न च ज्ञानाज्ञानयोरपि ..

ज्ञानाज्ञानयोर्हेतोर्व्यभिचारप्रदर्शनेन जगत एकजीवाज्ञानकल्पितत्वसाधकस्य दूषणोप-संहारः

मूलम्

- न च ज्ञानाज्ञानयोरपि मिथ्याकल्पितत्वं दृष्टम्  । तद्विषयस्यैवान्यथात्वं भ्रान्तौ । एवमाद्यनन्तयुक्तिविरुद्धोऽयं पक्षः ।

तत्त्वमञ्जरी

पराज्ञानज्ञानयोरपि मिथ्यात्वे अनुभवविरोधमाह- न च ज्ञानेति ।। इयन्तं कालं इदं रजतमिति ज्ञानमासीदेव मम । शुक्तिरिति नावेदिषम् । इदानी शुक्तिरित्यवेदिषं चेति ज्ञानाज्ञान-योरबाधानुभवात् ।

टीका  

एवमनेकानुमानप्रतिहतत्वान्न दृश्यत्वानुमानमुपपन्नमित्युक्तम् । किञ्च यदज्ञानमधिष्ठान-मावृत्याऽरोपमुत्पादयति यच्चाऽरोपितार्थज्ञानं, किं तदुभयव्यतिरिक्तं जगत्पक्षीकृत्य दृश्यत्वाद्यनु-मानेनैकजीवाज्ञानपरिकल्पितमिति साध्यते, आहोस्वित् तदपि पक्षे निक्षिप्य । न प्रथमः । तावताऽप्यद्वैतासिद्धेः । न हि ज्ञानाज्ञानयोरात्मस्वरूपत्वमङ्गीकृतं येन तयोरनारोपितत्वेऽप्यद्वैतं सिद्ध्येत् । यद्यपि आरोपितस्य ज्ञानं साक्षीत्यङ्गीकृतम् । तथाऽपि तस्यासङ्गत्वादारोपितार्थसम्बन्धा-सम्भवात् आरोपितार्थे सम्बन्धिरूपेण कल्पितरूपेण कल्पितरूपत्वमेव परेणाङ्गीकृतम् ।

अस्तु तर्हि द्वितीयः पक्ष इत्यत आह- न च ज्ञानेति ।। मिथ्याभूतेनाज्ञानेन कल्पितत्वं मिथ्याकल्पितत्वम् । यथा नाभूदत्र रजतमिति बाधकप्रत्ययेन रजतस्य कल्पितत्वं दृश्यते न तथा ज्ञानाज्ञानयोरपि । प्रत्युत एतावन्तं कालमहमिदं शुक्तिकाशकलं नाज्ञासिषं, रजतत्वेनाज्ञासिषं चेति शुक्तिकाशकलवद् ज्ञानाज्ञानयोरबाधितत्वेनानुवृत्तिरेव  दृश्यते    अतो बाधितविषया प्रतिज्ञेति ।

कल्पितत्वमित्येतावता पूर्णे यन्मिथ्याग्रहणं करोति तेन दूषणान्तरमपि सूचयति । तथा हि- ज्ञानाज्ञानयोरपि किं कल्पितत्वं कल्पकेन उत तेन विनैव । न तावद् द्वितीयः । कादाचित्कत्वानुप-पत्तेरनिवृत्तिप्राप्तेः । रजतादेरपि तथात्वप्रसक्तेश्च । आद्ये किं तत्कल्पकं सत्यं मिथ्या वा । प्रथमेऽप्यात्मातिरिक्तमात्मैव वा । नाऽद्यः । अपसिद्धान्तात् । न द्वितीयः । तस्य कूटस्थत्वेन कल्पकत्वायोगात्, आत्ममात्रानुबन्धिनोऽनिवृत्तिप्रसङ्गाच्च । मिथ्यात्वे च तदप्यन्येन मिथ्याभूतेन कल्पितमित्यनवस्था । स्वेनैव कल्पिततायामात्माश्रयत्वम् । रजतादेरपि तथात्वप्रसक्तिश्च । अनादित्वे कल्पितत्वव्याघात इति ।

