अनिर्वचनीयत्वे..

भ्रमस्य सदसद्वैलक्षण्य विषयकत्वनिरासः।

मूलम्

-अनिर्वचनीयत्वे रजतस्य अनिर्वचनीयमिदं रजतमिति बाधकज्ञानमुत्पद्येत । मिथ्याशब्दस्त्वभाववाची । न च सदसद्वैलक्षण्यं नामास्तीत्यत्र किञ्चिन्मानम् । अनुभवविरोधश्च तत्पक्षे । सदसतोर्द्वयोरेव सर्वैरनुभूयमानत्वात् । अतोऽनिर्वच-नीयाभावादसतः प्रतीत्यनङ्गीकारात् प्रतीयमानत्वाच्च भेदस्य सत्त्वप्राप्तेर्नाद्वितीयत्वं युज्यते ।

तत्त्वमञ्जरी

मिथ्येदं रजतमित्युत्पद्यते हि बाधकज्ञानम्    मिथ्या चानिर्वचनीयमेवेत्यत आह- मिथ्येति ।। तुशब्देन ‘अलीकं वितथं मिथ्या’ इति प्रसिद्धिं द्योतयति । असतः प्रतीत्यनङ्गीकारात् सत्त्वेन प्रतीयमानत्वाच्च भेदस्य सत्त्वमेवाऽप्तम् । न च वाच्यं प्रतीतत्वादेव सदसद्विलक्षणो भेद इति । सदसद्वैलक्षण्ये प्रमाणाभावस्य संसाधितत्वात् ।

टीका 

तदेवमसतः सत्त्वेन ख्यात्युपपत्तेः न तद्बलेन बाधकप्रत्ययोऽन्यथयि(थै)तव्य इत्युक्तम् । इतश्चैवमित्याह- अनिर्वचनीयत्वे चेति ।। यद्यनिर्वचनीयमिदं रजतमिति स्फुटं बाधकज्ञानमुत्पद्येत तदाऽसदेव प्रत्यभादित्यनुभवस्य विषयान्तरकल्पनं युक्तं स्यात् । न चैवमस्तीति भावः । ननु भ्रान्तेरुत्थितस्तावन्मिथ्यैव रजतं प्रत्यभादित्यनुवदति । मिथ्याशब्दोऽनिर्वचनीयवाची । तेनानुमीयते ‘रजतस्यानिर्वचनीयता अनेनानुभूता’ इति । तत्कथमुच्यतेऽनिर्वचनीयताविषयं बाधकज्ञानं नोत्पद्यत इति? तत्राऽह- मिथ्येति ।। अभावप्रतियोगि असद् अभाव इति अत्रोच्यते । न भवतीत्यभाव इति वा । अत्र मिथ्याशब्दस्तु न अनिर्वचनीयवाचीति वक्तव्यम् । ततो निरर्थकः स्यादित्यतोऽभाववाचीत्युक्तम् । कुतो नानिर्वचनीयवाचीत्यत आह- न चेति ।। सदसद्विलक्षणे वस्तुनि प्रमाणसिद्धे पश्चात्कथञ्चित् तद्वाचित्वं सम्भवति । न चैतदस्ति । प्रमाणस्यैव इदानी विचार्यमाणत्वात् । नच तद्बलादेव सर्वं कल्प्यम् । तस्यासद्वाचित्वेनान्यथासिद्धत्वात् ।

एवमनुमानस्य कालात्ययापदिष्टतामभिधाय दूषणान्तरं चाऽह- अनुभवेति ।। शुक्तिरजतादेर-निर्वचनीयतासाधने अनुभवविरोधश्च । अनुभूतार्थविपरीतप्रतिपादकत्वमप्रसिद्धविशेषणता चेति यावत् । कथमित्यत आह- सदसतोरिति ।। ननु सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वात् रूपरसवद् इति सामान्यतोऽनुमानेनानिर्वचनीयत्वे सिद्धे तस्य केवलव्यतिरेक्यनुमानेन शुक्तिरजतादिनिष्ठतामात्रं साध्यते । अतो नाप्रसिद्धविशेषणतेति चेन्न । अविरुद्धत्वस्योपाधि-त्वात् । न च गोत्वाश्वत्वादौ साध्याव्यापकता, प्रतिषेध्यप्रतिषेधात्मकस्य विरोधस्य विवक्षित-त्वात् । प्रतिज्ञापदव्याघातो वाऽनेन वाक्येन सूच्यत इति ।

