लघुप्रभा

लघुप्रभा

अत्र सद्गुणपदेन लक्षणकथनतात्पर्यकेण द्वित्वाद्यनेकत्वसङ्ख्या न ग्राह्या । तस्या भगवन्मात्रवृत्तित्वाभावेन लक्षणत्वायोगात् । तथा हि । अनेकत्वसङ्ख्या  तावदेकत्वसमाहार इत्येकः पक्षः । ‘एकत्वाभावे अनेकत्वमपि न स्यात् । तत्समाहाररूपत्वात्तत्कार्यत्वाद्वा तस्य’ इति सुधोक्तेः । अस्याः पूर्वपक्षस्थत्वेऽपि अदूषितत्वादिह टीकायां सिद्धान्तस्थत्वाद् बाधकाभावाच्च स्वपक्षत्वज्ञापकत्वम् । न च द्वित्वत्रित्वयोरविशेषापत्तिर्बाधिका । एकत्वद्वयत्रयसमाहाररूपत्वेन विशेषोपपत्तेः । न चैकत्वद्वयसमाहारो द्वित्वमित्यत्रैकत्वे प्रतीयमानद्वित्व-स्यातिरिक्तसङ्ख्यात्वेनासमाहाररूपत्वे पूर्वमेव तथा कल्पयितुं शक्यत्वेनैकत्वान्तरसमाहाररूपत्वे अनवस्थेति वाच्यम् । एकत्वमेकमिति प्रतीत्या एकत्वे एकत्वान्तरस्य प्रामाणिकत्वात् । एकत्वगतैकत्वस्य तत्स्वरूप-त्वाच्च ।  उत्पत्तेरुत्पत्त्यन्तराभावेऽपि  स्वयैव स्वोत्पत्तिव्यवहारवदेकत्वेऽपि एकमिति व्यवहारस्य स्वेनैवोप-पत्तेश्च । न चैकधर्मिकत्वापत्तिः, नानाधर्मिकत्वानापत्तिश्चेति वाच्यम् । समाहाररूपत्वेन नानावृक्षसमाहार-रूपवनस्यैकवृक्षीयदेशमात्रानाश्रितत्वतद्घटिताधिकदेशाश्रितत्ववदुपपत्तेः । भेदस्येवैकानुयोगिकत्वमन्यप्रति-योगिकत्वमनेकत्वसङ्ख्याया इति तु न मन्तव्यम् । घटः पटाद्भिन्न इतिवत् पटाद् द्वौ इत्याद्यप्रतीतेः । ‘अनेकत्व-सङ्ख्या तावद् अनेकाश्रिता । एकैकस्मिन् द्वित्वादेः शङ्कितुमशक्यत्वात् । न हि द्वित्वादिकमेकैकप्रतीतौ प्रती-यते । न च प्रतियोगिनिरूप्यत्वं धर्मितयैवानेकेषामनुभवात्’ इति सुधोक्तेश्च । ‘न ह्येकत्वानेकत्वे स्वरूपेण विरुद्धे, एकस्यैव घटस्यान्यापेक्षयाऽनेकत्वदर्शनात्’ इति सुधोक्तिः ‘स्वस्मिन्नेकोऽन्येन सहितोऽनेकः’ इतीहत्यटीकोक्तिश्च ध(र्मा)र्म्यन्तरापेक्षाभिप्रायके, न त्वन्यस्य प्रतियोगित्वाभिप्रायके । अनुभवविरोधाद् उक्तसुधाविरोधात्, समाहाररूपत्वायोगाच्च । एतत्पक्षेऽपि प्रत्येकमेकैकधर्मिकैकत्वप्रकारकप्रतीतिरूपापेक्षा-धीव्यङ्ग्यत्वम् अनुभवबलेन स्वीकार्यम् । तस्माद् बाधकाभावात् साधकसद्भावाच्च समाहारपक्षो युक्तः ।

