नच पौरुषेयेण वाक्येन तत्सिद्धिः ..
पौरुषेयवाक्येन धर्मादिसिद्धिनिरासः
मूलम्
- नच पौरुषेयेण वाक्येन तत्सिद्धिः । अज्ञानविप्रलम्भयोः प्राप्तेः । नच तदर्थत्वेन सर्वज्ञः कल्प्येत । अन्यत्राऽदृष्टस्य सर्वज्ञत्वस्य कल्पनम्, तस्य तत्कृतत्वकल्पनं चेति कल्पनागौरवप्राप्तेः ।
तत्त्वमञ्जरी
आप्तवाक्याद् धर्मादिसिद्धिरित्यत आह - न च पौरुषेयेति ।। धर्मादिः कस्यचित् प्रत्यक्षः वस्तुत्वाद् घटवत् इत्यादिना सर्वज्ञः कल्प्यत इत्यत आह - न च तदर्थत्वेनेति ।। तदर्थत्वेन धर्मादिसिद्ध्यर्थत्वेन । विमतो धर्मदृङ् न भवति पुरुषत्वात् चैत्रवदिति सप्रतिसाधनत्वं च ।
टीका
नन्वस्त्वेवं धर्मादिकम् । तच्च बुद्धर्षभेश्वरकपिलादिपुरुषवचसैव सेत्स्यति । तत्किमपौरुषेय-वाक्याङ्गीकारेणेत्यत आह- नच पौरुषेयेणेति ।। तत्सिद्धिः धर्मादिनिश्चयः । तत्र हेतुमाह- अज्ञानेति ।। विवक्षितार्थतत्त्वज्ञानाभावोऽज्ञानम् । ज्ञात्वाऽपि परप्रतारणं विप्रलम्भः । मिथ्या-ज्ञानप्रमादापटुकरणत्वानामप्युपलक्षणमेतत् । प्राप्तेः पुरुषेषु सम्भवात् । पुरुषाणां बहुलमज्ञान-विप्रलम्भाद्युपलम्भेन बुद्धर्षभादिष्वपि तत्सम्भावनयाऽऽश्वासानुपपत्तेर्न तद्वाक्येन धर्मादि-निश्चयस्सम्भवति ।
ननु धर्मादेरुपदेष्टा बुद्धः सर्वज्ञोऽङ्गीक्रियते । धर्मादिसाक्षात्कारवतश्च न तस्य रागद्वेषादि-दोषास्सम्भवन्ति । अज्ञानमूलत्वात् तेषाम् । यथाऽह पतञ्चलिः ‘अविद्याक्षेत्रत्वमुत्तरेषाम्’ इति । रागादिरहितस्य च न विप्रलम्भः सम्भवति । तस्य तत्कार्यत्वात् । नह्येवमेव कश्चित् कञ्चिद्विप्र-लब्धुमिच्छति । नचैवम्भूतस्य महानुभावस्य करणपाटवाद्यभावसम्भावनाऽ-स्ति । अतस्तस्मिन्नना-श्वासकारणाभावादुपपन्नस्तद्वाक्येन धर्मादिनिश्चय इति बौद्धाः । एवमार्हतादयोऽपि स्वस्वाचार्य-सार्वज्ञमङ्गीकुर्वाणाः । तान् प्रत्याह- नचेति ।। पौरुषेयेण वाक्येन धर्मादिसिद्धिस्तदिति परामृ-श्यते । सोऽर्थः प्रयोजनं यस्य सर्वज्ञकल्पनस्य तत्तथोक्तम् । तस्य भावस्तत्त्वम् । तृतीया हेतौ । सर्वज्ञकल्पनायाः पौरुषेयवाक्येन धर्मादिनिश्चयः प्रयोजनं यत इति । अर्थशब्दो निवृत्तिवचन इति केचित् । तत्राज्ञानादिप्राप्तिस्तच्छब्देन परामृश्यते । अर्थशब्दश्च आवर्तनीयः । तस्या अर्थो निवृत्तिस्तदर्थः । सोऽर्थः प्रयोजनं यस्य सर्वज्ञकल्पनस्येति । उक्तन्यायेन सर्व(ज्ञत्वे)ज्ञे कल्पिते विप्रलम्भाद्यभावस्तत एव सेत्स्यतीति पूर्वपक्षिणामभिप्रेतत्वात् सर्वज्ञ इत्येवोक्तम् ।
