टीका

विशेषणत्रयमङ्गलयोस्साफल्यविचारः

टीका 

शृङ्गे कर्णे वा गृहीत्वा गामिव न आगमो नारायणं गमयति, किन्तु लक्षणमुखेनैव । लक्षणमपि नाप्रमितं लक्ष्यनिर्धारणस्येष्टे  । सन्ति हि तेऽप्यर्थाः, ये प्रमाणप्रतीता अपि असम्भावनया अपोद्यन्ते । यथा देवगवानामुत्तानानां वहनम् । अत्र च युगपदणुत्वमहत्त्वादीनामसम्भावनया अपवादो मा शङ्कीति लक्षणसम्भावनाप्रमाणानां त्रयाणामपि कथनं युक्तम्, प्रामाणिकत्वा-च्चास्यार्थस्य ।

कृतदेवतावन्दनानामपि या चिकीर्षितापरिसमाप्तिः सा भक्त्यादिवैगुण्यनिमित्ता । या तु अकृतदेवतावन्दनानामपि समाप्तिः सा अदृष्टान्तरायत्तेति कल्प्यते । श्रेयांसि बहुविघ्नानीति विघ्नानां सम्भावितत्वात् पाक्षिकस्यापि दोषस्य परिहार्यत्वात् तन्निरासार्थः प्रयत्नो युक्त एवेति ।

भावबोधः

।। प्रामाणिकत्वाच्चेति ।। न केवलं शिष्टैः समाप्तिमुद्दिश्य मङ्गलस्यानुष्ठितत्वात् । किन्तु यागस्वर्गयोः कार्यकारणभावस्येव मङ्गलसमाप्त्योः कार्यकारणभावरूपार्थस्य श्रुतिसिद्धत्वाच्चेत्यर्थः । स्वर्गयागादिकार्यकारण-भावसमुच्चयार्थमस्य चेति वा सम्बन्धः । ननु मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिकारणत्वे स्वात्मनो विघ्नसद्भावा-निश्चयान्मङ्गलमननुष्ठेयं स्यादित्यत आह- श्रेयांसीति ।। विघ्नसंशयवतोऽपि मङ्गले अधिकारादिति भावः ।

भावदीपः

नन्वनिर्धारितवस्तुनो वन्दनायोगेऽप्यागमेनैव नारायणाख्यवस्तुनो निर्धारणसम्भवात् निर्दोषेति लक्षणोक्तिर्व्यर्थेत्यत आह- शृङ्गे कर्णे वेति ।। द्विवचनान्तं पदद्वयम् ।। लक्षणमुखेनैवेति ।। ‘विज्ञानमानन्दं ब्रह्म’, ‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘यतो वा इमानि भूतानि जायन्ते’, ‘एतद्ब्रह्म’ इत्यादिना पूर्णज्ञानत्व-पूर्णानन्दत्वादिलक्षणमुखेनैवेत्यर्थः । सूत्रकारोऽपि जिज्ञास्यं ब्रह्म किमित्याकाङ्क्षायां ‘जन्माद्यस्य यतः’ इति जगज्जन्महेतुत्वादिलक्षणान्याहेति भावः । तर्हि सदागमैकविज्ञेयमिति प्रमाणोक्तिर्व्यर्थेत्यतो लक्षणज्ञानार्थं तदुक्तिरिति भावेनाऽह- लक्षणमपीति ।। अत एव विज्ञेयं विशिष्टतया ज्ञेयमिति विशेषणीभूतलक्षण-ज्ञानार्थत्वद्योतनाय विशब्दः । अन्यथा ज्ञेयमित्येव ब्रूयादिति भावः । तर्हि समतीतेति सम्भावनोक्तिर्व्यर्था, भावदीपः

प्रमाणावगतेऽर्थेऽसम्भावनाशङ्काऽनुदयादित्यत  आह- सन्ति हीति ।। प्रमाणेति ।। ‘उत्ताना वै देवगवा वहन्ति’, ‘गावो वा एतत्सत्रमासत’, ‘ओषधयस्संवदन्ते’ इत्यादिप्रमाणप्रतीता इत्यर्थः ।। देवगवा-नामिति ।। ‘गोरतद्धितलुकि’ इति गोः तत्पुरुषे टचा समासान्तेनाकारान्तत्वम् । उत्तानानाम् ऊर्ध्वपादा-धश्शरीराणामित्यर्थः ।

