न चावान्तरसत्यत्वमिदम् ..
जीवेश्वरभेदस्य मुक्तावपि सत्त्वसमर्थनेन पारमार्थिकत्वोपपादनम्
मूलम्
- न चावान्तरसत्यत्वमिदम् । ‘यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ।’, ‘एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते’, ‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उत्वः’, ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’, ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् तत्केन कं जिघ्रेत् तत्केन कं विजानीयात् येनेदं सर्वं विजानाति तं च केन विजानीयाद् विज्ञातारमरे केन विजानीयात् ’, ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’, ‘तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’, ‘अमृतस्यैष सेतुः’ ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे’, ‘ईशमाश्रित्य तिष्ठन्ति मुक्ताः संसारसागरात् । यथेष्टभोगभोक्तारो ब्रह्मान्ता उत्तरोत्तरम्’ इति मोक्षानन्तरं भेदश्रुतिभ्यः। ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ इति भगवद्वचनम् । ‘ॐ जगद्व्यापारवर्जं ॐ’, ‘ॐ प्रकरणादसन्निहितत्वाच्च ॐ’ इत्यादि च ।।
तत्त्वमञ्जरी
मुक्तौ भेदस्य निवृत्तेरिदमवान्तरसत्यत्वमित्यत आह- न चावन्तरेति ।। त्वः एको ब्रह्मा ऋचां पोषं मुख्यार्थमध्यास्ते । पुपुष्वान् आनन्दादिना पुष्टो मुक्तः त्वः गायत्रं साम गायति । त्वः शक्वरीषु सम्बद्धं साम । जातविद्यामितिहासादि त्वो वदति । त्वस्तु ब्रह्मा यज्ञस्य मात्रामु विमिमीते विष्णो रूपमेव विशेषेण पश्यति । जक्षन् भक्षयन् । ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति’ इत्यादिना मोक्षे भेदमभिधाय ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्’ इत्यादौ मोक्षे विषयाभावपक्षस्याक्षेपो हि विधीयते । यत्र यस्मिन् पक्षे । द्वैतं भवतीव पारतन्त्र्येण भवति । न मुख्यत इतीवशब्दार्थः । यथा तादृगेव भवति न तु तदेव भवति, एवं मुनेर्विजानत आत्मा भवति गौतमेति । अमृतस्य मुक्तसमुदायस्यैष आधारः । सखाय एककालमुक्ताः । ब्रह्मादयोऽक्ष्यादिसर्वेन्द्रियवन्तोऽसमाः तारतम्यवन्तो बभूवुः । सुधासमुद्रे गुल्फजान्वादिदघ्नेे विहर्तुं योग्यताविशेषवन्तः आदघ्नास ईषत्परिमाणाः केचित् । उपकक्षासः कक्षदघ्नसुधाः (कक्षस्य समीपे) केचित् । केचित् सुधायां यथेश्व्ं स्नानशीलाः ह्रदसम्बन्धात् ह्रदा इव ददृशिरे । जगद्व्यापारवर्जम् सर्वान्कामानाप्त्वाऽमृतः समभवदित्युच्यते । तत्र सृष्ट्यादिभ्यो-न्यानाप्नोति । कुतः? प्रकरणादसन्निहितत्वाच्च । जीवप्रकरणत्वात् । जीवानां तादृक्सामर्थ्यदूरत्वा-च्चेति श्रीमद्भाष्ये अनयोरर्थं स्वयमेवाह ।
टीका
ननु सत्यत्वं त्रिविधं- प्रातीतिकं व्यावहारिकं पारमार्थिकञ्चेति । तत्र प्रातीतिकं शुक्ति-रजतादीनाम् । व्यावहारिकं गगनादीनाम् । पारमार्थिकन्तु ब्रह्मणः । ततश्च जीवेश्वरभेदस्य व्याव-हारिकसत्यत्वात् तत्परमिदं श्रुतिजातं न परमार्थसत्यत्वपरं, तद्बोधकाभावात् । ‘अहं ब्रह्मास्मि’ इत्यादिकन्तु परमार्थसत्यत्वपरम् । अतो न तदनुसारेणान्यथयितव्यमित्यत आह- न चेति ।। अवान्तरसत्यत्वं व्यावहारिकसत्यत्वम् । जीवेश्वरभेदस्येत्यादावुपस्कर्तव्यम् । कुतो नेत्यत आह-यो वेदेति ।। गुहायां हृदये । व्योमन् व्योमि्न । ब्रह्मणा सहेति भेदोक्तिः । न च, ब्रह्मणा ब्रह्मरूपेण सर्वान् कामान् सह युगपदश्नुते इति व्याख्येयम् । ब्रह्मात्मैकत्वं प्राप्तस्य कामावाप्त्यनङ्गीकारात् । सर्वभेदनिवृत्त्युपलक्षणमेतदिति चेन्न । लक्षणायां प्रयोजनाभावात् । २. आनन्दमयस्य परब्रह्मत्वं त्वन्यत्र निर्णीतम् । उपसङ्क्रम्येति समीपप्राप्त्युक्त्या भेदः प्रतीयते । इमान् लोकाननुसञ्चरन्निति सम्बन्धः । काम्यत इति कामः । कामश्च तदन्नञ्चेति विग्रहः । कामेनेच्छया लभ्यमन्नमिति वा । एतद्वक्ष्यमाणम् । ३. त्वः कश्चिद् ब्रह्मा पुपुष्वान् पुष्टः सन् ऋचां पोषं पुष्टमुच्चारणं कुर्वन्नास्ते । त्वस्तु ब्रह्मा शक्वरीषु ऋक्षु गायत्रं साम गायति । त्वस्तु ब्रह्मा जातविद्यां पौरुषेयीविद्यां वदति । त्वस्तु ब्रह्मा यज्ञस्य विष्णोर्मात्रामु अंशमेव विमिमीते ध्यायतीति । अत्र भेदः स्फुट एव प्रती-यते । मोक्षविषयञ्चैतद् ब्रह्मबहुत्वाभिधानात् । अतीतानन्तकल्पेषु मुक्तानां ब्रह्मणां बहुत्वोप-पत्तेः । न च वाच्यमृत्विग्विषयमेतदिति । एकस्मिन् यज्ञेऽनेकेषां ब्रह्मणामभावात् । अन्यथा त्वो ब्रह्मेत्यस्य वैयर्थ्यात् । ब्रह्मानुचरास्त्रयोऽपि ब्रह्माण इति चेन्न । तथाऽपि तेषां ऋक्पोषणादि-प्रसिध्द्यभावात् । यज्ञे जातविद्योपयोगाभावाच्च ।