कुतो नेत्यत आह- अन्यत्रेति ।। एवं वदता तावत् कस्मिंश्चित्पुरुषे प्रमाणेन विना सर्वज्ञत्वस्य कल्पनं कार्यम् । तथाहि । न तावत्तदीये सार्वज्ञेऽस्माकं प्रत्यक्षमस्ति । अस्माकमपि तत्प्रसङ्गात् । सर्वं हि ज्ञात्वा तदीयज्ञानस्य तद्विषयत्वं प्रत्यक्षेणावगन्तव्यम् । नचास्माकं सार्वज्ञमस्ति । तथात्वे बुद्धादिकल्पनावैयर्थ्यात् । तदिदमुक्तम् अन्यत्र अस्मासु अदृष्टस्य इति । अनुभवविरुद्धं चास्माकं परचित्तवृत्तिप्रत्यक्षीकरणम् । नाप्यनुमानम् । यद्धि येन धर्मेण व्याप्तमन्यत्रोपलब्धं तत्तस्यैव गमकं भवति । नच सर्वज्ञत्वमन्यत्र दृष्टम् । येनाऽनुमानस्य व्याप्तिर्गृह्येत । एतदप्युक्तम्- अन्यत्रादृष्ट-स्येति ।। आगमोऽपि न तावदपौरुषेयः परेणाङ्गीक्रियते । पौरुषेयोऽपि किं सर्वज्ञप्रणीतोऽथान्य-प्रणीतः । नान्त्योऽनाश्वासात् । आद्येऽपि किं तत्सर्वज्ञप्रणीत उत सर्वज्ञान्तरप्रणीतः । नाऽद्यः । इतरेतराश्रयप्रसङ्गात् । तस्य सार्वज्ञसिद्धौ तत्प्रणीतागमप्रामाण्यसिद्धिः । तेन च तस्य सार्वज्ञसिद्धि-रिति । अन्यथाऽस्मद्वाक्येनैवास्माकमपि तत् सिद्ध्येत् । न च तदस्ति । तदप्याह- अन्यत्रादृश्व्-स्येति ।। अन्यत्र स्ववाक्येन सिद्धतयाऽदृष्टस्येत्यर्थः । न द्वितीयः । पुरुषान्तरे सार्वज्ञस्यादृश्व्-त्वात् । सर्वज्ञान्तरवाक्येन तत्कल्पनेऽनवस्थितेः । पूर्वसर्वज्ञवाक्याश्रयणे च इतरेतराश्रयणात् । इदमप्युक्तम्- अन्यत्रादृष्टस्येति ।। नाप्युपमानम् । तद्धि स इवायमिति, एतत्सदृशोऽसाविति वोत्पद्यते । न चान्यत्र सार्वज्ञं प्रमितम् । येनोपमानोदयः स्यात् । एतदप्युदितम्- अन्यत्रादृष्ट-स्येति ।। नाप्यर्थापत्तिः । अनुपपत्त्यभावात् । बुद्धस्य धर्मातिदेशनं महाजनपरिगृहीतत्वं वाऽनुपपद्यमानं सार्वज्ञं गमयतीति चेत् । तर्हि जिनस्यापि तत्स्यात् । नचास्त्विति वाच्यम् । विप्रतिपत्त्यभावप्रसङ्गात् । इदमप्याह- अन्यत्रादृष्टस्येति ।। नाप्यभावः । तस्य भावविषयतायाः क्वाप्यदृष्टत्वात् । एतच्चोवाच- अन्यत्रादृष्टस्येति ।। अन्यत्राभावप्रमाणविषयतयाऽदृष्टस्य भावरूपस्येति ।
भावबोधः
ननु पौरुषेयेण वाक्येन धर्मादिसिद्धिर्वा उक्तोपलक्षितानां पूर्वेषां निवृत्तिर्वा कथं सर्वज्ञ(त्व)कल्पनमात्रेण स्यादित्यत आह- उक्तन्यायेनेति ।।
