स्वप्ने तु..

बहूनां दर्शनस्य कल्पकैकव्यक्तिनिश्चयाभाव हेतुत्वानिश्चय पक्षदूषणयोः समर्थनम्

मूलम्

- स्वप्ने तु प्रबोधानन्तरमेकस्यावशिष्टत्वान्निश्चयः । न चात्र तथाऽस्ति । तस्य तस्य तथा तथा प्रतिपत्तव्यमित्यङ्गीकारे वस्तुनि विकल्पासम्भवादकल्पितमित्येव स्यात् । न च तथा प्रतिपत्तव्यमित्यत्र प्रमाणमस्ति ।

तत्त्वमञ्जरी

अत्रापि विश्वनिवृत्त्यनन्तरमेकस्यावशिष्टत्वान्निश्चय इत्यत आह- न चात्रेति ।। न हि भृशमात्मैक्योपास्तिमतामेकस्यापि इतः पूर्वं विश्वनिवृत्तिरासीत् । तस्य तस्याहमबाध्यो जीव इति प्रतिपत्तव्यमित्यङ्गीकारे वस्तुनि प्रतिपत्तिविकल्पासम्भवात् । सर्वजीवानामबाध्यत्वात् तदात्मकं विश्वमकल्पितमित्यस्मन्मतमेव प्राप्तं स्यात् । यथा यवाग्वा पयसा वा जुहुयादित्यादिक्रियायां विकल्पः एवं स्थाणुरयमिति वा पुरुषोऽयमिति वा जानीयादिति वस्तुज्ञाने विकल्पो न स्याद्धि । ननु अस्ति वस्तुज्ञाने विकल्पः । भगवान् कृष्ण इति वा राम इति वा प्रतिपत्तव्य इति । मैवम् । तत्र द्वयोरपि विकल्पकोट्योर्विद्यमानत्वाद्युगपदुभयप्रतिपत्तेरपि सम्भवात् । विकल्पस्याधिकारो-ल्लेखित्वात् ।

टीका 

ननु न बहूनां दर्शनं कल्पकैकव्यक्तिनिश्चयाभावे हेतुः । स्वप्ने बहूनां दृश्यमानत्वेऽपि कल्पकैकव्यक्तिनिश्चयदर्शनादित्यत आह- स्वप्ने त्विति ।। नास्माभिर्बहुदर्शनमात्रं कल्पकैकव्यक्ति-निश्चयाभावे कारणत्वेनाभिप्रेतम्    किन्तु बहूनां दृश्यमानत्वाद्विनिगमकाभावाच्च  न निश्चय इति । स्वप्ने चास्ति विनिगमकमिति निश्चयो युज्यते । प्रकृते तु तन्नास्तीति कथं निश्चय इति ।