४. परञ्ज्योतिः परमात्मानमुपसम्पद्य तत्समीपं प्राप्येति भेदोक्तिः । ‘जक्ष भक्षहसनयोः’ । सहमुक्ता ज्ञातयः । अज्ञातयस्तु कल्पान्तरे मुक्ताः । ५. यत्र त्वस्येति वाक्यं स्वयमेवाऽचार्यो व्याख्यास्यति । ६. तादृगेव भवति न तु तदेव भवति । ‘एवं मुनेर्विजानत आत्मा भवति गौतम’ इति वाक्यशेषः । एवं विजानतो मुनेः विजानतां मुनीनामात्माऽधिपतिः हिरण्यगर्भोऽपि मुक्तः परमात्मानं प्राप्य तादृगेव भवति किमुतान्य इत्यर्थः । ७. पुण्यमनिष्टम् । निरञ्जनो निर्लेपः । साम्यं परमात्मना निर्दुःखत्वादिसादृश्यमुपैतीति भेदोक्तिः । ८. अमृतस्य मुक्तजातस्यैषः परमात्मा सेतुरिव सेतुराश्रयः । ९. प्राप्ताक्षिकर्णफलत्वादक्षण्वन्तोऽक्षिमन्तः कर्णवन्तश्च मुक्ताः सखायः परस्परं प्रीतियुक्ता मनोजवेषु प्रज्ञादिगुणेष्वसमाः तारतम्योपेता बभूवुः । तत्र केचित् आदघ्नास आदघ्नाः । अर्शआदिभ्योऽच् । बहुप्रमाणक्षीराब्धिमन्तः तत्क्रीडापराः । त्वे केचिदुपकक्षास उपकक्षाः । कक्षस्य वनस्य उप समीपे उ एव वर्तमाना वनक्रीडारताः । त्वे स्नात्वा उ स्नातव्या ह्रदा इव गम्भीरा ददृश्रे ददृशिरे परमेश्वरमेव ददृशुरिति । अस्य मुक्तविषयत्वञ्च ‘श्रुत्वा विष्णुं कर्णफलम्’ इत्यागमव्याख्यानाज्ज्ञायते । १०. उत्तरोत्तरं यथेष्टभोगभोक्तारः । ११. भगवद्वचनञ्च मोक्षानन्तरमपि भेदं वक्ति । १२. जगद्व्यापारवर्जं मुक्तः सर्वान्कामानवाप्नोतीत्यैश्वर्यमर्यादोक्त्या जगद्व्यापारवतो हरेर्भेदोऽवगम्यते । अस्यापि भगवद्वचनत्वेऽपि निर्णायकत्वात्पृथगुक्तिः ।
मायामयं हि व्यावहारिकं नाम, मोक्षे च माया सर्वथा निवृत्तेति तदनन्तरमपि विद्यमानो भेदः कथं व्यावहारिकसत्यः स्यात् । अपरमुक्तिरेवेयमिति चेन्न । एतद्व्यतिरिक्तायां परममुक्तौ प्रमाणाभावात् । तद्वाक्यानाञ्चानन्तरमेव व्याकरिष्यमाणत्वात् ।
भावबोधः
प्रातिभासिकसत्त्वस्यामुख्यत्वरूपावान्तरत्वसद्भावादाह- व्यावहारिकसत्यत्वमिति ।। ननु ‘ब्रह्मा त्वो वदति’ इति सकृद्ब्रह्मशब्दश्रवणाद्ब्रह्मणामनेकत्वं नास्त्येवेत्यत आह- अन्यथेति ।। सकृत् श्रुतोऽपि ब्रह्मशब्दः सर्वत्र त्व इत्येतद्विशेष्यत्वेन सम्बध्यते । विशेष्यान्तराध्यहारे तु त्व इति व्यर्थं स्यादित्यर्थः । आगमव्याख्याना-दिति ।। ‘अक्षण्वन्तः’ इति वाक्यस्य मुक्तविषयत्वेनाऽगमे व्याख्यानादित्यर्थः ।
‘श्रुत्वा विष्णुं कर्णफलमाप्तत्वात् कर्णसंयुताः ।
अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गुणाः ।
तारतम्यं च तेषां च श्रुतावुदितमञ्जसा ।
क्षीरसागरदघ्नास्तु केचित्तिष्ठन्ति मुक्तिगाः ।
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।
एके ह्रदे केचिदपि देवा एते सदा हरिम् ।
नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः ।
सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ।।’
इत्येवमेतच्छ्रुतिव्याख्यानरूपागमे बहुशो मुक्तपदश्रवणादिति भावः ।
भावदीपः
अवान्तरेत्यस्य प्रातीतिकमिति भ्रमनिरासायाऽह- व्यावहारिकसत्यत्वमिति ।। कस्येत्याकाङ्क्षां पूरयति- जीवेश्वरेत्यादिना ।। व्योमन्निति ‘सुपां सु लुक्’ इति सप्तम्या लुक्, ‘न ङिसम्बुद्ध्योः’ इति नलोपाभाव इति भावेनोक्तम्- व्योम्नीति ।। हृद्गताकाश इत्यर्थः । भेदोक्तिरिति ।। सहभावस्य भेदाविनाभावादिति भावः। आनन्दमयस्य पररीत्या कोशत्वे विवक्षितार्थासिद्धेराह- आनन्दमयस्येति ।। अन्यत्रेति ।। भाष्यानुभाष्य-योरित्यर्थः । व्यवधानादाह- इति सम्बन्ध इति ।। कामपदस्य कर्मणि ‘अकर्तरि च कारके’ इति घञन्तत्वेन ‘घञन्तः पुंसि’ इति पुंलिङ्गत्वादाह- कामश्च तदन्नं चेति विग्रह इति ।। ततश्च मतुबर्थकेन्प्रत्यय इति भावः । एतेन कामरूपीत्यपि व्याख्यातम् । एतदित्यस्य परामर्शविषयाऽप्रतीतेराह- एतद्वक्ष्यमाण-मिति ।। ‘हावु हावु’ इत्यादेः प्रसिद्धत्वादनुक्तिः । ‘पुष पुष्टौ’ इत्यस्माद्धातोः लिटि, लिटः क्वसुरादेशे द्विर्वचने च सुबादौ सति रूपमुपेत्याऽह-पुपुष्वान् पुष्टः सन्निति ।। कर्मणि घञन्तमुपेत्य शेषोक्त्याऽर्थमाह-पोषं पुष्टमुच्चारणमिति ।। ‘यज्ञो वै विष्णुः’ इति श्रुतेः, ‘यज्ञार्थात्कर्मणोऽन्यत्र’ इति स्मृतेश्चाऽह- यज्ञस्य विष्णो-रिति ।। १‘डु मिञ् प्रक्षेपे’श्लुविकरणं विमिमीते । अनेकार्थत्वाद्धातूनां ध्यायतीत्युक्तम् । ऋत्विग्विषयमिति ।। तथा च न मुक्तपरमेतदिति भावः । ब्रह्मानुचरा इति ।। ज्योतिष्टोमे हि ब्रह्माऽध्वर्युर्होतोद्गाता चेति चत्वारः प्रधानर्त्विजः । तेषां त्रयस्त्रयोऽनुचराः सन्ति । तत्र ब्रह्मणोऽनुचराः ब्राह्मणाच्छंसी, अग्नीत्, पोता चेत्येवंनामानोऽपि साहचर्याद् ब्रह्माण इत्युच्यन्त इति चेदित्यर्थः । परंज्योतिः