अतश्चान्योन्याश्रयता

अज्ञानस्य जीवाश्रितत्वाङ्गीकारपक्षस्य निरासः

मूलम्

- अतश्चान्योन्याश्रयता । अज्ञानसिद्धौ मिथ्योपाधिसिद्धिः मिथ्योपाधिसिद्धौ जीवसिद्धिः जीवसिद्धौ तदाश्रयाज्ञानसिद्धिरिति चक्रकं वा    न च शुद्धमेव भ्रान्त्याऽज्ञमिति युक्तम् । अज्ञानसिद्धौ भ्रमसिद्धिः तत्सिद्धौ अज्ञानसिद्धिरिति अन्योन्याश्रयत्वात् ।।

तत्त्वमञ्जरी

अतश्चान्योन्याश्रयता  । अयमर्थः । एवमज्ञानस्य मिथ्यात्वाङ्गीकार एव अन्योन्या-श्रयता । न तु सत्यत्वाङ्गीकारे । अत्र तु सर्वशक्तेरीश्वरस्येच्छया ज्ञानादेवाज्ञानस्य विनाशोपपत्तेः।

मिथ्योपाधिसिद्धौ चैतन्यस्य तदुपहितत्वेन जीवसिद्धिः । ननु शुद्धस्यैव ब्रह्मणो भ्रान्तिकल्पितं ह्यज्ञानमभ्युपगच्छामो न तात्त्विकम् । न च भ्रान्तिकल्पिते चक्रकादिदोषावकाशः । न हि भ्रान्तेर्लक्षणमस्तीत्यत आह- न च शुद्धमिति ।। अज्ञानसिद्धौ भ्रमसिद्धिः । न हि शुक्त्यज्ञानं विना रजतभ्रमः । भ्रमसिद्धौ भ्रान्तिकल्पितमज्ञानं सिद्ध्यति । एतत्पक्षे सर्वनिर्वाहकस्य भ्रमस्यैवासम्भवः ।

टीका 

अस्तु मिथ्योपाधिभिन्नस्य जीवस्यैव अज्ञानम् । ततः किमित्यत आह- अतश्चेति ।। यत एवमज्ञानसिद्धौ तत्कल्पिततया मिथ्योपाधिसिद्धिः, तत्सिद्धौ च तदवच्छिन्नजीवाश्रयतयाऽज्ञान-सिद्धिः । अतो मिथ्योपाध्यज्ञानयोरितरेतरापेक्षत्वान्नैकस्यापि सिद्धिः स्यादिति । शिष्यव्युत्पादनाय चक्रं च एतद्वक्तुं शक्यमित्याह- अज्ञानेति ।।

ननु बीजाङ्कुरादाविव अत्र परिहारः किं न स्यात् । उच्यते । युक्तं बीजाङ्कुरव्यक्तीनां भिन्नत्वात् समाधानम् । जीवादेस्तु एकैकत्वाद् अपरिहार्यमेव अन्योन्याश्रयत्वादिकम् । ननु अज्ञानादेः उत्पत्त्यभावात् कथमन्योन्याश्रयादीति चेन्न । तथापि निमित्तनिमित्तिभावस्य विद्यमानत्वात् । अन्यथाऽरोप्यत्वाद्यभावप्रसङ्गेन तस्योपपादितत्वात् ।

ननु अज्ञानमेव जीवभेदहेतुरुपाधिरङ्गीक्रियते न त्वहङ्कारादिकम् । तदभावेऽपि सुषुप्त्यादौ भेदसद्भावात् । न हि उपाधिनिवृत्तौ औपाधिकमवतिष्ठते । सुषुप्त्यादौ च भेदनिवृत्तौ मुक्तस्येव पुनर्निर्मूलसंसारप्रत्यावृत्त्यनुपपत्तिः । तत्कथमन्योन्याश्रयादीति । उच्यते । अज्ञानस्य उपाधित्वेऽ-प्यारोपितत्वेन अज्ञानापेक्षायामनवस्थाऽन्योन्याश्रयचक्रकात्माश्रयान्यतमस्यापरिहार्यत्वमेव । एतच्चोक्तवक्ष्यमाणरीत्या सुज्ञानमिति नोक्तम् ।