स्यादेतत् । यदि प्रपञ्चकल्पकैकव्यक्तिनिर्धारणोपायाभावात् निर्धारणं नोपपद्यते तर्हि मोप-पादि । किमनेन निर्धारणेनेत्यनिश्चयपक्ष एवास्त्विति । मैवम् । निर्धारणाभावेऽनुमानप्रवृत्त्यनुप-पत्तेः । तथा हि- किं सर्वेऽपि जीवाः पक्षीक्रियन्ते । किं वा कल्पकत्वेनाभिमतव्यक्तिव्यतिरिक्ताः। नाऽद्यः । कल्पकस्यापि कल्प्यत्वप्रसङ्गात् । न द्वितीयः । व्यक्तिनिर्धारणाभावे तद्व्यतिरिक्तत्वेन पक्षविशेषणानुपपत्तेः । कल्पकातिरिक्ता इति विशेषणाददोष इति चेन्न । कल्पितत्वे सिद्धे कल्पक-सिद्धिः, तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयप्रसङ्गात् । दृश्याः सर्वे जीवा इति पक्षनिर्देश इति चेन्न  । कल्पकस्यापि दृश्यत्वात्  । अन्यथा एकजीवाज्ञानकल्पिता इति विशेषणस्याप्रसिद्धि-प्रसङ्गात् । तस्य स्फुरणमात्रेण विशेषणत्वोपपत्तिरिति चेन्न । कल्पककल्पितत्वनिश्चयात् प्रागस्य स्फुरणमेव, अन्येषान्तु दृश्यत्वमिति विवेक्तुमशक्यत्वादिति । किञ्च यदि कल्पको जीवो न निर्धारितः, तर्हि मोक्षसाधनज्ञानं केन साधनीयम् । सर्वैरपि मदज्ञानकल्पितं सर्वम्, अहमेव परमात्मेति मोक्षसाधनीभूता विप्रतिपत्तिः कर्तव्या । तत्र यः सत्यो जीवस्तस्य तथा प्रतिपत्त्या मोक्षो भवति, अन्येषां तु निवृत्तिरिति किमत्र दुर्घटमिति चेत्, किमत्र प्रतित्तिर्मानसी क्रिया उत तत्त्वज्ञानम् । नाऽद्यः । तस्य मोक्षसाधनत्वाभावात् । द्वितीये त्वाह- तस्येति ।। ‘कृत्यानां कर्तरि वा’ इति कर्तरि षष्ठी । वीप्सायां द्विर्वचनम् । तथेति मदज्ञानकल्पितं सर्वम्, अहमेव परमात्मेति प्रतिपत्तव्यं ज्ञातव्यम् ।

अयमर्थः- किमेताः सर्वाः प्रतिपत्तयस्तत्त्वविषया उत एका तत्त्वविषया अन्यास्तु भ्रान्ताः । आद्ये देवदत्तप्रतिपत्तेः तत्त्वविषयत्वात्, देवदत्तः सत्यः यज्ञदत्तस्तु कल्पितः स्यात् । यज्ञदत्त-प्रतिपत्तेस्तत्त्वविषयत्वात् तद्वैपरीत्यं स्यात् । न चैतद्युक्तम् । एकस्मिन्नेव देवदत्तादौ वस्तुनि कल्पितत्वाकल्पितत्वरूपविकल्पासम्भवात् । न हि विरुद्धधर्मालिङ्गित वस्त्वस्ति । द्वितीये त्वियं तत्त्वविषयेति  निश्चायकाभावेन  सर्वासामपि  भ्रान्तत्वसम्भवादकल्पितमेव सर्वमिति किं न स्यादिति ।

नैतदेवम् । सिद्धं तावदनुमानेन सर्वस्यैकजीवाज्ञानपरिकल्पितत्वं सामान्येन । तत्र सर्वैरेवं प्रतिपत्तिषु क्रियमाणासु यः सत्यो जीवस्तस्य प्रतिपत्तिः तत्त्वविषया तस्य मोक्षं साधयिष्यति । अन्यास्तु भ्रान्ता व्यर्था भविष्यन्ति । विशेषनिर्धारस्तु व्यर्थ इति चेत्, भवेदेवं यदि सर्वैस्तथा प्रतिपत्तयः क्रियेरन् । न चैवम् । सर्वे हि मोक्षाशया कुर्युः, विधानसामर्थ्याद् वा । नाऽद्यः । आत्मनः सत्यजीवत्वनिश्चयाभावे मोक्षस्याप्यनिश्चयात् । न हि कश्चिदनिश्चितप्रयोजनाय महान्तं क्लेश-मनुभवति । द्वितीये विधानमपीष्टसाधनताबोधनरूपं वा स्याद्राजाज्ञारूपं वा । न प्रथमः । उक्त-न्यायात् । द्वितीये त्वाह- न चेति ।। प्रमाणं राजाज्ञारूपम् । तदेवमनुमानानुदयान्मोक्ष-साधनानुष्ठानासम्भवाच्चानिश्चयपक्षोऽनुपपन्न इति स्थितम् ।।