परमात्मेति ।। ‘आत्मा प्रकरणात्’ इति चतुर्थे तथा निर्णयादिति भावः । जक्ष भक्षहसनयोरिति ।। जक्षन्नित्यस्य स्वेश्व्ं भक्षयन् हसन्नित्यर्थद्वयमिति भावः । स्त्रीभिः क्रीडन् मिथुनीभवन् । यद्वा स्त्रीभी रममाणो यानादिभिः क्रीडन्नित्यर्थः । मुक्तौ ज्ञात्यादेरभावादाह- सहमुक्ता इति ।। व्याख्यास्यतीति ।। किञ्चिद्व्यवधानेनेति भावः । न तु विसदृशमिति भ्रमनिरासायैव-कारव्यावर्त्यमाह- न तु तदेवेति ।। अनेन जीवभेदाप्रतीतेराह- एवं मुनेरिति ।। काठकभाष्यानुरोधेनार्थमाह- विजानतां मुनीनामिति ।। श्रुतौ व्यत्ययेनैकवचनमिति भावः । एतेनेश्वरभावं प्राप्तस्य महानुभावस्यास्तु ब्रह्मतादात्म्यं विरिञ्चस्येति शङ्काऽपास्ता । ‘अग्निहोत्रादि तु तत्कार्यायैव’ इत्यादिसूत्रादौ पुण्यस्य मुक्तौ सुखाति-शयार्थत्वोक्तेः कथं तस्य हानिरुच्यत इत्यत आह- पुण्यमनिष्टमिति ।। काम्यफलकमित्यर्थः । ‘रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इति पूर्वशेषः ।
‘श्रुत्वा विष्णुं कर्णफल प्राप्ताः’ इत्याद्यागमानुरोधेनार्थमाह- प्राप्तेति ।। बहुप्रमाणेति ।। दघ्नशब्दः प्रमाणवाची ‘प्रमाणे द्वयसज्दघ्नञ्मात्रचः’ इति पाणिन्युक्तेः । आङ्पूर्वाद् दघ्नशब्दात् मत्वर्थे ‘अर्श आदिभ्योऽच्’ इत्यच्प्रत्यये व्यञ्जनस्य ‘हलन्त्यम्’ इति लोपे ‘अतो गुणे’ इति पररूपे सुबुत्पत्तौ ‘आज्जसेरसुक्’ इत्यसुगागमे आदघ्नास इति रूपसिद्धेः । बहुप्रमाणेति बहुव्रीहिणा बहुप्रमाणोपेतो यः क्षीराब्धिः तद्वन्तस्तत्क्रीडारता इति सिध्यतीति भावः । स्नातव्या इति ।। अर्हार्थे त्वन्प्रत्यय इति भावः । ‘इरयो रे’ इति रेभावे ददृश्रे इति रूपमिति भावेनाऽह-ददृशिर इति ।। छान्दसमात्मनेपदमिति भावेनोक्तम्- ददृशुरिति ।। इत्यागमेति ।।
‘श्रुत्वा विष्णुं कर्णफल प्राप्तत्वात्कर्णसंयुताः ।
अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गणाः ।
तारतम्यं च तेषां च श्रुतावुदितमञ्जसा ।
क्षीरसागरदघ्नास्तु केचित्तिष्ठन्ति मुक्तिगाः ।
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।
ऐरे ह्रदे केचिदपि देवा एव सदा हरिम् ।
नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः ।
सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ।।’
इत्यैतरेयभाष्योक्ताऽगमव्याख्यानादित्यर्थः । भगवद्वचनञ्चेति ।। न केवलम् ‘इत्यादिमोक्षानन्तरं भेदश्रुतिः’ इति च शब्दार्थः । सूत्रमुपन्यस्य शेषोक्त्यैवार्थं व्यनक्ति- जगद्व्यापारवर्जं मुक्त इति ।। जगन्नियमनादिव्यापारवर्जं यथा भवति तथा मुक्तः सर्वान्कामानवाप्नोतीति जगद्व्यापारव्यतिरिक्तसर्वकामावाप्तिरूपैश्वर्यमर्यादोक्त्ये-त्यर्थः । ‘प्रकरणात्’ इत्यस्य तु, कुतः सर्वान्कामानिति श्रुतेर्मुक्तपरत्वं, सर्वशब्दस्य सङ्कोचश्च कुत इत्यतः ‘प्रकरणात्’ इति सूत्रम् । शरीरभेदादूर्ध्वमुत्क्रम्येति जीवप्रकरणाज्जीवानां च जगद्व्यापारसामर्थ्ये असन्निहितत्वात् तद्विदूरत्वात्तद्धीनत्वादिति यावदित्यर्थः । ननु यो वेदेत्यादिश्रुत्युक्त्या कथं भेदस्य व्यावहारिकत्वनिरास इत्यत आह- मायामयं हीति ।। निवृत्तेति ।। ‘तस्याभिध्यानाद्योजनात्तत्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः’ इति श्रुतेरिति भावः । यत्र त्वस्येत्यादिवाक्यान्येव तत्र प्रमाणमित्यत आह- तद्वाक्यानामिति ।।
वाक्यार्थदीपिका
(श्री.टि.)
तद्बोधकाभावादिति ।। परमार्थसत्यत्ववाचकपदाभावादित्यर्थः । परमार्थसत्यपरमिति ।। परमार्थसत्यभूतजीवब्रह्मैक्यपरमित्यर्थः । तदनुसारेणेति ।। व्यावहारिकसत्यतापरभेदश्रुत्यविरोधेनेत्यर्थः । अन्य-थयितव्यमिति ।। अन्तर्याम्यैक्यपरतया न व्याख्येयमित्यर्थः । अवान्तरसत्यत्वमिति ।। अमुख्यसत्यत्वमि-त्यर्थः । प्रातिभासिकसत्यत्वस्याप्यमुख्यसत्यत्वात्तद्व्यावृत्त्यर्थमाह- व्यावहारिकेति ।। आदाविति ।। अवान्तर-सत्यत्वमित्यतः प्रागध्याहर्तव्यमित्यर्थः । ब्रह्मणा सहेति ।। परब्रह्मणा सहेत्यर्थः । सायुज्यभाजां ब्रह्मणा सहभोगसद्भावादित्यवधेयम् । अनङ्गीकारादिति ।। ब्रह्मात्मकत्वमाप्तस्याविद्याया नष्टत्वेन तत्कार्यस्य कामस्यापि नष्टत्वादिति भावः । एतदिति ।। सर्वान्कामानिति पदमित्यर्थः । उक्तरीत्या मुख्यार्थस्य बाधितत्वादिति भावः। प्रयोजनाभावादिति ।। न च कामावाप्त्यनङ्गीकार एव प्रयोजनमिति वाच्यम् । सिद्धेऽस्य प्रयोजनत्वे तदर्थं सर्वभेदनिवृत्तौ लक्षणा, तस्यां च सत्यां तद्विरोधाभावेन तस्य प्रयोजनत्वसिद्धिरित्यन्योन्याश्रयादिति भावः । ननु ‘एतमानन्दमयमात्मानम्’ इति वाक्ये न जीवपरमात्मनोर्भेदः प्रतीयते, किन्त्वानन्दमयस्य कोशत्वेन तस्मादेव जीवस्य भेदप्रतीतेर्नैतदुदाहरणं युक्तमित्यत आह- आनन्दमयस्येति ।। अन्यत्रेति ।। ‘आनन्दमयोऽ-भ्यासात्’ इत्यधिकरणभाष्यानुव्याख्यानयोरित्यर्थः । अन्नस्य कामपदोक्तेच्छाभेदायोगादाह- काम्यत इति ।। तथा च ‘कमु कान्तौ’ कान्तिरिच्छा । ततः कर्मण्यण् णित्त्वादादिवृद्धौ कामेति रूपमिति भावः । कामश्च तदिति ।। काम्यं च तदित्यर्थः । लभ्यमिति । तथा च मध्यमपदलोपी समास इति भावः । वक्ष्यमाणमिति ।। (श्री.