ननु यद्यारोपितार्थज्ञानं सत्यं स्यात्तदा कथं तस्मिन् मिथ्याज्ञानमिति व्यपदेशः । कथं च तस्याप्रामाण्यम् । अतस्तस्य मिथ्यात्वमङ्गीकार्यमित्यत आह- तद्विषयस्यैवेति ।। तस्य ज्ञानस्य यो विषयः शुक्तिशकलादिकम् । ज्ञानस्य तत्सन्निकृष्टकरणेन जातत्वात् । तस्य यद् अन्यथात्वं रजतत्वादिकं तदेव भ्रान्तौ ज्ञानस्याप्रामाण्ये मिथ्यात्वव्यपदेशे च कारणमिति शेषः । अथ वा कल्पनया तद्विषयस्य रजतादेरेव अन्यथात्वं बाधितत्वं भ्रान्तित्वादौ कारणमिति व्याख्येयम् ।

एतदुक्तं भवति- न तावत् स्वरूपतो मिथ्यात्वमात्रमप्रामाण्यादिकारणं, किन्तु विषयवैपरीत्य-मपि । अन्यथा तत्त्वमस्यादिवाक्यजनितस्य मिथ्याभूतस्य वृत्तिज्ञानस्याप्यप्रामाण्यादिप्रसङ्गात् । न च विषयान्यथात्वेऽपि स्वरूपमिथ्यात्वाभावेनाप्रामाण्याद्यभावो दृष्टः । ततश्च तन्मात्रेणैव तदुपपत्तौ स्वरूपमिथ्यात्वमपि कल्पयतो गौरवं स्यादिति । एवमुक्तमेकजीववादिपक्षस्य युक्तिविरुद्धत्व-मुपसंहरति- एवमादीति ।।

भावबोधः

ज्ञानस्याप्रामाण्ये मिथ्यात्वव्यपदेशे चेति ।। अनेन भ्रान्ताविति भावप्रधानं मिथ्याव्यपदेशोपलक्षकं चेत्युक्तं भवति । अत एव वक्ष्यति ‘भ्रान्तित्वादौ’ इति । कल्पनया तद्विषयस्येति ।। ज्ञानजनकसन्निकर्ष-प्रति(र्षानु)योगित्वरूपविषयत्वापेक्षयेदमुक्तमित्यवधेयम् ।

भावदीपः

एवमिति ‘भ्रान्तिकल्पितत्वे च जगतः’ इत्यादिनोक्तभ्रान्तिकल्पितत्वपरामर्शः । साक्षीत्यङ्गीकृत-मिति ।।  शुक्त्याद्यधिष्ठानचैतन्यं शुक्त्याद्यारोपितरजतज्ञानमित्यङ्गीकृतमित्यर्थः । आत्ममात्रानुबन्धिन इति ।। कल्पकनिवृत्त्या हि तन्निवृत्तिः । कल्पकश्च सदातन इति भावः । ननु साद्यध्यास एव कल्पकापेक्षा । अज्ञानाद्यध्यासस्त्वनादिरूप एवेति न तत्र तदपेक्षेत्याशङ्क्याऽह- अनादित्व इति ।। कल्पितत्वस्य दोषजन्यधी-मात्रशरीरत्वादिति भावः । ननु रूप्यज्ञानस्य कथं शुक्तिविषयतेत्यत आह- तत्सन्निकृष्टेति ।। यत्सन्निकृष्टकरणेन यद् ज्ञानमुत्पद्यते स तस्य विषय इति विषयत्वनिर्वचनादिति भावः । भ्रान्तावित्यस्य विपरिणामेन अनुवादो ज्ञानस्येति । कल्पनया तद्विषयस्येति ।। कल्पनाविषयस्य कल्पितस्येति यावत् । अन्यथात्वम् असत्त्वम् । भ्रान्तावित्यस्यार्थः भ्रान्तित्वादाविति ।। अप्रामाण्ये मिथ्याव्यपदेशे चेत्यर्थः ।

ननु स्वरूपमिथ्यात्वमेव ज्ञानस्य भ्रान्तित्वादौ कारणमित्यत्र को दोष उक्तः । येन विषयान्यथात्वं कारणं कल्प्येतेत्यत आह- एतदुक्तमिति ।। स्वरूपतो मिथ्यात्वमात्रमिति पराभिमतानुवादो व्यभिचारादिबाधकोप-दर्शनेन त्याजयितुं कृतः । अप्रामाण्यादीति ।। मिथ्येति व्यपदेश आदिपदार्थः । परमते तस्यापि स्वरूपतो मिथ्यात्वादिति भावः । अन्वयव्यभिचारेऽपि व्यतिरेकबलादस्तु तदेव कारणमित्यतो नेत्याह- न चेति ।। दृष्ट इत्यन्वयः । तन्मते सर्वस्यापि ज्ञानस्य मिथ्यात्वादिति भावः । विषयवैपरीत्याभावे च तदभावो दृष्ट इत्यपि ध्येयम् । ततश्चेति ।। अन्वयतो व्यतिरेकतश्चेत्यर्थः । एकजीवमते युक्तिविरोधोक्तिः ।

वाक्यार्थदीपिका

(श्री.टि.)

