इतश्च मिथ्योपाधिर्न युज्यते

मिथ्योपाधिकृतमिथ्याभेदवादिमते दोषस्योद्भावनम्

मूलम्

- इतश्च मिथ्योपाधिर्न युज्यते । अज्ञानसिद्धौ मिथ्योपाधिसिद्धिः अज्ञानं विना मिथ्यात्वासिद्धेः । न च मिथ्योपाधिं विनाऽज्ञानसिद्धिः । मिथ्योपाधिभिन्नस्यैव अज्ञत्वात् ।।

टीका 

अत्राऽहुः मायावादिनः-सत्योपाधिकृतसत्यजीवभेदवादिनां बद्धमुक्तादिव्यवस्थाऽसिद्धा-वपि अस्माकं सा सिद्ध्यत्येव । तथा हि- यद्यपि शुद्धस्यैवोपाधिसम्बन्धः, तथापि तद्भावमापन्नस्य मुक्तत्वमुपपद्यते । न चोक्तदोषः, उपाधीनां मिथ्यात्वात् । मिथ्योपाधिसम्बन्धेन ब्रह्मणः शुद्धत्वाहानेः । न हि आरोपितेन रूपेणाऽकाशस्य नीरूपताऽपनीयते । उपाधीनां मिथ्यात्वेऽपि भेदहेतुत्वं युज्यत एव, भेदस्यापि मिथ्यात्वात् । मिथ्याभूतेनापि भेदेन व्यवस्थासिद्धिर्युज्यते । ‘न मुमुक्षुः न वै मुक्त इत्येषा परमार्थता’ इति व्यवस्थानामपि काल्पनिकत्वात् । यद्यप्युपाधिसम्बन्ध एव संसारबीजम् । तथाऽपि  यदुपाध्यवच्छिन्नस्य  ज्ञानमुत्पन्नं  नासौ  स्वोपाधिमन्योपाधीन् वा पश्यति । मिथ्योपाधीनां ज्ञानेन निवृत्तत्वात् । किन्त्वात्मनः शुद्धब्रह्मभावमेवानुभवति । अनुत्पन्नज्ञानस्तु मिथ्याभूतानुपाधीन् तत्कृतांश्च विच्छेदान् पश्यन् संसरतीति ।

अत्रोच्यते । भवेन्मायावादिनां व्यवस्थासिद्धिः यद्युपाधिमिथ्यात्वं युज्येत । न च तद्युज्यते । निरधिष्ठानत्वादिना प्रागेव दूषितत्वात् । न केवलं पूर्वोक्तदूषणेनैव मिथ्योपाधिर्न युज्यते, किं तर्हीत्यत आह-इतश्चेति ।। वक्ष्यमाणादपि दूषणादित्यर्थः ।

ननु येन दोषेण मिथ्योपाधिर्न युज्यते स एव वक्तव्यः किमनेन वाक्येन । यदीदं नोच्येत तदा पूर्वोक्तदोषे परेण परिहृते दोषान्तरमुच्यत इति मन्दस्य शङ्का स्यात् । अतः सार्थकमेतत् । किं च यद्येकेनैव वाक्येन दूषणं वक्तुं शक्यं स्यात्तदा भवेदिदं व्यर्थम् । उपोद्धातप्रक्रियया विना बहुभिर्वाक्यैः दोषाभिधानोपक्रमे शिष्याणां किं वक्ष्यतीति मनो व्याकुलं स्यात् । तत्समाधानार्थमिदं वाक्यमुप-युज्यते ।