अत्राह ब्रह्माज्ञानवादी- न जीवस्याज्ञानं, तेन नान्योन्याश्रयादिप्रसङ्गः, किन्तु ब्रह्मण एव । न चोक्तदोषः । यदि हि अज्ञानं ब्रह्मस्वरूपमात्रनिबन्धनं स्यात्तदा भवेदुक्तो दोषः । न चैवम् । यतः शुद्धमेव ब्रह्म भ्रान्त्याऽज्ञमिति ब्रूम इत्यत आह- न चेति ।। कुतो न युक्तमित्यत आह- अज्ञा-नेति ।। अज्ञानस्यैव अधिष्ठानावरणविक्षेपहेतुत्वात् । तत्सिद्धौ चेति परेणैव अङ्गीकृतत्वात् । तदेवं सत्योपाधिपक्ष इव न मिथ्योपाधिपक्षेऽपि बद्धमुक्तादिव्यवस्था सिद्ध्यतीति सिद्धम् ।।

भावबोधः

(र.टि.)

अज्ञानस्यैवेति ।। अधिष्ठानगतासाधारणाकाराऽवरणे सत्यतदाकारप्रतिभासस्य भ्रमत्वादिति भावः।

भावदीपः

जीवादेरिति ।। जीवाज्ञानाहङ्काराणामित्यर्थः । उपपादितत्वादिति ।। अज्ञानसिद्धावित्यादि-पूर्ववाक्यव्याख्याऽवसर इति भावः । न त्वहङ्कारादिकमिति ।। आदिपदेन मनोबुद्ध्योर्ग्रहः । सुषुप्त्यादौ सुप्तिमोहयोः । नन्वहङ्कारादेरुपाधित्वेऽपि जीवपरभेदस्य तन्निमित्तकस्योपाधिभूताहङ्कारादिविलयेऽपि सुषुप्त्यादौ तदुपाधिको भेदोऽवतिष्ठतामित्यत आह- न हीति ।। स्फटिकलौहित्यादावुपाधिनिवृत्त्या लौहित्यनिवृत्तिदर्शनादिति भावः । अस्तु भेदस्यापि निवृत्तिः, को दोष इत्यत आह- सुषुप्त्यादौ च भेदनिवृत्ताविति ।। अतोऽज्ञानमेवो-पाधिरुपेयः । तथा चाज्ञानकल्पितजीवाश्रयतयाऽज्ञानावस्थितेः, अज्ञानसिद्धावुपाधिसिद्धिस्तत्सिद्धौ च तद्भिन्न-जीवाश्रिताज्ञानसिद्धिरिति व्यक्तिभेदाभावान्नान्योन्याश्रयत्वादीत्यर्थः । अनवस्थेति ।। अपर्यवसिताज्ञानव्यक्ति-परम्पराङ्गीकारे व्यक्तिद्वयाङ्गीकारे व्यक्तित्रयाभ्युपगमे व्यक्त्यैक्यस्वीकारे च क्रमादेते दोषा ध्येयाः । उक्तेति ।। अज्ञानसिद्धावित्याद्युक्तरीत्याऽज्ञानसिद्धौ भ्रमसिद्धिरित्यादिवक्ष्यमाणरीत्येत्यर्थः । नचोक्तेति ।। शुद्धस्यैवाज्ञत्व इत्यादिवाक्योक्तदोष इत्यर्थः । अज्ञानसिद्ध्यधीनत्वं भ्रान्तेर्व्यनक्ति- अज्ञानस्यैवेति ।। अधिष्ठानावरणं नामाधिष्ठानगतशुक्तित्वाद्यसाधारणधर्माच्छादनं तदप्रतिभासनमिति यावत् । तद्धेतुत्वाद् विक्षेप-शब्दितान्याकारावभासरूपभ्रमहेतुत्वाच्चेत्यर्थः । भ्रमशब्दितज्ञानार्थयोरज्ञानपरिणामत्वादिति भावः । बहुजीव-वादिपक्ष इत्यादिनोक्तमुपसंहरति- तदेवमिति ।। यद्वा यदि चैकमेवेत्यादिनोक्तमुपसंहरति- तदेवमिति ।।

वाक्यार्थदीपिका

(श्री.टि.)