टि.) हावु हाव्वित्यादिनोत्तरत्र वक्ष्यमाणमित्यर्थः । पुष्ट इति ।। स्वयं पुष्टः सन्नित्यर्थः । पोषमित्यस्यार्थः पुष्टमुच्चारणमिति । पुश्व्ं यथा स्यात्तथेत्यर्थः । शक्वरीष्वृक्ष्विति ।। शक्वरीच्छन्दोबद्धासु ऋक्ष्वित्यर्थः । ‘ऋच्यध्यूढं साम गीयते’ इत्युक्तेरिति भावः । स्फुट एवेति ।। जीवेशयोर्ध्यातृध्येयभावोक्तेरिति भावः । नन्वेतत्कल्पे मुच्यमानस्य ब्रह्मण एकत्वात्कथं ब्रह्मबहुत्वमित्यत आह- अतीतानन्तेति ।। ननु ब्रह्मबहुत्वाभिधानान्यथाऽ-नुपपत्त्या नास्य वाक्यस्य मोक्षविषयकत्वं कल्प्यम् । यज्ञप्रसिद्धब्रह्माख्यर्त्विग्विषयत्वेनान्यथासिद्धत्वादित्या-शङ्क्य निराकरोति-न च वाच्यमिति ।। अनेकेषामिति ।। अस्मिन्कर्मणि त्वं ब्रह्मा भवेति यज्ञकाण्डे ब्रह्मण एकत्वप्रसिद्धेरिति भावः । यज्ञभेदेन ब्रह्मणामनेकत्वसद्भावात्कथमेतदित्यत उक्तम्- एकस्मिन्यज्ञ इति ।।
ननु स्यादिदं दूषणं यद्यत्र वाक्ये ब्रह्मणामनेकत्वं श्रूयेत । न चैतदस्ति । ‘ब्रह्मा त्वो वदति’ इति तृतीयपादे सकृदेव ब्रह्मशब्दश्रवणादित्यत आह- अन्यथेति ।। ब्रह्मणां बहुत्वानङ्गीकारे ब्रह्मा त्वो वदतीति वाक्ये त्व इत्यस्य वैयर्थ्यं स्यात् । तथा हि- पादत्रयेऽपि कश्चिदित्यर्थकास्त्वशब्दास्तावत् श्रूयन्ते । तेषां विशेष्यान्तरमपेक्षि-तम् । अतो विशेष्यतया ब्रह्मेत्येतदेव सर्वत्र सम्बध्यते इति वक्तव्यम् । तथा च ब्रह्मणामनेकत्वं सिध्यति । ननु ब्रह्मातिरिक्तऋत्विग्वाचिविशेष्यभूतं पदान्तरं किञ्चिदध्याह्रियत इति चेन्न । तथात्वे तृतीयपादे त्वो ब्रह्मेत्यस्य वैयर्थ्यं स्यात् । कश्चिद्ब्रह्मेति हि तस्यार्थः । इदं तु सजातीयब्रह्मणां बहुत्वाङ्गीकार एव श्लिश्व्ं भवति नान्यथा । अनेकेषु ब्राह्मणेषु सत्स्वेव हि कश्चिद्ब्राह्मण इति प्रयोगः । अतो ब्रह्मणामनेकत्वानङ्गीकारे ब्रह्मेत्येतावतैव पूर्तेस्त्व इत्यस्य वैयर्थ्यं स्यादिति भावः । ननु तथाऽपि ऋत्विक्परमेवेदं वाक्यम् । न च यज्ञे ब्रह्मबहुत्वानुपपत्तिरिति वाच्यम् । यज्ञे होता पोता प्रशास्तोद्गातेति प्रधाना ऋत्विजश्चत्वारः । तत्र होतैव ब्रह्मेत्युच्यते । एतेषां चतुर्णां त्रयस्त्रयः शिष्याः सन्ति । एवं सति यज्ञे षोडशर्त्विजः प्रसिद्धाः । तथा च ये होतृशब्दवाच्यब्रह्माख्यर्त्विगनुचराः शिष्याः सन्ति ते त्रयो ब्रह्माणो ब्रह्मशब्दवाच्याः ‘ऋचां त्वः’ इति पादत्रयप्रतिपाद्याः । अतस्त्वो ब्रह्मेति न व्यर्थमित्याशङ्कते- ब्रह्मानुचरास्त्रयोऽपीति ।। तेषां ब्रह्मानुचराणां त्रयाणाम् । ऋक्पोषादीत्यादिपदेन गायत्रसाम-गानविष्णुरूपध्यानग्रहणम् । प्रसिद्ध्यभावादिति ।। याज्ञिकप्रसिद्ध्यभावादित्यर्थः । जातविद्येति ।। पुराण-विद्योपयोगाभावादित्यर्थः । तथा च तृतीयपादे ब्रह्मशब्देन प्रधानर्त्विग्भूतब्रह्मग्रहणेऽपि तस्य पुराणविद्यावदनं याज्ञिकप्रसिद्ध्यभावादयुक्तमिति भावः । जक्ष भक्षेति ।। तथा च जक्षन्नित्यस्य भक्षयन् हसन् वेत्यर्थो द्रष्टव्यः। न तु तदेवेति ।। अन्यथा वृद्ध्यभावप्रसङ्ग इति भावः । ननूदाहृते यथोदकमित्यर्धे दृष्टान्तमात्रकथनेन जीवेश-योर्भेदाप्रतिपादानादसङ्गतिरित्यह आह- एवं मुनेरिति ।। समुदायापेक्षमेकवचनमित्यभिप्रेत्य विजानता-मित्याद्युक्तम् । अन्ये जीवाः । ननु
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान्पुण्यपापे विधूय .......................... ।।’
इति पापवत् पुण्यस्याप्यपरोक्षज्ञानेन सर्वात्मना नाशः प्रतीयते । तदयुक्तम् । तथा हि- अपरोक्षज्ञाननाश्यं (श्री.