कोऽसावन्योऽपि दोष इत्यतः तं दर्शयितुमाह- अज्ञानेति ।। अत्र सिद्धिः व्यवस्थितिः । न तूत्पत्तिरेव । अज्ञानस्य परेणानादित्वाङ्गीकारात् । मिथ्योपाधेरज्ञानाधीनत्वं कुत इत्यत आह- अज्ञानमिति ।। उपाधेः मिथ्यात्वं नाम न तावदसत्त्वं परेणाङ्गीकृतम् । किन्त्वारोपितत्वेन अनिर्वाच्यत्वम् । आरोपश्चार्थज्ञानात्मकोऽज्ञानाधीनः । अज्ञानं हि अधिष्ठानमाच्छाद्यार्थज्ञान-योरुपादानं भवति । तस्मादज्ञानं विना उपाधेः मिथ्यात्वस्य आरोपितत्वस्यासिद्धेः अज्ञान-सिद्ध्यधीना मिथ्योपाधिसिद्धिरित्यङ्गीकार्यम् । ततः किमित्यत आह- न चेति ।। मिथ्योपाधिं मिथ्योपाधिसिद्धिम् । अज्ञानसिद्धेः कथं मिथ्योपाधिसिद्ध्यधीनत्वमित्यत आह- मिथ्येति ।। अज्ञानं खल्वाश्रयविषयव्याप्तम् । अस्यास्मिन् अज्ञानमिति प्रतीतेः । ततोऽज्ञानस्य आश्रयो वाच्यः। न चाचेतनस्याज्ञानाश्रयत्वम् । तस्य अज्ञानकार्यत्वेनाज्ञानसिद्ध्युत्तरकालीनत्वात् । किञ्चाज्ञानं न ज्ञानाभावः । किन्तु भावरूपं ज्ञानावरणमिष्यते । न चाचेतनस्य ज्ञानप्राप्तिरस्ति येन तदावरणार्थं तत्राज्ञानं कल्प्येत    अतश्चेतनस्यैवाज्ञत्वे वक्तव्ये किं ब्रह्मणो जीवस्य वेति वाच्यम् । आद्ये वक्ष्यामः । द्वितीयेऽपि किं जीवो ब्रह्मणोऽभिन्न उत भिन्नः । आद्ये ब्रह्मपक्षदोष एव भविष्यति । द्वितीयेऽपि किं स्वभावतो भिन्न उतोपाधितः । नाऽद्यः । अपसिद्धान्तात् । द्वितीयेऽप्युपाधिः सत्यो मिथ्या वा । आद्येऽपसिद्धान्त एव । अतो द्वितीय एवाङ्गीकार्यः । तथा च मिथ्योपाधिना ब्रह्मणो भिन्नस्यैव जीवस्याज्ञानाश्रयत्वात्कथं न मिथ्योपाधिसिद्ध्यधीनाऽज्ञानसिद्धिरिति ।

भावबोधः

ननु शुद्धस्यैवोपाधिसम्बन्धाङ्गीकारे तद्भावमापन्नस्यापि उपाधिसम्बन्धापत्त्या मुक्तत्वं न स्यात् । यद्युपाधेर्मिथ्यात्वेन शुद्धत्वान्मुक्तस्याप्यहानिस्तर्हि सर्वेषामपि मुक्तत्वप्रसङ्गेन बद्धमुक्तव्यवस्था न स्यादित्यत आह- यद्यपीति ।। उपाधिदर्शनादर्शनाभ्यामेव बद्धमुक्तव्यवस्था, न तत्सम्बन्धासम्बन्धाभ्यामिति भावः । न तूत्पत्तिरेवेति ।। सिद्धौ सिद्धिरिति द्विरुक्तस्यापि सिद्धिपदस्योत्पत्तिरेवार्थो न, किन्त्वज्ञानसिद्धावित्यत्र व्यवस्थितिः सिद्धिपदार्थः, मिथ्योपाधिसिद्धिरित्यत्रोत्पत्तिस्तदर्थः इत्यर्थः । तदिदमुक्तम्- एवेति ।। अत एवाज्ञानस्य परेणेत्यज्ञानमात्रं गृहीतम् । अज्ञानं ह्यधिष्ठानमाच्छाद्येति मिथ्योपाधेरज्ञानोपादानकत्वोक्त्योत्पत्तिः सूचिता ।

