प्रत्यक्षं त्रिविधं ..

प्रत्यक्षविभागकथनम्

मूलम्

- ‘प्रत्यक्षं त्रिविधं ज्ञेयमैश्वरं यौगिकं तथा ।

अयौगिकं चेति तथा सर्वमक्षात्मकं मतम् ।।

अक्षाणि च स्वरूपाणि नित्यज्ञानात्मकानि च ।

विष्णोः श्रियस्तथैवोक्तान्यन्येषां द्विविधानि तु ।।

स्वरूपाणि च भिन्नानि भिन्नानि त्रिविधानि च ।

दैवासुराणि मध्यानीत्येतत् प्रत्यक्षमीरितम् ।

विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति कीर्तितम् ।

अक्षयं पुरुषस्याक्षं स्वरूपे मुख्यमेव तु (तत्) ।।

उपचारस्तदन्यत्र सृश्ववुपचयो यतः ।

उपपत्तिस्वरूपत्वादनुमा सम्भवादिकम् ।।

प्रत्यक्षागममाहात्म्यादनुमानं प्रमाणताम् ।

याति, नैवान्यथा, तस्य नियतत्वं क्वचिद् भवेत् ।।

इत्यादि ब्रह्मतर्के ।।

तत्त्वमञ्जरी

ऐश्वरशब्देन ईश्वरीयप्रत्यक्षमपि विवक्षितम् । विष्णोः, श्रिय इति तत्रैव प्रसङ्गात् । अक्षात्मकम् अक्षयत्वादक्षमित्यर्थः । क्षिङ् क्षय इति धातोः । तृतीयोऽतिशय इति न्यायात् । स्वरूपेन्द्रियाणां सिद्धत्वात् त्रैविध्याकथनम् । न तु त्रैविध्याभावात् । न हि स्वरूपाभिन्नं स्वरूपा-दन्यथा भवति । न हि श्वेतपटस्य तन्तवो रक्ता भवितुमर्हन्ति ।

शते पञ्चाशत् सम्भवन्तीत्यादि सम्भव उपपत्तिरूपत्वादनुमा । तथा हि- कस्यचित् पञ्चाशत् फलापेक्षायामुच्यते- विमतानि पञ्चाशदनूनानि शतत्वात् सम्मतवदिति । आदिशब्दादभिनयः । अभ्यात्मं पाणिचलनाद्यभिनयेनाऽह्वानाद्यभिप्रायः सङ्केतबलादनुमीयते हि । अन्यथा प्रत्यक्षागम-विरोधेऽनुमानस्याप्रामाण्यं नियतत्वेनैव । अग्निरनुष्णः मथनजन्यत्वात् नवनीतवत्; अग्निष्टोमादि-रनर्थहेतुः हिंसारूपत्वात् ब्राह्मणहिंसावत् इत्यादेः ।

टीका  

अथ परिशेषतः प्राप्तस्य प्रत्यक्षस्य विभागमाह- प्रत्यक्षमिति ।। ऐश्वरमिति विष्णोः श्रियश्च प्रत्यक्षमेकीकृत्योक्तम् । समाधिपरिपाकवन्तो योगिनः । तदीयं प्रत्यक्षं यौगिकम् । अस्मदादीनां प्रत्यक्षमयौगिकम् । ईश्वरस्य शरीरेन्द्रियरहितत्वात् तत्र प्रत्यक्षोक्तिरौपचारिकीति शङ्कानिरासार्थमाह- तथा सर्वमिति ।। यथा यौगिकं तथा सर्वमैश्वरमपीति यावत् । तथा सति ‘सर्वेन्द्रियविवर्जितम्’ इत्यादिविरोध इत्यत आह- अक्षाणि चेति ।। भिन्नजडेन्द्रियाभावपरं तद्वाक्यमिति भावः । उक्तानि ‘यदात्मको भगवान्’ इत्यादौ । एतेनान्येषां भिन्नान्येवेति प्राप्तमत आह- अन्येषामिति ।। द्वैविध्यमेव दर्शयति- स्वरूपाणि चेति ।। यत् ‘अदुष्टमिन्द्रियम्’ इत्यदुष्टत्वमुक्तं तत्स्वरूपेन्द्रियाणां स्वरूपकथनमात्रम्, भिन्नेन्द्रियाणामेव तु विशेषणमिति ज्ञापयितुं तद्विभागमाह- भिन्नानीति ।। सम्यग्ज्ञानप्रचुराणि दैवानि । मिथ्याज्ञानप्रचुराण्यासुराणि । उभयसमानि मध्यानि ।

ननु प्रत्यक्षं त्रिविधमित्यसङ्गतम् । अक्षस्यैव प्रकृतत्वात्, ऐश्वरमित्यादिना तस्यैव निरूपित-त्वाच्च । अत एव ‘एतत्प्रत्यक्षमीरितम्’ इति उपसंहारोऽप्यनुपपन्न इत्यत आह- विषयानिति ।। निर्दोषान् स्वस्वविषयान् प्रति स्थितं तैः सन्निकृष्टम् । अनेन प्रादिसमासोऽयमित्युक्तं भवति । अव्ययीभावत्वे हि प्रत्यक्षस्येति षष्ठी न श्रूयेत । यतोऽक्षमेव निर्दोषस्वगोचरसन्निकृष्टं प्रत्यक्षमिति कीर्तितं शाब्दिकैः न त्वर्थान्तरम् अतोऽनतिभिन्नत्वान्न कश्चिद्विरोधः । निर्वचनप्रसङ्गादक्षशब्दमपि निर्वक्ति- अक्षयमिति ।। एतेन नञुपपदात् ‘क्षै क्षये’ इत्यस्माद्धातोः ‘आतोऽनुपसर्गे कः’ इति कप्रत्यय इत्युक्तं भवति । अक्षयमक्षमिति निर्वचनं किमन्वर्थमुत नेति शङ्कायामाह- पुरुषस्य स्वरूप इति ।। एतत्तु निर्वचनं पुरुषस्येश्वरादेः स्वरूपेऽक्षे मुख्यमन्वर्थमेव । तदन्यत्र विभिन्नेऽ-क्षेऽक्षशब्दस्योपचारः । कुतो यतः स्वरूपेण नित्यस्यापि तस्य सृष्टिकाले भौतिकाहङ्कारि-कावयवोपचयरूपोत्पत्तिरस्ति, प्रलये च तदपचयलक्षणः क्षयश्चातो मुख्यासम्भवादेक-देशाक्षयत्वनिमित्ता गौणी वृत्तिरिति ।

एतेनानुभवस्य प्रत्यक्षादित्रयानन्तर्भूतस्य प्रमाणत्वाभावात् कथमैक्यागमस्य तद्विरोधेनाप्रामा-ण्यमुच्यत इत्याशङ्का परिहृता भवति । स्वरूपेन्द्रियाभिव्यक्तस्यानुभवस्य प्रत्यक्षेऽन्तर्भूतत्वात् ।