टि.) पुण्यं काम्यमेव नापरम् । तच्च द्विविधम् इष्टमनिष्टञ्चेति । तत्रानिष्टपुण्यवदिष्टस्यापि पुण्यस्य नाशाङ्गीकारे ज्ञानस्येष्टविघातित्वेनापुरुषार्थत्वं स्यादतो व्याचश्व्े- पुण्यमनिष्टमिति ।। अनिश्व्ं काम्यमित्यर्थः। प्राप्ताक्षिकर्णफलत्वादिति ।। अक्षिकर्णयोः फल विष्णुदर्शनं तच्छ्रवणञ्च । तदुभयं मुक्तैः प्राप्तमस्तीत्यर्थः । मनोजवेष्विति ।। मनोवेगेषु मनोधर्मेष्वित्यर्थः । अत्र मुक्तानां जडमनसोऽभावात् यत्स्वरूपभूतं मनस्तदेवात्र विवक्षितम् । स्वरूपमन एव चास्मन्मते साक्षीत्युच्यते । प्रज्ञादेस्तद्धर्मत्वं च विशेषबलादेव समाधेयम् । मनश्शब्दस्य साक्षिपरत्वं चैकादशस्कन्धतात्पयोदाहृते ‘दुःखेषु गृह्यमाणेषु मनआदिभिरिन्द्रियैः’ इति प्रमाणे दुःखादीनां मनोग्राह्यत्वोक्त्या सिद्धमित्यवगन्तव्यम् । मनोजवेषु प्रज्ञादिगुणेष्वसमास्तारतम्यापेता अपि सखायः परस्परं प्रीतियुक्ता एव बभूवुः । न तु लोकवत्परस्परं द्वेषेर्ष्यादियुक्ता इति योज्यम् । यथोक्तम्- ‘अक्षरधियां त्वविरोधः’ इति । तारतम्योपेतत्वमेव दर्शयितुमादघ्नास इत्यर्धः प्रवृत्तस्तं व्याचश्व्े- तत्र केचिदिति ।। आदघ्नास इति ।। तथा च ऋचि आङ्पूर्वकाद्दघ्नशब्दाज्जसि ‘आज्जसेरसुक्’ इत्यसुगागमे आदघ्नासस् इति जाते सस्य रुत्वे विसर्गे चाऽदघ्नास इति युक्तमिति ज्ञातव्यम् । ननु ‘प्रमाणे द्वयसच्दघ्नञ्मात्रचः’ प्रमाणार्थे एते तद्धितप्रत्ययाः स्युरिति सूत्रेण विहितास्तद्धितप्रत्ययाः शब्दोपर्येव प्रसिद्धा न तूपसर्गोपरि । अतः प्रकृते उपसर्गभूतस्य आङः पुरः कथं दघ्नच्प्रत्यय इति चेन्न । स्यादिदं यद्युक्तसूत्रविहितोऽयं दघ्नच्प्रत्ययः स्यात् । न चैवम् । किं नाम प्रमाणवाची दघ्नशब्द इति नोक्तदोष इति सम्प्रदायविदः । यथोक्तं सुधायाम्- ‘तरतमशब्द इव दघ्नशब्दोऽप्रत्ययोऽप्यस्ति’ इति । तर्ह्यसङ्गतिरित्यत आह- अर्शआदिभ्योऽजिति ।। अर्शआदिभ्यो मत्वर्थेऽच्प्रत्ययः स्यादिति सूत्रार्थः । मूलव्याधिवाचिनोऽर्शस्शब्दात् अर्शः अस्यास्तीति मत्वर्थेऽच्प्रत्यये अर्शस इति भवति । तद्वदत्रापि मत्वर्थेऽच्प्रत्यये दध्न एषामस्तीति दघ्ना इत्यर्थः । स्पश्व्ं तदर्थमाह- बहुप्रमाणक्षीराब्धिमन्त इति ।। सम्यगर्थकस्याऽङोऽर्थो बह्विति । दघ्नशब्दार्थः प्रमाणेति । तथा च बहुप्रमाणं परिमाणमस्येत्यादघ्नम् । यद्वा आस्यशब्दस्य आभावः । तथा च आ आस्यं प्रमाणं परिमाणमस्येत्यादघ्नम् । तस्येदं तात्पर्यम्- बहुप्रमाणेति ।। आस्यपरिमाणेत्यर्थः । बहुप्रमाणं किं, यद्वन्तो मुक्ता इत्याकाङ्क्षायां क्षीराब्धीति विशेष्यभूतान्यपदार्थो दर्शितः । तथाऽप्यादघ्नासो बहुप्रमाणक्षीराब्धीत्यसङ्गतम् । अतो अर्शआद्यजन्तत्वमङ्गीकृत्य स एषामस्ति स्थानमिति विग्रहाभिप्रायेणोक्तम्-क्षीराब्धिमन्त इति ।। ननु क्षीराब्धिस्सर्वान्प्रत्यस्तीति तद्वत्त्वं सर्वसाधारणं नासाधारण्येन मुक्तत्वद्योतकम् । अतस्तत्तात्पर्यमाह- तत्क्रीडापरा इति ।। क्षीराब्धौ क्रीडापरा इत्यर्थः । यथोक्तं सुधायाम्- ‘केचिदादघ्नासः आस्यशब्दस्य आभावः । आस्यं परिमाणमस्येत्यादघ्नम् अमृतम् । तदेषामस्ति स्थानमित्यर्थः । ‘अर्श आदिभ्योऽ-च्’ । आस्यपरिमाणसुधानिधौ विहरन्त इति दूरत्वमुच्यते’ इति । गम्भीराः निश्चलाः । ददृशिर इति ।। तथा च ऋचि ‘इरयो रे’ इति सूत्रेण इरे इत्यस्य षष्ठी इरय इति । तस्य रेइत्यादेशो भवतीत्युक्तत्वाद् ददृश्रे इति युक्ति-मिति भावः । नन्वक्षण्वन्त इति वाक्यस्य कुतो मुक्तविषयत्वं ज्ञापकाभावादित्यत आह- अस्य मुक्तविषयत्वं चेति ।। अक्षण्वन्त इति वाक्यस्य मुक्तविषयत्वेन तैत्तिरीयभाष्योदाहृतागमे व्याख्यानादित्यर्थः ।
(श्री.टि.) ‘श्रुत्वा विष्णुं कर्णफल प्राप्तत्वात् कर्णसंयुताः ।
अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गणाः ।
तारतम्यं च तेषां तु श्रुतावुदितमञ्जसा ।
क्षीरसागरदघ्नास्तु केचित् तिष्टन्ति मुक्तिगाः ।
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।
ऐरे ह्रदे केचिदपि देवा एव सदा हरिम् ।
नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः ।
सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ।।’
इत्येवमेतच्छ्रुतिव्याख्यानरूपागमे बहुशो मुक्तपरत्वश्रवणादिति भावः । ‘जगद्व्यापारवर्जम्’ इति क्रियाविशेष-णम् । जगद्व्यापारवर्जं यथा स्यात्तथेत्यर्थः । तथा च तद्व्यतिरिक्तान् योग्यान् सर्वान् कामानवाप्नोतीत्यर्थः । हरेः सकाशात् जीवस्येति शेषः । नन्विदं ज्ञानमुपाश्रित्येतिवत् जगद्व्यापारवर्जमित्यस्यापि भगवद्वाक्यत्वादुभयं पठित्वाऽन्ते भगवद्वचनमिति वक्तव्यम् । तथाऽनुक्त्वा इत्यादि चेति पृथग्वचनं किमर्थमित्यत आह- अस्या-पीति ।। निर्णायकत्वादिति ।।
‘सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः ।
शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।।’
इति ब्रह्मसूत्राणां निर्णायकत्वप्रसिद्धेरिति भावः । ननु श्रुत्याद्युदाहरणमात्रेण कथं भेदस्य व्यावहारिकत्वनिरास इत्यतोऽभिप्रायमाह- मायामयं हीति ।। अपरमुक्तिरिति ।। गौणी मुक्तिः सगुणमुक्तिरिति यावत् । तथा च सगुणमुक्तौ मायाभेदाङ्गीकारात्तद्विषयमेव भवदुदाहृश्रुत्यादिकम् । निर्गुणमुक्तौ भेदानङ्गीकारादहं ब्रह्मास्मी-त्यादिकं निर्गुणमुक्तौ जीवब्रह्मणोः पारमार्थिकाभेदप्रतिपादनपरमिति भिन्नविषयत्वान्न विरोध इति भावः । एतदिति ।। अपरमुक्तित्वेन त्वदभिमतसगुणमुक्तिव्यतिरिक्तायां निर्गुणमुक्तिरूपपरममुक्तौ प्रमाणा-भावादित्यर्थः । ननु कथं मानाभावः । यत्र त्वस्येति वाक्यानामेव सत्त्वादित्यत आह- तद्वाक्यानां चेति ।। सगुणमुक्तिव्यतिरिक्तनिर्गुणमुक्तिप्रतिपादकतया प्रतीयमानानां वाक्यानामित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