अपेक्षाबुद्धिजन्यभिन्नाभिन्नायावद्द्रव्यभाविनी व्यासज्यवृत्तिरनेकत्वसङ्ख्येति द्वितीयः पक्षः । ‘तत्कार्यत्वाद्वा तस्य’ इति अनेकत्वस्यैकत्वकार्यतायाः सुधायामुक्तेः । ‘समुदायस्तु भिन्नगः’ इत्येतद्व्याख्यावसरे ‘समुदायोऽ-नेकत्वं भिन्नगोऽनेकाश्रितः । सत्यमनेकत्वसङ्ख्या नैकाश्रिता । तथाऽपि तदन्यत्वेन हेतुविशेषणाददोषः । सा चापेक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाऽश्रययोरभेदापत्तिः’ इति स्पष्टं सुधोक्तेश्च । एषा चानेकत्वसङ्ख्या प्रमेयत्वादिवद् भावरूपैव, भावाभावधर्मभूताऽभावमात्रधर्मभूता च । एवं धर्मि-द्वयोपादानकत्वादपेक्षाधीनिमित्तकत्वाच्च, सतोरपि धर्मिणोरपेक्षाबुद्ध्यसत्त्वे निमित्ताभावाद् असतोः शशविषाण(नृविषाण)योरुपादानासत्त्वात्, घटशशविषाणयोस्त्वन्यतरस्यासत्त्वात्, विभिन्नमात्रकालयोस्तु घटपटयोरेकदाऽसत्त्वान्नोत्पद्यते । एवमेष्यतोः पूर्वम्, अतीतयोश्च पश्चान्नोत्पद्यते तदा धर्मिणोऽसत्त्वात् । नित्या-नित्ययोरनित्ययोर्वा कादाचित्कसमावेशयोः समावेशकाल एवोत्पद्यते, अन्यदा तु न, धर्मिद्वयासत्त्वादेव । उक्तस्थलेषु अनेकत्वप्रतीतेरपेक्षाबुद्धिविशेषविषयत्वं वा स्वाश्रयप्रतियोगिकपरस्परभेदसमानाधिकरणैकत्व-द्वयादिकं  वा भाविद्वित्वादिकं वा विषय इत्यनन्यगत्या स्वीक्रियते । अनेकत्वसङ्ख्योपादानत्वं च ब्रह्मणोऽपि सम्भवति । ‘पराधीनविशेषाप्तिरनिवर्त्यान्यथाभावः । क्षीरादिवद्विकारः स्यात् नैव स स्याद्धरेः क्वचित्’ इति अनुव्याख्याने पराधीनविशेषस्य द्रव्यान्तरापत्तिरूपस्य च विकारस्य निषेधेऽपि ‘विशेषनिषेधे’ इति न्यायेन गुणाकारपरिणामस्याभ्यनुज्ञानात् । विरुद्धः कारः प्रकारः विकार इति पूर्वभावापगमेन भावान्तरापत्तेरेव विकारशब्दार्थतयाऽतादृशस्य गुणाकारस्याङ्गीकारे बाधकाभावाच्च । कूटस्थत्वेन स्वीकृतेऽव्याकृताकाशेऽपि सुधायां ‘न च निरवयवं क्वापि परिणतं दृश्व्म् । आकाशं संयोगादिमदुपलब्धमिति चेन्न । द्रव्याकारपरिणामस्य प्रकृतत्वात्’ इति गुणाकारपरिणामस्याङ्गीकृतत्वाच्च । एषा चानेकत्वसङ्ख्या स्वजनकापेक्षाबुद्धिसमानाधिकरणेनैव प्रत्यक्षेण विषयीक्रियत इति नैकस्यानेकद्वित्वादिप्रत्यक्षापत्तिः । अनेकत्वसङ्ख्याया धर्मितो भिन्नाभिन्नत्वादेव न धर्मिणामभेदापत्तिः । तस्माद् द्वितीयपक्षोऽपि निर्बाधकत्वाद् युक्ततरः ।

एवमपेक्षाबुद्धिव्यङ्ग्यानेकत्वसङ्ख्येति तृतीयः पक्षः । ‘अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात्’ इति वैभाषिकाधि-करणीयसुधोक्तेः । उपासनापादे ‘असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्’ इत्येतद्व्याख्यावसरे ‘दशत्वसङ्ख्या खल्वपेक्षाबुद्धिजन्या तद्व्यङ्ग्या वा’ इति सुधोक्तेश्च । एतत्पक्षे यावत्सर्वधर्मिसत्त्वभाविनी अपेक्षाबुद्धिव्यङ्ग्या भिन्नाभिन्ना । अतो नैकधर्मिनाशेऽपि तत्सत्त्वम् । नाप्यपेक्षाबुद्ध्यभावेऽपि प्रतीतिः नाप्याश्रययोरभेदः । न च जीवेशगतद्वित्वस्य भगवद्धर्मस्य भिन्नाभिन्नत्वे ‘एवं धर्मान्’ इत्यादिभेदनिषेधकश्रुतिविरोधः । अत्यन्ताभावस्य धर्मत्वस्य पूर्वं समर्थितत्वेन तदितरपरत्वस्येवानेकत्वसङ्ख्येतरपरत्वस्याप्युपपत्तेः । ‘समुदायस्तु भिन्नगः’ इत्यनु-व्याख्यानेन, ‘न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन्विनाऽपि वा’ इति तदुदाहृतश्रुत्या च, ‘समुदायो द्वित्वम्’ इति सुधाबलेन भेदाभेदस्य प्रमितत्वेन सङ्कोचस्यावश्यम्भावाच्च । एतत्पक्षे भगवदीयज्ञानानन्दादिगतानेकत्वसङ्ख्या आश्रयतोऽत्यन्ताभिन्ना आश्रययोरभेदस्यानिष्टत्वाभावात् । उक्तश्रुतेर्जीवेशगतद्वित्वादिविषयकत्वेनोपपत्तेश्च । तस्मादयमपि पक्षो बाधकाभावाल्लाघवाच्च युक्ततमः । अधिकं गुरुप्रभायाम्, अस्मदनुशिश्व्ेन तनयेन कृते द्वित्ववादे च द्रष्टव्यम् ।