एवं प्रत्यक्षादेर्विषयस्य भेदप्रपञ्चस्यानिर्वचनीयतां प्रतिषिध्योपसंहरन् असत्त्वमपि प्रतिक्षिपन् परिशेषसिद्धमर्थं दर्शयन् प्रकृतमनुसरति- अत इति ।। अनिर्वचनीयेति भावप्रधानो निर्देशः । भेदस्येति वक्ष्यमाणमत्रापि सम्बध्यते  । असत इत्यादिकमसत्त्वनिराकरणम् । अनङ्गीकारात् परेणेति शेषः । भेदस्येत्यतः परमसत्त्वस्याप्यनुपपत्तेरिति पूरणीयम्  । सत्त्वप्राप्तेः परिशेषेण पारमार्थिकसत्त्वसिद्धेः । भेदस्येति वर्तते । नाद्वितीयत्वं युज्यते एवं प्रत्यक्षादीनामपि परमार्थ-विषयत्वेनानुमानबाधकत्वोपपत्तेरनुमानैः भेदाभावसाधनं न युज्यत इत्यर्थः ।

भावबोधः

मिथ्यैव रजतं प्रत्यभादिति बाधकज्ञानस्यापि परेणानिर्वचनीयविषयत्वाङ्गीकारादाह- इति स्फुटमिति ।। अभावप्रतियोगीति ।। अभावपदेन स्वशक्यप्रतियोगित्वरूपसम्बन्ध्यसत् प्रतिपाद्यत इत्यर्थः । ‘न च सदसद्वैलक्षण्यम्’ इत्युत्तरवाक्यं सङ्गमयितुमाह- अत्र मिथ्याशब्द इति ।। अप्रसिद्धविशेषणता चेति ।। यावदिति ।। अन्यथा असदेव प्रत्यभादित्यनेन गतार्थता, सदसतोर्द्वयोरित्युपपदानानानुगुण्यं च स्यादिति भावः । प्रतिषेध्येति ।। प्रतिषेध्यपदस्यात्यन्ताभावपरत्वान्न रूपरूपध्वंसादौ साध्याव्यापकत्वमिति भावः । १प्रतिज्ञापदयोर्व्याघातो वेति । द्वयोरेवेत्येवकारेण तृतीयप्रकाराभावप्रतिपादने सति सद्वैलक्षण्य-साधनेत्वसत्त्वमेव प्राप्तम् । पुनरसद्विलक्षणमित्युक्ते सद्विलक्षणपदेन व्याहतिः    एवमसद्विलक्षणपदेन सद्विलक्षणपदस्य व्याहतिरित्यर्थः । दोषस्योपपादनमेव क्रियते न तु मुखतस्तत्कीर्तनमिति सूच्यत इत्युक्तम् । भेदाभावसाधनमिति ।। अनेन अद्वितीयत्वपदं तत्साधनपरमित्युक्तं भवति । भेदाभावसाधकानुमान-दूषणस्योक्तत्वादिति भावः ।

भावदीपः

बाधकप्रत्यय इति ।। असदेव प्रत्यभादिति बाधकप्रत्यय इत्यर्थः । विषयान्तरेति ।। सद्वैलक्षण्य-रूपेत्यर्थः । अभावपदमत्र लक्षणयाऽत्यन्ताभावप्रतियोग्यसत्परमित्याह- अभावप्रतियोगीति ।। योगवृत्त्याऽ-सद्वाचीत्याह- न भवतीति ।। भावः सत्, ‘भवतेश्च’ इति णप्रत्ययः, स नेत्यभावोऽसदित्यर्थः । एतेनासदेव प्रत्यभादिति बाधकप्रत्ययप्रदर्शनमयुक्तं, रजताभाव एव रजतत्वेन प्रत्यभादिति प्रदर्शनीयमिति चोद्यं निरस्तं बोध्यम् । परोक्तार्थप्रतिक्षेपे कार्येऽभाववाचीति कस्मादुक्तमित्यत आह- अत्रेति ।। कथञ्चिदिति ।। निगमनिघण्ट्वादौ प्रसिद्ध्यभावात्कथञ्चिदित्युक्तम् । तच्छब्देति ।। मिथ्याशब्देत्यर्थः । सर्वमिति ।। मिथ्या-शब्दस्यानिर्वाच्यवाचित्वं, तद्बलाद्बाधकप्रत्ययस्यानिर्वाच्यविषयकत्वम्, असदविषयकत्वं, तद्दृष्टान्तेन च जगतोऽनिर्वाच्यत्वसाधनमित्येतत्सर्वमित्यर्थः ।