व्यावर्त्यत्वेनोक्तशङ्काया मूलारूढत्वं दर्शयितुमवान्तरसत्यत्वपदं व्यावहारिकसत्यत्वपरतया व्याख्याति- अवान्तरेति ।। अनङ्गीकारादिति ।। तथा च सिद्धान्ताननुगुणमेतद्व्याख्यानमिति भावः । उपलक्षणं चैतत् । श्रौताक्षराननुगुणं चेत्यपि द्रष्टव्यम् । ननु आनन्दमयस्य कोशत्वेनाब्रह्मत्वान्नेयं श्रुतिः मुक्तब्रह्मणोर्भेदे प्रमाणमित्यत आह- आनन्दमयस्येति ।। अन्यत्रेति ।। आनन्दमयाधिकरणीयभाष्यानुव्याख्ययोरित्यर्थः । सम्बन्ध इति ।। असन्निधानेऽपि योग्यत्वादिति भावः । काम्यत इति काम इति ।। कर्मणि घञ् इति भावः । बहुव्रीहिणैव सम्बन्धलाभात् तदर्थकस्य इनेर्वैयर्थ्यमाशङ्क्य कर्मधारयादेव वाचनिकस्य इनेराश्रयणान्नानुपपत्तिरिति (पां.टि.) भावेन कर्मधारयमाह - कामश्च तदन्नं चेति ।। इच्छयेति ।। अनेन कामनं काम इति भावे घञित्युक्तं भवति । अनिष्टमिति ।। इष्टनाशस्यापुरुषार्थत्वादिति भावः । मुक्तजातस्येति ।। अनेन अमृत-स्येत्येकवचनं जात्यर्थकमेव न व्यक्त्यर्थकमित्युक्तं भवति । सर्वसाधारणत्वात् । न ‘अक्षण्वन्तः कर्णवन्तः’ इति मुक्तानामसाधारण्येनोक्तिः सम्भवतीत्यतस्तां घटयति- प्राप्तेति ।। अक्षण्वन्तोऽक्षिमन्त इति ।। अत्रच ‘अनो नुट्’ इति नुट् सुधाऽनुसारेण द्रष्टव्यः । ननु अक्षिशब्दस्य इकारान्ततया अन्नन्तत्वाभावात् कथमत्र अन्नन्तादुत्तरस्य मतुपो नुड्विधायकस्य ‘अनो नुट्’ इत्यस्य प्राप्तिः । न च ‘अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः’ इत्यनेन ङित्त्वादन्त्येकारस्यानङादेशेन अन्नन्तत्वसम्भवाद्युक्तैव ततः परस्य मतुपो नुट्प्राप्तिरिति वाच्यम् । तृतीयाद्यजादिविभक्तिपरत्व एव तस्यानङादेशविधायकतया असति तस्मिन्ननङादेशस्य तेनाप्यत्रानुपपत्तेरिति चेन्न । छन्दसि अनङ्विधानार्थं प्रवृत्ते ‘छन्दस्यपि दृश्यते’ इति सूत्रे दृशिग्रहणसामर्थ्याद् यतो विहितस्ततोऽ-न्यस्मादपि अजादाविवानजादावपि तृतीयादाविवातृतीयादावपि विभक्ताविवाविभक्तावपि परतश्छन्दस्य-नङादेशविधानसिद्ध्या असत्यप्यजादितृतीयादिविभक्तिपरत्वे अक्षिशब्दस्येकारस्यानङादेशसम्भवेना-न्नन्तत्वोपपत्त्या तत्परस्य मतुपः ‘अनो नुट्’ इति नुड्विधानसम्भवात् ।
ननु चात्र विधीयमानोऽपि नुड् नुगिति कित्त्वात् किं पूर्वान्ततयाऽभिमतः किं वा नुडेवेति टित्त्वात् परादि-तया । नाऽद्यः । तथा सति प्रातिपदिकान्तत्वात् पदान्तत्वाच्च नुटो नकारस्य ‘न लोपः प्रातिपदिकान्तस्य’ इति लोपप्रसङ्गात् । ‘न पदान्तस्य’ इति पदान्तनकारस्य णत्वनिषेधेन तत्प्रसङ्गाच्च । नान्त्यः । तथा सति ‘तदागमास्तद्-ग्रहणेन गृह्यन्ते’ इति न्यायेन तस्य मतुब्भक्ततया तद्ग्रहणेन गृहीतत्वात् ‘मादुपधायाः’ इति वत्वप्रसङ्गात् । नुटा व्यवहितत्वान्मतुपो मकारस्य वत्वाभावप्रसङ्गाच्चेति चेत्, उभयत्राप्यदोषात् । तथा हि । अस्तु तावत् पूर्वान्त एवेत्याद्यः । न चैवं ‘न लोपः प्रातिपदिकान्तस्य’ इति नुटो नकारस्य लोपप्रसङ्ग इति वाच्यम् । नुटोऽसिद्धत्वेन तत्पूर्वनकारस्यैव ‘न लोपः प्रातिपदिकान्तस्य’ इति लोपसम्भवेन तदप्राप्तेः । न चैवमन्नन्तत्वाभावान्नुडनुपपत्तिरिति वाच्यम् । इदानीमन्नन्तत्वाभावेऽपि पूर्वं तत्सद्भावेन भूतपूर्वगत्या अन्नन्तत्वाश्रयणेन नुडुत्पत्तेरप्रत्यूहत्वात् । न चैवमपि ‘न पदान्तस्य’ इति नुटो नकारस्य णत्वप्रतिषेधप्रसङ्गः । भत्वाश्रयणेन णत्वोपपत्त्या तदप्रसङ्गात् । अस्तु वा द्वितीयः । न चैवं तदागमा इति न्यायेन मतुब्ग्रहणेन ग्रहणात् तस्य ‘मादुपधायाः’ इति वत्वप्रसङ्ग इति वाच्यम् । ‘निर्दिश्यमानस्याऽदेशा भवन्ति’ इति न्यायेन तत्र सूत्रे निर्दिश्यमानमतुप्परित्यागेनानिर्दिश्यमानस्य नुटस्तदप्रसङ्गात् । न च निर्दिश्यमानस्य मतुपो नुटा व्यवहितत्वात् कथं वत्वं स्यादिति वाच्यम् । नुटोऽसिद्धतया तदव्यवधानसम्भवेन मतुपो मस्य वत्वसम्भवात् । न च नुटः परादित्वे णकारस्य पूर्वपदान्तत्वाभावात् अक्षण्वन्त इति अक्षणऽवन्त इति णान्तस्य पदकाले अवग्रहानुपपत्तिरिति वाच्यम् । पदस्यानित्यतया पदकारैरेव लक्षणस्यानुवर्त्यतया लक्षणेन पदकाराणामननुवर्तनीयत्वादित्यास्तां प्रपञ्चः । ततश्चाक्षिशब्दात् तदस्यास्त्यस्मिन्नर्थे मतुप्प्रत्यये ‘छन्दस्यपि दृश्यते’ इति अनङादेशे ‘अनो नुट्’ इति नुटि नुटोऽसिद्धतया पूर्वनकारलोपे तत एव च (पां.टि.) ‘मादुपधायाः’ इति मतुपो मकारस्य वत्वे भूतपूर्वगत्या अन्नन्तत्वात् नुटि तस्य णत्वे च अक्षण्वन्निति प्रातिपदिकस्य निष्पत्तिरिति भावः ।