प्रमाणत्रित्वसिद्धये सम्भवपरिशेषादीनामन्तर्भावमाह- उपपत्तीति ।। व्याप्तिस्मरणमपेक्ष्यार्थ-प्रमितिजनकत्वात् सम्भवादिकमपि प्रमाणमनुमैव । एवमैतिह्यस्याप्यागमेऽन्तर्भावो वाच्यः । अर्थापत्त्यादीनि वादिभिः पृथक्प्रमाणतयाऽङ्गीकृतानि, नतु सम्भवादीनि । किन्तु प्रातीतिकमेव तेषां पृथक्त्वमिति ज्ञापनाय विप्रकर्षेणान्तर्भावोक्तिः । प्रत्यक्षशब्दे निरुक्तेऽनुमानशब्दे च प्रस्तुते तन्निर्वचनजिज्ञासायां तत्सूचयन्नाह- प्रत्यक्षेति ।। अनुकूलाभ्यां प्रत्यक्षागमाभ्यामुपाधिप्रतिपक्ष-निरासात् प्रमाणताम् अर्थनिश्चायकतां, याति । अन्यथा उपाध्यादिग्रस्तत्वे, तस्य नियतत्वं निश्चयहेतुत्वम् । एतेनानुसृत्य मानमनुमानमिति निर्वचनं सूचितम् । एवम् आ समन्ताद्गम्यतेऽनेनार्थ इत्यागमशब्दनिरुक्तिर्द्रष्टव्येति   

एतेन  ‘विपर्ययेणाप्यनुमातुं शक्यत्वात्’  इत्युक्तं दृढीकृतं भवति ।

भावबोधः

शरीरेन्द्रियरहितत्वादिति ।। इन्द्रियरहितत्वे हेतुप्रदर्शनार्थं शरीरग्रहणं कृतम् । ननु सर्वपदस्या-सङ्कुचितवृत्तित्वे तथाशब्दसूचितदृष्टान्ताभावः । तथा योगिप्रत्यक्षस्याक्षत्वविधानवैयर्थ्यं चेत्यत आह- यथा यौगिकमिति ।। योग्ययोगिनोर्भिन्नेन्द्रियत्रैविध्यवत्तत्स्वरूपेन्द्रियत्रैविध्यस्यापि सद्भावात्तदनुक्त्वा भिन्नेन्द्रिय-भावबोधः

त्रैविध्यं किमर्थमुच्यत इत्यत आह- यददुष्टमिति ।। ‘अदुष्टमिन्द्रियम्’ इत्यत्रेन्द्रियपदस्य भ्रमत्वा-नधिकरणज्ञानजननस्वरूपयोग्येन्द्रियपरत्वेनैव नित्यसंसारितमोयोग्यस्वरूपेन्द्रियस्य भ्रमत्वाधिकरण-ज्ञानजनकत्वनियमात्तद्व्यवच्छेदसिद्धौ सज्जनस्वरूपेन्द्रियस्य याथार्थ्यनियमात् ‘स्वदृग्’ इत्यत्रेव निर्दोषत्व-स्यानपेक्षितत्वेन लाघवात्प्रमाणभूतसर्वेन्द्रियाणाम् एकवाक्येनैव लक्षणं प्रतिपादयितुमुक्तमदुष्टत्वं स्वरूपेन्द्रियाणां स्वरूपकथनमात्रम्, सर्वेषामपि बाह्येन्द्रियाणां दोषसाहित्येन भ्रमजनकत्वस्यापि सत्त्वात्तत्रादुष्टत्वं दुष्टेन्द्रिय-व्यावर्तकतया विशेषणमिति ज्ञापयितुमित्यर्थः । नन्वेतद्वैलक्षण्यं कथं भिन्नेन्द्रियाणां विभागकथनेन ज्ञापित-मित्यतो भिन्नेन्द्रियेषु दैवादिपदप्रयोगबलेन लब्धमित्याशयवान् दैवादिपदार्थमाह- सम्यग्ज्ञानप्रचुराणीत्यादिना ।। तस्यैवेति ।। अक्षस्यैवेत्यर्थः । ऐश्वरादिपदोक्तस्यैव ‘सर्वमक्षात्मकं मतम्’ इत्यक्षत्वोक्तेरिति भावः । प्रत्यक्षस्येति षष्ठीति ।। ‘प्रत्यक्षस्य लक्षणमाह’ इत्यादिशास्त्रीयप्रयोगेष्वित्यर्थः । प्रयोगबाहुल्याभिप्रायेणेदमु-दितम् । ‘नाव्ययीभावादतोऽम्त्वपञ्चम्याः’ ‘तृतीयासप्तम्योर्बहुलम्’ इत्यपवादेन प्रत्यक्षादित्यादेरनुदाहरणत्वेऽपि प्रथमाद्वितीयाद्विवचनबहुवचनचतुर्थीषष्ठीवचनान्तोऽपि प्रत्यक्षशब्दोऽत्रोदाहरणम् । अनतिभिन्नत्वादिति ।। प्रत्यक्षस्य सव्यापारत्वेनाक्षाद्भेदेऽपि अत्यन्ताभेदाभावादित्यर्थः । विरोध इति ।। प्रकृतासङ्गत्युपसंहारानुपपत्तिरूपो दोष इत्यर्थः । भौतिकाहङ्कारिकेति ।। भूतैस्तैजसाहङ्कारेणापीति द्वेधेन्द्रियाणामुपचयादिति भावः । साध्या-विशिष्टतापरिहारार्थम् ‘उपपत्तिस्वरूपत्वात्’ इत्येतद्व्याचश्व्े- व्याप्तिस्मरणमिति ।। अनुमानप्रामाण्योपयुक्तं प्रत्यक्षागमयोः किं माहात्म्यमित्यत आह- अनुकूलाभ्यामिति ।। ननु प्रत्यक्षागमाभ्यां प्रतिपक्षाद्यनिरासेऽपि निर्दोषोपपत्तित्वलक्षणप्रमाणतानपायात् कथं ‘प्रमाणतां याति’ इत्युक्तमित्यतो व्याचश्व्े- अर्थनिश्चायकता-मिति ।।