ननु पूर्णानन्दत्वपूर्णज्ञानत्वादिधर्माणां मुक्तेष्वपि सम्भवेन कुतोऽत्रासम्भावनेत्यत आह- अत्र च युग-पदणुत्वमहत्त्वादीनामिति ।। तेषामप्यत्राणोरणीयान्महतो महीयानिति लक्षणत्वेनाभिमतत्वादिति भावः । अपवादो मा शङ्कीति ।। अत एव समस्तविलक्षणतया केवलागमविज्ञेयमित्यसम्भावनाशङ्कानिरासकाशेष-वस्तुवैलक्षण्यद्योतनाय च विशब्दोक्तिरिति भावः । तदाह- प्रामाणिकत्वाच्चास्यार्थस्येति ।। सर्ववस्तु-वैलक्षण्यरूपार्थस्य द्वितीयपरिच्छेदे वक्ष्यमाणप्रमाणसिद्धत्वाच्चेति । यद्वा लक्ष्ये सम्भावितमेव लक्षणं वाच्यम् । तच्च प्रमाणप्रमितमेव लक्ष्यावधारकम् । अलौकिके च लक्षणे केवलागम एव प्रमापक इत्यस्यार्थस्य सर्वानु-भवादिरूपप्रमाणसिद्धत्वादित्यर्थः । अथ वा सर्वमेतदभित्तिचित्रायितम् । नारायणवन्दनस्याऽवश्यकत्वे हि तद्विशेषणत्रयमुक्तदिशाऽर्थवत् । तद्धि निर्विघ्नपरिसमाप्तिहेतुतया ह्यावश्यकं वाच्यम् । न च तद्धेतुः । अन्वयतो व्यतिरेकतश्च व्यभिचारादित्याशङ्क्य, फलव्यभिचारोऽन्यप्रयुक्तो, नाहेतुत्वप्रयुक्त इति विवक्षुरन्यप्रयुक्तत्वोक्तौ कल्पकमाह- प्रामाणिकत्वाच्चास्यार्थस्येति ।। विघ्नविघातादिसाधनं नारायणाख्यदेवतावन्दनमित्यस्यार्थ-स्याविगीतशिष्टाचारतदनुमितश्रुत्यादिसिद्धत्वादित्यर्थः । चोऽवधारणे । इति कल्प्यत इति पञ्चम्यन्तस्यान्वयः। कृतदेवतावन्दनानामपीति बहुव्रीहिः । पुंसामिति शेषः । प्रासादप्राकारादिचिकीर्षितापरिसमाप्तिरित्यर्थः । ननु शिष्याणामपि विघ्नानिश्चयात् तदर्थं तेषामपि देवतावन्दनार्थं यत्नो न युक्त इति शिष्यान् ग्राहयितुमपि भगवतो निबन्धनार्थयत्नो व्यर्थ इत्यत आह- श्रेयांसीति ।। पाक्षिकस्यापीति ।। अस्तित्वेन सन्देहकोटिप्रविष्टस्यापी-त्यर्थः ।। प्रयत्नो युक्त एवेति ।। शिष्याणां वन्दनादौ, भगवतः शिष्यान् ग्राहयितुं, भगवतो निबन्धनार्थञ्चेति योज्यम् । इतिशब्द आद्यपद्यव्याख्यासमाप्तौ ।। १ ।।

वाक्यार्थदीपिका

एवमाद्यपद्ये लक्षणप्रमाणसम्भावकानि त्रीण्युक्तानि । त्रयाणामपि कथनस्याऽवश्यकत्वमुपपादयन्नादौ लक्षणकथनस्याऽवश्यकत्वमुपपादयति-शृङ्गे कर्णे वेति ।। अतो लक्षणं वक्तव्यमिति शेषः । प्रमाणकथनस्या-प्यावश्यकत्वमाह- लक्षणमपीति ।। अतः प्रमाणं वक्तव्यमिति शेषः । अन्यथेतरभेदसाधनाय लक्षणस्य हेतूकरणेऽज्ञानासिद्धिस्स्यादिति भावः । ननु सम्भावना किमर्थं वक्तव्या । असम्भावनाशङ्कापरिहारार्थमिति चेन्न । प्रमाणप्रमितानामसम्भावनया निराकरणायोगादित्यत आह- सन्तीति ।। यथा देवगवानामिति ।। अधःकृतपृष्ठभागा ऊर्ध्वपादा उत्ताना इत्युच्यन्ते । इदं च ‘उत्ताना वै देवगवा वहन्ति’ इति प्रमाणप्रमितमिति भावः । ननु देवगवानामिति कथं देवगवामिति वक्तव्यत्वादिति चेत् । उच्यते । ‘गोरतद्धितलुकि’ गोन्तात्तत्पु-रुषाट्टच् स्यादिति सूत्रेण देवगोशब्दाट्टच्प्रत्यये ‘चुटू’ इति टकारलोपे ‘हलन्त्यम्’ इति चकारलोपे देवगो अ (श्री.टि) इति स्थिते ‘एचोऽयवायावः’ इतिसूत्रेणाचि परे ओकारस्य अव् इत्यादेशे देवगवेत्यकारान्तप्रातिपदिकं भवति । पश्चात्स्वाद्युत्पत्तौ देवगवानामिति षष्ठीबहुवचनं युक्तमिति द्रश्व्व्यम् ।। अत्र चेति ।। प्रकृते नारायण इत्यर्थः ।। युगपदणुत्वमहत्त्वादीनामिति ।। ‘अणोरणीयान्महतो महीयान्’ इति प्रमाणप्रमितानां लक्षणानामित्यर्थः । आदिपदेन ‘अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापकः’ इति श्रुतिप्रमिताना-मस्थूलानणुत्वादीनां ग्रहणम् । अपवादो विरुद्धत्वं मा शङ्कीत्यनन्तरमतः सम्भावना वक्तव्येति शेषः । उपसंहरति- इतीति ।। इत्येवमित्यर्थः ।