एवमिति ।। ‘यच्च प्रमाणदृष्टानाम्’ इत्यादिनोक्तप्रकारेण दृश्यत्वाद्यनुमानजातस्येत्यर्थः । यद्वा न च शुक्ते रजतत्वं सदसद्विलक्षणम्, असदेव रजतं प्रत्यभादित्यादिना शुक्तिरजतादेरनिर्वचनीयत्वसाधककेवलव्यतिरेकि-रूपबाध्यत्वानुमानस्य उक्तां कालात्ययापदिष्टतामित्यर्थः । बाधोक्तिपरत्वे पौनरुक्त्यापत्तेरनुभवविरोधपद-मन्यथा व्याचष्टे- अनुभूतार्थेति ।। सामान्यप्रसिद्धिसम्पादकमनुमानमाह- सत्त्वासत्त्वे इति ।। एको यो धर्मी तन्निष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिनी इत्यर्थः । धर्मीति निर्धर्मकब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेनार्थान्तर-निरासाय । रूपरसयोर्वाय्वादिनिष्ठात्यन्ताभावप्रतियोगित्वमस्तीति साध्यानुगमो दृष्टान्ते ज्ञेयः । अनेन सत्त्वासत्त्व-हीनं किञ्चित्सिद्ध्यति सत्त्वासत्त्वाभावे वाऽनिर्वचनीयत्वमिति भावः । सहावस्थितत्वमविरुद्धत्वं मत्वा शङ्कते- न चेति ।। घटादिनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यसत्त्वेऽप्युक्तरूपाविरुद्धत्वाभावादिति भावः। प्रतिषे-ध्येति ।। अन्योन्यविरहानात्मकत्वरूपमविरुद्धत्वमत्र विवक्षितम् । अस्ति च गोत्वाश्वत्वयोरपि तादृशाविरुद्धत्व-मिति भावः ।  प्रतिषेधपदेनात्यन्ताभावो विवक्षितः    तेन घटतत्प्रागभावयोर्घटतद्ध्वंसयोर्वा न साध्या-व्यापकत्वमिति ज्ञेयम् । तथाच पक्षे तादृशाविरुद्धत्वस्याभावाद्व्यापकीभूतसाध्यस्याप्यभावः। अनेनेति ।। सदसतोर्द्वयोरेवेति वाक्येनेत्यर्थः । विमतं सदसद्विलक्षणं बाध्यत्वादित्यनुमानप्रतिज्ञायां सद्विलक्षणमित्युक्तेऽ-सदिति प्राप्तं, पुनरसन्नेत्युक्ते व्याघात इति भावः । एवमिति ।। सदसद्वैलक्षण्ये प्रमाणाभावादित्यादिना प्रतिषिध्येत्यर्थः । परिशेषेति ।। प्राक्प्रत्यक्षादेः प्रपञ्चपरमार्थसत्त्वविषयकत्वं कुत इति प्रश्नेऽनिर्वचनीयत्वा-सत्त्वपक्षयोः प्रतिषेधे परिशेषात्सत्त्वविषयकत्वमेव सेत्स्यतीति बुद्ध्या ‘सदसद्वैलक्षण्ये प्रमाणाभावात्’ इत्यादिनाऽनिर्वचनीयतामियता ग्रन्थेन प्रतिषिध्य परिशेषसिद्धयेऽसत्त्वपक्षं प्रतिक्षिपन् परिशेषसिद्धं परमार्थत्वम् दर्शयन् दृश्यत्वाद्यनुमानेन भेदो मिथ्या भेदत्वाच्चन्द्रभेदवत्, विमता आत्मानः परमात्मनः तत्त्वतो न भिद्यन्त इत्यादिना च भेदप्रपञ्चाभावसाधनायोगमनुसरति । अनुसन्धत्त इत्यर्थः । तत्र तत्र विवक्षितशेषोक्त्या व्याचश्व्े- अनिर्वचनीयेति ।। नाद्वितीयत्वं युज्यत इत्यनुवादः । एवमित्यादि व्याख्या ।

वाक्यार्थदीपिका

(श्री.टि.)