भावदीपः

न्यूनत्वशङ्कां निराह- विष्णोः श्रियश्चेति ।। समाधीति ।। समाधिर्ध्यानम् । तस्य परिपाकोऽ-परोक्षज्ञानफलोपधानशक्तता तद्वन्तः । शरीरेति ।। इन्द्रियराहित्योपपादनाय शरीरराहित्योक्तिः । ‘सर्वेन्द्रिय-विवर्जितम्’ इति त्रयोदशे गीतायाम् । आदिपदेन ‘चक्षुः श्रोत्रं तदपाणिपादम्’ इत्यादिग्रहः । उक्तानीत्यनूद्य स्थलमाह- उक्तानि यदात्मको भगवानिति ।। ‘तदात्मिका व्यक्तिः । किमात्मको भगवान् ? ज्ञानात्मक ऐश्वर्यात्मकः’ इत्यादिस्तद्वाक्यशेषः । विशेषणमिति ।। दोषयुक्तेन्द्रियव्यावृत्त्यर्थमुपात्तमित्यर्थः । प्रकृतत्वा-दिति ।। अदुष्टमिन्द्रियं त्वक्षमित्युपक्रमादिति भावः । फलितार्थमाह- तैस्सन्निकृष्टमिति ।। अनेनेति ।। ‘विषयान् प्रति स्थितम्’ इति कथनेन । ‘कुगतिप्रादयः’ इति सूत्रेण प्रति स्थितमक्षं प्रत्यक्षमिति प्रादिसमास इत्यर्थः । ‘अव्ययं विभक्ति’ इत्यादिनाऽक्षं प्रति प्रत्यक्षमित्यव्ययीभावत्वे तु ‘नाव्ययीभावादतोऽम्त्वपञ्चम्याः’ इति विभक्तेरम्प्रत्ययोक्त्या प्रत्यक्षमित्येव भाव्यम् । न तु प्रत्यक्षस्य लक्षणमाह, प्रत्यक्षस्य विभागमाहेत्यदौ षष्ठी श्रूयेतेत्यर्थः । ‘अपञ्चम्याः’,‘तृतीयासप्तम्योर्बहुलम्’ इति पञ्चम्यादौ अमोऽपवादेऽपि षष्ठ्यादावनपवादात् षष्ठी न श्रूयेतेत्युक्तम् । ननु प्रत्यक्षमित्यादिना प्रागुक्तचोद्यस्योत्तरमाह- यतोऽक्षमेवेत्यादिना ।। क्षै क्षय इति ।। ‘आदेच उपदेशेऽशिति’ इत्याकारादेशे क्षा इति स्थिते, अनुपसर्गे सुप्युपपदे आकारान्ताद्धातोः कप्रत्यय इति सूत्रेण कप्रत्यये ‘लशक्वतद्धिते’ इति ककारव्यञ्जनस्य लोपे ‘आतो लोप इटि च’ इत्याकारलोपे नञो नलोपे सत्यक्षमिति सिद्ध्यतीति भावः । भौतिकेति ।। ‘तेषां भूतैरुपचयः सृष्टिकाले विधीयते’ इत्युक्तेः ‘तैजसा-नीन्द्रियाण्याहुः’ इति वचनात् तैजसाहङ्कारावयवैरुपचयेत्यर्थः । अक्षपदनिरुक्तेः प्रकृतोपयोगं व्यनक्ति- एते-नेति ।। स्वरूपेन्द्रिये मुख्याक्षत्वकथनेनेत्यर्थः । ननु स्वरूपज्ञानस्य नित्यतया स्वरूपेन्द्रियाजन्यत्वात् कथमप-रोक्षानुभवत्वेन प्रत्यक्षान्तर्भाव इत्यत आह- स्वरूपेन्द्रियाभिव्यक्तस्येति ।। अभिव्यक्तिरत्र विषयसम्बन्धो वा विषयसम्बन्धापादको धर्मविशेषो वा ज्ञेयः । हेतुसाध्ययोरभेदशङ्कानिरासायोपपत्तिपदार्थं वदन्नेव वाक्यं योजयति- व्याप्तीति ।। व्यक्तमेतत् सम्भवादिस्वरूपमनुमानान्तर्भावादि च ‘सम्भवपरिशेषावनुमा’ इत्यादि-ग्रन्थान्तरव्याख्याने । ऐतिह्यस्येति ।। ‘वटे वटे वैश्रवणः’ इत्यादिप्रवादरूपस्येत्यर्थः । अनुमाननिरुक्तेः प्रकृतोपयोगमाह- एतेनेति ।। प्रत्यक्षाद्यननुसार्यनुमानस्यानिश्चायकत्वकथनेनेत्यर्थः । एवमिति ।। आङ्पूर्वाद् गमेः ‘ग्रहवृदृनिश्चिगमश्च’ इति करणे अप् प्रत्यय इति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

ननु विधान्तरस्यापि लक्ष्मीप्रत्यक्षस्य सत्त्वात् कथं त्रित्वोक्तिरित्यत आह- ऐश्वरमितीति ।। अनेन ईश्वरस्य ईश्वर्याश्चेदम् ऐश्वरमिति विग्रहस्सूचितो भवतीति द्रश्व्व्यम् । अस्मदादीनामिति ।। समाधिपरिपाक-शून्यानामित्यर्थः । ‘शरीरेन्द्रियरहितत्वात्’ इत्यत्रेन्द्रियरहितत्वे शरीरराहित्यं हेतुत्वेनोक्तमिति बुद्ध्या विवेकेन द्रष्टव्यम् । ‘शरीरयोगे सत्येव साक्षात्प्रमितिसाधनम् इन्द्रियम्’ इति कारिकायामिन्द्रियस्य शरीरसंयुक्तत्वाभि-धानात् ‘शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियमिन्द्रियम्’ इत्यन्यत्राप्युक्तत्वादिति भावः । तत्र तदीयेन्द्रिये । तथेति दार्ष्टान्तिकोक्त्या सूचितं दृष्टान्तमाह- यथेति ।। यौगिकं प्रत्यक्षम् । ऐश्वरमपि प्रत्यक्षम् । तथा च यथा यौगिकं प्रत्यक्षमक्षात्मकम् अदुष्टेन्द्रियात्मकत्वात् । तथा सर्वमैश्वरमपि प्रत्यक्षमक्षात्मकम् अदुष्टेन्द्रियात्मकत्वादित्यर्थः। तथा च न तत्र प्रत्यक्षत्वोक्तिरौपचारिकीत्याशयः । तथा सतीति ।। ऐश्वरप्रत्यक्षस्यापि अदुष्टेन्द्रियात्मकत्व-रूपाक्षात्मकत्वाङ्गीकारे इत्यर्थः । यदात्मक इति । ‘यदात्मको भगवान् तदात्मिका व्यक्तिः । किमात्मको भगवान्? ज्ञानात्मक ऐश्वर्यात्मकस्सुशक्त्यात्मकः’ इति श्रुतावित्यर्थः । एतेनेति ।। विष्णोः श्रिय इति विशिष्य कथनेनेत्यर्थः । अन्येषां योगिनामयोगिनां च । अक्षाणीति शेषः । स्वरूपकथनेति ।। सज्जनस्वरूपेन्द्रियाणा-मदुश्व्त्वनियमेन व्यावर्त्याभावादिति भावः । भिन्नेन्द्रियाणामेवेति ।। सर्वेषां बाह्येन्द्रियाणां दोषसाहित्येन भ्रमजनकत्वस्यापि सद्भावेन तेष्वदुष्टत्वं दुष्टेन्द्रियव्यावर्तकतया विशेषणमिति ज्ञापयितुमित्यर्थः ।