यदुक्तं निर्विघ्नपरिसमाप्तिरूपफलसद्भावाद् देवतावन्दनरूपं मङ्गलमनुष्ठेयमिति । तदसत् । कादम्बर्यादौ ग्रन्थे देवतावन्दनरूपे मङ्गले सत्यपि समाप्तेरभावेनान्वयतो व्यभिचारात् । प्रमत्तनास्तिकानुष्ठितकर्मणि देवता-वन्दनरूपमङ्गलाभावेऽपि समाप्तेर्जायमानत्वेन व्यतिरेकव्यभिचारात् । अतो मङ्गलसमाप्त्योः कार्यकारण-भावाभावेन तदर्थं मङ्गलाचरणमयुक्तमित्याशङ्क्य, अन्वयव्यभिचारः प्रतिबन्धकसद्भावकल्पको न त्वकारणत्व-कल्पकः । न हि प्रतिबद्धं कारणं कार्यमजनयदकारणं भवत्यतिप्रसङ्गात् । व्यतिरेकव्यभिचारश्चानेक-कारणत्वकल्पक एव । न तु तस्याकारणत्वकल्पक इत्याह- कृतदेवतावन्दनानामपीत्यादिना ।। ननु कुत एवं कल्प्यते । व्यभिचारान्मङ्गलसमाप्त्योः कार्यकारणभाव एव नास्तीति कुतो न कल्प्यते । अन्यथा रासभादेरपि घटकारणत्वमङ्गीकृत्य तत्र प्राप्तान्वयव्यभिचारादेरेवमेव परिहर्तुं शक्यत्वादित्यत उक्तम्- प्रामाणिक-त्वाच्चास्यार्थस्येति ।। चशब्दो दृष्टान्तसमुच्चयार्थः । यागस्वर्गयोः कार्यकारणभाववन्मङ्गलसमाप्त्योः कार्य-कारणभावस्य प्रमाणप्रमितत्वेन रासभादिवैलक्षण्यादन्वयव्यभिचारादिकमुक्तरीत्यैव परिहर्तव्यमिति भावः । नन्वथापि मङ्गलमननुष्ठेयं निरधिकारिकत्वात् । विघ्ननिश्चयवत एव हि मङ्गलेष्वधिकारः । नाशार्थिप्रवृत्तौ नाश्यनिश्चयवत एवाधिकारस्य प्रायश्चित्तस्थले क्लृप्तत्वात् । न ह्यात्मनो विघ्नवत्त्वं केनापि प्रमाणेन निश्चितमित्यत आह- श्रेयांसीति ।। तथा च शङ्कितानिष्टनिवारणार्थमपि परीक्षकाणां सर्पदंशजन्यविषसन्देहेन भेषजपानादौ प्रवृत्तेर्दृष्टत्वेन तद्वदेव श्रेयांसीति वाक्यबलेन विघ्नानां सम्भावितत्वेन यदि विघ्ना न स्युस्तर्हि मङ्गलवैयर्थ्यम्, यदि च स्युस्तर्हि तन्निरासाय मङ्गल कर्तव्यमेवेत्येवं पाक्षिकोऽपि मङ्गलवैयर्थ्यरूपो दोषः परिहर्तव्य एव । अतः शङ्कितविघ्ननिरासार्थं मङ्गलाचरणरूपः प्रयत्नो युक्त इत्यर्थः । तथा च विघ्नज्ञानवानेव मङ्गलेऽधिकारी, ज्ञानं निश्चयः शङ्का चेति निरधिकारिकत्वहेतोरसिद्धिरिति भावः ।

विषमपदवाक्यार्थविवृतिः

ननु आगमेनैव नारायणस्वरूपावधारणसम्भवात्, तदर्थतया लक्षणस्यानपेक्षितत्वेन तदभिधाना-नर्थक्यात्, आगमस्य लक्षणमुखेनैव नारायणबोधकत्वेन साक्षात्तदबोधकत्वात् तत्स्वरूपावधारणाय लक्षणस्य अपेक्षितत्वेन तदभिधानावश्यकत्वाभिप्राये च, तल्लक्षणेनैव नारायणस्वरूपावधारणात् तदर्थतया प्रमाणस्यानपेक्षितत्वेन तदभिधानानर्थक्यात्, नारायणनिष्ठतया प्रमितस्यैव लक्षणस्य तत्स्वरूपावधारकत्वेन तन्निष्ठतया अप्रमितस्य तल्लक्षणस्य तदनवधारकत्वात्, तन्निष्ठत्वप्रमितेश्च प्रमाणसापेक्षतया प्रमाणाभिधानस्यापि (पां.टि) अर्थवत्त्वाभिप्रायेऽपि, प्रमाणेन नारायणनिष्ठतया प्रमिततल्लक्षणेनैव तत्स्वरूपावधारणसम्भवेन तदर्थ-कतया सम्भावनाया अनपेक्षितत्वेन तदभिधानानर्थक्यात्, नारायणस्वरूपावधारणस्य त्रितयाधीनत्वाभावात् तदभिधानानर्थक्यम् इत्येताः शङ्काः तत्स्वरूपावधारणे लक्षणादित्रितयस्यापि उपयोगप्रदर्शनेन क्रमेण परिहरन् तदभिधानानर्थक्यं परिहरति- शृङ्गे कर्णे वेत्यादिना ।। अत्र लक्षणमुखेनेत्यन्तेनाऽद्यशङ्कापरिहारः । लक्षण-मपि नाप्रमितं लक्ष्यनिर्धारणस्य ईश्व् इत्यनेन द्वितीयशङ्कापरिहारः । सन्ति च ते इत्यादिना तृतीयशङ्कापरिहारः । देवगवानामिति ।। देवानां गावो देवगवाः तेषां देवगवानाम् इति ‘गोरतद्धितलुकि’ इति समासान्तटच्-प्रत्ययान्तोऽयं देवगवशब्द इति बोध्यम् । अत्र लक्ष्यभूते नारायणे, तथेति शेषः । लोके कालभेदेन विरुद्ध-परिमाणद्वयस्य देहादौ दर्शनाद् अणुत्वमहत्त्वादीनामपि कालभेदेन एकत्र सम्भवात् क्वासम्भावनेत्यत उक्तम्- युगपदिति ।।