बीजादङ्कुरम्, अङ्कुराद्बीजमित्यत्र प्राप्तान्योन्याश्रयो यथा परिह्रियते तथेत्यर्थः । यस्माद्बीजादङ्कुरमुत्पन्नं तस्मादङ्कुरात्तद्बीजस्यैवोत्पत्तिर्नास्ति, किन्तु बीजान्तरस्यैव । तस्माच्च बीजान्तरादङ्कुरान्तरस्येति व्यक्तिभेदात् तत्रान्योन्याश्रयः परिह्रियते । न चात्र तथाऽस्ति, जीवाज्ञानमिथ्योपाधिव्यक्तीनामेकैकत्वादित्याह- उच्यत इत्यादिना ।। उत्पत्त्यभावादिति ।। तथा चोत्पत्त्यप्रतिबन्धकत्वान्नान्योन्याश्रयादिर्दोषायेत्यर्थः । निमित्त-निमित्तिभावस्येति ।। निमित्तनैमित्तिकभावस्येत्यर्थः । तथा च निमित्तनैमित्तिकभावप्रतिबन्धकत्वेना-न्योन्याश्रयः स्यादेवेति भावः । अन्यथेति ।। अज्ञानमिथ्योपाध्योर्निमित्तनैमित्तिकभावाभाव इत्यर्थः । आरोप्य-त्वाभावप्रसङ्गेनेति ।। उपाधेरित्यर्थः । उपपादितत्वादिति ।। उपाधेर्मिथ्यात्वं नामाऽरोपितत्वेनानिर्वाच्यत्व-मेव । आरोपश्चार्थज्ञानात्मकोऽज्ञानाधीनस्थितिरेव । अज्ञानं ह्यधिष्ठानमाच्छाद्यार्थज्ञानयोरुपादानं भवतीत्यादिना पूर्वमुपाधेरारोपितत्वस्याज्ञानसिद्ध्यधीनत्वेनाज्ञानमिथ्योपाध्योर्निमित्तनैमित्तिकभावस्योपपादितत्वादित्यर्थः । जीवभेदे जीवब्रह्मभेदे । न त्विति ।। यद्यहङ्कारान्तःकरणादिकमुपाधित्वेनाभिप्रेतं स्यात्तदाऽहङ्काराद्युपाधि-सिद्धेरज्ञानसिद्ध्यधीनत्वेन अज्ञानसिद्धौ मिथ्योपाधिसिद्धिरित्युक्तरीत्याऽन्योन्याश्रयः स्यादिति भावः । अहङ्कारादिकं कुतो नोपाधिरित्यत आह- तदभाव इति ।। सुप्तावहङ्कारस्य प्रविलयादिति भावः । भेदेति ।। जीवब्रह्मभेदेत्यर्थः । ननु सुप्तावहङ्काराद्युपाध्यभावेऽपि जीवब्रह्मभेदोऽस्तु को दोष इत्यत आह- न हीति ।। ननु सुषुप्तौ जीवब्रह्मभेद एव नास्तीति चेत्तत्राऽह- सुषुप्त्यादौ चेति ।। भेदनिवृत्ताविति ।। शुद्धब्रह्मभावापत्तेरि-त्यर्थः । नन्वज्ञानस्यैवोपाधित्वे किं लब्धमित्यत आह- तत्कथमिति ।। तथा चाज्ञानस्योपाधित्वेऽज्ञानसिद्धौ मिथ्योपाधिसिद्धिरित्युक्तमयुक्तम् । स्वसिद्धेः स्वाधीनत्वाभावादतो नान्योन्याश्रय इति भावः । आरोपितत्वेना-ज्ञानापेक्षायामिति ।। जीवब्रह्मभेदहेतुभूताज्ञानरूपोपाधेरारोपितत्वेनाऽरोपस्याज्ञानकार्यतयाऽज्ञानान्तरापेक्षायां तस्याप्यारोपितत्वेन पुनरज्ञानान्तरापेक्षायामनवस्था, व्यक्तिद्वयाङ्गीकारेऽन्योन्याश्रयता, व्यक्तित्रयकल्पने चक्रकं, स्वस्यैव स्वारोपनिमित्तत्वाङ्गीकारे आत्माश्रयत्वमित्यर्थः । नन्वज्ञानस्यैवोपाधित्वाङ्गीकारे उक्तरीत्याऽ-नवस्थादिकं भगवत्पादैरेव कुतो नोक्तमित्यत आह- एतच्चेति ।। उक्तदोष इति ।। शुद्धस्यैवाज्ञत्वे मुक्तस्या-प्यज्ञत्वप्रसक्तेरित्युक्तदोष इत्यर्थः । भ्रान्तेति ।। ततश्च स्वरूपातिरिक्तान्यनिमित्तकमेवेति भावः । अज्ञान-स्यैवेति ।। अधिष्ठानगतासाधारणाकारावरणे सत्यतदाकारप्रतिभासरूपभ्रमहेतुत्वादज्ञानसिद्धौ भ्रमसिद्धिरि-त्यर्थः । परेणैवेति ।। शुद्धमेव ब्रह्म भ्रान्त्याऽज्ञमिति वदता परेणैव भ्रमसिद्धावज्ञानसिद्धिरिति कोटेरङ्गीकृतत्वान्न तत्रोपपादनापेक्षेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

