टीका

अपौरुषेयवाक्यानङ्गीकारे कल्पनागौरवम्

टीका  

एवं सार्वज्ञासिद्धौ तस्याविप्रलम्भकत्वमप्यप्रामाणिकं कल्प्यमेव । सार्वज्ञेऽपि कुतो विप्रलम्भाभावः । रागाद्यभावादिति चेन्न । तद्रहितेष्वपि बुद्धादिष्वीश्वरावतारेषु दर्शनात् । वीत-रागाणामपि ज्ञानाङ्कुरसंरक्षणार्थं छलादिना प्रतिवादिप्रतारणस्य सर्वैरङ्गीकृतत्वाच्च । एवं पटुकरणत्वादिकं कल्प्यमेव ; नतु प्रामाणिकम् । किञ्चास्तु कश्चित्सर्वज्ञोऽविप्रलम्भकश्च । तथाऽपि धर्मादिप्रतिपादकवाक्यविशेषस्य तत्कृतत्वं कुतस्सिद्धम् । नन्वेवम्भूतः स्वीयहिताहितप्राप्ति-परिहारसाधनमविदुषो नानाविधव्यसनसागरनिमग्नान् जन्तूनवलोकयन् नानुपदिश्य स्थातुमर्हतीति चेन्न । एवम्भूतानामपि सिद्धानामुदासीनानामङ्गीकृतत्वात् । उपदिशतु वाऽसौ ; सोऽयमुपदेश इति तु कल्प्यमेव ।

तदेवं कल्पनागौरवप्रसङ्गेन न पौरुषेयेण वाक्येन धर्मादिनिश्चयः शक्यः । नहि लोके विना प्रमाणेन कस्यचित् पुरुषस्याऽऽप्तत्वं प्रकल्प्य तत्प्रणीततां च कस्यचिद्वाक्यस्य कल्पयित्वा प्रेक्षावन्तस्तदर्थनिश्चयं कुर्वन्ति । कुर्वाणा वा किं स्वात्मन्येव तत्सर्वं न कल्पयेयुः । तस्मात् पौरुषेय-वाक्येन धर्माद्यसिद्धेस्तत्प्रतिपादकं किमप्यपौरुषेयं वाक्यमङ्गीकृत्य बुद्धर्षभादयस्तदर्थस्यानुवादका इति तैस्तैर्वादिभिर्धर्मादिनिश्चयमभिलषद्भिरभ्युपेयम् । यथाऽऽहुः- ‘शौद्धोदनिप्रभृतयः सम्प्रदाय-प्रवर्तकाः’ इति ।

भावदीपः

अभ्युपेत्यापि सार्वज्ञमाह- सार्वज्ञेऽपीति ।। दर्शनादिति ।। विप्रलम्भकत्वस्येति योज्यम् । प्रमाणान्तराभावेऽपि लोकन्यायसिद्धमेतदित्यत आह- न हीति ।। तदीयानामेव वाक्यमुक्तार्थे संवादयति- यथाऽऽहुरिति ।।

वाक्यार्थदीपिका

(श्री.टि.)

।। तद्रहितेष्वपीति ।। रागादिदोषरहितेष्वित्यर्थः ।। बुद्धादिष्विति ।। धर्माद्युपदेष्टृतया सर्वज्ञत्वेन त्वदङ्गीकृतेष्वित्यर्थः । रागादिदोषाभावोपपादनायेश्वरावतारेष्वित्युक्तम् । तथा च बाध इति भावः । किञ्च रागाद्यभावस्य न विप्रलम्भकत्वाभावसाधकत्वं व्यभिचारादित्याह- वीतरागाणामपीति ।। छलादिनेति ।। सद्दूषणेन प्रतिवादिनिराकरणेऽयोग्यानामपि ज्ञानप्राप्त्या सज्ज्ञानाङ्कुरसंरक्षणं न स्यादिति भावः । एवम्भूत इति ।। सर्वज्ञोऽविप्रलम्भकश्चेत्यर्थः ।। नानुपदिश्येति ।। धर्मादिकमिति शेषः । तथा च धर्माद्युपदेशरूपस्य वाक्यस्याभावात्तदुपदेशरूपं वाक्यमिदमेवेति धर्माद्युपदेशरूपवाक्यविशेषस्य तत्कृतत्वसिद्धिरित्याशयः ।। एवं भूतानामपीति ।। स्वीयहिताहितप्राप्तिपरिहारमविदुषो नानाविधव्यसनसागरे निमग्नान् जन्तूनवलोकयता-मपीत्यर्थः ।। अङ्गीकृतत्वादिति ।। तद्वदस्यापि बुद्धस्योदासीनत्वोपपत्तेरित्याशयः ।। आप्तत्वमिति ।। सर्वज्ञत्वाविप्रलम्भकत्वरूपमित्यर्थः । बुद्धादयोऽपौरुषेयवाक्यार्थभूतस्य धर्मादेरनुवादका इत्यत्र सम्मतिमाह- शौद्धोदनीति ।। शुद्धोदनस्यापत्यं पुमान् शौद्धोदनिर्बुद्धः, तत्प्रभृतय इत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

