अथ यदाऽस्य ..
जीवस्य भगवदधीनत्वाभिन्नत्वयोर्ज्ञानस्य फलकथनम्
मूलम्
- ‘‘अथ यदाऽस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावन्न जानाति ।। ८ ।। पुरुषं सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते । सोऽनृताभिसन्धोऽनृतेनाऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्ण •ाति । स दह्यतेऽथ हन्यते । अथ स यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनाऽत्मानमन्तर्धाय परशुं तप्तं प्रति गृह्ण •ति । स न दह्यतेऽथ मुच्यते ।। ९ ।। एवमेव खलु सोम्य आचार्यवान् पुरुषो वेद’’ इति स्थाननवकेऽपि भेद एव दृष्टान्ताभि-धानात् ।।
टीका
अवगतं वृक्षशरीरे भगवदधीनत्वं जीवस्य । मानुषशरीर एव तज्ज्ञापयेत्यर्थितः पितोवाच- ‘पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति । तस्य यावन्न वाङ् मनसि सम्पद्यते मनः प्राणे प्राणः तेजसि तेजः परस्यां देवतायां तावज्जानाति अथ यदाऽस्य’ इत्यादि । उपतापिनं रोगिणम् । पर्युपासते परित उपविशन्ति । इति वदन्तः । सम्पद्यते ग्रस्त-व्यापारो भवति ।। ८ ।।
एवं सर्वप्रेरकं महानुभावं भगवन्तं योऽत्यन्तभेदेन जानाति यश्च स एवाहमस्मीति, तयोः कीदृशं फल भवतीति जिज्ञासायामाह पिता- पुरुषं सोम्येत्यादि ।। राजद्रव्येऽपगते सति शङ्काऽस्पदं पुरुषमानयन्ति राजभटाः, अयमपहार्षीत् स्तेयमकार्षीत् । पश्यतोहरत्वमपहारः,अन्यत् स्तेयम् । इति वदन्त इति शेषः । ततस्तेन नेदं मया कृतमित्युक्ते भटान् प्रति राजा वक्ति । परशुम् अस्मै अस्य परीक्षार्थम् । स गृहीतो यदि तस्यापहारादेः कर्ता भवति । अथ च नेति ब्रूते । अनृते अभिसन्धा अभिसन्धिरस्येति तथोक्तः । अन्तर्धाय आच्छाद्य । एवमेव खलु सोम्याऽचार्यवानिति वाक्यं स्थानान्तरस्थमपीदं सर्वत्र सम्बध्यत इति ज्ञापयितुमन्ते पठितम् ।। ९ ।।
भावदीपः
अथ यदेत्यादिवाक्यस्य पूर्वशेषमाह- पुरुषं सोम्येति ।। जानासि मामितीत्यत्रेतिपदमनूद्य शेषमाह- इति वदन्त इति ।। पर्युपासत इति पूर्वेणान्वयः । वाचो मनसि सम्पत्तिर्नाम किमित्यत आह- ग्रस्तेति ।। एवमग्रेऽपीति भावः । अत्र परदेवतया यावद् ग्रस्तकरणो न भवति तावज्जानाति । अन्यथा तु न जानातीति स्पष्टमेव भगवदधीनत्वं मानुषदेहेऽपीति भावः ।। ८ ।।
अस्मीत्यनन्तरं जानातीत्यनुषज्यते । इति वदन्त इत्यस्याऽनयन्तीति पूर्वेणान्वयः । तत इति स्ववचनं राजसमीप आनयनानन्तरमिति तस्यार्थः । स्तेनेनेति ।। इतराज्ञेयतया परकीयवस्त्वपहर्त्रा चोरेणेत्यर्थः। अस्मा इत्यस्यार्थः- अस्य परीक्षार्थमिति ।। स इत्यनुवादः गृहीत इति व्याख्या । तस्येत्यस्यार्थः- अपहारादेरिति ।। स्तेयमादिपदार्थः । अभिसन्धिरभिप्रायः । स्थानान्तरेति ।। गान्धारवाक्यगतम् । सर्वत्र खण्डनवकेऽपी-त्यर्थः । एतेन स्थाननवकेऽपि दृष्टान्तमात्रोक्तेर्दाष्टान्तिकोक्तिर्नेति शङ्का परास्ता ।। ९ ।।
वाक्यार्थदीपिका
(श्री.टि.)