बाधकप्रत्ययः असदेव रजतं प्रत्यभादिति प्रत्ययः । अन्यथा सत्त्वाभावविषयत्वेन । ननु परेणापि मिथ्यैव रजतं प्रत्यभादिति बाधकज्ञानस्य वस्तुगत्याऽनिर्वचनीयविषयकत्वाङ्गीकारादिष्टापत्तिरित्यत आह- स्फुट-मिति ।। अनिर्वचनीयमिदमित्यनिर्वचनीयत्वप्रकारकमित्यर्थः । विषयान्तरं सत्त्वाभावरूपम् । अनिर्वच-नीयतावाचीति ।। सदसद्वैलक्षण्यवाचीत्यर्थः । मिथ्याशब्दस्याभाववाचित्वे मिथ्यैव रजतमिति सामाना-धिकरण्यायोग इत्यत आह- अभावप्रतियोगीति ।। अत्र वाक्ये अभाव इति पदेनात्यन्ताभावप्रतियोग्यसदुच्यत इत्यर्थः । तथा च प्रतियोगिप्राधान्यविवक्षया रजतं मिथ्येत्यस्य रजतमत्यन्ताभावप्रतियोगीत्यर्थो द्रष्टव्य इति भावः । निषेधप्राधान्यविवक्षयाऽप्याह- न भवतीति ।। कर्तृव्युत्पत्त्यर्थः । तथा च रजतं मिथ्येत्यस्य रजत-प्रतियोगिकात्यन्ताभाव इत्यर्थो द्रष्टव्य इति भावः । ततो निरर्थक इति ।। मिथ्याशब्दस्यानिर्वचनीयवाचकत्वाभावे अन्यस्य तद्वाच्यस्याभावान्मिथ्याशब्दो निरर्थक इति भावः । तद्वाचित्वं मिथ्याब्दस्येति शेषः । अभिधानाद्य-भावात्कथञ्चिदित्युक्तम् । तद्बलादेवेति ।। भ्रान्त्युत्थितस्य मिथ्यैव रजतं प्रत्यभादित्यनुवादबलादेवेत्यर्थः । सर्वमिति ।। सदसद्विलक्षणे वस्तुनि प्रमाणं, मिथ्याशब्दस्य सदसद्विलक्षणरूपानिर्वाच्यवस्तुवाचकत्वमिति सर्वमित्यर्थः । तस्येति ।। यद्बलात्कल्पनीयं तस्य मिथ्याशब्दस्येत्यर्थः । अनुमानस्येति ।। शुक्तिरजतादिकम् अनिर्वचनीयं बाध्यत्वाद्व्यतिरेकेणाऽत्मवदित्यनुमानस्येत्यर्थः । अनुभूतार्थविपरीतप्रतिपादकत्वमिति ।। एतदनुमानात्प्राक् साध्यं कुत्रापि दृष्टान्ते नानुभूतमित्यननुभूतार्थप्रतिपादकत्वमित्यर्थः । इति यावदिति ।। अन्यथा बाधकथनाभिप्रायेऽसदेव रजतं प्रत्यभादित्यनेन गतार्थता सदसतोर्द्वयोरेवेत्युपपादनानानुगुण्यं च स्यादिति भावः । धर्मत्वादिति ।। व्यतिरेकिधर्मत्वादित्यर्थः । अन्यथा प्रमेयत्वादौ व्यभिचारापत्तेरिति द्रष्टव्यम् । रूपरसवदिति ।।

ननु दृष्टान्तद्वयं किमर्थमुपात्तम् । न च वाच्यं सत्त्वासत्त्वयोर्द्वयोः पक्षत्वात्तदनुसारेणेति । अनित्ये वाङ्मनसे मूर्तत्वाद्घटवदित्यभियुक्तप्रयोगानुपपत्तेः । तत्रापि घटपटवदिति प्रयोगापातादिति चेदुच्यते । अत्र साध्येऽत्यन्ता-भावप्रतियोगिनी इत्यत्रैकात्यन्ताभावप्रतियोगित्वे साध्ये सत्त्वासत्त्वयोरेकात्यन्ताभावप्रतियोगित्वाभावेन बाधापत्त्या अत्यन्ताभावद्वयप्रतियोगित्वस्यैव साध्यतया वक्तव्यत्वे तत्र रूपवदित्येकस्यैव दृष्टान्तस्योक्तौ (श्री.टि.) तत्रात्यन्ताभावद्वयप्रतियोगित्वाभावेन साध्यवैकल्यापत्तेस्तत्परिहाराय दृष्टान्तद्वयोपादानमिति भावः। रूपरसयोर्वायुरूपैकधर्मिनिष्ठात्यन्ताभावप्रतियोगित्वेन दृष्टान्ते साध्यं द्रष्टव्यम् ।