भावदीपः
प्राप्तेरित्यनुवादेन शेषमाह- प्राप्तेः पुरुषेषु सम्भवादिति ।। पुरुषेषु सम्भवे बुद्धादिषु किमायातमित्यत आह- पुरुषाणामिति ।। अविद्याक्षेत्रत्वमिति ।। अज्ञानकारणकत्वमुत्तरेषां रागद्वेषमोहनादीनामित्यर्थः । एवमेवेति ।। कारणेन विना तूष्णीमेवेत्यर्थः । अङ्गीकुर्वाणा आहुरिति योज्यम् । अव्यवहितपरामर्शभ्रान्तिं निराह- पौरुषेयेणेति ।। ‘सर्वज्ञकृतवाक्याद्धर्मादिनिश्चयः स्यादिति न वाच्यम्’ इति सन्न्यायरत्नावल्युक्तेरिति भावः । हेतौ तृतीया चेत् को वाक्यार्थ इत्यत आह- सर्वज्ञकल्पनाया इति ।। यत इत्यनन्तरमतः सर्वज्ञः कल्प्यत इति न वाच्यमिति योजना । नरहरितीर्थीययोजनामाह- अर्थशब्द इति ।। तत्राव्यवहितपूर्वप्रकृतपरामर्श-स्वारस्येऽप्यावृत्त्याद्यनेकदोषसत्त्वात्केचिदित्युक्तम् । ननु योजनाद्वयेऽपि सर्वज्ञादिः कल्प्यत इति वाच्यमित्यत आह- उक्तन्यायेनेति ।। धर्मादिसाक्षात्कारवतश्चेत्यादिनोक्तन्यायेनेत्यर्थः ।। एवं वदतेति ।। सर्वज्ञे कल्पित इत्यादि वदतेत्यर्थः ।। तत्प्रसङ्गादिति ।। सर्वमज्ञात्वा सर्वमयं(हं) जानाती(मी)ति प्रत्यक्षतो ज्ञातुमशक्यत्वात् तदर्थं सर्वस्यापि ज्ञातव्यत्वेन सार्वज्ञप्रसङ्गादित्यर्थः । तत्प्रसङ्गादित्युक्तमेव विवृण्वन् विपर्यये पर्यवसानमाह- सर्वं ज्ञात्वेति ।। नापीति ।। तदीये सार्वज्ञ इति योज्यम् ।। आगमोऽपीति ।। पराभिमतसार्वज्ञ इति योज्यम् ।। तत्सर्वज्ञेति ।। स चासौ सर्वज्ञश्च तत्सर्वज्ञः । विप्रतिपन्नसार्वज्ञवान् यः पुरुषः तत्प्रणीत इत्यर्थः ।। अन-वस्थितेरिति ।। तत्रापि सार्वज्ञस्य ततोऽपि सर्वज्ञान्तरवाक्येन कल्प्यत्वादित्यादिरूपेणेति भावः ।। पूर्वेति ।। विप्रतिपन्नसार्वज्ञवत्पुरुषवाक्येनेत्यर्थः ।। इदमप्युक्तमिति ।। अन्योन्यवाक्यप्रमाणेनान्योन्य-सार्वज्ञस्येतरेतराश्रयतयाऽन्यत्रादृष्टस्येति मूलवाक्यांशस्यार्थ इति भावः । परमते मानान्तरत्वादाह- नाप्युपमान-मिति ।। एवमग्रेऽपि । पराभिमतपुङ्गतसार्वज्ञ इति योज्यम् । गृह्यमाणे गवये स्मर्यमाणगोसादृश्यज्ञानं वा स्मर्यमाणे गोपिण्डे गृह्यमाणगवयसादृश्यज्ञानं वा उपमानमिति मतेनाह- तद्धीति ।। इदमप्याहान्यत्रे-त्यादि ।। जिनादावन्यत्रादृष्टस्येत्यर्थः ।। नाप्यभाव इति ।। प्राग्वदेव योज्यम् । उपलब्ध्यभाव इत्यर्थः । उपात्तांश-स्यार्थमाह- अन्यत्राभावेत्यादि ।।
वाक्यार्थदीपिका
(श्री.टि.)