अन्यत्स्तेयमिति ।। परोक्षतो हरणं स्तेयमित्यर्थः । ननु ‘यथा सोम्य पुरुषं गन्धारेभ्यः’ इति प्रकरणस्थम् ‘एवमेवेहाऽचार्यवान्पुरुषो वेद’ इति वाक्यं पुरुषं सोम्योतेत्यन्तिमे प्रकरणे कस्मात्पठितमित्यत आह- स्थानान्तरस्थमपीति ।। सर्वत्र सम्बध्यत इति ।। पुरुषं सोम्योपतापिनमिति खण्डे एवं मानुषशरीरे भगवदधीनत्वं य आचार्यवान् पुरुषः स एव तदुपदेशेन वेदेति शकुनिसूत्रखण्डे सम्बध्यते । तथा पुरुषं सोम्योतेति खण्डेऽपि य आचार्यवान् पुरुषः स एवैवं चोरापहार्यदृष्टान्तेनैक्यज्ञानिनोऽनर्थो भेदज्ञानिनो मोक्ष इति प्रमेयं वेदेति दार्ष्टान्तिकपूरकतया सम्बध्यते । एषु च खण्डषट्केषु सन्मूला इति खण्डे एवमेव खलु सोम्यैतन्मन इति, यथा सोम्य मध्विति खण्डे एवमेव खलु सोम्येमाः सर्वाः प्रजास्सति सम्पद्येति, इमास्सोम्येति खण्डे एवमेव खलु सोम्येमाः सर्वाः प्रजास्सत आगम्येति, अस्य सोम्य महतो वृक्षस्येति खण्डे एवमेव खलु सोम्य विद्धीति होवाचेति, न्यग्रोधफलमिति खण्डे तं ह पितोवाच यं वै सोम्यैतमिति, लवणमेतदिति खण्डे तं होवाचात्र वाव किल तत्सोम्येति दार्ष्टान्तिकवाक्यानि सन्ति । तेष्वपीदं वाक्यमेवैतत्खण्डोक्तं प्रमेयमाचार्यवानेव पुरुषः, तदुपदेशादिति यावत्, वेद नान्यथेत्येवं तत्तत्खण्डोक्तप्रमेयस्य दौर्लभ्यज्ञापनाय सम्बध्यत इत्यर्थः ।। ९ ।।
लघुप्रभा
(पां.टि.)
अपहार्षीदिति ।। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति स्मरणात् श्रुतौ अमाङ्योगेऽपि अडभाव इति भावः । पश्यतोहरत्वमिति ।। ततश्च न स्तेयमकार्षीदित्यनेन पौनरुक्त्यमिति भावः ।
(व्या.टि.) ‘यथा पुंसोऽस्वतन्त्रत्वं तज्ज्ञापयतु मा भवान्’ इति तद्भाष्यदिशाऽष्टमप्रकरणमवतारयति- अवगतमित्यादिना ।। वदन्त इति शेषोक्तिः । ‘इत्युक्त आह ज्ञाने हि दृष्टैवास्यास्वतन्त्रता’ इति तदुक्ताशयं (व्या.टि.) स्फोरयितुं व्याख्याति- ग्रस्तव्यापार इति ।। ज्ञानास्वातन्त्र्ये च तद्दृष्टान्तेन ‘उपलब्धिवदनियमः’ इति सूत्रदिशा कर्मण्यप्यस्वातन्त्र्यमनुमातव्यमिति भावः । ‘अभेदज्ञानिनो दोषः कीदृशः स्यादितीरितः’ इति तदुक्तप्रश्नाभिसन्धिमनुसन्धायाऽह- एवमित्यादिना ।। पश्यतोहरत्वमिति ।। ‘वाक्दिक्पश्यद्भ्यो युक्ति-दण्डहरेष्वलुग्वाच्यः’ इत्यलुक्समासः । अत्र यद्यपि मूले स्तेनस्तेययोरपहार्यापहारिणोरित्यादि प्रयोक्तव्यम् । उपधेयसङ्करेऽप्युपाधेरसङ्करात् । तथाऽप्युपधेयसाङ्कर्येण व्यामिश्रोक्तिः । अयं भावः । यद्यपि स्तेनपदं स्वप्रति-सम्बन्धिस्तेयोपलक्षणम् । अपहार्यपदं च स्वप्रतिसम्बन्ध्यपहर्तुरुपलक्षणम् । तथाऽप्येकस्यैव स्तेनापहर्तृत्वयोः सत्त्वात् स्तेयस्यैवापहार्यत्वादेकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणं भवत्येवेति नोभयमुपात्तमिति बोध्यम् । अत्र यो भेदप्रमाणमपश्यन् तन्मिथ्यात्वं वक्ति स स्तेनः । यः पश्यन्नपि तदतत्त्वावेदकत्वं पश्यति सोऽपहर्ता इति रहस्यम् । अन्यदिति ।। ‘स्तेन चौर्ये’ पचाद्यच् स्तेनः, तस्य भावः कर्म वा स्तेयम् । ‘स्तेनाद्यन्नलोपश्च’ इति यत्प्रत्यये नलोपे च सति स्तेयमिति भवति । परीक्षार्थमिति ।। अस्मा इति तादर्थ्ये चतुर्थीति भावः । अभिसन्धा इति ।। अनेनाभिसन्धेत्याकारान्त एवायं शब्द इति सूचितम् । ‘सन्धां तु सन्दधावहै, सन्धां च यां सन्दधे’ ‘सत्यसन्धः’ इत्यादिवैदिकलौकिकप्रयोगादिति भावः ।