केवलव्यतिरेकीति ।। शुक्तिरजतादिकमनिर्वचनीयं बाध्यत्वादात्मवदिति केवलव्यतिरेक्यनुमानेनेत्यर्थः। साध्याव्यापकतेति ।। रासभरूपैकधर्मिनिष्ठात्यन्ताभावप्रतियोगित्वे सत्यपि परस्परविरहव्यापकत्वरूप-विरुद्धत्वस्यैव सत्त्वादिति भावः । प्रतिषेध्येत्यादि ।। अत्र प्रतिषेधशब्दोऽत्यन्ताभावपरः । तथा चाविरुद्धत्वं नाम परस्परविरहरूपत्वाभावः । परस्परात्यन्ताभावानात्मकत्वमिति यावत् । एवं च न गोत्वाश्वत्वयोस्साध्या-व्यापकतेति भावः । प्रतिषेधशब्दस्यात्यन्ताभावपरत्वमनङ्गीकृत्य अभावमात्रपरत्वाङ्गीकारे वायुरूपैकधर्मि-निष्ठात्यन्ताभावप्रतियोगिनो रूपतद्ध्वंसयो रूपस्य प्रतिषेध्यत्वेन ध्वंसस्य रूपप्रतिषेधत्वेन प्रतिषेध्य-प्रतिषेधात्मकत्वरूपविरुद्धत्वस्यैव सत्त्वेन साध्याव्यापकता स्यादिति द्रष्टव्यम् । अनेनेति ।। द्वयोरेवेत्येवकारेण तृतीयप्रकाराभावप्रतिपादनेनेत्यर्थः । तथा च सद्वैलक्षण्यसाधनेऽसत्त्वस्यैव प्राप्त्या पुनरसद्विलक्षणमित्युक्ते व्याघातः । एवमसद्विलक्षणत्वसाधने सत्त्वस्यैव प्राप्त्या पुनः सद्विलक्षणमित्युक्ते व्याघात इति भावः । सूच्यत इति ।। दोषोपपादनमेव क्रियते न तु कण्ठतस्तत्कीर्तनमतः सूच्यत इत्युक्तमिति भावः । उपसंहरन्निति ।। अतोऽनिर्वाच्यत्वाभावादित्यंशेनोपसंहारो द्रष्टव्यः । परिशेषसिद्धमर्थमिति ।। सदसद्वैलक्षण्ये प्रमाणाभावादि-त्यादिना ग्रन्थेन कृतो यः परिशेषस्तत्सिद्धो योऽर्थो भेदस्य पारमार्थिकसत्यत्वरूपस्तमित्यर्थः । सत्यत्वप्राप्ते-रित्यनेन तत्प्रदर्शनं द्रष्टव्यम् । प्रकृतमिति ।। नाद्वितीयत्वं युज्यत इत्यनेन प्रकृतानुसरणं द्रष्टव्यम् । असत्त्वं प्रतिक्षिपन्नित्युक्तम् । तत्प्रतिक्षेपः केनांशेन क्रियत इत्यत आह- असत इत्यादिकमिति ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