यत्तु,  ननु एतावता लक्ष्यावधारणाय लक्षणसम्भावनाप्रमाणानि त्रीण्यपि कथनीयानीति पर्यवसितम् । तन्न । लक्षणकथनं विनाऽपि शृङ्गे कर्णे वा गृहीत्वा गोप्रदर्शनेऽपि तद्रूपलक्ष्यावधारणदर्शनात् । सकललक्ष्याव-धारणस्यापि लक्षणकथनमात्रेणापि सिद्धेश्च । लक्ष्यनिष्ठतया प्रमाणसिद्धस्यैव लक्षणस्य सकललक्ष्यावधारण-हेतुत्वेन प्रमाणकथनस्य उपयोगेऽपि सम्भावनाकथनस्य उपयोगादर्शनाच्च इत्याशङ्क्य योग्यस्य तस्य तत्त्रितयकथनं विना कथञ्चिदवधारणसम्भवेऽपि अयोग्यस्य तस्य तत्त्रितयं विना स्वरूपावधारणानुपपत्तेः । तस्य त्रितयसापेक्ष-त्वाद् युक्तं त्रितयाभिधानम् इत्यर्थकतयैतद्ग्रन्थवर्णनम् । तदसत् । तथा सति ‘नागमो नारायणं साक्षाद् बोधयति किन्तु लक्षणमुखेन’ इत्यादिग्रन्थविरोधप्रसङ्गात् । तद्ग्रन्थानुरोधेन, आगमादेव नारायणस्वरूपाव-धारणसिद्धेः तदर्थतया लक्षणस्य अनपेक्षितत्वात् तदभिधानानर्थक्यम् । लक्षणमुखेनैव तस्य बोधकतया लक्षणस्य तत्स्वरूपावधारकत्वात् तदभिधानस्य अर्थवत्त्वेऽपि लक्षणेनैव नारायणस्वरूपावधारणसिद्धेस्तदर्थतया प्रमाणस्यानपेक्षितत्वात् तदभिधानानर्थक्यम् । नारायणनिष्ठतया प्रमितस्यैव तल्लक्षणस्य तत्स्वरूपावधारकत्वेन तदर्थतया प्रमाणस्याप्यपेक्षितत्वात् तस्य आवश्यकत्वाभिप्रायेऽपि लक्षणप्रमाणाभ्यामेव नारायणस्वरूपाव-धारणसिद्धेः । तत्र अनुपयोगात् सम्भावनायाः, तदभिधानानर्थक्यमिति नारायणस्वरूपावधारणाय तल्लक्षण-प्रमाणसम्भावनाभिधानानर्थक्यशङ्काया एव एतद्वाक्यव्यावर्त्यतया उत्थापनीयत्वसिद्ध्या, तामनुत्थाप्य लक्षण-कथनं विनाऽपि शृङ्गे कर्णे वा गृहीत्वा गोप्रदर्शनेनापि तद्रूपलक्ष्यावधारणदर्शनात् सकललक्ष्यावधारणस्यापि लक्षणकथनमात्रेण सिद्धेः, लक्ष्यनिष्ठतया प्रमाणसिद्धस्यैव लक्षणस्य सकललक्ष्यावधारणहेतुत्वेन प्रमाणकथनस्य उपयोगेऽपि सम्भावनाकथनस्य उपयोगादर्शनात् । गवादिलक्ष्यस्वरूपावधारणस्य लक्षणप्रमाणसम्भावनाऽ-नपेक्षत्वेन गवादिलक्ष्यावधारणाय त्रयाणां वक्तव्यत्वासम्भवात् लक्षणाद्यभिधानानर्थक्यमिति त्वया एतद्ग्रन्थ-व्यावर्त्यतयोत्थापितशङ्काया उदाहृतग्रन्थाननुगुणत्वात् । नारायणलक्षणादेः ग्रन्थकृतोक्तस्य तत्स्वरूपाव-धारकत्वस्य अस्मदुक्तरीत्या आक्षेपेणैव तदभिधानानर्थक्यशङ्काया उत्थापयितुं शक्यत्वात् । तन्निवर्तकतया (पां.टि)एतद्ग्रन्थावतारस्य श्लिश्व्त्वेन, तथाऽनवतार्य नारायणस्वरूपावधारणस्य लक्षणादित्रितयाभिधाना-पेक्षत्वोक्त्या पर्यवसितत्वेन त्वदुपवर्णितस्य लक्ष्यावधारणे लक्षणादित्रितयापेक्षितत्वस्य आक्षेपेण तदभि-धानानर्थक्यशङ्काया अश्लिष्टत्वेन तन्निवर्तकतया एतद्ग्रन्थावतारस्य अत्यन्तायुक्तत्वाच्च । ‘नानिर्धारितस्वरूपस्य वन्दनं युक्तम् । न च लक्षणेन विना निर्धारणमतो नारायणस्य लक्षणान्याह’ इति ग्रन्थपर्यालोचनया इह टीकायां नम्यनारायणस्वरूपावधारणस्य लक्षणाद्यभिधानापेक्षत्वोक्त्या नम्यान्तरस्वरूपावधारणस्य लक्षणा-द्यभिधानापेक्षितत्वस्य पर्यवसानगत्या लाभसम्भवेऽपि, इह टीकायां लक्ष्यनारायणस्वरूपावधारणाय लक्षणाद्यभि-धानापेक्षितत्वानुक्त्या लक्ष्यस्वरूपमात्रावधारणस्य लक्षणाद्यभिधानापेक्षतायाः पर्यवसानगत्याऽप्यलाभेन तदाक्षेपेण तदभिधानानर्थक्यशङ्काया असम्भवदुक्तिकत्वाच्च ।