नन्वदुष्टत्वं सज्जनस्वरूपेन्द्रियाणां स्वरूपकथनमात्रं, भिन्नेन्द्रियाणामेव विशेषणमिति वैलक्षण्यं भिन्नेन्द्रि-याणां विभागकथनेन कथं ज्ञापितमित्यतो भिन्नेन्द्रियेषु दैवादिपदप्रयोगबलेन लब्धमित्याशयवान् दैवादिपदार्थ-माह- सम्यग्ज्ञानप्रचुराणीत्यादिना ।। सम्यग्ज्ञानप्रचुराणि प्राचुर्येण सम्यग्ज्ञानजनकानीत्यर्थः । मिथ्या-ज्ञानप्रचुराणि प्राचुर्येण मिथ्याज्ञानजनकानीत्यर्थः । उभयसमानि साम्येनोभयजनकानीत्यर्थः । प्रकृतत्वा-(श्री.टि.) दिति ।। ‘अदुष्टमिन्द्रियं त्वक्षम्’ इति प्रकृतत्वादित्यर्थः । तस्यैव अदुष्टेन्द्रियरूपाक्षस्यैव । ‘तथा सर्वमक्षात्मकं मतम्’ इत्युक्तत्वादिति भावः । अत एव प्रकृतविरोधादेव । प्रकृतस्यैवोपसंहार्यत्वेन एतदक्षमीरित-मिति च वक्तव्यत्वादिति भावः । निर्दोषानिति ।। अतिदूरत्वातिसामीप्यसौक्ष्म्यव्यवधानादिदोषरहितान् स्वविषयानित्यर्थः । अनेनेति ।। ‘विषयान् प्रति स्थितम्’ इति वचनेनेत्यर्थः । तथा च, प्रगत आचार्यः प्राचार्य इतिवत् प्रति स्थितमक्षं प्रत्यक्षमिति प्रादिसमासोऽयं, मध्यमपदलोपी समास इति यावदित्यर्थः । ननु प्रादिसमासोऽयमिति कुतः । अक्षं प्रति प्रत्यक्षमित्यव्ययीभावः कस्मान्न स्यादित्यत आह- अव्ययीभावत्वे हीति ।। षष्ठी न श्रूयेतेति ।। प्रत्यक्षस्य लक्षणमाहेत्यादिशास्त्रीयप्रयोगेष्वित्यर्थः । तथा हि ‘नाव्ययीभावादतोऽ-म्त्वपञ्चम्याः’ अदन्तादव्ययीभावात्सुपो न लुक् तस्य पञ्चमी विना अमादेशः । उपकृष्णाद् गत इत्येवं पञ्चमीव्यति-रिक्तसर्वविभक्तिषु नित्यमम्भावश्रवणात् । ‘तृतीयासप्तम्योर्बहुलम्’ अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुल-मम्भावस्स्यात् । उपकृष्णं कार्यम्, उपकृष्णेन कार्यम्, उपकृष्णं स्थितः, उपकृष्णे स्थित इति तृतीयासप्तम्यो-रम्भावस्य वैकल्पिकत्वोक्तेः । ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ इति सम्प्रदानसञ्ज्ञाभावेन चतुर्थीविभक्त्युत्प-त्तेरेवायोगेन अव्ययीभावसमासाङ्गीकारे अम्भावस्यावर्जनीयत्वेन प्रत्यक्षस्येति षष्ठी न श्रूयेत । इदमुपलक्षणम् । प्रत्यक्षे, प्रत्यक्षाणीति प्रथमाद्वितीयाद्विवचनबहुवचनप्रयोगोऽपि न श्रूयेत । ‘प्रत्यक्षो घटः’ इति विशेष्यनिघ्नता च न श्रूयेतेत्यपि द्रष्टव्यम् । प्रयोगबाहुल्याभिप्रायेणैव प्रत्यक्षस्येत्युदाहृतमिति भावः । ‘विषयान् प्रति’ इति मूले हिशब्दो हेत्वर्थः अवधारणार्थश्चेत्यभिप्रेत्य शङ्कापरिहारपरत्वेन तन्मूलं योजयति- यतोऽक्षमेवेति ।। स्वगोच-रेति ।। स्वविषयेत्यर्थः । न त्वर्थान्तरमिति ।। घटादिवदिति भावः । अनतिभिन्नत्वादिति ।। प्रत्यक्षशब्दस्य सन्निकृष्टेन्द्रियवाचित्वेन अक्षशब्दाद्भेदेऽपीन्द्रियवाचित्वांशस्योभयत्रापि सत्त्वेन प्रत्यक्षाक्षशब्दयोर्घटपटादि-शब्दवदत्यन्तं भिन्नार्थत्वाभावादित्यर्थः । न कश्चिद्विरोध इति ।। प्रकृतासङ्गत्युपसंहारानुपपत्तिरूपो विरोधो नेत्यर्थः ।

निर्वचनप्रसङ्गादिति ।। प्रत्यक्षशब्दनिर्वचनेनाक्षशब्दनिर्वचनस्यापि स्मारितत्वेन स्मृतस्योपेक्षानर्हत्वरूपात् प्रसङ्गादित्यर्थः । नञुपपदादिति ।। नञुपपदात् क्षै क्षय इत्यस्माद्धातोः ‘आदेच उपदेशेऽशिति’ उपदेशे एजन्तस्य धातोः एच आत्त्वं स्यात्, शितोऽन्यस्मिन् प्रत्यये विवक्षित इत्यनेन ऐकारस्य आत्त्वे नक्षा इति जाते ‘न लोपो नञः’ इति नञो नस्य लोपे अक्षा इति जाते ‘आतोऽनुपसर्गे कः’ आदन्ताद्धातोरनुपसर्गे उपपदे कप्रत्ययः स्यादिति सूत्रेण कप्रत्यये ‘लशक्वतद्धिते’ इति ककारलोपे ‘आतो लोप इटि च’ अजादावार्धधातुके किति ङिति च प्रत्यये इटि च परे धात्वाकारस्य लोपस्स्यादित्यनेन धात्वाकारलोपे अक्ष् अ अक्ष इति रूपम् । ननु ‘आतोऽनुपसर्गे कः’ इति सूत्रेणात्र कथं कप्रत्ययः । अनुपसर्गे कर्मण्युपपद इत्युक्तत्वात् । उदाहृतं च गां ददातीति गोदः, कम्बलद इति । प्रकृते च कर्मण उपपदस्याभावादिति चेत् सत्यम् । एवं हि सूत्रक्रमः ‘कर्मण्यण्’ ‘ह्वावामश्च’ ‘आतोऽनुपसर्गे कः’ ‘सुपि स्थः’ इति । तत्र पूर्वसूत्रात्कर्मणीत्यनुवृत्तिमभिप्रेत्य तथा व्याख्यातम् । अत्र कर्मणीति (श्री.टि.) नानुवर्तते । उत्तरसूत्रात्सुपीत्येतदाकृष्यते । तथा च अनुपसर्गे सुबन्ते उपपदे आदन्ताद्धातोः कप्रत्ययः स्यादित्यभियुक्तैर्व्याख्यातत्वेन प्रकृते च नञुपरि प्राप्तस्य सुपः ‘अव्ययादाप्सुपः’ इति लोपेन नञस्सुबन्तत्वात्त-स्मिन्नुपपदे युक्तः कप्रत्यय इति नैतत्सूत्रोदाहरणमसङ्गतमिति द्रष्टव्यम् । अन्वर्थमिति ।। अन्वर्थं युक्तार्थम् । निर्वचनलभ्योऽर्थस्तत्रास्तीत्यर्थः । न त्वश्वकर्णादिवद्रूढमिति भावः । उपचारो गौणी वृत्तिः । स्वरूपेण नित्यस्यापीति ।। सूक्ष्मरूपेण नित्यस्यापीत्यर्थः । ‘भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम्’ इति वचनात् । तस्य भिन्नेन्द्रियस्य । अहङ्कारशब्देन तैजसाहङ्कारो ग्राह्यः । तथा च भूत-तैजसाहङ्कारसम्बन्धिनो येऽवयवा अंशास्तैरुपचयरूपोत्पत्तिरस्तीत्यर्थः । अत्राऽदौ भिन्नानां प्राकृतानां सूक्ष्मेन्द्रियाणां तैजसाहङ्कारावयवैरुपचयस्तद-नन्तरं तैजसाहङ्कारादुपचितानां तेषां पश्चात् पञ्चभूतावयवैरुपचय इति क्रमो ज्ञातव्यः । यथोक्तं भागवततात्पर्ये-