भावबोधः

उक्तन्यायादिति ।। आत्मनः सत्यजीवत्वनिश्चयाभाव इति उक्तन्यायादित्यर्थः ।

भावदीपः

बहूनां दर्शनस्यानैकान्त्ये परेण चोदिते किमनेनोत्तरमुक्तमित्यत आह- नास्माभिरिति ।। अस्ति विनिगमकमिति ।। एकाकिनोऽवशेष इति भावः । मोपपादीति ।। निर्धारणमुपपन्नं मा मूदित्यर्थः । अनुमा-नेति ।। सर्वस्य कल्पितत्वसाधकदृश्यत्वानुमानेत्यर्थः । सर्वेऽपि जीवा इति ।। सर्वजीवजडात्मकमिति प्रागुक्तपक्षशरीरप्रविष्टसर्वजीवपदेनेत्यर्थः । अन्यथेति ।। कल्पितत्वस्यैव बुद्ध्यनारोहे तद्धटितसाध्यस्याप्य-ज्ञानादप्रसिद्धिप्रसङ्गादित्यर्थः । स्फुरणेति ।। वृत्त्यविषयत्वेऽपि कल्पकजीवचितः स्वप्रकाशत्वात् स्फुरण-मात्रेणेत्युक्तम् । विशेषणत्वेति ।। साध्यविशेषणत्वेत्यर्थः । ननु ‘कर्तृकरणयोस्तृतीया’ इति तेन तेनेति तृतीयया भाव्यमित्यत आह- कृत्यानामिति ।। ‘कृत्याः प्राङ्ण्वुलः’ इति तृतीयाध्यायाऽद्यपादीयसूत्रेण ‘ण्वुल्तृचौ’ इति सूत्रात् प्राक् ये प्रत्ययाः ते सर्वे कृत्यसञ्ज्ञका भवन्तीत्युक्तत्वात्तन्मध्ये ‘तव्यत्तव्यानीयरः’ इति सूत्रोक्त-तव्यप्रत्ययस्यापि कृत्यसञ्ज्ञकत्वात्तद्योगे षष्ठीत्यर्थः । अस्फुटत्वादाह-अयमर्थ इति ।। शङ्कते-नैतदेवमिति ।। सर्वैस्तथा प्रतिपत्तव्यमित्येतद्, एवं भवद्भिर्विकल्पितरीत्या, न भवतीत्यर्थः । किं तर्हीत्यत आह- सिद्धं ताव-दिति ।। प्रागुक्तदृश्यत्वानुमानेनेत्यर्थः । उक्तन्यायादिति ।। आत्मनस्सत्यजीवत्वनिश्चयेत्याद्युक्तन्यायादि-त्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