भावदीपः

बद्धमुक्तादिव्यवस्थेति ।। आदिपदेन जीवब्रह्मव्यवस्थाया असिद्धावपीति ग्राह्यम् । न चोक्तेति ।। सर्वदा संसार्येव ब्रह्मेति वाक्योक्तो दोष इत्यर्थः । भेदेति ।। जीवब्रह्मादिभेदहेतुत्वमित्यर्थः । व्यवस्थेति ।। बद्धमुक्तव्यवस्थेत्यर्थः । परमार्थतेति पदानन्तरमित्यभियुक्तवचनादिति शेषः । ननूपाधिसम्बद्धस्यैव संसारिजीवत्वादुपहितब्रह्मभावमापन्नस्य कथं मुक्ततेत्यत आह- यद्यपीति ।। ज्ञानेनेति ।। वेदान्तजन्यशुद्ध-चैतन्याकारापरोक्षज्ञानेन तत्राऽरोपितोपाधीनां निवृत्तत्वादित्यर्थः । विच्छेदादिति ।। जीवब्रह्मणोर्भेदं जीवानां भेदं जीवजडादिभेदं चेत्यर्थः । सुखदुःखादिकमनुभवतीत्याहुरित्यन्वयः । प्रागेवेति ।। न चोपाधिकृतो भेदः क्वापि दृष्ट इत्यादावित्यर्थः । किमनेनेति ।। ‘इतश्च मिथ्योपाधिर्न युज्यते’ इति प्रतिज्ञावाक्येनेत्यर्थः । उपोद्घा-तेति ।।  ‘अतश्च अन्योन्याश्रयता’  इति दोषाभिधानं ह्यज्ञानसिद्धौ हीत्यादिभिर्बहुभिर्वाक्यैरुपक्रम्यते । दोषोक्त्यनन्तरं बहुभिर्वाक्यैरुपपादने कार्ये प्रागेव तदुपपादनमसङ्गतमित्यत उक्तम्- उपोद्घातप्रक्रिययेति ।। अत्रेति ।। अज्ञानसिद्धावित्यादिवाक्य इत्यर्थः । व्यवस्थितिः अवस्थानम् । मिथ्योपाधिसिद्धिरित्यत्र सिद्धि-शब्दस्योत्पत्त्यर्थत्वेऽप्यज्ञानसिद्धावित्यत्राज्ञानसिद्धिरित्यत्र च नोत्पत्त्यर्थकत्वमिति भावेनोक्तम्- न तूत्पत्ति-रेवेति ।। कुत इत्यत आह- अज्ञानस्येति ।। ननूत्पत्त्यर्थकत्वमेव ‘घटसिद्धौ दण्डसिद्धिः दण्डसिद्धौ घटसिद्धिः’ इत्यन्योन्याश्रयस्थले दृष्टमित्यतो वाऽऽह- न तूत्पत्तिरेवेति ।। क्वचिद् व्यवस्थित्यर्थकत्वेऽपि स्यादेवान्यो-न्याश्रयतेति भावः । अर्थज्ञानात्मको ह्यारोपोऽज्ञानाधीन इत्येतद्व्यनक्ति- अज्ञानं हीति ।। शुक्त्याद्यधिष्ठान-चैतन्यावरकमज्ञानं शुक्त्यादेः शुक्तित्वाद्यसाधारणधर्मेण प्रकाशं प्रतिबध्य रजतादिरूपेण तज्ज्ञानरूपेण च परिणमत इत्यज्ञानमुपादानमित्युक्तम् । नन्वज्ञानस्य ज्ञानाभावत्वात्कथमर्थज्ञाने प्रत्युपादानता, कथं च जडाश्रयतेत्यत आह-किञ्चेति ।। ज्ञानावरणमिति ।। ज्ञानप्रतिबन्धकमित्यर्थः । न चाचेतनस्येति ।। कर्तरि षष्ठी । तदावरणार्थमिति ।। तस्याचेतनस्य स्वविषयकस्य परविषयकस्य वा ज्ञानस्य प्रतिबन्धकं कल्प्येतेत्यर्थः । अज्ञत्वेऽज्ञानाश्रयत्वे । वक्ष्याम इति ।। ‘शुद्धस्य’ इति वाक्ये ।

वाक्यार्थदीपिका

(श्री.टि.)