सूक्ष्मेन्द्रियाणि सन्त्येव स्युस्स्थूलान्यप्यहङ्कृतेः ।

तेषां भूतैरुपचयस्सृष्टिकाले विधीयते ।।’ इति ।

।। मुख्यासम्भवादिति ।। सर्वप्रकारेण क्षयाभावरूपाक्षशब्दमुख्यार्थस्य भिन्नेन्द्रियेष्वसम्भवादित्यर्थः । एकदेशेति ।। अक्षशब्दमुख्यार्थे स्वरूपेन्द्रिये सर्वथा क्षयाभावेनैकदेशाक्षयोऽस्ति । भिन्नेन्द्रियेष्वप्येकदेशाक्षयोऽ-स्ति । तथा चैकदेशाक्षयरूपमुख्यार्थसदृशगुणयोगादक्षशब्दस्य गौणी वृत्तिरित्यर्थः । प्रकृतोपयोगं दर्शयति- एतेनेति ।। अनुभवस्य साक्षिजानुभवस्य । तद्विरोधेन साक्ष्यनुभवविरोधेन । उच्यत इति ।। ‘न चानुभवविरोध आगमस्य प्रामाण्यम्’ इत्यनेनेत्यर्थः । एतेनेत्युक्तं विशदयति- स्वरूपेन्द्रियेति ।। साक्षीत्यर्थः ।

।। सम्भवपरिशेषेति ।। सहस्रादौ शतादिविज्ञानं सम्भवः । प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् परिशिष्यमाणे बुद्धिः परिशेषः । यथा चैत्रमैत्रयोर्नायं चैत्र इत्युक्तेऽन्यस्मिन् मैत्र इति ज्ञानम् । ‘सम्भवादिकमनुमा उपपत्ति-स्वरूपत्वात्’ इत्यत्र साध्याविशिष्टतापरिहारायोपपत्तिस्वरूपत्वादित्येतद्व्याख्याति- व्याप्तीति ।। सम्भवादि-कमनुमैवेति ।। देवदत्तः शतवान् सहस्रवत्त्वादित्येवं सम्भवेऽनुमानप्रकारो द्रष्टव्यः । यथाऽहुः ‘इह भवति शतादौ सम्भवादासहस्रान्मतिरपि युतिभावात्सानुमानादभिन्ना’ इति । तथाऽयं मैत्रो भवितुमर्हति, चैत्रमैत्रयो-रन्यतरत्वे सत्यचैत्रत्वाद् व्यतिरेकेण घटवदिति परिशेषेऽप्यनुमानप्रकारो ज्ञातव्यः । घटे विशेषणाभावप्रयुक्त-विशेष्याभावेन हेतुव्यतिरेको द्रष्टव्यः । ऐतिह्यस्यापीति ।। ‘इहाऽहुर्वृद्धाः’ इति प्रवादपारम्पर्यमैतिह्यम् । यथा ‘वटे वटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वत्र मधुसूदनः’ इत्यादि । इदं च प्रायः प्रमाणमेव न भवति । यदि च प्रमाणं तर्हि पदार्थस्मृत्यादिकमपेक्ष्य संसर्गप्रमाजनकत्वादागमेऽन्तर्भावो वाच्य इत्यर्थः । यथाऽहुः ‘जगति बहु न तथ्यं नित्यमैतिह्यमुक्तं भवति च यदि तथ्यं नाऽगमाद्भिद्यते तत्’ इति । नन्वर्थापत्त्यादीना-मनुमानान्तर्भावकथनपरे ‘अर्थापत्त्युपमाभावाः’ इति वाक्य एव सम्भवपरिशेषावपि स्थापयित्वाऽनुमानान्तर्गता इत्यन्तर्भावः कुतो नोक्तः? सम्भवपरिशेषयोरपि अर्थापत्त्यादिवदनुमानान्तर्भावे समाने सति विप्रकर्षे निमित्ता-भावादित्यत आह- अर्थापत्त्यादीनीति ।। वादिभिः प्राभाकरभाट्टवेदान्तिभिः । यथोक्तं कारिकायाम्-

(श्री.टि.) ‘अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः ।

अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा’ इति ।

।। न तु सम्भवादीनीति ।। बहुभिर्वादिभिः प्रमाणत्वेन नाङ्गीकृतानि किन्तु कैश्चिदेव पौराणिकैरिति भावः । ‘सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः’ इति कारिकोक्तेरिति ध्येयम् । प्रातीतिकमेवेति ।। आपातप्रतीत्यैव सिद्धमित्यर्थः । अनुमानप्रामाण्योपयुक्तं प्रत्यक्षागमयोर्माहात्म्यं नाम कीदृशमित्यत आह- अनुकूलाभ्यामिति ।।

अनुकूलेन तर्केण सनाथे सति साधने ।

साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः ।।’

इति वचनादिति भावः । तथा च प्रतिपक्षोपाध्यादिनिरासकत्वमेवानुमानप्रामाण्योपयुक्तं तयोर्माहात्म्यमिति भावः ।

ननु यस्मिन्ननुमाने व्याप्तिपक्षधर्मतावत्त्वेन स्वत एव प्रामाण्यं सिद्धमस्ति प्रतिपक्षोपाध्यादिशङ्का च नास्ति तादृशस्थले कथं प्रत्यक्षागममाहात्म्यादनुमानं प्रमाणतां याति । तत्र प्रत्यक्षागमाभ्यां प्रतिपक्षाद्यनिरासेन तयोर्निरु-क्तमाहात्म्याभावादित्यतः तादृशस्थलाभिप्रायेण प्रमाणतामित्येतद्व्याचश्व्े- अर्थनिश्चायकतामिति ।। तादृशस्थले प्रत्यक्षागमयोर्निरुक्तमाहात्म्याभावेन तन्माहात्म्यादनुमानस्य प्रामाण्याभावेऽपि तत्संवादेनार्थनिश्चायकत्व-मस्तीत्यर्थ इत्याहुः । एतेनेति ।। ‘प्रत्यक्षागममाहात्म्यात्’ इति वचनेनेत्यर्थः । आगमशब्दस्यानिरुक्तत्वा-न्न्यूनतापरिहारायाऽह- एवमिति ।। अर्थः अतीन्द्रियो धर्माधर्मादिरूपः । द्रष्टव्येति ।।

आ समन्ताद्गमयति धर्माधर्मौ परं पदम् ।

यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः ।।’