।। अज्ञानमूलत्वात्तेषामिति ।। रागद्वेषमोहानामज्ञानमूलकत्वादित्यर्थः । सर्वज्ञस्य चाज्ञानाभावा-दिति भावः ।। अविद्येति ।। उत्तरेषां रागद्वेषमोहानामविद्याक्षेत्रत्वमविद्याऽज्ञानं क्षेत्रं मूलं येषां ते तथोक्तास्तेषां भावस्तत्त्वमित्यर्थः ।। तस्येति ।। विप्रलम्भस्य रागादिकार्यत्वादित्यर्थः । तत्कुत इत्यत आह- न हीति ।। एवमेवेति ।। रागादिकं विनैवेत्यर्थः ।। एवम्भूतस्येति ।। सर्वज्ञत्वेन रागादिदोषरहितस्येत्यर्थः । आश्वासो विश्वासः । अङ्गीकुर्वाणा इत्यनन्तरं तद्वाक्येनोपपन्नो धर्मादिनिश्चय इत्याहुरिति वाक्यशेषः । तदेव दर्शयति- सर्वज्ञकल्पनाया इति ।। नरहरितीर्थानां व्याख्यानमनुवदति- अर्थशब्द इति ।। निवृत्तिवचन इति ।। ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’ इति वचनादिति भावः ।। आवर्तनीय इति ।। तथा च तदर्थार्थत्वेनेति वाक्यवृत्तिः । आवर्तितश्चार्थशब्दः प्रयोजनवाचीति ज्ञातव्यम् । अज्ञानादिप्राप्तिनिवृत्तिप्रयोजनकत्वेनेति तदर्थ इत्यभिप्रेत्याऽह- तस्या अर्थ इत्यादिना ।। ननु भवद्व्याख्याने पौरुषेयवाक्येन धर्मादिसिद्धिर्वा केषाञ्चिद्व्या-ख्यानेऽज्ञानादिप्राप्तिनिवृत्तिर्वा कथं सर्वज्ञकल्पनामात्रेण स्यात् । अतस्सर्वज्ञो रागादिदोषरहितोऽविप्रलम्भकश्च कल्प्यत इति वक्तव्यम् । न तु सर्वज्ञ इत्येवेत्यत आह- उक्तन्यायेनेति ।। आदिपदेन रागादिग्रहणम् । सर्वज्ञे कल्पिते सति । तत एव सर्वज्ञत्वादेव । धर्मादिसाक्षात्कारवत इत्यादिनोक्तन्यायेन रागाद्यभावसिद्धौ तत एव विप्रलम्भाद्यभावः सेत्स्यतीति योज्यम् ।। तत्प्रसङ्गादिति ।। सार्वज्ञप्रसङ्गादित्यर्थः । कथमित्यतस्तदुपपादयति- सर्वं हीति ।। ज्ञातव्यमस्माभिः ।। वैयर्थ्यादिति ।। अस्मदादीनामेव सर्वज्ञत्वेनास्मदादिवाक्येनैव धर्मादि-सिद्धिसम्भवादिति भावः ।। यद्धीति ।। अनुमानं हीत्यर्थः ।। तत्सर्वज्ञेति ।। यत्सर्वज्ञवाक्येन धर्मादिसिद्धि-रभ्युपेयते तत्सर्वज्ञेत्यर्थः ।। तेन चेति ।। प्रमाणभूततत्प्रणीतागमेनेत्यर्थः । ननु पुरुषान्तरस्य सार्वज्ञं सर्वज्ञान्तर-वाक्येन न कल्प्यते येनानवस्था स्यात्, अपि तु पूर्वसर्वज्ञवाक्येनेत्यत आह- पूर्वेति ।। शाबरोपमानाभिप्राये-णैतत्सदृशोऽसावित्युक्तम् । देशनम्(ना) उपदेशः । अनुपपद्यमानं सार्वज्ञं विनेति शेषः ।। जिनस्यापीति ।। अनयैवार्थापत्त्या जिनस्यापि सार्वज्ञं स्यादित्यर्थः ।। विप्रतिपत्तीति ।। बुद्धजिनयोरुभयोरपि