अन्यथयितव्य इति ।। सत्ताभावविषयकत्वेन व्याख्येय इत्यर्थः । विषयान्तरकल्पनमिति ।। सत्त्वाभावविषयत्वकल्पनमित्यर्थः । ननु नेदं रजतमिति चक्षुरादिव्यापारानन्तरं जायमानो बाधकप्रत्ययो लिङ्गाद्यजन्यत्वात् प्रत्यक्षरूप इति तावदविप्रतिपन्नं सर्वेषाम् । न चायं भ्रम इति शक्यते वक्तुं, विपरीत-प्रमाणानुपलम्भात् । स चायं बाधकप्रत्ययो रजतमिथ्यात्वविषयक इत्यवश्यं वाच्यम् । उक्तरूपबाधकप्रत्यय-समनन्तरं मिथ्यैव रजतं प्रत्यभादित्याप्तस्यानुवाददर्शनात्तस्य च रजतमिथ्यात्वविषयकतया बाधकप्रत्ययस्य रजतमिथ्यात्वविषयकत्व एव सम्भवात् । अन्यथाऽप्रतीतानुवादप्रसक्त्याऽऽप्तत्वभङ्गापातात् । न चैतावता बाधकप्रत्ययस्य रजतमिथ्यात्त्वविषयकत्वसिद्धावपि रजतानिर्वचनीयविषयकत्वासिद्धिः । मिथ्यैव रजतं प्रत्यभादित्यनुवादस्य रजतानिर्वचनीयाविषयकत्वादिति वाच्यम् । मिथ्याशब्दस्यानिर्वचनीयवाचकतयाऽनुवाद-स्यानिर्वचनीयविषयकत्वसिद्ध्या तदनुरोधेन बाधकप्रत्ययस्य तद्विषयत्वसिद्धिसम्भवात् । अत एवाऽहुः ‘यावदुक्तं भवत्यनिर्वचनीयमिति तावदुक्तं भवति मिथ्या’ इति । तदेवं नेदं रजतमितिबाधकप्रत्ययस्यैव रजतानिर्वच-नीयताविषयकत्वात्तादृशबाधकज्ञानोत्पत्त्यापादनमिष्टापादनत्वादनुपपन्नमित्याशयेन शङ्कते- नन्विति ।। ननु मिथ्याशब्दस्याभाववाचित्वे कथं मिथ्यैव रजतमिति सामानाधिकरण्यमित्यतोऽत्राभावशब्दस्य लक्षणया (पां.टि.) प्रतियोगिप्रधानत्वेन निषेधपरत्वाभावात् रजतस्याभावत्वाभावेऽपि तत्प्रतियोगित्वान्नानुपपत्ति-रित्यभिप्रेत्य लक्षणाभूतशक्यसम्बन्धप्रदर्शनपूर्वकं तस्य लक्षणया प्रतियोगिपरतामाह-अभावप्रतियोगीति ।। अत्र पक्षेऽभावशब्दस्य लक्षणा भवति इत्यपरितोषाद् योगेन तत्परतां दर्शयति- न भवतीत्यभाव इति वेति ।। नानिर्वचनीयवाचीति ।। व्याकरणाभिधानादिप्रमाणाभावाद्वादिसमयस्य चातिप्रसङ्गेनानिश्चायकत्वान्न तस्या-निर्वचनीयत्ववाचकत्वमिति भावः । वक्तव्यमिति ।। तावताऽपि नेदं रजतमिति बाधकप्रत्ययस्यानिर्वचनीयत्वा-भावविषयकत्वसिद्ध्येष्टापादनत्वपरिहारादिति भावः । निरर्थक इति ।। ततश्च पदत्वव्याघात इति भावः ।