एवं ‘अन्यत्राऽदृष्टस्य सर्वज्ञत्वस्य कल्पनम्’ इतीममंशमुपपाद्य तदुपजीवनेन ‘तस्याविप्रलम्भकत्व-कल्पनम्’ इतीममंशमप्युपपादयति- एवमिति ।। प्रत्यक्षाद्यन्यतमप्रमाणाभावेनेत्यर्थः ।। कल्प्यमेवेति ।। तस्योक्तरीत्या सर्वज्ञत्वमात्रसिद्ध्यधीनसिद्धिकत्वेन तदसिद्धौ असिद्धिध्रौव्यादिति भावः । वस्तुस्थितिकथनं (पां.टि.) चैतत् । वस्तुतस्तु सर्वज्ञेऽपि न तत्सिद्धिरप्रयोजकत्वादित्याशयेनाऽह- सार्वज्ञेऽपीति ।। विमतोऽविप्र-लम्भकस्तत्कारणरागादिशून्यत्वादिति सर्वज्ञत्वेन परम्परया तत्सिद्धेरभ्युपगतत्वान्नाप्रयोजकत्वमिति शङ्कते- रागाद्यभावादिति चेदिति ।। व्यभिचारेण दूषयति- तद्रहितेष्वपीति ।। पक्षतुल्यत्वान्न व्यभिचार इत्यरुचेराह- वीतरागाणामपीति ।। पटुकरणत्वादिकमित्यादिपदेन कृपालुत्वैश्वर्यादिपरिग्रहः ।। कल्प्यमेवेति ।। तत्सम्भा-वकत्वेनोक्तसर्वज्ञत्वाविप्रलम्भकत्वयोरसिद्धिव्युत्पादनादिति भावः । ननु सति प्रमाणे कल्पनाया अदोषत्वात् तदभावेऽप्यदोषत्वं किं न स्यादित्यतोऽतिप्रसङ्गान्न तथेत्याशयेनाऽह- न हीति ।।

लघुप्रभा

(व्या.टि.)

असिद्धाविति निमित्तसप्तमी । नान्तरीयकतया तत्सिद्धिं दूषयति- सार्वज्ञेऽपीति ।। रागाद्यभावा-दिति ।।  विप्रलम्भकारणाभावादिति भावः । व्यतिरेकाभावेनाकारणत्वं तस्येत्याह- तद्रहितेष्वपीति ।। ईश्वरेति ।। तस्याऽप्तकामत्वादिति भावः ।। ज्ञानाङ्कुरेति ।। ‘अनाविष्कुर्वन्’ इति सूत्रादिति भावः ।। सर्वै-रिति ।। वैतण्डिकैरित्यर्थः । एवकारव्यावर्त्यमाह- न त्विति ।। एवं कर्तुराप्तिं प्रदूष्य कृतस्य तन्मूलत्वं दूषयति- किञ्चेति ।। मूले तस्येति पदं व्याचश्व्े- धर्मादिप्रतिपादकस्येति ।। आप्तित्रितयस्य विवक्षाऽविनाभावं शङ्कते- नन्वेवम्भूत इति ।। तस्येत्यावृत्त्या पुनर्योजयति- सोऽयमिति ।। परमप्रकृतमुपसंहरति- तदेवमिति ।। गुरुतरकल्पनामात्रेणार्थासिद्धिं निदर्शयति- प्रेक्षावन्त इति ।। अनेन मूढकल्पनां वारयति- स्वात्मन्येवेति ।। कल्पनालाघवादित्यर्थः ।