सर्वज्ञत्वेन तत्प्रणीत-शास्त्रयोर्विवादाभावप्रसङ्गात् । न च विवादो नास्त्येवेति वाच्यम् । जिनैर्विश्वस्य सप्तभङ्गित्वाङ्गीकारात् । वैभाषि-कादिभिश्चतुर्भिरपि तदनङ्गीकारादित्यर्थः । अभावोऽनुपलब्धिः ।। भावविषयताया इति ।। अनुपलब्धे-रभावविषयकप्रमाजनकत्वेन भावविषयकप्रमाजनकत्वस्य कुत्राप्यदृष्टत्वान्न सार्वज्ञरूपभावधर्मप्रमापकत्व-मित्यर्थः ।। अभावप्रमाणेति ।। अभावविषयकप्रमाजनकानुपलब्धिरूपप्रमाणविषयतयेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु यद्यङ्गीकृतं धर्मादिकं तर्हि तत्साधकतयाऽपौरुषेयं वाक्यमङ्गीकर्तव्यमेवेत्यत आह- तच्चेति ।। ननु रागद्वेषादिदोषाणामज्ञानमूलकत्वमेव कुत इत्यत आप्तोक्त्या द्रढयति- यथाहेति ।। पतञ्जली रागादीना-मज्ञानमूलकत्वमाहेत्यर्थः । कुत एतदवगम्यत इत्यतस्तत्सूत्रादेवेत्यभिप्रेत्य प्रकृतोपयोगित्वात्तदेकदेशमेवोदा-हरति- अविद्यक्षेत्रत्वमुत्तरेषामितीति ।। ‘अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः’ इत्यभिधायाभिहितम्१ ‘अविद्या क्षेत्रमुत्तरेषाम्’ इति । उत्तरेषाम्- अस्मितादीनाम्, अविद्या- क्षेत्रं प्रसवभूमिरित्यर्थः । विप्रलम्भस्य रागादिकार्यत्वमेव कुत इत्यतस्तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वादित्याह- न हीति ।। ननु सर्वज्ञत्व-स्येवाऽविप्रलम्भकत्वादेरपि पौरुषेयेण वाक्येन धर्मादिसिद्ध्यर्थतया पूर्वपक्षिणा कल्पितत्वात् ‘न च तदर्थत्वेन सर्वज्ञत्वादिकं कल्प्येत’ इति वक्तव्यम् । ‘न च तदर्थत्वेन सर्वज्ञः कल्प्येत’ इत्युक्तिस्तु कथमित्यत आह- सर्वज्ञत्वे कल्पित इति ।। सर्वज्ञत्वकल्पनामात्रेण कथं विप्रलम्भाद्यभावसिद्धिरित्यत उक्तम्- उक्तन्याये-नेति ।। ‘सर्वज्ञत्वेन धर्मादिसाक्षात्कारवतो बुद्धस्य न रागद्वेषादिदोषाः सम्भवन्ति’ इत्याद्युक्तन्यायेनेत्यर्थः । ननु सर्वज्ञत्वादेः कुतः कल्प्यत्वमित्यतः प्रमाणाभावादित्याह- प्रमाणेन विनेति ।। इष्टापत्तिं परिहरति- न चास्माकमिति ।। तथाऽनुभवविरुद्धत्वादिति भावः । अभ्युपेत्याप्याह- तथात्वे वेति ।। अस्मद्वाक्येनैव तत्सिद्धि-सम्भवादिति भावः। इतरेतराश्रयप्रसङ्गमेवोपदर्शयति । तस्य सर्वज्ञत्वसिद्धाविति ।। सत्यप्यन्योन्याश्रये तद्वाक्ये-नैव तस्य सर्वज्ञत्वसिद्ध्यङ्गीकारेऽतिप्रसङ्गमाह- अन्यथेति ।। अस्त्वस्मद्वाक्येनाप्यस्माकं सर्वज्ञत्वसिद्धिरित्यत आह- न चेति ।। तथात्वे