तस्येति ।। निमित्तनैमित्तिकभावस्येत्यर्थः । आरोपितत्वेनेत्यादि ।। अधिष्ठानयाथात्म्यावरणं विनाऽऽरोपायोगादिति भावः । उक्तदोष इति ।। अनिवृत्तिप्रसङ्गरूपोक्तेत्यर्थः । अज्ञानस्यैवेति ।। अधिष्ठानासाधारणाकारावरणे सति  अतदाकारप्रतिभासस्य भ्रमत्वादिति भावः ।

लघुप्रभा

(व्या.टि.)

एवं युक्तिपराजितोऽनुमन्यते- अस्त्विति ।। ज्ञप्तिप्रतिबन्धकतामाह- नैकस्यापीति ।। व्युत्पाद-नायेति ।। परपक्षे दोषातिशयप्रकटनायेत्यर्थः । भिन्नत्वादिति ।। उत्पाद्योत्पादकव्यक्तीनां पृथक्त्वादित्यर्थः। उपपादितत्वादिति  ।।  निमित्तनिमित्तिभावस्याकार्यत्वे पृथिवीत्वादेर्गन्धादिप्रयोजकत्ववदुपपादितत्वादि-त्यर्थः । तदिति ।। अहङ्कारादेरित्यर्थः । ननु व्यतिरेकव्यभिचारेऽपि अन्वयमात्रेण हेतुः किं न स्यादित्यत आह- न हीति ।। तर्ह्यौपाधिकस्यापि निवृत्तिः स्यादित्यत आह- भेदनिवृत्तौ मुक्तस्येति ।। ब्रह्मभूयं प्राप्तस्ये-त्यर्थः । तदिति ।। अज्ञानस्योपाधित्वादित्यर्थः । आरोपितत्वेनेति ।। आरोपापेक्षयोक्तदोषो न स्वरूपा-पेक्षयेत्यर्थः । अज्ञानारोपसिद्धावित्येवं कुतो नोऽवादीदित्यत उक्तम्- सुज्ञानमिति ।। उक्त इति ।। मुक्तस्याज्ञत्वादित्यर्थः । भ्रमस्याज्ञानापेक्षां दर्शयति- विपक्षे हेतुत्वादिति ।। अज्ञानस्य भ्रमहेतुत्वादित्यर्थः । उपसंहरति- तदेवमिति ।।