औतासिद्धेः औतहानेरित्यर्थः । ननु आरोपजनकाज्ञानारोपितार्थज्ञानयोरकल्पितत्वेऽपि नाद्वैत-हानिः । तयोरात्मस्वरूपत्वाङ्गीकारादित्यत आह- न हीति ।। साक्षीति ।। साक्षिरूपमित्यर्थः । साक्षिणश्चाऽत्म-त्वान्नाद्वैतहानिरिति भावः । तस्यासङ्गत्वादिति ।। ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेः साक्षिणः स्वरूपेणा-सङ्गतयाऽविद्यासम्बन्धमन्तरेणारोपितार्थसम्बन्धानुपपत्तेरित्यर्थः । कल्पितेति ।। तथा चाविद्यावृत्तिप्रति-बिम्बितचैतन्यस्यैव साक्षित्वेन तस्य च विशिष्टत्वेन कल्पितत्वादारोपितार्थज्ञानस्य कल्पितविशिष्टसाक्षि-स्वरूपत्वानङ्गीकारादद्वैतहानिरेवेति भावः । न तथा ज्ञानाज्ञानयोरिति ।। अज्ञानं नास्ति ज्ञानं नास्तीति बाधकप्रत्ययो नास्तीत्यर्थः । नाज्ञासिषमिति ।। शुक्त्यज्ञानमासीदित्यर्थः । अज्ञासिषमिति ।। रजतज्ञान-मासीदिति यावदित्यर्थः । प्रतिज्ञेति ।। ज्ञानाज्ञानयोरेकजीवाज्ञानपरिकल्पितत्वसाधिका प्रतिज्ञेत्यर्थः । तथा च ज्ञानाज्ञानयोः पक्षकोटिप्रवेशेनैकजीवाज्ञानपरिकल्पितत्वसाधनेऽशे बाध इति भावः । कादाचित्कत्वेति ।। कल्पकेन  विना कल्पितत्वे कादाचित्कताऽनुपपत्त्या सार्वकालिकत्वप्राप्तेरनिवर्त्यत्वं स्यादित्यर्थः । तथा-त्वेति ।। कल्पकेन विनैव कल्पितत्वप्रसङ्गादित्यर्थः । तथा च तत्राज्ञानादीनां भ्रमोपादानत्वादिकल्पनमयुक्त-मिति भावः । कूटस्थत्वेनेति ।। निर्विकारत्वेनाकर्तृत्वादित्यर्थः । आत्ममात्रेति ।। केवलात्मरूपस्यैव कल्पक-त्वेनाऽत्मनः सर्वदा सत्त्वेन तन्मात्रानुबन्धिनो ज्ञानादेरपि सर्वदा सत्त्वप्राप्त्याऽनिवृत्तिप्रसङ्गादित्यर्थः । कल्पकं मिथ्येति द्वितीयपक्षं दूषयति- मिथ्यात्वे चेति ।। मिथ्याभूतेन कल्पकेन । स्वेनैवेति ।। अनवस्थापरिहाराय स्वेनैव कल्पिततायामुच्यमानायामित्यर्थः । तथात्वप्रसक्तिरिति ।। स्वेनैव कल्पितत्वप्रसक्तिरित्यर्थः । ननु साद्यध्यास एव कल्पकापेक्षा । अज्ञानारोपितार्थज्ञानयोरध्यासस्त्वनादिरेवेति न तत्र कल्पकापेक्षेत्यत आह- अनादित्व इति ।। व्याघात इति ।। कल्पितत्वस्य दोषजन्यधीमात्रशरीरत्वरूपत्वादिति भावः । सत्यं स्वरूपेणेति शेषः । अत इति ।। अप्रामाण्यमिथ्यात्वव्यपदेशयोरन्यथाऽनुपपन्नत्वादित्यर्थः । तस्य आरोपितार्थज्ञानस्य मिथ्यात्वं स्वरूपेणेति शेषः । तथा च ‘न च ज्ञानाज्ञानयोरपि मिथ्याकल्पितत्वं दृष्टम्’ इत्युक्तमसदिति भावः। यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इति विषयलक्षणमभिप्रेत्य शुक्तिकाशकले तदुपपादयति- (श्री.टि.) ज्ञानस्येति ।। भ्रान्तावित्येतद् भ्रान्तित्व इति भावप्रधानमभिप्रेत्य व्याचश्व्े- ज्ञानस्याप्रामाण्य इति ।। भ्रान्तावित्युपलक्षणमित्याशयेनोक्तम् - मिथ्याव्यपदेशे चेति ।। अत एव वक्ष्यति ‘भ्रान्तित्वादौ’ इति । कल्पनया तद्विषयस्य अवास्तवतया ज्ञानविषयस्येत्यर्थः । रजतस्यात्यन्तासत्त्वेन ज्ञानस्य तत्सन्निकृष्ट-करणजन्यत्वाभावेन रजतादेर्वास्तवविषयत्वाभावादिति भावः । अन्यथेति ।। विषयवैपरीत्यस्यापि कारणत्वमनङ्गीकृत्य स्वरूपतो मिथ्यात्वस्यैवाप्रामाण्ये मिथ्यात्वव्यपदेशे च कारणत्वाङ्गीकार इत्यर्थः । मिथ्या-भूतस्येति ।। ब्रह्मव्यतिरिक्तत्वेन स्वरूपतो मिथ्याभूतस्यापीत्यर्थः । वृत्तिज्ञानस्य ब्रह्मविषयकचरमवृत्ति-रूपज्ञानस्य । प्रसङ्गादिति ।। विषयवैपरीत्यस्यापि कारणत्वाङ्गीकारे तु स्वरूपतो मिथ्यात्वसत्त्वेऽपि विषयस्य ब्रह्मणोऽबाधिततया वैपरीत्याभावेन नाप्रामाण्यादिप्रसङ्ग इति भावः । यथा स्वरूपतो मिथ्यात्वसत्त्वेऽपि विषयवैपरीत्याभावेनाप्रामाण्याभावश्चरमवृत्तिरूपज्ञाने दृष्ट इति विषयवैपरीत्यस्याप्रामाण्यादौ कारणत्वं दृष्टम्, एवं विषयवैपरीत्यसद्भावेऽपि स्वरूपमिथ्यात्वाभावेनाप्रामाण्याभावः प्रामाण्यमिति यावत्, यदि दृष्टः स्यात्तर्ह्येव विषयवैपरीत्यमप्रयोजकीकृत्य स्वरूपमिथ्यात्वस्यैवाप्रामाण्यादौ कारणत्वं वाच्यं स्यान्न चैवमस्तीत्याह- न च विषयान्यथात्व इति ।। विषयस्यान्यथात्वे यथावस्थितार्थविषयकत्वाभावेन प्रामाण्यमेव न स्यादिति भावः । स्वरूपमिथ्यात्वेऽपि विषयवैपरीत्याभावात्प्रामाण्यं चरमवृत्तिरूपज्ञाने दृष्टम् । विषयवैपरीत्येऽपि स्वरूपस्य सत्यत्वेन प्रामाण्यं कुत्रापि न दृष्टम् । यदि कुत्रचिद् दृश्व्ं स्यात्तर्ह्येव विषयवैपरीत्यमप्रयोजकं स्यादिति फलि-तोऽर्थः । तन्मात्रेणेति ।। विषयवैपरीत्यमात्रेणेत्यर्थः । तदुपपत्तौ अप्रामाण्याद्युपपत्तौ । कल्पयत इति ।। अप्रामाण्यादौ प्रयोजकत्वेन कल्पयत इत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.) 