बुद्धादिवाक्यपर्यन्तधावनानर्थक्यादिति भावः । सर्वज्ञान्तरप्रणीतेति द्वितीयेऽपि पुरुषान्तरसर्वज्ञत्वे किं प्रत्यक्षं प्रमाणमनुमानमागमो वेति विकल्पान्मनसि निधायाऽद्यपक्षद्वयं दूषयति- पुरु-षान्तरे सर्वज्ञत्वस्येति ।। पूर्वोक्त एव निरासप्रकारः । पुरुषान्तरस्य सर्वज्ञत्वे आगमः प्रमाणमिति तृतीयेऽपि न तावदपौरुषेय आगमस्तत्र मानम् । तस्यानङ्गीकारात् । न पौरुषेयोऽपि सर्वज्ञप्रणीतः । अनाश्वासात् । सर्वज्ञ-प्रणीतत्वेऽपि किं तत्सर्वज्ञप्रणीतः सर्वज्ञान्तरप्रणीतो वा पूर्वसर्वज्ञप्रणीतो वा । नाऽद्यः । उक्तरीत्या इतरेतराश्रय-प्रसङ्गादिति भावेन द्वितीयपक्षे दूषणमाह- सर्वज्ञान्तरेति ।। तृतीयं दूषयति- पूर्वसर्वज्ञेति ।। करणोपमान-माश्रित्याऽह- स इवायमितीति ।। फलोपमानमाश्रित्याऽह- एतत्सदृशोऽसाविति वेति ।। विप्रतिप-त्तीति ।। तथा सति बुद्धोक्तमण्डलीकरणादेरिव जिनोक्तकेशोल्लुण्ठनादेरपि धर्मत्वापत्त्या मण्डलीकरणादि-कमेव धर्मो न केशोल्लुण्ठनादिकमिति विप्रतिपत्त्यभावप्रसङ्गादित्यर्थः ।। क्वाप्यदृष्टत्वादिति ।। अभावग्राहक-प्रमाणस्यैवाभावप्रमाणत्वादिति भावः ।
लघुप्रभा
(व्या.टि.)
अङ्गीकृत्यापि धर्माधर्मादिकं तत्सिद्धेरन्यथासिद्धिं शङ्कते- नन्विति ।। एतद् दोषद्वयग्रहणम् । प्राप्तेरित्यनुवादेन सम्भवादिति व्याख्यानम् । तत्प्रकारं दर्शयति- पुरुषाणामिति ।। दोषसाहचर्येण उपलब्ध-पुरुषत्वस्यात्र दृष्ट्या दोषसम्भावनेत्यर्थः ।। आश्वासेति ।। आप्तिनिश्चयानुपपत्तेरित्यर्थः । अज्ञानमूलत्वादिति (व्या.टि.) बहुव्रीहिः । एवमेव रागादीन् विना ।। सम्भावनेति ।। व्याघातेन शङ्काऽनुदयादित्यर्थः । स्वस्वेति वीप्सा सर्वोपसंहारार्था ।। अङ्गीकुर्वाणा इति ।। तद्वचसा धर्मादिसिद्धिमभ्युपयन्तीति शेषः ।। प्रयोजनं यस्येति ।। अत्र अन्यपदार्थः प्रकृतवाक्यार्थ एवेत्याह- सर्वज्ञकल्पनस्येति ।। हेताविति ।। फलमपीह हेतुः । प्रयोजकत्वादित्यर्थः । तत्प्रकारं दर्शयति- सर्वज्ञकल्पनाया इति ।। निवृत्तिवचन इति ।। ‘अर्थोऽभिधेय’ इत्यभिधानादिति भावः । निवृत्तिरिह न ध्वंसः किन्त्वनुत्पाद इति यावत् ।। तस्या इति ।। प्राप्तेरित्यर्थः । तस्यार्थ इति पाठे तु यस्य अज्ञानादेः प्राप्तिर्दोषतयोक्ता तदज्ञानादि तच्छब्देन परामृश्यते । अथ वा प्रापणस्येत्यध्या-हारेण तस्येति परामर्शो योजनीयः । अत एवेशावास्यभाष्ये ‘रक्षोभिरुग्रैः सम्प्राप्तः’ इति प्रकृत्य ‘तान् हत्वाऽवध्यतां