ननु कृतदेवतानतीनामपि चिकीर्षितकर्मसमाप्त्यदर्शनाद् अकृतदेवतानतीनामपि तत्समाप्तिदर्शनाद् अन्वयव्यतिरेकाभ्यां व्यभिचारेण मङ्गलस्य समाप्त्यहेतुत्वाद् विघ्नविघातादिसाधनतयेत्यादिनोक्तं मङ्गलस्या-विघ्नसमाप्तिसाधनत्वमयुक्तमित्यतः, तथा सति कृतेऽपि कारीर्यादौ वृष्ट्यदर्शनाद् अकृतेऽपि तस्मिन् तद्दर्शनाद् अन्वयव्यतिरेकाभ्यां व्यभिचारेण तस्यापि वृष्ट्यादिहेतुत्वं न स्यात् । अथ करीर्यादौ वृष्ट्यादिहेतुत्वस्य ‘वृष्टिकामः करीर्या यजेत’ इत्यादिश्रुतिसिद्धत्वेन निष्प्रमाणकत्वाभावात्, श्रुतिसिद्धे च कार्यकारणभावे, सत्यपि कारणे कार्याभावस्य कर्तृकरणादिवैगुण्यकल्पकत्वेन तत्कल्पनया, असत्यपि कारणे कार्यभावस्य अनेककारणकत्व-कल्पकत्वेन कारणान्तरकल्पनयोपपन्नत्वेन अन्वयव्यतिरेकव्यभिचारयोरप्रसरात् न करीर्यादेः वृष्ट्यादौ ओतुत्वप्रसङ्ग इति चेन्न । एवं तर्हि नमस्कारस्य निर्विघ्नपरिसमाप्तिसाधनत्वस्यापि ‘निर्विघ्नपरिसमाप्तिकामो नमस्कारमाचरेत्’ इति श्रुतिसिद्धत्वेन अप्रामाणिकत्वाभावात्, श्रुतिसिद्धे च कार्यकारणभावे सत्यपि कारणे कार्याभावस्य कर्तृकरणादिवैगुण्यकल्पकत्वेन अङ्गवैगुण्यकल्पनया कादम्बर्यादौ सत्यपि तस्मिन् तदभावस्य च, अनेककारणकत्वकल्पकत्वेन मत्तादौ कारणान्तरकल्पनया उपपन्नत्वेन प्रकृतेऽपि अन्वयव्यतिरेकव्यभि-चारयोरप्रसङ्गान्न मङ्गलस्य समाप्त्यहेतुत्वप्रसङ्ग इत्याशयेनाऽह- प्रामाणिकत्वाच्चास्यार्थस्येत्यादिना ।। अस्यार्थस्य च अस्यार्थस्यापि मङ्गलस्य निर्विघ्नपरिसमाप्त्यादिहेतुत्वस्यापि प्रामाणिकत्वाद् अविगीतशिष्टा-चारानुमितश्रुतिसिद्धत्वादिति योजना । वैगुण्यनिमित्तेत्यस्य कल्प्यत इति वक्ष्यमाणेन सम्बन्धः ।

यत्तु प्रमाणस्य स्वप्रवृत्तिविषय एव सम्भावनारूपाङ्गसापेक्षत्वेन अणुत्वमहत्त्वादेश्च प्रमाणप्रवृत्तिविषयत्वा-भावेन कथं तत्र सम्भावनारूपाङ्गापेक्षेत्याशङ्कापरिहारकतया प्रामाणिकत्वाच्चास्यार्थस्य इति वाक्यमवतार्य अणुत्व-महत्त्वादिरूपस्यार्थस्य  ‘अणोरणीयान्महतो महीयान्’  इत्याद्यागमसिद्धत्वादिति तदर्थवर्णनम् । तदसत् । प्रमाणस्य सम्भावनारूपाङ्गापेक्षाप्रयोजकस्य प्रमाणप्रवृत्तिविषयत्वस्याणुत्त्वादीनाम् आगमविज्ञेयमित्यनेन मूल-कृतैवोक्तत्वेन तत एव तत्सिद्ध्या प्रमाणविषयत्वाभावप्रयुक्तसम्भावनारूपाङ्गापेक्षानुपपत्तिशङ्काया अति-निर्दलत्वात् । मूलकारीयसम्भावनोक्तिप्रयोजकप्रमाणप्रवृत्तिविषयतायास्तदीयलक्षणे प्रमाणप्रवृत्तिविषयत्वो-(पां.टि) क्त्यभावस्थल एव टीकाकारीयलक्षणादिप्रामाणि-कत्वोक्तेरर्थवत्त्वेन सत्यां तस्यां तदुक्तेरनर्थकतया सम्भावनारूपाङ्गापेक्षाप्रयोजकप्रमाणप्रवृत्तिविषयत्वोपदर्शकतया योजयितुमशक्यत्वाच्च । सम्भावनोप-पादकपूर्वग्रन्थशेषत्वाभिप्राये अस्य वाक्यस्य, ‘इति लक्षणसम्भावनाप्रमाणानां त्रयाणामपि कथनं युक्तम्’ इत्यतः पूर्वमेव सन्निवेशनीयत्वेन तदनन्तरस्य टीकाकारीयतत्सन्निवेशस्याश्लिश्व्त्वापाताच्च । त्वदुक्तयोजनायां कृताणुत्वमहत्त्वाद्यन्वयेनैव नैराकाङ्क्ष्यसिद्ध्या प्रामाणिकत्वादित्येव वक्तव्यत्वेन अस्यार्थस्येत्यस्य चशब्दस्य च वैय्यर्थ्यापाताच्च । कल्पकाभावप्रयुक्तकल्पनाऽनुपपत्तिशङ्कायाः कल्पकोक्तिमात्रनिवर्त्यत्वेन पूर्वग्रन्थशेषतायां कल्पकाभावप्रयुक्तकल्पनानुपपत्तिशङ्काया अपरिहारेण ‘मङ्गलाचरणस्याविघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्टाचारानुमितश्रुतिसिद्धत्वात्’ इति सुधानुसारेण च प्रामाणिकत्वाच्च अस्यार्थस्य इत्यस्य उक्त-ग्रन्थशेषतया एव निश्चितत्वेन पूर्वग्रन्थशेषताया असम्भवदुक्तिकत्वाच्च ।