मनोजवः प्रज्ञातिशयः । बहुवचनमाद्यार्थ इति भावेन मनोजवेष्वित्येतद्व्याचश्व्े- प्रज्ञादिगुणेष्विति ।। आस्यशब्दस्य आभावः, आस्यं परिमाणमस्येत्यादघ्नम् अमृतम् तदेषामस्ति स्थानमिति व्युत्पत्तिं मनसि निधाय आदघ्नास इत्येतद् व्युत्पादयति- अर्श इति ।। उपलक्षणमेतत् । ‘आज्जसेरसुप्’ इति असुक् चेत्यपि द्रष्टव्यम् । स्नातव्या इति ।। ‘कृत्यार्थे तवैकेन्केन्यत्वनः’ इत्यनेन त्वन् इति भावः । श्रुतौ ‘इरयो रे’ इत्यनेन इरे इत्यस्य रेभाव इति भावेनाऽह- ददृशिर इति ।। यदत्र वक्तव्यं तच्छेषवाक्यार्थचन्द्रिकायामस्माभिः प्रपञ्चितम् । तत एव प्रतिपत्तव्यम् । ननु वेदापभाष्यरीत्या अस्य वाक्यस्यार्थान्तरस्यैव प्रतीतेस्तद्विरुद्धतया भवदुक्तार्थपरत्वा-भावान्नानेन विवक्षितार्थसिद्धिरिति एतदुदाहरणं प्रकृतासङ्गतमित्यतस्तस्य ‘श्रुत्वा विष्णुं कर्णफल’ इत्यन्यत्रो-दाहृतैतद्वाक्यव्याख्यानरूपस्मृतिविरुद्धत्वेन तस्यापव्याख्यानत्वेन तद्विरोधस्याकिञ्चित्करत्वाद् अस्मदुक्त-व्याख्यानस्यैवादरणीयत्वेन अस्त्येव प्रकृतोपयोग इति न तदुदाहरणासङ्गतिरिति भावेनाऽह- अस्येति ।। नन्वेतावताऽपि कथमेतत्प्रघट्टकव्यावर्त्योक्तशङ्कापरिहार इत्यतस्तमाह- मायामयं हीति ।। मोक्षे चेति ।। अन्यथा तादृशस्य ब्रह्मणोऽपि व्यावहारिकत्वप्रसङ्गादिति भावः । यत्र त्वस्येत्यादिवाक्योक्ताया एव मुक्तेः परममुक्तित्वात्कथं तत्र प्रमाणाभाव इत्यतः आह- तद्वाक्यानां चेति ।। अनन्तरमेवेति ।। अविनाशीत्याद्य-व्यवहितोत्तरग्रन्थेनेत्यर्थः ।।
लघुप्रभा
(व्या.टि.)
अन्यथयितव्यमिति ।। अन्यथाशब्दाण्णिचि इष्टवद्भावे तव्यप्रत्यये इडागमे गुणायादेशयोश्च रूपमिति भावः । हृदय ति ।। ‘गुहाशयः’ इत्यादौ हृदये गुहाशब्दप्रयोगादित्यर्थः । व्योमन्निति ङिलोप इति भावः । भेदोक्तिरिति ।। ‘यत्कर्तव्यं तदनया सह’ इति ‘सजूर्देवेन त्वश्व्े्र’ इति च साहित्यस्य भिन्नप्रतियोगिकत्व-नियमादित्यर्थः । ननु ‘सहयुक्तेऽप्रधाने’ इति ब्रह्मणोऽप्राधान्यापत्तिरिति चेत्, मैवम्, अर्थप्राधान्यस्येष्ट-त्वात् ।‘सोमेन सह राज्ञा’ इतिवदिति । अर्थान्तरमाशङ्कते- न चेति ।। सहेति व्याख्याति- युगपदिति ।। ‘सह पशूनालभेत’ इतिवत् ‘सोऽश्नुते सकलान् कामान(न्)क्रमेण सुरर्षभः’ इति स्मृतेरित्यर्थः । सर्वतो बलीयसी-मर्थानुपपत्तिमाह-ब्रह्मत्वमाप्तस्येति ।। अनङ्गीकारादिति ।। ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति श्रुतेर्मुक्ते भोगाभावपरतया परैर्व्याख्यानादित्यर्थः । ब्रह्मीभूतस्य सर्वभोगासम्भवेऽपि तत्तद्भोक्तृभेदाभाव-परमेतदित्याशङ्कते- सर्वभेदेति ।। दूषयति- लक्षणेति ।। ‘भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः’ इत्युक्तेः इति भावः । ननु ‘एतमानन्दमयमात्मानमुपसङ्क्रम्य’ इति न जीवपरभेदश्रुतिः, आनन्दमयस्य कोशत्वादित्यत आह- आनन्दमयस्येति ।। अन्यत्रेति ।। ‘आनन्दमयोऽभ्यासात्’ इति सूत्र इत्यर्थः । ननु उपसङ्क्रम्ये-त्यतिक्रमोक्तेः कथं भेदलाभ इत्यत आह- उपसङ्क्रम्येति ।। समीपप्राप्त्युक्तेति ।। विस्तरस्तु-
(व्या.टि.) ‘उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ।
अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ।।’
इत्यनुभाष्यदिशाऽवसेयः ।
सम्बन्ध इति ।। क्रियाकारकयोजनेत्यर्थः । नन्विच्छाया अनद्यत्वात्कथं कामान्नत्वमित्यत आह- काम्य इति ।। कर्मणि घञिति भावः । इति विग्रह इति ।। तत इनिरिति शेषः । न च ‘न कर्मधारयान्मत्वर्थीयः’ इति निषेधात् कथमिनिरिति वाच्यम् । नञा निर्दिष्टस्यानित्यत्वात् । अस्वरसादाह- कामेनेति ।। ‘सङ्कल्पादेव च तच्छ्रुतेः’ इति सूत्रादिति भावः । लभ्यमिति गम्यमानक्रियोक्तिः । एतद्वक्ष्यमाणमिति ।। ‘अथैष ज्योतिः’ इत्यादौ वक्ष्यमापरामर्शनादित्यर्थः । पुपुष्वानिति ‘लिटः कानज्वा’ ‘क्वसुश्च’ इति क्वस्वन्तमित्युपेत्य व्याचश्व्े- पुष्ट इति ।। पोषमिति घञन्तं, णमुलन्तं वाऽभिप्रेत्याऽह- पुष्टमिति ।। विष्णोरिति ।। ‘यज्ञो वै विष्णुः’ इति श्रुतेरित्यर्थः । ‘स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः’ इत्यादिनाऽऽकूतिसूनुर्यज्ञो विष्णुरिति प्रसिद्धम् । मात्रामित्यन्वाय्य व्याचश्व्े- अंशमेवेति ।। अत्र शङ्क्यते-अंशमेवेति किमंशप्रातिपदिकादवधारणम्, एकवच-नाद्वा । नाद्यः । यतोऽवधारणं तदन्यत्र व्यवच्छेद इति अनंशस्य मूलरूपिणो बृहच्छरीरस्य ब्रह्माध्येयत्वप्रसङ्गः । न चेष्टापत्तिरिति वाच्यम् ।