गतान्’ इति परामर्शोपपत्तये तट्टीकायां ‘राक्षसान्’ इत्यध्याहार इत्युक्तम् । तथेहापीत्यदोषः । अस्वरसबीजं तु प्राप्तं हि निषिध्यते न प्राप्तिः । अत एव वक्ष्यति ‘अभावः स्वत एव सेत्स्यति’ इति । ननु कल्पनत्रयस्योत्तर-मूलेऽभिधानादिह सर्वज्ञमात्रकल्पनानुवादोऽयुक्त इत्याशङ्क्य वास्तवाभिप्रायेणोत्तरं मूलम् । इदं तु परभ्रान्त्यनु-वाद इत्याशयेन व्याचष्टे- उक्तन्यायेनेति ।। कथं सर्वज्ञकल्पनमात्रेणोत्तरदोषशङ्कानुत्पाद इत्यत आह- स्वत एवेति ।। विप्रलम्भादीति ।। तत्पुरुषस्तद्गुणसंविज्ञानो बहुव्रीहिश्च । तेन स्वपूर्वोत्तरेषां दोषाणां ग्रहणम् । तेन तत्सम्भावना लक्ष्यते । अस्या अभावोऽनुत्पादः । स्वत एव व्याघातादेव शङ्कानुत्थानात् सेत्स्यति । न तूत्पन्नध्वंसकापेक्षयेत्यर्थः । प्रसङ्गाऽसङ्गति(प्रसङ्ग)माशङ्क्योपपादयति- सर्वं हीति ।। सर्वाज्ञाने तदुपहितसार्वज्ञ-ज्ञानायोगः । (सर्वज्ञानिज्ञानायोगः) उपाधेरज्ञाने तदुपहितज्ञानासम्भवात् । घटितपदार्थज्ञाने घटकपदार्थज्ञानस्य हेतुत्वादित्यर्थः ।। वैयर्थ्यादिति ।। अस्मद्वाक्यादेव धर्मादिसिद्धेरित्यर्थः ।। अन्यत्रेति ।। विवक्षितादिति शेषः । तात्पर्यमाह- अस्मास्विति ।। परकीयसार्वज्ञस्य परप्रत्यक्षासिद्धिमुक्त्वा प्रत्यक्षेण तद्विषयीकरणस्य प्रत्यक्षविरुद्धत्वं चाऽह- अनुभवविरुद्धं चेति ।। परचित्तवृत्तिं न जानामीत्यनुभवविरुद्धं चेत्यर्थः । परकीयसार्वज्ञं नास्मत्प्रत्यक्षगोचरः । अयोग्यत्वात् । यद्यदयोग्यं तत्तदगोचरः, यथा सम्मतम् इत्यनुभवसिद्धव्याप्तिकानुमान-विरुद्धं चेति वा । एतदपि परचित्तवृत्तीत्यनेन सूचितम् ।। अन्यत्रेति ।। पक्षादिति शेषः ।। अन्यथेति ।। आगमप्रामाण्यासिद्धावपि तदुदितसार्वज्ञसिद्धौ इत्यर्थः ।। इति वेति ।।
‘दृष्ट्वा सदृशमेवान्यं पूर्वदृष्टे तु वस्तुनि ।
एतत्सदृशताज्ञानमुपमानं प्रकीर्तितम् ।।’
इत्युक्तेः ।। अनुपपत्तीति ।। प्रमितस्येति शेषः । धर्मातिदेशनं धर्मोपदेशः । तदबोधे तदुपदेशायोगादिति भावः ।। अन्यत्रेति ।। जिनादावित्यर्थः ।। तस्येति ।। अभावप्रमाणस्येत्यर्थः ।। भावरूपस्येति ।। विधिरूपस्येत्यर्थः ।