उक्तदोष इति ।। सर्वोपाधिसम्बद्धत्वात्तस्येत्युक्तदोष इत्यर्थः । रूपेण नीलिम्ना । ननु मिथ्योपाधीनां कथं जीवब्रह्मभेदहेतुत्वमित्यत आह- उपाधीनामिति ।। भेदस्यापीति ।। भेदस्य सत्यत्वे हि मिथ्याभूतोपाधीनां तद्धेतुत्वमनुपपन्नं स्यादिति भावः । ननु मिथ्याभूतभेदस्य कथं सत्यभूतबद्धमुक्तादिव्यवस्थाहेतुत्वमित्यत आह- न मुमुक्षुरिति ।। परमार्थतेति तल्प्रत्ययः स्वार्थे । तथा च मुमुक्षुर्मुक्त इत्येषा व्यवस्था न परमार्थेत्यर्थः । ननु शुद्धस्यैवोपाधिसम्बन्धाङ्गीकारे तद्भावमापन्नस्याप्युक्तोपाधिसम्बन्धापत्त्या मुक्तत्वं न स्यादित्यत आह- यद्य-पीति ।। तथापीति ।। तथा चोपाधिदर्शनादर्शनाभ्यामेव बद्धमुक्तव्यवस्था, न तत्सम्बन्धासम्बन्धाभ्यां, येनोक्तदोषः स्यादिति भावः । विच्छेदान् भेदान् । अनेनेति ।। ‘इतश्च मिथ्योपाधिर्न युज्यते’ इति प्रतिज्ञा-वाक्येनेत्यर्थः । उत्तरमाह- यदीदमिति ।। पूर्वोक्तदोष इति ।। निरधिष्ठानत्वादिरूप इत्यर्थः । परेण माया-वादिना । निरधिष्ठानत्वादिदूषणानां निरवकाशत्वेनापरिहार्यत्वं सुमतीनां ज्ञातुं शक्यत्वान्मन्दस्येत्युक्तम् । सार्थकमेवेति ।। न केवलं पूर्वोक्तदूषणेन मिथ्योपाधिर्न युज्यते, किन्त्वितश्चेत्युक्त्या पूर्वोक्तदूषणस्यापरिहार्यत्व-सूचनादित्यर्थः । उपोद्घातप्रक्रियया विनेति ।। ‘चिन्तां प्रकृतिसिद्ध्यर्थामुपोद्धातं प्रचक्षते’ इति वचनात्, प्रतिज्ञावाक्येन विनेत्यर्थः । कुत इत्यत आह- अज्ञानस्येति ।। ‘जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः। अविद्या तच्चितोर्योगः षडस्माकमनादयः’ इति परेणोक्तत्वादिति भावः । तथा चाज्ञानसिद्धौ मिथ्योपाधिसिद्धिरिति द्विरुक्तस्यापि सिद्धिपदस्योत्पत्तिरेवार्थो न भवति, किन्त्वज्ञानासिद्धावित्यत्र व्यवस्थितिः सिद्धिपदार्थः, मिथ्योपाधिसिद्धिरित्यत्र तूत्पत्तिस्तदर्थ इति ज्ञातव्यम् । आरोपस्याज्ञानाधीनस्थितित्वमुपपादयति- अज्ञानं हीति ।। तदुपपादयति- अस्यास्मिन्निति ।। अस्मिन्विषय इत्यर्थः । उत्तरकालीनत्वादिति ।। ‘पूर्वसिद्धतमसो हि पश्चिमो नाऽश्रयो भवति नापि गोचरः’ इति परेणोक्तत्वात् तथा चान्योन्याश्रय इति भावः । ज्ञानावरण-मिति ।। ‘प्राप्तप्रकाशप्रतिबन्धो ह्यावरणम्’ इति परेणोक्तत्वादिति भावः । ज्ञानप्राप्तिर्ज्ञानप्रसक्तिः । अप्रकाश-स्वरूपत्वादिति भावः । यथोक्तं ‘अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते’ इति ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु मिथ्याभेदेन वास्तवी बद्धमुक्तव्यवस्था कथमुपपद्येतेत्यत आह- नेति ।। ननु शुद्धस्योपाधि-सम्बन्धमङ्गीकृत्य बद्धमुक्तव्यवस्थोपपादनं न युक्तम् । तथा सत्युपाधिसम्बन्धस्यैव संसारबीजत्वेन शुद्धस्यैव संसारापत्त्या तद्भावापन्नस्यासंसारापातात् । न चोपाधेर्मिथ्यात्वाद्वास्तवस्य शुद्धत्वस्य नापाय इति वाच्यम् । तर्हि सर्वेषां शुद्धत्वेन बद्धत्वाभावापत्त्या बद्धमुक्तव्यवस्थाऽभावप्रसङ्गादित्याशङ्क्य निराकरोति- यद्यपीति ।। विच्छेदानिति ।। भेदानित्यर्थः । उपाधिसम्बन्धासम्बन्धाभ्यां न बद्धमुक्तव्यवस्थां ब्रूमः । किन्तु तज्ज्ञाना-ज्ञानाभ्यामिति नोक्तदोष इति भावः । उत्तरमाह- यदीदमिति ।। ननु पूर्वदोषपरिहारस्य शब्देनैव सुज्ञानत्वान्नेदं (पां.टि.) समाधानमित्यत आह- किञ्चेति ।। नतूत्पत्तिरेवेति ।। अनेनाज्ञानसिद्धावित्यत्र सिद्धिपदं व्यवस्थि-त्यर्थकम् । उपाधिसिद्धिरित्यत्रोत्पत्त्यर्थकमिति व्याख्यातं भवति । उत्पत्तिरेवोभयत्र स्थितिशब्दार्थः किं न स्यादित्यत आह- अज्ञानस्येति ।। ‘षडस्माकमनादयः’ इति तद्वचनादिति भावः । यद्यपि ‘जीवो ब्रह्म विशुद्धा चिद्विभागस्त्वनयोः’ इति तद्वचनादेव जीवब्रह्मभेदस्याप्यनादित्वमेव तेनाङ्गीकृतमिति न तत्राप्युत्पत्त्यर्थत्वं सिद्धिशब्दस्य । तथापि तदेकदेशिमतमाश्रित्यैवमुक्तिरिति द्रष्टव्यम् । परेणाङ्गीकृतमिति ।। तथा सत्यपसिद्धान्तप्रसङ्गादिति भावः । अर्थज्ञानात्मकस्यारोपस्याज्ञानाधीनत्वमेवोपपादयति- अज्ञानं हीति ।।