इत्यनुव्याख्यानानुसारेण द्रष्टव्येत्यर्थः । प्रकृतोपयोगं दर्शयति- एतेनेति ।। ‘नैवान्यथा तस्य नियतत्वं क्वचिद्भवेत्’ इत्यनेनेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु लक्ष्मीप्रत्यक्षमादाय चातुर्विध्यस्यान्यत्र समर्थितत्वात् कथं तत्त्रैविध्योक्तिरित्यत आह- ऐश्वरमितीति ।। शरीरेन्द्रियरहितत्वादिति ।। अत्रेन्द्रियरहितत्वोपपादनाय शरीरग्रहणम् । सर्वशब्दस्या-सङ्कुचितवृत्तित्वे तथाशब्दसूचितदृष्टान्ताभावप्रसङ्गात् सङ्कुचितवृत्तितामाश्रित्याऽह- सर्वमैश्वरमपीति ।। याव-दिति ।। तावताऽपि कथमुदाहृतश्रुतिविरोधपरिहार इत्यत आह- भिन्नेति ।। ननु योग्ययोगिनोर्भिन्नेन्द्रियत्रैविध्य-वत् स्वरूपेन्द्रियत्रैविध्यस्यापि सद्भावात्स्वरूपेन्द्रियत्रैविध्यमनुक्त्वा भिन्नेन्द्रियत्रैविध्यमात्रोक्तिः किन्निबन्ध-नेत्यत आह- यददुष्टमिति ।। अतिसामीप्यादिदोषयुक्तविषयैः सन्निकृष्टस्याक्षस्यापि विषयसन्निकृष्टाक्षत्वेन प्रत्यक्षत्वात्तेनापि तद्ग्रहणप्रसक्त्या तन्मात्रस्य प्रत्यक्षलक्षणत्वायोगात् ‘निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्’ (पां.टि.) इत्यादिग्रन्थान्तरानुसारेण निर्दोषत्वस्यापि विषयविशेषणस्याभिप्रेतत्वान्नानुपपत्तिरित्याशयेनाह- निर्दोषानिति ।। मूले विषयग्रहणस्याऽनर्थक्यमाशङ्क्याऽकाशादिसन्निकृष्टचक्षुरादिव्युदासार्थत्वान्न तदित्यभिप्रेत्य विषयत्वस्य केवलान्वयित्वेनाऽकाशादिसाधारणत्वात्कथमनेन तद्व्यावृत्तिरित्यतोऽत्र विषयपदस्येन्द्रियविषय-परत्वेन विषयमात्रपरत्वाभावादिन्द्रियविषयत्वस्याकेवलान्वयित्वाद्युक्तमाकाशादिव्यावर्तकत्वं तस्येत्याश-येनाऽह- स्वविषयानिति ।। तथाऽपि चक्षुरादिना गन्धादिग्रहणप्रसङ्ग इत्यतोऽन्वयव्यतिरेकाभ्यां यस्येन्द्रियस्य यो विषयत्वेनावगतस्तत्परत्वाद्विषयपदस्य गन्धादेश्च चक्षुरादिकं प्रत्यतथात्वान्नोक्तप्रसङ्ग इत्याशयेनोक्तम्- स्वस्वविषयानिति ।। मूले ‘विषयान् प्रति स्थितम्’ इत्युक्तरीत्या प्रत्यक्षशब्दनिर्वचनस्याऽनर्थक्यमाशङ्क्य प्रत्यक्षशब्दे प्रादिसमासज्ञापनद्वाराऽव्ययीभावनिवृत्तिसूचनार्थत्वान्न तदिति भावेन तन्निर्वचनप्रयोजनमाह- अनेनेति ।। ‘विषयान् प्रति’ इत्यादिप्रत्यक्षशब्दनिर्वचनेनेत्यर्थः । प्रादिसमास इति ।। प्राचार्यः, प्रान्तेवासीत्यादौ वृत्तिविषये गताद्यर्थे वर्तमानानां प्रादीनामगतित्वेऽपि ‘कुगतिप्रादयः’ इत्यत्र प्रादिग्रहणात् प्रथमान्तेनाऽ-चार्यादिपदेन, प्रगत आचार्यः प्राचार्यः, प्रकृष्टान्तेवासी प्रान्तेवासीति समासवद्, वृत्तिविषये गताद्यर्थे इत्यादि-पदग्राह्यस्थितार्थे वर्तमानस्य प्रतिशब्दस्य गतित्वाभावेऽपि ‘कुगतिप्रादयः’ इत्यत्र प्रादिग्रहणात्प्रथमान्तेनाक्षशब्देन प्रति स्थितमक्षं प्रत्यक्षमिति प्रादिसमास इत्यर्थः । प्रति स्थितमित्युक्तिस्तु गताद्यर्थे वृत्तिमस्वपदविग्रहेण नित्य-समासत्वं च सूचयितुमिति द्रष्टव्यम् ।

न च प्रत्यक्षशब्दे न प्रादिसमासोऽङ्गीकर्तुं शक्यते । तथा सति प्रत्यक्षशब्दस्यार्धपिप्पलीत्यादिवत् ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति परवल्लिङ्गताविधानेन नियतलिङ्गत्वापत्त्या, प्रत्यक्षोऽर्थः, प्रत्यक्षा बुद्धिः, प्रत्यक्षं ज्ञानमित्य-भिधेयलिङ्गत्वाभावापातादिति वाच्यम् । वार्तिककृता कात्यायनेन ‘द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः’ इति गतिसमासे परवल्लिङ्गताप्रतिषेधात् । गतिग्रहणस्यान्यस्यासम्भवेन प्राद्युपलक्षणताया आकरे स्थितत्वात्  प्रादिसमासस्य  परवल्लिङ्गत्वाभावेन   विशेष्यनिघ्नतया  निष्कौशाम्बिरित्यादिवदभिधेयलिङ्गत्वोपपत्तेः । न च प्रादिसमासप्रसङ्गे ‘कर्मप्रवचनीयानां प्रतिषेधः’ इति कर्मप्रवचनीयस्य प्रतिशब्दस्य समासप्रतिषेधात् कथं प्रतिशब्द-स्याक्षशब्देन प्रादिसमासः स्यादिति वाच्यम् । लक्षणेत्थम्भूताख्यानादिरूपकर्मप्रवचनीयत्वप्रयोजकस्यात्रा-भावेनाकर्मप्रवचनीयत्वात् प्रतिशब्दस्याक्षशब्देन समासोपपत्तेः । न चैवं विषयानिति द्वितीयानुपपत्तिः, कर्म-प्रवचनीययोगाभावेन ‘कर्मप्रवचनीययुक्ते द्वितीया’ इत्यनेन तदप्राप्तेरिति वाच्यम् । ‘बुभुक्षितं न प्रतिभाति किञ्चन’ इत्यादाविव ‘उभसर्वतसोः कार्या’ इत्यादिवार्तिककृदुक्तरीत्या अकर्मप्रवचनीयप्रतिशब्दयोगेऽपि द्वितीयाया उपपन्नत्वात् । एतच्च तद्वार्तिकव्याख्यानावसरे आकर एव स्पष्टम् । ननु अक्षमक्षं प्रति वर्तत इति प्रत्यक्षमिति निर्वचनाश्रयणेन प्रत्यक्षशब्देऽव्ययीभावस्यापि सति सम्भवे परित्यागायोगात् न तन्निवृत्तिसूचकत्वं सम्भवतीत्यतः, तथा सत्युपकुम्भादिवन्नियतनपुंसकत्वेन विशेष्यनिघ्नत्वाभावापत्त्या प्रत्यक्षोऽर्थः, प्रत्यक्षा बुद्धिरि-त्याद्यभिधेयलिङ्गता न स्यात् । इन्द्रियगुणकर्मसामान्येष्वतिव्याप्तेश्चेत्यादिदोषे सत्येव स्पष्टत्वात्तमुपेक्ष्य उद्योतकार-(पां.टि.) वार्तिकोक्तं तत्पक्षे दोषमाह- अव्ययीभावत्व इति ।। ‘प्रत्यक्षस्य लक्षणमाह’ इत्याद्यभियुक्त-प्रयोगेष्विति शेषः । ‘नाव्ययीभावादतोऽम्त्वपञ्चम्याः’ इति पञ्चम्या अमादेशनिषेधेऽपि ‘तृतीयासप्तम्योर्बहुलम्’ इति तृतीयासप्तम्योर्विकल्पेन तद्विधानेऽप्यन्यत्र नियमेनाम्भावविधानेन प्रत्यक्षमित्येव भाव्यत्वेन प्रत्यक्षस्येति षष्ठी न श्रूयेतेत्यर्थः । अक्षमिति ।। अदुष्टमिन्द्रियमित्यर्थः । अनतिभिन्नत्वादिति ।। विशिष्टाकारस्यायावद्-द्रव्यभावितया विशेष्येणाक्षेण भिन्नाभिन्नत्वात् नात्यन्ताभिन्नत्वमित्यर्थः । कश्चिदिति ।। ‘प्रत्यक्षं त्रिविधम्’ इत्युपक्रमासङ्गतिरूपो वा ‘एतत्प्रत्यक्षमीरितम्’ इत्युपसंहारानुपपत्तिरूपो वेत्येवं कश्चिदपीत्यर्थः । अक्षशब्द-निर्वचनस्यासङ्गतिमाशङ्क्य परिहरति- निर्वचनप्रसङ्गादिति ।। प्रत्यक्षशब्दनिर्वचनप्रसङ्गादित्यर्थः । प्रत्यक्षशब्द-निर्वचनेनाक्षशब्दनिर्वचनस्यापि स्मारितत्वात्तन्निर्वचनकरणमिति भावः । नञुपपद इति ।। नञुपपदे ‘क्षै क्षये’ इत्यस्य उपदेशे एजन्ततया ‘आदेच उपदेशेऽशिति’ इत्यात्त्वे ‘आतोऽनुपसर्गे कः’ इति कप्रत्यये ‘आतो लोप इटि च’ इत्यकारलोपे ‘न लोपो नञः’ इति नलोपे न क्षायतीत्यक्षमिति अक्षशब्दनिष्पत्तिरिति भावः । सूक्ष्मरूपेण नित्यस्यापीति ।। ‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः’ इति वचनाद् इति भावः । सृष्टिकाले भौतिकाहङ्कारिकावयवेति ।। भौतिकावयवैः तैजसाहङ्कारिकावयवैश्चेति द्वेधा उपचयलक्षणोत्पत्ति-रस्तीत्यर्थः ।

सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः ।

तेषां भूतैरुपचयः सृष्टिकाले विधीयते ।।’

इत्यादिस्मृतेरिति भावः । साध्यावैशिष्ट्यपरिहारायाऽह-व्याप्तिस्मरणमपेक्ष्येति ।। अन्तर्भावो वाच्य इति ।। अन्यथाऽनुप्रमाणत्रित्वभङ्गापत्तेरिति भावः । प्रातीतिकमिति ।। आपाततः प्रतीत्या प्राप्तमित्यर्थः । प्रत्यक्षागम-माहात्म्यादिति ।। प्रत्यक्षागमयोरानुकूल्यस्याप्यनुमानप्रामाण्योपयुक्तत्वमुक्तम् । तत्केन प्रकारेणेत्यतस्तदा-भासत्वापादकोपाधिप्रतिपक्षनिरासकत्वेनेत्याह- अनुकूलाभ्यामिति ।। आ इत्यनुवादेन समन्तादिति व्याख्या-नम् । सम्यक्चेत्यपि ग्राह्यम् । ‘ग्रहवृदृनिश्चिगमश्च’ इति अकर्तरि कारके भावे च गमेरपो विधानादागमशब्दः करणसाधन एव । अत्र आ समन्ताद्गमयतीत्यादौ कर्तृसाधनकथनं तु करणे कर्तृत्वोपचारेणैवेति भावेन करण-साधनतां दर्शयति- गम्यते ज्ञायतेऽर्थोऽनेनेति ।।

लघुप्रभा

(व्या.टि.)

एकीकृत्येति ।। ‘समना नयरीत्या परमैश्वर्यशालिमहालक्ष्म्या उपस्थितेः’ इत्युक्तदिशा नित्या-वियोगित्वेनात्यन्तरङ्गत्वाद्वा प्रत्यक्षद्वयमैकराश्येनोक्तमित्यर्थः । अथवा ईश्वरश्च ईश्वरी चेति विगृह्य ‘पुमान् स्त्रिया’ इत्येकशेषे तयोरिदमित्यर्थेऽणि ‘यचि भम्’ इति भसञ्ज्ञायाम् ‘यस्येति च’ इत्यकारलोपे ऐश्वरमिति ‘सारस्वतौ भवतः’ इतिवत् ‘क्षौमे वसानावग्निमादधीयाताम्’ इतिवच्च विरूपैकशेषेण स्त्रीपुंससम्बन्धीन्द्रियद्वय-मेकोक्त्या लक्ष्यत इति भावः । केचित्तु ईश्वरस्येश्वर्याश्चेदमिति विग्रहमाहुः । तन्न । प्रत्येकं लिङ्गद्वयात्तद्धितवृत्तौ वृत्तस्याऽवृत्तिप्रसङ्गः । विग्रहे चशब्दायोगश्च । ‘समुदायाच्च न वृत्तिः प्रातिपदिकात्’ इत्येकवचनानुरोधात् (व्या.टि.)समुदायश्रवणापत्तेश्च । योगिन इति ।। योगशब्दात् ‘अत इनिठनौ’ इति मत्वर्थे इनिरिति भावः । तदीयमिति ।। ऋजुतात्त्विकातात्त्विकसम्बन्धीत्यर्थः । अनेन योगिपदात् प्राग्वहनीयष्ठगिति भावः । अस्मदादी-नामिति ।। वयमादयो येषामिति विग्रहः । समासस्त्वतद्गुणसंविज्ञानः । टीकाकाराणां विशिष्टव्याख्यातृत्वेन सुरत्वनिश्चयेनायोगित्वाभावात् । अनेनायोगिनामिदमिति विग्रहो दर्शितः । तथात्वे च अयौगिकमित्यार्षः प्रयोगः । अयोगिशब्दात् ठकि ‘किति च’ इति वृद्धावयोगिकमिति भाव्यत्वात् । शरीरेन्द्रियेति ।। यद्यपीन्द्रिय-राहित्यमेव शङ्कनीयं तथाऽपि तत्साधकतया शरीरराहित्यमप्युक्तम् इति । अत्राऽद्यस्तथाशब्दः समुच्चये, द्वितीय-मुपमायामित्यभिप्रेत्य व्याचश्व्े-यथा यौगिकमिति ।। अभाववचनस्य तात्पर्यद्वयमाह-भिन्नजडेति ।। भिन्नेन्द्रियाभावपरं जडेन्द्रियाभावपरं चेत्यर्थः । ‘उक्तानि’ इत्युक्तवचनानि दर्शयति- यदात्मक इत्यादा-विति ।। आदिपदेन श्रियोऽपि भिन्नजडेन्द्रियाभावपरा श्रुतिर्ग्राह्या । भिन्नेन्द्रियविभागोक्तेः फलमाह- यददुष्टमित्यादिना ज्ञापयितुमित्यन्तेन ।। अत्र स्वरूपेन्द्रियपदेनोत्तमचेतनानां स्वरूपेन्द्रियं विवक्षितम् । तच्च ‘निर्दोषमेव चैतन्यम्’ इत्यनुभाष्योक्तदिशा निर्दोषमेवेति व्यावर्त्याभावात्तन्निर्दोषत्वं स्वरूपकीर्तनमिति भावः । अत्र मूले दैवानि चासुराणि चेति विग्रहः । सर्वत्र व्यक्त्यपेक्षया बहुवचनम् । तानि त्रीणीन्द्रियाण्युद्देशक्रमेण लक्षयति- सम्यग्ज्ञानप्रचुराणीत्यादिना ।। सम्यग्ज्ञानं प्रचुरं येभ्यस्तानीति विग्रहः । प्रचुरसम्यग्ज्ञानसाधना-नीति यावत् । अत्र ऋजुभिन्नेन्द्रिये सम्यग्ज्ञानप्राचुर्ये व्यधिकरणसजातीयाल्पं निरूपकम् । न तु समानाधिकरण-विजातीयाल्पम् । ‘तत्र द्वयमपि नियमेन यथार्थम्’ इति पद्धत्युक्तेः । भवति च व्यधिकरणसजातीयाल्पमपि प्राचुर्यनिरूपकम् । यथोक्तं तात्पर्यचन्द्रिकायाम्- ‘विजातीयसमानाधिकरणाल्पं यथा तथा सजातीय-विभिन्नाधिकरणाल्पं निरूपकम्’ इति । दैवान्यासुराणीत्यत्र दैवासुरशब्दावुत्तमाधमाधिकारिमात्रपरौ । उत्तमाधमेषु देवासुरप्राधान्येन वाऽयं व्यपदेशः । श्रौतश्चायमर्थो यत्प्राधान्येन व्यपदेश इति । यथाऽह ब्राह्मणम्- ‘अथो एनं प्रथमे नैवानुबुद्ध्यन्ते । अयमागन् अयमवासत्’ इति । इति मीमांसितश्च श्रुतिलिङ्गाधिकरणे ‘ऐन्द्र्या गार्हपत्य-मुपतिष्ठते’ इत्यत्र लिङ्गवाक्यविरोधसत्त्वेऽपि श्रुतिप्राबल्यात् श्रुतिलिङ्गविरोधव्यपदेशः’ इति । उभयसमा-नीति ।। उभयं समं येभ्यस्तानीति विग्रहः । समोभयसाधनानीत्यर्थः ।