विनिगमकाभावाच्चेति ।। गुरुव्यक्तिविशेषस्यैव कल्पकत्वमित्यत्र विनिगमकाभावाच्चेत्यर्थः । विनिगमकं प्रबोधानन्तरमेकस्यैवावशिष्टत्वरूपम् । मोपपादीति ।। मोपपद्यतामित्यर्थः । अनुमानेति ।। विप्रतिपन्नं जीवजडात्मकं सर्वम् एकजीवाज्ञानपरिकल्पितं दृश्यत्वात् स्वप्नवदिति त्वदुक्तानुमानेत्यर्थः । कल्प्यत्व-प्रसङ्गादिति ।। तस्यापि सर्वान्तःपातित्वादिति भावः । व्यक्तिनिर्धारणेति ।। व्यक्तिविशेषनिर्धारणेत्यर्थः । अनुपपत्तेरिति ।। प्रतियोगिज्ञानाभावादिति भावः । अदोष इति ।। सामान्याकारेण कल्पकस्य प्रसिद्धत्वादिति भावः । कल्पकसिद्धिरिति ।। कल्पकत्वस्य कल्पितत्वसापेक्षत्वादिति भावः । दृश्यत्वादिति ।। तथा च तस्यापि कल्पितत्वप्रसङ्गेनांशे बाध इति भावः। अन्यथेति ।। कल्पकस्य दृश्यत्वाभाव इत्यर्थः । अप्रसिद्धीति ।। एकजीवस्य ज्ञानविषयत्वाभावेन तद्धटितसाध्यस्याप्यज्ञानादिति भावः । ननु माऽस्तु कल्पकजीवस्य वृत्तिविषयत्व-रूपं दृश्यत्वम् । न च तद्धटितसाध्यस्याप्रसिद्धिरिति वाच्यम् । तस्य कल्पकजीवस्य स्वप्रकाशत्वेन प्रसिद्धिसम्भवात् साध्यविशेषणत्वोपपत्तेरुक्तदोषाभावादित्याशङ्कते- तस्येति ।। स्फुरणमात्रेणेति ।। वृत्त्यतिरिक्तस्वरूप-प्रकाशमात्रेणेत्यर्थः । कल्पककल्पितत्वेति ।। तथा च सर्वस्य कल्पकेन कल्पितत्वसिद्धौ तस्य वृत्तिविषयत्व-रूपदृश्यत्वे कल्प्यत्वापत्त्या कल्पकत्वायोगेन तस्य स्फुरणमेव, अन्येषां तु दृश्यत्वमिति विवेकसिद्धिः । तत्सिद्धौ च स्फुरणमात्रेण तस्य विशेषणत्वोपपत्त्याऽप्रसिद्धविशेषणत्वाभावेनानुमानात् कल्पकेन कल्प्यत्वसिद्धि-रित्यन्योन्याश्रयः स्यादिति भावः । शङ्कते- सर्वैरपीति ।। मानसी क्रियेति ।। अविद्यमानोपास्तिरित्यर्थः । तस्या इति ।। अविद्यमानोपास्तेरनर्थहेतुत्वादिति भावः । ननु ‘कर्तृकरणयोस्तृतीया’ इति कर्तरि तृतीया-विधानात्तेनेति तृतीयया भवितव्यं तस्येति, तु कथमित्यत आह- कृत्यानामिति ।। ‘कृत्याः प्राङ्ण्वुलः’ ‘ण्वुल्तृचौ’ इति सूत्रात् प्राक् ये प्रत्यया विहितास्ते कृत्यसञ्ज्ञाः स्युः । तेषां च कृत्यानां प्रत्ययानां प्रयोगे कर्तरि षष्ठी वा विकल्पेन स्यादिति सूत्रार्थः । तथा च तव्यप्रत्ययस्य कृत्यप्रत्ययत्वेन तद्योगे तस्येति षष्ठी युक्तेति भावः। वीप्सायामिति ।। ‘बह्वर्थसङ्ग्रहो वीप्सा’ इति वचनात् बह्वर्थसङ्ग्रहविवक्षायामित्यर्थः । तद्वैपरीत्य-मिति ।। यज्ञदत्तः सत्यो देवदत्तस्तु कल्पितः स्यादित्यर्थः । विकल्पेति ।। विरुद्धधर्मद्वयाऽलिङ्गितत्वेत्यर्थः । विरुद्धधर्मालिङ्गितमिति ।। विरुद्धधर्मद्वयाऽलिङ्गितमेकं वस्त्वित्यर्थः । तेन वस्तुतो गोत्वविरुद्धाश्वत्वालिङ्गित-वस्तुसद्भावाद् गोत्वाश्वत्वरूपविरुद्धधर्मद्वयाऽलिङ्गितगवाश्वरूपवस्तुद्वयसद्भावाच्च कथमेतदिति चोद्यानवकाश इति ज्ञातव्यम् । शङ्कते- नैतदेवमिति ।। इष्टसाधनतेति ।। मदज्ञानपरिकल्पितं सर्वम् अहमेव परमात्मेति प्रतिपत्तिर्मोक्षरूपेष्टसाधनत्वात्कर्तव्येत्येवमिष्टसाधनतावबोधनरूपमित्यर्थः । राजाज्ञारूपमिति ।। अकरणे राजदण्डभयात्तदाज्ञारूपं विधानमवश्यं कर्तव्यमित्यर्थः । उक्तन्यायादिति ।। मां प्रतीदं मोक्षरूपेष्टसाधनतां बोधयतीति निश्चित्यैवं प्रतिपत्तयः कर्तव्याः । न चैवं सम्भवति । आत्मनः सत्यजीवत्वनिश्चयाभावे मोक्षस्या-प्यनिश्चयात् । न हि कश्चिदनिश्चितप्रयोजनाय महान्तं क्लेशमनुभवतीत्युक्तन्यायादित्यर्थः । ननु प्रमाणं नास्तीत्यनेन कथं द्वितीयपक्षप्रतिषेध इत्यतः प्रमाणपदं नियामकपरमित्याशयेनोक्तम्- राजाज्ञारूपमिति ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