यच्च धर्मिग्राहकमानसिद्धत्वाच्च न विरोध इति भाववर्णनम् । तदप्यसत् । विरुद्धत्वप्रयुक्तासम्भवशङ्कायाः सम्भवोक्तिमात्रनिवर्त्यतया धर्मिग्राहकमानसिद्धत्वोक्त्यनिवर्त्यत्वात् । अन्यथा अनेनैव असम्भवशङ्कानिवृत्ति-सिद्धेः सम्भावनोक्तिवैय्यर्थ्यानिस्तारात् ।

ननु विघ्नविध्वंसविशिष्टसमाप्तेर्न मङ्गलफलत्वं युक्तम् । तथा सति समाप्तिविशेषणतया विघ्नाभावस्य मङ्गल-प्रवृत्त्युद्देश्यताऽऽपत्त्या नाशार्थिप्रवृत्तौ नाश्यनिश्चयवतोऽधिकारस्य प्रायश्चित्तादिस्थले क्लृप्ततया प्रकृते च आत्मनो विघ्ननिश्चायकप्रमाणाभावेन विघ्ननिश्चयाभावेन अधिकाराभावात् निरधिकारित्वान्मङ्गल न वेदबोधिताभीष्टो-पायताकम् इति प्रतिपक्षशङ्काकलङ्कितत्वेन मङ्गलस्य अविगीतशिश्वचारविषयत्वेन वेदबोधिताभीष्टोपाय-ताकत्वानुमानस्य आभासत्वेन मङ्गलसमाप्त्योः कार्यकारणभावस्य तेनासिद्ध्या तत्सिद्ध्युपजीवनेन अङ्ग-वैगुण्यादिकल्पनानुपपत्त्या न तत्कल्पनया उक्तव्यभिचारपरिहारः सम्भवतीत्यतः, पापनिश्चयवतामेव शिष्टानां प्रायश्चित्तानुष्ठानदर्शनेन तदाचारानुमितिविधिना पापनिश्चयवतोऽधिकारबोधनात् तन्निश्चयवत एव प्रायश्चित्तादौ अधिकारेऽपि, प्रकृते विघ्नसन्देहे तन्निश्चये वा शिष्टानां मङ्गलानुष्ठानेन तदाचारानुमितिविधिना विघ्नज्ञानवतोऽ-धिकारबोधनाद् आत्मनो विघ्नवत्त्वप्रमाणाभावेन तन्निश्चयाभावेऽपि तत्सन्देहस्य विद्यमानत्वात् सन्देहस्यापि ज्ञानत्वाद् विघ्नज्ञानरूपाधिकारसद्भावेन निरधिकारिकत्वहेतोरसिद्धत्वेन तेन मङ्गलस्य वेदबोधिताभीष्टोपाय-ताकत्वाभावानुमानासम्भवेन अप्रतिपक्षतया मङ्गलस्य अविगीतशिष्टाचारविषयत्वेन वेदबोधिताभीष्टोपाय-ताकत्वानुमानस्याप्रत्यूहतया मङ्गलसमाप्त्योः कार्यकारणभावस्य श्रुतिसिद्धत्वप्राप्त्या तदुपजीवनेन अङ्ग-वैगुण्यादिकल्पनोपपत्त्या, युक्त एव तया व्यभिचारद्वयपरिहार इत्याशयेनाऽह- श्रेयांसीति ।।