शुक्तिरजतादिकमनिर्वचनीयं बाध्यत्वाद्व्यतिरेकेणाऽत्मवदित्यनुमानस्य कालात्ययापदिश्व्तायाः पूर्वमेवोक्तत्वात्पुनस्तदभिधाने फले पौनरुक्त्यमित्याशङ्क्य दूषणान्तरपरतया तद्योजयति- एवमिति ।। कथमनेनाप्रसिद्धविशेषणतायाः समर्पणमित्यत उक्तम्- अनुभूतार्थेति ।। तत्त्वप्रदीपिकोक्तमप्रसिद्ध-विशेषणतापरिहारमाशङ्कते- सत्त्वासत्त्वे इति ।। एको यो धर्मी तन्निष्ठौ यौ अत्यन्ताभावौ तत्प्रतियोगिनौ भवितुमर्हत इति साध्यार्थः । यौ धर्मौ तावेकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनौ यथा रूपरसौ । अत्र भिन्नाधि-करणनिष्ठात्यन्ताभावप्रतियोगितयाऽर्थान्तरतावारणायैकधर्मीत्युक्तम् । तर्हि बाध्यत्वप्रतीतत्वानुमान-योर्वैयर्थ्यमित्यत उक्तम्- सामान्यत इति ।। उपाधित्वादिति ।। वायुलक्षणैकधर्मिनिष्ठात्यन्ताभाव-प्रतियोगित्ववतो रूपरसयोः अविरुद्धत्वरूपोपाधिसत्त्वेनोपाधेः साध्यव्यापकत्वात् । धर्मत्वरूपसाधनवति च पक्षे विरुद्धत्वाभावेनोपाधेः साधनाव्यापकत्वाच्चेत्यर्थः । ननु गोत्वाश्वत्वादौ घटरूपैकधर्मिनिष्ठात्यन्ताभावप्रति-योगित्वरूपसाध्यसत्त्वेऽपि सहानवस्थितत्वलक्षणविरुद्धत्वस्यैव सत्त्वेनाविरुद्धत्वस्यैवाभावान्नोपाधेः साध्य-व्यापकत्वमित्याशङ्क्य निषेधति- न चेति ।। प्रतिषेध्येति ।। गोत्वाश्वत्वयोश्च प्रतिषेध्यप्रतिषेधकत्वाभावान्न साध्याव्यापकत्वमिति भावः । न च संयोगतदत्यन्ताभावादौ तथाऽपि साध्याव्यापकत्वमिति वाच्यम् । प्रदेशभेदेनैव संयोगतदत्यन्ताभावयोर्वृत्तेरनुभवसिद्धतया तयोरेकधर्मिनिष्ठात्यन्ताभावप्रतियोगित्वासम्मत्या तत्रापि तदनव-काशादित्याशयात् । एतच्च अप्रसिद्धविशेषणत्वं पररीत्यैवोक्तम् । स्वमतेऽन्यत्र तददूषणत्वस्य समर्थितत्वात् । स्वमतेन तु व्याहतिरेवात्र दूषणमिति भावेन तत्परतया वाक्यं योजयति- प्रतिज्ञापदेति ।। सन्न भवती-त्युक्तेऽसत्त्वमुक्तं भवति सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य । पुनरसन्न भवतीत्युक्ते स्ववचनव्याहतिः । एवम् असन्न भवतीत्युक्त्या ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति सत्त्वं लभ्यते । पुनः सन्न भवतीत्युक्ते स्वव्याहतिरित्यर्थः । एतद्व्युत्पादनप्रकारस्तु वाक्यार्थचन्द्रिकोक्तरीत्याऽवधेयः । उपसंहरन्निति ।। ततश्च ‘अतो भेदस्यानिर्वचनीयत्वाभावात्’ इत्यस्य न वैयर्थ्यमिति भावः । प्रतिक्षिपन्निति ।। अतो न ‘असतः’ इत्या-देर्वैयर्थ्यमिति भावः । परिशेषेति ।। अतो ‘भेदस्य सत्यत्वप्राप्तेः’ इत्यस्य न वैयर्थ्यमिति भावः । प्रकृत-मनुसरतीति ।। अतो न ‘नाद्वितीयत्वं युज्यते’ इत्यस्य वैयर्थ्यमिति भावः ।

लघुप्रभा

(व्या.टि.)

उपसंहरति- तदेवमिति ।। अन्यथयितव्य इति ।। अन्यथाशब्दात् करोतिण्यन्तात् तव्ये इटि च (व्या.टि.) रूपम् । ततः किं प्रकृत इत्यत आह- यदीति ।। ननु तद्रूपबाधकप्रत्यये स्फुटतरानुव्यवसायाभावेऽप्य-नुमानेन तत्सिद्ध्या विपर्ययापर्यवसानात्तर्काभासोऽयमिति शङ्कते- नन्विति ।। तत्र हेत्वसिद्धिं निरस्यति- अनुवदतीति ।। ततः किं केन सङ्गतमित्यत आह- मिथ्याशब्द इति ।। अनुमीयत इति ।। अनुमानप्रकारस्तु अयं रजतानिर्वचनीयतामन्वभूत् तद्वाचिपदानुवादित्वादिति, रजतानिर्वचनीयता भ्रान्तेनानुभूता तथाऽनूद्य-मानत्वात् यदेवं तदेवमिति वा द्रष्टव्यः । अतस्तर्कस्य विपर्ययपर्यवसानं दुःशकमित्याह- तत्कथमिति ।। ननु मिथ्याशब्दो असद्वाचीति वक्तव्ये किमनेनाकाण्डताण्डवेन । न ह्यभावो असन्, तस्य सत्प्रभेदत्वादित्यतोऽ-यमभावशब्दो लक्षणयाऽसत्पर इत्याह- अभावप्रतियोगीति ।। शक्यसम्बन्धप्रदर्शनमेतत् । तर्हि स्वायत्त-न्यायविरोध इत्यतो व्युत्पन्नोऽत्राभावशब्द इति भावेन व्युत्पत्तिं दर्शयति- न भवतीति ।। अत्र नञ्पूर्वाद् भवतेः ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इत्यत्र ‘अकर्तरीत्यनेनैव नञिवयुक्तन्यायेन कर्तृभिन्नकारकलाभेऽपि कारकग्रहणं कर्तर्यपि यथा स्यादित्येवमर्थम्’ इति महाभाष्योक्तेः कर्तरि घञि रूपं द्रष्टव्यम् । ज्वलादेराकृति-गणत्वाद्वा । ‘कृत्यल्युटो बहुलम्’ इत्यत्र कृन्मात्रग्रहणाद्वा समाधेयम् । अन्यथा ‘एष सम्प्रसादोऽस्माच्छरीरात्’ इति श्रौतप्रयोगः ‘सम्प्रसादादध्युपदेशात्’ इति सूत्रे ‘सम्प्रसीदत्यस्मिन्निति सम्प्रसादो जीवः’ इति परकीय-व्याख्यानं च विरुध्येतेति भावः । ‘विभाषा ग्रहः’ इति सूत्रे ‘भवतेश्च’ इति काशिकायामुक्तत्वाद्वा साधुरित्य-लम् । नन्वत्र परोक्तार्थप्रतिक्षेपेणेष्टसिद्धौ किमर्थान्तरवचनेनेत्यत आह- अत्रेति ।। ननु शब्दस्य वाचकत्वा-भावेऽभिधानाद्यभावो वाच्यः। किमर्थे प्रमाणाभावेनेत्यत आह- सदसद्विलक्षण इति ।। अत्र शक्यस्या-प्रामाणिकत्वेऽप्यलीकासदादिशब्दानां वाचकत्वदर्शनेन  शक्यतावच्छेदकस्य प्रामाणिकत्वमावश्यकम् । सदसद्विलक्षणत्वं च न प्रामाणिकम् । सदसद्विलक्षणशब्दस्य वाक्यत्वान्न दोष इत्यवधेयम् । तद्बलादेवेति ।। मिथ्याशब्दबलादेवेत्यर्थः । अन्यथेति ।। कल्पकशक्तिव्याघातादित्यर्थः ।