‘ब्रह्मा तु सर्वगम्पश्येद् गुणानप्यन्यतोऽधिकम् ।
मुक्तस्तु सर्वदा पश्येत्सर्वगत्वेन चापि तु ।।
इति, ‘ब्रह्मणस्तु प्राय एव श्रियो यथा’ इति च मुक्तब्रह्मणः सर्वदा सर्वगापरोक्षदर्शनाभिधानात् । दृश्यस्य ध्येयत्वात् । न द्वितीयः । अंशमेवेत्युक्तत्वाद् अन्यसङ्ख्यासङ्ख्येयरूपाध्याने,
‘ब्रह्मा सर्वगुणां(णै)श्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ।।’
इति ब्रह्मणो यावद्भगवन्मूर्तिध्यानोक्तेश्च । भगवदनन्तमूर्तीनामनन्तवेदवेद्यतयाऽवश्योपास्यत्वाच्च तद्विरोध इति चेन्न । अंशशब्दस्य गुणांशत्वेन(पर)ब्रह्मणो वेदोक्तयावद्गुणरूपादिध्यानेऽपि ध्यातव्यगुणादेः प्रत्येकमपि साकल्येनाज्ञेयत्वान्न कोऽपि दोषः । मुक्तस्य ब्रह्मणो ध्यानमपरोक्षज्ञानसन्तान इति रहस्यम् । अत्र विमिमीत इति श्रुतौ । स्फुट एवेति ।। ध्येयध्यातृभावोक्तेरित्यर्थः । प्रकृतोपयोगमाह- मोक्ष इति ।। तत्र युक्तिं वक्ति- ब्रह्मबहुत्वेति ।। संसारे तदयोगादित्यर्थः । मुक्तौ कथं मुक्तिरित्यत आह-अतीतानन्तेति ।। त्रयोऽपीति ।। होत्रादय इत्यर्थः । परञ्ज्योतिपदं व्याख्याति-परमात्मानमिति ।। ‘आत्मा प्रकरणात्’ इत्यधिकरणे ‘परञ्ज्योतिः परं ब्रह्म परमात्मादिकाः गिरः । वदन्ति विष्णुमेव’ इति स्मृत्या तदसाधारण्योक्तेरित्यर्थः ।
(व्या.टि.) ननु ‘ज्ञातिश्चेदनलेन किम्’ इत्युक्तविरोधिदायादाभावात्कथं मुक्तौ ज्ञातिसद्भाव इत्यत आह- सहमुक्ता इति ।। तादृगेवेत्येवकारव्यावर्त्यमाह- न तु तदेवेति ।। एकवचनं जात्यभिप्रायेणेति मत्वाऽऽह-विजानतामिति ।। आत्मशब्दः ‘अहम्भावो भवन्तश्च सर्वं नारायणात्मकम्’ ‘विष्णुरात्मा भगवतो भवस्यामिततेजसः’ ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इत्यादाविवाधिपतिपर इत्याह- आत्माऽधिपतिरिति ।। ननु सुखसाधनपुण्यविधूननं कथमिष्टमित्यतो व्याचश्व्े- पुण्यमनिष्टमिति ।। मोक्षपरिपन्थीत्यर्थः । साम्यमिति व्याचश्व्े- सादृश्यमिति ।। भेदोक्तिरिति ।। अत एव पूर्वतन्त्रे ‘श्येनेनाभिचरन् यजेत’ इति विहितस्य श्येनस्य ‘यथा वै श्येनो निपत्याऽदत्ते’ इति श्येनसादृश्याभिधानाच्छ्नयेनशब्दो यागे गौण इत्युक्तं तद्व्यपदेशाधिकरणे । अमृतस्येति जातावेकवचनमित्याह- मुक्तजातस्येति ।। सेतुरिवेति ।। नाम्ना तद्धर्मातिदेश इति भावः । साधर्म्यमाह- आश्रय इति ।। अनेनाऽश्रयाश्रयिभावेन भेदोक्तिः । अक्षण्वन्त इति ।। अक्षिशब्दान्मतुप् । ‘छन्दस्यपि दृश्यते’ इत्यनङ् । नुटोऽसिद्धत्वात्पूर्वं नलोपः । ततो ‘अनो नुट्’ इति नुट् । ननु मतुपो वत्वाप्रसङ्गः, तस्यैव वत्वप्रसङ्गश्च । नुटो वत्वं प्रत्यसिद्धत्वात् । यदि पूर्वान्तो नुक् क्रियेत तदा ‘न पदान्तस्य’ इति णत्वं न स्यात् । तस्मान्नुडेवोचितः । नन्वेवमवग्रहे दोषः स्यात् । अक्षणिति णान्तमवगृह्णन्ति । अक्षेत्यकारान्तमेव ग्रहीतुमुचितमिति चेत् । सत्यम् । ‘न लक्षणेन पदकारा अनुवर्त्याः, पदकारैर्नाम लक्षणमनुवर्तनीयम्, तस्माद्यथालक्षणं पदं कार्यम्’ इति महाभाष्ये स्थितम् । किञ्च देवयन्तः, भूरिक्ष(रत)वत्तरः, ईयिवांसमित्यादौ पदत्वं विनाऽपि बहुलमवग्रहः क्रियते । ‘पूर्वेभिरग्निभिः’ इत्यादौ सत्यपि पदत्वे न क्रियते इति बहुलं लक्षणावग्रह-वैपरीत्यमिति दिक् । एतावन्तमभिप्रेत्य व्याचश्व्े- अक्षिमन्त इति ।। असमाः तारतम्योपेता इति ।। ननु एन अकारवाच्येन ब्रह्मणा समा इति किं नोच्यत इति चेन्न । नञ्(ञुप)पदप्रकृतिस्वरानुपपत्तेः । आदघ्नास इति इत्याद्युत्तरविरोधाच्च । आनन्दादितारतम्यश्रुतिविरोधाच्च । आदघ्नास इति आस्यं प्रमाणमेषामिति विगृह्य ‘प्रमाणे द्वयसच्’ इत्यादिना दघ्नच्प्रत्ययः, आस्यपदस्य आभावः, ‘आज्जसेरसुक्’ इत्यसुगिति मत्वा व्याचश्व्े- आदघ्ना इति ।। अथ वा आकाराद् बहुसमानार्थात्प्रमाणे दघ्नच्प्रत्ययः । ‘दघ्नशब्दोऽप्रत्ययोऽप्यस्ति’ इति सुधानुरोधाद्वा निर्वोढव्यः । मुक्तविशेषणं कथमित्यत आह- अर्शआदिभ्योऽजिति ।। उपकक्षास इति पदं व्याकरोति- उपकक्षा इति ।। ‘बहुलं छन्दसि’ इति बहुलग्रहणादतोऽमभावः । स्नात्वेत्येतद्व्याकरोति- स्नातव्या इति ।। ‘कृत्यार्थे तवैकेन्केन्यत्वनः’ इति त्वन्प्रत्यय इत्युक्तं भवति । ददृश्रे ददृशिर इति ।। ‘इरयोरे’ इति रेभावः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावः । तदर्थं(च)सूत्रे द्विवचनान्तं निर्दिष्टम् ‘इरयोः’ इति । भगवद्वचनमिति कर्तुः क्रियान्वयं दर्शयति-भेदं वक्तीति ।। सूत्रस्य श्रुत्याऽन्वयं दर्शयति- जगद्व्यापारेति ।। सर्वथेति ।। ‘भूयश्चान्ते विश्वमायानिवृत्तिः’ इति तन्निवृत्त्युक्तेरित्यर्थः ।