औतासिद्धेरिति  ।।  ज्ञानाज्ञानयोरेवाऽत्मातिरिक्तयोरपक्षीकृतत्वेन  तन्मिथ्यात्वासिद्धेरिति भावः । ननु सत्यत्वेऽपि ज्ञानाज्ञानयोरात्मस्वरूपत्वेनातिरिक्तत्वाभावान्नाद्वैतासिद्धिरित्यत आह-न हीति ।। असङ्गतयेति ।। ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्या तत्सिद्धेरिति भावः । शुक्तिकाशकलादेः कथमिदं रजतमिति ज्ञानविषयत्वमित्यतस्तदुपपादयति- तत्सन्निकृष्टकरणेनेति ।। ज्ञानस्येति ।। अनेन मूले भ्रान्तावित्येतद्भाव-प्रधानतया मिथ्याव्यपदेशे च इत्येतदुपलक्षणतया च व्याख्यातं भवति । कल्पनयेति ।। ज्ञानजनक-सन्निकर्षप्रति(र्षानु)योगित्वरूपविषयत्वापेक्षयेदमुक्तमित्यवधेयम् । ननु स्वरूपतो मिथ्यात्वमात्रस्यैव ज्ञानस्य भ्रान्तित्वादौ कारणत्वसम्भवे तत्परित्यागेन कुतो विषयान्यथात्वस्यैव तत्कारणत्वकल्पनमित्यत आह- एतदुक्तं भवतीति ।।

लघुप्रभा

(व्या.टि.)