यत्तु, ननु सर्वत्र विघ्ननिश्चयासम्भवात् नाश्यसन्देहे कथं तन्नाशोपाये प्रवृत्तिः । न हि पापसन्देहवान् तन्नाशोपाये प्रायश्चित्ते प्रवर्तत इत्याशङ्कानिवर्तकतया श्रेयांसीति वाक्यमवतार्य, उपायत्वसन्देहस्यैव प्रवृत्तिप्रतिबन्धकतया फलसन्देहतया पर्यवसन्नविघ्नसन्देहस्य तदप्रतिबन्धकत्वात् नानुपपत्तिरिति तदभिप्रायवर्णनम् । तदसत् । नाश्य-(पां.टि) सन्देहात् कथं नाशोपाये प्रवृत्तिरिति शङ्काया एतद्ग्रन्थावतारिकात्वेन उत्थापनं किं तस्याः सम्भा-वितत्वमात्रेण, किं वा तत्त्वे सति प्रकृतोपयुक्तत्वेन, किं वा अन्यथाशङ्काया असम्भावितत्वेन सम्भावितत्वे वा तस्याः प्रकृतानुपयुक्तत्वेन, सत्यपि प्रकृतोपयुक्तत्वे उत्तरग्रन्थानिवर्त्यत्वेन वा । नाऽद्यः । सम्भावितत्वस्य उत्थापनीयत्वमात्रप्रयोजकस्य ग्रन्थस्योपरि तदुत्थापनपूर्वकनिरासेनापि उपपन्नत्वेन अवतारिकात्वेन तच्छङ्काया उत्थापनीयत्वाप्रयोजकत्वात् । न द्वितीयः । उक्तशङ्कायाः पूर्वग्रन्थोक्तमङ्गलसमाप्तिकार्यकारणभावप्रामा-णिकत्वाद्यनुपमर्दकत्वेन तदयोगात् । न तृतीयः । मङ्गल न वेदबोधिताभीष्टोपायताकं निरधिकारिकत्वाद् इति प्रतिपक्षशङ्काया अपि सम्भावितत्वेन तदयोगात् । नापि चतुर्थः । प्रतिपक्षशङ्कायाः पूर्वग्रन्थोक्तमङ्गलसमाप्त्योः कार्यकारणभावप्रामाणिकत्वोपमर्दकतया व्यभिचारपरिहाराक्षेपपर्यन्तत्वेन तदयोगात् । नापि पञ्चमः । विघ्नसन्देहवच्छिश्वनुष्ठानकल्प्यविधिना विघ्नज्ञानवतोऽधिकारित्वसिद्ध्या निश्चायकप्रमाणाभावेन विघ्न-निश्चयाभावेऽपि तत्सन्देहस्य सत्त्वेन विघ्नज्ञानरूपाधिकारसद्भावप्रतिपादकोत्तरग्रन्थेन निरधिकारिकत्व-रूपप्रतिपक्षहेतोरसिद्धिसूचनेन तन्निवर्त्यतायाः स्पष्टत्वात् । परग्रन्थानुवादरूपैतद्ग्रन्थस्य तद्ग्रन्थीयाभियुक्त-योजनानुसारेणैव योजनीयत्वात् । अभियुक्तैश्च प्रतिपक्षशङ्कादिपरतयैव तस्य योजितत्वेन तदनुवादरूपस्य ग्रन्थस्य तथैव योजनासम्भवे तत्परित्यागेन अन्यथायोजनस्य निर्निबन्धनत्वाच्च ।