अत्र शङ्क्यते । ‘तस्य भावविषयतायाः क्वाप्यदृश्व्त्वात्’ इत्यनेन अभावप्रमाणजन्यज्ञानविषयता भावे क्वापि नास्तीत्युक्तम् । तत्र भावे कीदृशी विषयता नास्तीति तात्पर्यं? विशेष्यतारूपा वा प्रकारतारूपा वा सांसर्गिकरूपा (व्या.टि.) वा । आद्येऽपि किञ्चिन्निरूपिता वा अभावनिरूपिता वा । नाऽद्यः । ‘घटाभाववद्भूतलम्’ इत्यत्र घटत्वनिरूपितविशेष्यताया घटे सत्त्वात् । न द्वितीयः । भूतले सत्त्वात् । द्वितीयेऽपि किञ्चिन्निरूपिता वा अभावनिरूपिता वा । नाऽद्यः । भूतलत्वघटत्वादौ सत्त्वात् । न द्वितीयः । घटे सत्त्वात् । अभावत्वादौ धर्मे सत्त्वाच्च । न चाभावो निर्धर्मक इति वाच्यम् । सप्रतियोगिकत्वास्तित्वाभावत्वादीनामनेकेषां धर्माणामनुभव-सिद्धत्वात् । ‘न ह्यभावोऽप्यधर्मात्’ इति तैत्तिरीयभाष्यविरोधाच्च । न च सधर्मोऽपि न भावधर्मेति न दोषः । ‘न तु स्याद्भावधर्मयुक्’ इति तैत्तिरीयभाष्ये,
‘प्रतियोगितात्वभावस्याप्यस्त्यभावतया स्फुटम् ।
अभावस्यास्तिता नाम स्यादेवाभावरूपिणी ।।’
अभावता तु सैव स्यान्न तु स्याद्भावरूपिणी’ इति मानान्तरे तद्धर्माणामभावत्वस्योक्तेरिति वाच्यम् । विधिरूपतयोक्तधर्माणां भावत्वानुभवात् ।
‘अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः ।
तादृक्त्वमात्रतेहोक्ता’
इत्यनुव्याख्यानोक्तेश्च । उक्तवचनानां च भावस्य भिन्नाभावधर्मकत्ववदभावस्य भिन्नभावधर्मकत्वं नास्तीत्यभि-प्रायकत्वेनाविरोधित्वात् । तृतीयेऽपि संसर्गपदेन तादात्म्येतरस्य वा विवक्षा, तादात्म्यस्य वा । उभयत्रापि किञ्चिद्विषयतानिरूपिता वा, अभावविषयतानिरूपिता वा । नाऽद्यः । ‘दण्डी देवदत्तः कुण्डलाभाववान्’ इत्यत्र दण्डसंयोगे दण्डतादात्म्ये च सत्त्वात् । न द्वितीयः । प्रमेयघटाभाववद्भूतलमित्यत्र भूतलाभावविशेषण-विशेष्यभावे, प्रमेयाभावयोस्तादात्म्ये, घटो न पट इत्यत्र धर्मिभेदयोस्तादात्म्ये च सत्त्वात् । सार्वज्ञस्यासंसर्ग-रूपत्वेन तृतीयपक्षासङ्गतेश्च ।
अत्रेदं समाधीयते । अनुपलब्धेः पृथक् प्रमाणत्वमालम्ब्यैव पृथङ् निरस्तत्वेन तन्मतेऽभावस्यैव मानान्तरा-गृहीतस्य अनुपलब्धिविषयत्वेनेतरस्याविषयत्वेन, विषयत्वेऽपि ज्ञानप्रत्यासत्त्या विषयत्वेन, अनुपलब्ध्या प्रत्येमि इत्यनुव्यवसायसिद्धविषयताविशेषस्य अनुमिनोमीत्यनुव्यवसायसिद्धविषयताविशेषस्य परामृश्यमानलिङ्ग-व्यापकगतत्ववदभावमात्रगतत्वात् । न हि धूमानुमानस्य पर्वतादौ मानत्वम् । सिद्धान्ते त्वनुपलब्धेः क्वचित् प्रत्यक्षसहकारित्वम् । क्वचिल्लिङ्गत्वम् । तत्र सहकारित्वमभावांश एव । लिङ्गत्वं प्रतियोग्यभाव इव तद्व्यापके भावेऽपि सम्भवति । अभावत्वानुपलब्ध्या भावत्वानुमानसम्भवात् । तथा च न प्रकृते काऽप्यनुपपत्तिरिति स्थितम् ।