श्रोतृबुद्ध्यनुकूलनायोक्तमर्थमनुवक्ति- एवमिति ।। किञ्चेति ।। अन्यच्चेत्यर्थः । औतासिद्धे-रिति ।। तस्यैव सिषाधयिषितत्वेनार्थान्तरप्रसङ्गादित्यर्थः । तां व्यनक्ति- तर्हीति ।। नन्वज्ञानस्य ज्ञानात्म-ब्रह्मात्मत्वासम्भवेऽप्यारोपस्य साक्षिरूपत्वमिष्टमेवेत्याशङ्क्य निराकरोति- यद्यपीति ।।  कर्मधारयभ्रान्तिं निवारयति- मिथ्याभूतेनेति ।। नाज्ञासिषमज्ञासिषमिति लुङा ज्ञानाज्ञानयोर्भूतकालसत्त्वावगमादनुवृत्तिरेव, (व्या.टि.) नाऽरोपितवन्निवृत्तिरित्यर्थः । उपसंहरति- अत इति ।। बाधितेति ।। अज्ञानज्ञानांश इति शेषः । कल्पकाज्ञानस्य मिथ्येति विशेषणकृत्यमाह-एतावतेति ।। तेन विनैवेति ।। ‘पृथग्विना’ इत्यादिना तृतीया । कादाचित्कत्वानुपपत्तेरिति ।। कादाचित्कत्वस्य निवृत्तिव्यापकत्वात्सकारणत्वस्य च तद्व्यापकत्वात्तदभावे तद्व्याप्याभावेन निवृत्त्यभावप्रसङ्ग इत्यर्थः । तथात्वेति ।। कल्पकेन विना कल्पितत्वप्राप्तेरित्यर्थः । आद्य इति ।। कल्पकसत्त्व इत्यर्थः । प्रथम इति ।। सत्यत्व इत्यर्थः । अपसिद्धान्तादिति ।। सदद्वैतसिद्धान्तभङ्गादि-त्यर्थः । कूटस्थत्वेनेति ।। निर्विकारत्वेनेत्यर्थः । अनिवृत्तीति ।। तस्य सदातनत्वादित्यर्थः । आद्ये द्वितीयं निरस्यति- मिथ्यात्वे चेति ।। अत्र तत् मिथ्याकल्पकं मिथ्याकल्पकान्तरेण कल्पितम्, उत स्वेनैव, अथानादीति विकल्पान् हृदि निधाय निराह- इत्यनवस्थेत्यादिना ।। तथात्वेति ।। कर्तृकर्मभावानुपपत्तिश्चेत्यपि ग्राह्यम् । ननु रजतज्ञानस्य कथं शुक्तिविषयकत्वं व्यपदेशविरोधादित्यतो लक्षणयोगादित्याह- तत्सन्निकृष्टेति ।। भ्रान्ति-पदं भावप्रधानमितिभावेनाऽह- प्रामाण्य इति ।। अधुना यज्ज्ञानं यत्प्रतिभासं स तस्य विषय इति लक्षणं पक्षीकृत्य व्याचश्व्े- अथ वेति ।। कल्पनयेति ।। भ्रान्त्या न वस्तुत इत्यर्थः । अन्यस्यान्यात्मनाऽवभासो भ्रम इति तल्लक्षणकरणादित्यर्थः । ननु विनिगमकाभावात्कथमुक्तशङ्काऽपगम इत्यत आह- एतदुक्तं भवतीति ।। स्वरूपमिथ्यात्वस्याप्रामाण्यकारणत्ववादी प्रष्टव्यः । किं तन्मात्रं कारणम् उत विषयान्यथात्वविशिष्टम् । आद्यं दूषयन्ननुवदति- न तावदिति ।। द्वितीयं परिशेषयति- किन्त्विति ।। आद्यमवद्यति- अन्यथेति ।। अन्वय-व्यतिरेकाभ्यां हि कारणताऽध्यवसायः । न चात्रान्वयोऽस्तीत्यर्थः । नापि व्यतिरेक इत्याह- न चेति ।। द्वितीयं परिशेष्य तद् दूषयति- ततश्चेति ।। वृत्तं वक्ति- एवमिति ।। उक्तमिति ।। प्रतिज्ञातमुपपादितं चेत्यर्थः ।