लघुप्रभा

वन्द्यनारायणस्वरूपावधारणाय लक्षणप्रमाणसम्भावनानामुक्तेरुपयोगो नास्ति । लक्षण-प्रमाणयोरन्यतरेण परस्परनिरपेक्षेण निर्धारणसम्भवेन उभयवैय्यर्थ्यात् । सम्भावकस्य तु अनुपयोगेन सर्वथा वैय्यर्थ्यमिति शङ्कायामुपयोगं वक्ति- शृङ्गे कर्णे वेति ।।  केशेषु गृहीत्वा इत्यादाविव अवच्छिन्नत्वार्थका सप्तमी । शृङ्गाद्यवच्छिन्नं गोकर्मकं ग्रहणमित्यर्थः । द्वितीयाद्विवचनान्तमिति केचित् । लक्षणानपेक्षस्यागमस्य निर्धारकत्वशङ्काया अयं निरासः । प्रत्यक्षयोग्यलक्ष्यव्यक्तिं शृङ्गे गृहीत्वा लक्ष्यमनिर्दिश्य सामान्यशब्देन निर्दिश्य वा सर्वविलक्षणेत्युक्तौ लक्ष्यव्यक्तिविशेष्यकसर्ववैलक्षण्यप्रकारकबोधेऽपि, प्रत्यक्षायोग्यनारायणव्यक्तौ शृङ्ग-ग्राहिकाऽसम्भवेन, अनिर्देशे सामान्यनिर्देशे वा तन्मात्रविशेष्यकेतरव्यावृत्तिबोधासम्भवेन, लक्ष्यासाधारण-धर्मप्रवृत्तिनिमित्तकशब्देन निर्देशे लक्षणोपजीवित्वं व्यावृत्तिबोधकागमस्यायातम्  । प्रमाणानपेक्षेण लक्षणेन निर्धारणं निरस्यति- लक्षणमपीति ।। लक्ष्यनिष्ठतयाऽप्रमितलक्षणस्य लक्ष्यविशेष्यकेतरव्यावृत्तिप्रमाऽनुमिति-जनकत्वायोगात् प्रमाणमपेक्षते । प्रमाणं च प्रकृते सदागम एवेति भावः । सम्भावकस्योपयोगं दर्शयति- सन्ति चेति ।। प्रमाणप्रमिता अप्यसम्भावनयाऽपोद्यन्त इति ।। प्रतीता अपीति क्वचित्पाठः । वस्तुतः प्रमाणकरण-कनिर्णयविषया अपि सम्भाव्यायोग्यताव्याप्यतया भ्रान्तिविषयसाधारणधर्मप्रयुक्ताऽयोग्यताज्ञानरूपदोषेण वस्तुसत्ताऽनवगाहिनिश्चयविषयाः सन्दिग्धप्रामाण्यकनिश्चयविषया वा भवन्तीत्यर्थः । यथा पित्तदोषज्ञानवता ज्ञायमानं चिरबिल्वेऽपि पीतिमादिकम् । अतः प्रमाणप्रमिता इत्यस्य, अपोद्यन्त इत्यनेन न व्याघातः । अधिकं तु गुरुप्रभायाम्  ।।  देवगवानामिति  ।।  ‘गोरतद्धित’ इति टजन्तं पुंलिङ्गम् ।  अत्र चेति ।। भगवल्लक्षण (व्या.टि.) इत्यर्थः । कालभेदेऽसम्भावनाऽभावात् युगपदिति ।। अपवाद इति ।। सत्ताऽवधारणविषयत्वं प्रामाण्यसन्देहाहितसन्देहविषयत्वं वेत्यर्थः । मा शङ्कीति चिण्णन्तम् । ननु प्रमितस्यार्थस्यासम्भावनयाऽ-पवादेऽपि प्रमाणाभावेन कथमणुत्वादावसम्भावनाशङ्का,  तन्निरासाय यत्नश्चेत्यत आह- प्रामाणिकत्वा-दिति ।। उत्तानवहनस्येव अणुत्वादेरपि ‘अणोरणीयान्’ इत्यादिश्रुतिसिद्धत्वादित्यर्थः । अथ वा सम्भावक-मप्यप्रमितं कथमसम्भावनां पराचक्षीत इत्यत आह- प्रामाणिकत्वाच्चेति ।। द्वितीयपरिच्छेदोक्तप्रमाण-सिद्धत्वादित्यर्थः । वस्तुतस्तु अन्वयतो व्यतिरेकतश्च व्यभिचारात् समाप्तिवन्दनयोरकार्यकारणभावे शङ्किते, वृष्टिकारीर्याद्ये प्रत्यक्षश्रुत्येव वन्दनसमाप्त्योरपि शिष्टाचारानुमितश्रुत्या कार्यकारणभावस्य निश्चितत्वात्तत्रेव अत्रापि व्यभिचारस्यान्यथासिद्धिकल्पनं युज्यत इत्याशयेनाऽह-प्रामाणिकत्वादिति ।। अस्यार्थस्य च, मङ्गल-समाप्तिकार्यकारणभावस्यापीत्यर्थः । पञ्चम्याः कल्प्यत इति वक्ष्यमाणेनान्वयः । अन्वयव्यभिचारं परिहरति- कृतदेवतावन्दनानामपीति ।। वैगुण्येति ।। साङ्गस्यैव फलावश्यम्भावनियमादिति भावः । व्यतिरेकेऽपि तं निराह-या त्वकृतेति ।। अदृष्टान्तरायत्तेति ।। न हि बहुसाधनसाध्ये कार्ये केनचित् सिद्धे तदहेतुरहेतुर्भवति । ‘उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः’ इत्युक्तेरिति भावः ।

ननु  पापे  निश्चित  एव  प्रायश्चित्तानुष्ठानदर्शनादनिश्चिते  विघ्ने  कथं  तन्नाशार्थे मङ्गले  प्रवृत्तिरित्यत  आह- श्रेयांसीति ।। बहवो विघ्ना येष्विति सप्तम्यर्थे बहुव्रीहिः ।। सम्भावितत्वादिति ।। अनेन, सर्पिषोऽपि स्यादिति-वत् ‘महतामपि’१ इत्यपिशब्दः पदार्थसम्भावनायामिति सूचयति । पाक्षिकस्यापीति ।। पक्षे भवः पाक्षिकः । भवार्थे ठक् बोध्यः । अभिमतपुत्राद्युत्पत्तिप्रतिबन्धकदुरिताशङ्कया तन्निरासकजपाद्यनुष्ठानदर्शनेन, अत्रापि समाप्ति-प्रतिबन्धकविघ्नसन्देहेऽपि तन्निरसनप्रयत्नोपपत्तेः । इदं तु सन्देहेन मङ्गलानुष्ठानसाधनं लोके । प्रकृते तु भगवत्पा-दाचार्यस्य विघ्नाभावनिश्चयेन भगवत्प्रीत्यतिशयोद्देशेनैवानुष्ठानम् । निबन्धनं तु शिष्यानुजिघृक्षया । स्वयमाचर-णाभावे शिष्याणां तत्कर्तव्यताज्ञानानुदयेन अनुष्ठानाभावं शिष्याणां विघ्नैः समाप्तिः प्रतिबध्येत ।

केचित्तु ‘प्रत्यवायनिश्चयवतां प्रायश्चित्ते इव विघ्ननिश्चयवतामेव तन्निरासके मङ्गलेऽधिकारस्य वाच्यतया, तन्निश्चयस्य चाभावेन निरधिकारिकत्वान्मङ्गलस्य वेदबोधितेश्वेपायताकत्वमयुक्तमिति प्रतिपक्षशङ्काकलङ्कितत्वेन शिश्वचारविषयत्वासिद्ध्या, तत्सिद्ध्युपजीवनेन अङ्गवैगुण्यादिकल्पनानुपपत्त्या, उक्तव्यभिचारपरिहारोऽयुक्त इत्यतः, संशयसाधारणज्ञानवद्भिरेव मङ्गलानुष्ठानेन आचारानुमितश्रुत्या विघ्नज्ञानसामान्यवतामेवाधिकारः कल्प्यत इति नोक्तदोष इत्याशयेनाऽह- श्रेयांसीति ।।’ इत्यवतारयन्ति ।