व्यवस्थाकल्पना । अन्यतर-ज्ञानाप्रामाण्यमेव किं न स्यादित्यत आह- केनापीति ।। ज्ञानद्वयेति ।। विरुद्धधर्माध्यासप्रत्यभिज्ञारूपं च प्रकृते ज्ञानद्वयम् । भेदानुमित्यभेदप्रत्यभिज्ञाद्वयं ज्ञानद्वयमिति केचित् । तत्रोभयप्रामाण्यं कथमिति चिन्त्यम् । वर्णानित्यत्ववादिनो वैशेषिकान्प्रति हीदमापादनम् । न चेदमनिष्टं तेषाम् । तैरपि सोऽयमितिप्रत्यभिज्ञाभ्रान्ति-त्वाङ्गीकारादिति शङ्कते- नन्विति ।। परिवर्तनेनेति ।। पीलुपाकवादादिति भावः । आकाशादीत्यादिपदेनाऽ-त्मपरिग्रहः ।। शब्दादीत्यादि ।। अत्राऽदिना बुद्ध्यादिपरिग्रहः । शब्दबुद्ध्यादेरव्याप्यवृत्तित्वाभ्युपगमात् । यथोक्तम् ‘अव्याप्यवृत्तिः क्षणिको विशेषगुणः’ इति । अतिप्रसङ्गस्येति ।। सोऽयं परमाणुः, सोऽयम् आकाशः, सोऽयमात्मेत्यादेर्भ्रान्तित्वप्रसङ्गस्येत्यर्थः । अतिप्रसङ्गान्तरज्ञापकमाह- एतदेवेति ।। अतिप्रसङ्गस्य बहु-विषयत्वमित्यर्थः ।
ननु मुखोक्तस्यादृढत्वे कथं बहुविषयत्वमतिप्रसङ्गस्येत्यतः प्रथमातिप्रसङ्गं द्रढयति- किञ्चेति ।। कुत इत्यतो विपक्षेऽनिश्व्ं प्रसञ्जयति-तथा सतीति ।। विवादाभावेति ।। विषयाभावेन स्थायित्वक्षणिकत्वविवादाभावः स्यादित्यर्थः। अयं भावः। प्रत्यक्षयोग्येष्वेव पार्थिवद्रव्येषु प्रत्यभिज्ञया स्थिरत्वं प्रसाध्य क्षणिकत्वं निरसनीयम् । (व्या.टि.) अतीन्द्रियेषु प्रत्यभिज्ञाऽप्रसरात् । अत एव वैभाषिकाधिकरणे ‘अनुस्मृतेश्च’ इति सूत्रेण पार्थिवादि-प्रत्यक्षयोग्येषु प्रत्यभिज्ञया स्थिरत्वं प्रसाध्यार्थान्तरे च ‘उत्तरोत्पादे च पूर्वनिरोधात्’ इत्यादिना कार्यकारणभावा-नुपपत्त्यादिना क्षणिकत्वं दूषितम् । वैशेषिकेनैव तत्र क्षणिकत्वमुपेत्य प्रत्यभिज्ञाभ्रान्तित्वाभ्युपगतौ संवादेनासौ निगृह्येत । विवादस्तु बधिरकलहायित इति । ननु देवदत्ताद्येकदेशे संवादेऽपि द्रव्यान्तरेऽस्तु विवाद इत्यत आह- पार्थिवं हीति ।। तर्हि अस्त्वाप्यादौ विवाद इत्यत आह- आप्येत्यादिना ।। अस्त्ये-वेति ।। अवयवाप-गमे परमाणुसंयोगरूपासमवायिकारणनाशादापरमाणुनाशोऽवर्जनीय एवेति भावः । आकाशस्येति ।। तैर-पीति ।। उभयाङ्गीकारान्न विवाद इति भावः ।। नाङ्गीकृत इति ।। नन्वेवमनुव्याख्यानविरोधः । तत्र वैभाषि-काधिकरणे ‘आत्मानं च क्षणस्थितम्’ इति परमतानुवादादिति चेन्न । तत्र जीवक्षणिकताऽनुवादात् । अत्र च परमात्मनः स्वरूपतो निषेधात् । अत एव तत्र सुधायां ‘किमीश्वरेण’ इतीश्वरं प्रतिक्षिप्य ‘अनुसन्धातुरात्मनः क्षणिकत्वाङ्गीकारात्’ इति परमतम् अनूदितम् । जीवक्षणिकत्वन्तु न प्रत्यभिज्ञामात्रनिरस्यमित्यर्थः । कर्मादयो भवन्तु विवादविषया इत्यतस्त एव नेत्याह- तथेति ।। यथोक्तं सुधायां परमतानुवादे ‘देशान्तरोत्पाद एव कर्मप्रत्ययावलम्बनम् । क्षणिकस्य वास्तवकर्मायोगात् । सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः। अतद्व्यावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्या’ इत्यादि ।। गुणाश्चेति ।। सङ्ख्याद्या इत्यर्थः ।। केवलमिति ।। परिशेषादित्यर्थः ।। निबिडेति ।। अस्फुटावयवापगममित्यर्थः ।। अवर्जनीयत्वादिति ।। तुलारोपणे लघुत्वदर्शनादिति भावः ।
।। पूर्वापरेति ।। ‘पूर्वमध्यापरकलारहितः क्षण इष्यते’ इत्यनुव्याख्याने परमतानुवादादिति भावः । अत्र कलाशब्दो विभागवाची । न तु त्रिंशत्काष्ठावाचीति ध्येयम् । विवादसद्भावमङ्गीकरोति- सत्यमिति ।। दूषयति- अयं त्विति ।। प्रत्यभिज्ञेति ।। स्थायित्वसाधकत्वेन आशुतरविनाशित्वविरोधित्वेन क्षणिकत्वाशुतरविना-शित्वविवादस्य प्रत्यभिज्ञाऽनिरस्यत्वादिति भावः । युक्त्यन्तरनिरसनीयत्वेऽपि प्रत्यभिज्ञामात्रनिरसनीयविवा-दाभावापादनं युक्तमिति तात्पर्येण मात्रेणेत्युक्तम् ।। देवदत्तादेरिति ।। शरीरस्येति शेषः। अङ्गीक्रियत एवेति ।। अतः सोऽयमिति प्रत्यभिज्ञाभ्रान्तित्वापादनमयुक्तम् । प्रसङ्गस्य विपर्ययापर्यवसानादिति भावः । अभ्रान्तित्वेति ।। विषयाबाधादिति भावः । तत्पदपरामृष्टस्य इदम्पदपरामृष्टशरीरं प्रति साक्षादुपादानत्वाभावेऽ-प्यभेदोऽस्त्येव कार्पासस्येव पटेनेत्यवधेयम् । ननु परिणामे प्रमाणाभाव इत्यत आह- अवयवेति ।। परिमाणभेदः परिणामे प्रमाणमित्यर्थः ।। किमपीति ।। परिमाणभेदादिकमित्यर्थः । कूटस्थेति ।। निर्विकारेत्यर्थः । कूटवत्तिष्ठतीति व्युत्पत्तेः । ‘कूटं खं विदलं व्योम’ इति गीताभाष्योक्तेः । एवं वैषम्ये मूलज्ञापकमाह- अत एवेति ।। ननु तत्रापि सावधारणं भाष्ये श्रुतम् । तदेवेदमिति प्रत्यभिज्ञानाच्चेति चेन्न । तत्र एवकारं भिन्नक्रममाश्रित्य इदमेवेति आत्यन्तिकभेद-निरासार्थकत्वोपपत्तेः। उपसंहरति- विरुद्धेति ।।