लघुप्रभा

(व्या.टि.)

पुनर्मिथ्योपाधिकृतमिथ्याभेदवादं निरसिसिषुस्तन्मतमनुवदति- अत्राऽहुरित्यादिना ।। मतसाम्ये कथं तद्दोषानिवृत्तिरित्यत आह- यद्यपीति ।। उक्तदोष इति ।। उपाधिसम्बन्धनिबन्धनसंसारानुपपत्त्या मुक्तत्व-व्याघातलक्षण इत्यर्थः । आरोपितेन स्वरूपहानिं निदर्श्य द्रढयति- न हीति ।। उपाधीनां मिथ्यात्वे कथं सत्यभेद-कारित्वमित्याशङ्क्य निराह- उपाधीनामिति ।। ननु तर्हि कथं बद्धमुक्तव्यवस्थासिद्धिरित्यत आह- मिथ्या-भूतेनापीति ।। परमार्थतेति ।। व्यवस्थाराहित्यमेव ब्रह्मपारमार्थ्यमित्यर्थः । उपाधेः संसारहेतुभावमुपेत्य बद्धमुक्तव्यवस्थां व्यवस्थापयति-यद्यपीत्यादिना ।। कुतो न पश्यतीत्यतो हेतुमाह-मिथ्योपाधीनामिति ।। किमदर्शनं सर्वथेति पृच्छति- किन्त्विति ।। उत्तरयति- आत्मन इति ।। मुक्तिमुक्त्वा बन्धं वक्ति- अनुत्पन्नज्ञान इति ।। दूषितस्य पुनर्दूषणं मृतमारणमित्यत आह- न केवलमिति ।। अतिहेयत्वं बहुदोषेण सिध्यतीति भावः। किमनेनेति ।। दूषणमप्रतिज्ञायापि दूषित इदमनेन दूषितमिति ज्ञास्यत्येवेति प्रतिज्ञा व्यर्थेत्यर्थः । सार्थक-मिति ।। पूर्वदोषदार्ढ्यप्रज्ञापनादित्यर्थः । अन्यमर्थमुपपादयति- किञ्चेति ।। अत्रेति ।। अज्ञानपदसमभिव्याहारे इत्यर्थः । अज्ञानाधीन इत्युक्तं विवृणोति- अज्ञानं हीति ।। व्याप्तमिति ।। अविनाभूतमित्यर्थः । उत्तरकालीन-त्वादिति ।। उत्तरकालीनस्य पूर्वकालीनाज्ञानाश्रयत्वानुपपत्तेरित्यर्थः । सामान्यतश्चेतनस्याज्ञानाश्रयत्वं प्रसाध्य मिथ्योपाधिभिन्नस्यैवाज्ञानं परिशेषयितुं विकल्प्योत्तरपक्षान् दूषयति- किं ब्रह्मण इत्यादिना ।। परिशिष्टं पक्षं परस्पराश्रयेण दूषयति- तथा चेति ।।