इन्द्रमहेन्द्राधिकरणन्यायेनाक्षप्रत्यक्षयोर्भेदं मत्वा शङ्कते- नन्विति ।। प्रकृतत्वादिति ।। ‘अदुष्टमिन्द्रियं त्वक्षम्’ इत्युक्तक्रमादित्यर्थः । निरूपितत्वादिति ।। विभागेनेति शेषः । अत एवेति ।। प्रक्रमविरोधादि-त्यर्थः । ननु ‘स्वरादिनिपातमव्ययम्’ इति चादिनिपातपतितस्य प्रतेरव्ययत्वात् ‘अव्ययं विभक्ति’ इत्यादिनाऽ-व्ययीभावसमासे ‘अतोऽम्त्वपञ्चम्याः’ इत्यम्भावे ‘अव्ययीभावश्च’ इत्यव्ययत्वे कथमयं विग्रह इत्यत आह- अनेनेति ।। प्रतिस्थितमिति विग्रहप्रदर्शनेनेत्यर्थः । ‘कुगतिप्रादयः’ ‘प्रादयो गताद्यर्थे प्रथमया’ इति विहितः प्रादिसमासोऽयं नाव्ययीभाव इति भावः । मध्यमपदलोपी समासोऽयमिति कश्चित् । तन्न । ‘सप्तम्युपमानपूर्वकस्य बहुव्रीहिर्वोत्तरपदलोपश्च’ इतिवदत्र विधानाभावात् । शाकपार्थिवादित्वाभावाच्च । प्रत्युत ‘प्रादयो गताद्यर्थे’ इत्यनेन ‘जनकस्यात्ययो जातिः’ इत्यत्र प्रान्तेवासी, प्राचार्य इत्युदाहृत्य ‘उपसर्गाः क्रियासन्निधानाभावे ससाधन-(व्या.टि.) क्रियामाहुः’ इत्युक्त्या गतादीनामुपसर्गार्थत्वोक्त्या च विरोधाच्च । अव्ययीभावसमासे बाधकमाह- अव्ययीभावत्वे हीति ।। षष्ठीति ।। ‘नाव्ययीभावादतोऽम्त्वपञ्चम्याः’ इत्यकारान्तादव्ययीभावात्सुपो न लुक् किन्त्वमेवेति सर्वविभक्तिस्थानापन्नतयाऽमो विधानेन, ‘तृतीयासप्तम्योर्बहुलम्’ इति पञ्चमीपर्युदासबहुल-ग्रहणाभ्यां पञ्चमीतृतीयासप्तमीनां श्रवणसम्भवेऽपि षष्ठीश्रवणमयुक्तमिति भावः । उपलक्षणमेतत् । द्विवचन-बहुवचनानुपपत्तिश्चेति ज्ञातव्यम् । नत्वर्थान्तरमिति ।। विशिष्टस्य पदार्थान्तरत्वे आमिक्षाधिकरणविरोधः स्फुट एवेति भावः । अक्षशब्दात् कथमक्षयत्वलाभ इत्यतः प्रकृतिप्रत्ययविभागं दर्शयति- एतेनेति ।। नञुपपद इति ।। एतेन सूत्रे ‘सुपि’ इत्यनुवृत्तिः सूचिता । धातोरिति ।। धातुव्याख्यानादित्यर्थः । क्षायतेः आदेच उपदेशेऽशिति’ इत्यात्त्वे ‘आतोऽनुपसर्गे कः’ इति कप्रत्यय इति भावः । अन्वर्थमिति ।। आनुपूर्व्येऽव्ययीभावः। अर्थवदेव न रूढमिति भावः । भौतिकाहङ्कारिकेति ।। ‘तेषां भूतैरुपचयः’ इति ‘वैकारिकान्मनो जज्ञे । तैजसानीन्द्रियाण्याहुः’ इत्युपचयश्रवणादित्यर्थः । उपचयोक्तिरनुपयुक्तेत्यत आह- अपचयलक्षण इति ।। स्वरूपेन्द्रियनित्यत्वानुभवनिर्दोषत्वोक्तेः क्वोपयोग इत्यत आह-एतेनेति ।। ‘अनुमा’ इत्युपलक्षणं मत्वाऽह-एवमिति ।। सम्भवाद्यन्तर्भावोक्तेः प्रकरणविच्छेदे हृदयमाह- अर्थापत्त्यादीनीति ।। तत्सूचयन्नाहेति ।। अनुसृत्येति निर्वचनस्यानुसरणीयार्थसापेक्षत्वात्तमाहेत्यर्थः। निरुक्तिरिति ।। तथा चात्र ‘ग्रहवृदृनिश्चिगमश्च’ इति अकर्तरि कारके अपि करणसाधन आगमशब्दः । ‘आ समन्ताद्गमयति धर्माधर्मौ परं पदम् । यच्चाप्यतीन्द्रियं किञ्चित्तेनासावागमः स्मृतः’ इत्यनुव्याख्याने तु करणे कर्तृत्वोपचारः । अस्योक्तोपयोगमाह- एतेनेति ।। इति ब्रह्मतर्कव्याख्याभाववर्णनम् ।