वृत्तवर्तिष्यमाणग्रन्थयोः सङ्गतिं दर्शयति- एवमिति ।। अनुमानस्य बाध्यत्वानुमानस्येत्यर्थः । नन्वनुभव-विरोधस्योक्तस्यैव पुनरत्रोक्तेः कथमिदं दूषणान्तरमित्यतस्तदर्थमाह- अनुभूतार्थेति ।। अप्रतीतेर्व्याचश्व्े- अप्रसिद्धेति ।। एकैकमात्रपक्षीकारे विवक्षितासिद्धेराह- सत्त्वासत्त्वे इति ।। अत्र द्वयोरेकत्राभावं निदर्शयितुं द्वयोर्निदर्शनम् । मात्रमिति ।। धर्मिविशेषसम्बन्ध एव साध्यो न धर्म इति भावः । सहानवस्थानलक्षणविरोध-भ्रान्त्याऽशङ्क्य निषेधति- न चेति ।। स्वाभिसन्धिमुद्घाटयति- प्रतिषेध्येति ।। एतेनानुष्णाशीतप्रतिबन्दी निरस्ता । तत्र तृतीयप्रकारस्यानुभवसिद्धत्वेन शीतोष्णयोः परस्परविरहरूपत्वाभावात् । एवमनुभवेत्यादि-वाक्यमप्रसिद्धविशेषणपरतया व्याख्याय व्याघातपरतया व्याचश्व्े- प्रतिज्ञापदेति ।। सत्त्वविरहेऽसत्त्वस्य असत्त्व-विरहे सत्त्वस्य च नियतत्वेनोभयविरहितत्वं व्याहतमेवेत्यर्थः । मूलभावं वदन्नेवावतारयति- एवमिति ।। ‘न च सदसद्विलक्षणं नामास्ति’ इत्याद्युक्तप्रकारेणेत्यर्थः । उपसंहरन्नित्यादिः शत्रन्तः । परिशेषेणेति ।। प्रतीत्याऽसत्त्वस्य प्रमाणाभावेनानिर्वचनीयत्वस्य निरासे परमार्थत्वं स्वयमेव सिद्ध्यतीति भावः । तत्सिद्धमाह- (व्या.टि.) एवमिति ।। परमार्थविषयत्वेनेति ।। प्राचीनग्रन्थोक्तदिशा भेदस्यातत्त्वत्वाभावेन तत्प्रमाणस्या-प्यतत्त्वावेदकत्वस्य निराकृतप्रायत्वादिति भावः । साधनमिति परमप्रकृतम् । अनेन मूलेऽद्वितीयत्वपदं तत्साधनपरमिति सूचयति ।