सर्वे जीवाः पक्षीक्रियन्त इति ।। सर्वं जीवजडात्मकम् एकजीवाज्ञानपरिकल्पितम् इति प्रतिज्ञायां जीवशब्देन सर्वे जीवाः पक्षतया अभिप्रेयन्ते, उत कल्पकव्यतिरिक्ता इति विकल्पार्थः । कल्पकस्यापीति ।। जीवत्वरूपपक्षतावच्छेदकाक्रान्ततया पक्षकोटिनिक्षिप्तत्वेन तत्र एकजीवाज्ञानपरिकल्पितत्वसिद्धौ कल्पकस्य कल्पितत्वापत्तेरनिवार्यत्वादिति भावः । अन्यथेति ।। एकजीवस्यादृश्यत्वे तदज्ञानेन तद्धटितैकजीवाज्ञान-कल्पितत्वरूपसाध्यस्याप्यज्ञानादित्यर्थः । कल्पकस्य दृश्यत्वाभावेऽपि स्फुरणाङ्गीकारेण ज्ञातत्वसम्भवान्न तद्घटितसाध्यस्याप्रसिद्धविशेषणत्वमिति शङ्कते- तस्येति ।। कल्पककल्पितत्वनिश्चयात्प्रागिति ।। तथा च कल्पककल्पितत्वनिश्चये सति तस्य न दृश्यत्वम् । किन्तु स्फुरणमेवेत्यस्यार्थस्य सिद्धिः, तत्सिद्वौ च स्फुरण-मात्रेण विशेषणत्वोपपत्त्या साध्यप्रसिद्ध्याऽप्रसिद्धविशेषणत्वाभावेन कल्पककल्पितत्वसिद्धिरित्यन्योन्याश्रय इति भावः । शङ्कते- सर्वैरपीति ।। ननु कर्मणि निष्पन्नप्रतिपत्तव्यशब्देन कर्मण उक्तत्वेऽपि तस्येति तच्छब्दोक्तस्य कर्तुस्तेन अनभिधानात् कर्तुः तिङाद्यनभिहिततया ‘कर्तृकरणयोस्तृतीया’ इति तृतीयायां तेन तेन तथा प्रतिपत्तव्यमिति तृतीयया भवितव्यम् । तस्य तस्येति षष्ठी तु कथम्? न च ‘कर्तृकरणयोस्तृतीया’ इति प्राप्ततृतीयायाः ‘कर्तृकर्मणोःकृति’ इति षष्ठ्या बाधितत्वात् तदुपपत्तिरिति वाच्यम् । तथा सति तेन प्रतिपत्तव्यमित्यभियुक्तप्रयोगेषु तृतीयाऽभावप्रसङ्गादित्यतो नित्यं प्राप्तायाः ‘कर्तृकर्मणोः कृति’ इति कृद्योगलक्षणषष्ठ्याः ‘कृत्यानां कर्तरि वा’ इति सूत्रे कृत्ययोगे विकल्पितत्वेन तृतीयाषष्ठ्योरुभयोरप्यभ्यनुज्ञानात् । तव्यप्रत्ययस्य च ‘कृत्याः प्राङ्ण्वुलः’ इति कृत्यप्रत्ययत्वात् तद्योगे तृतीयापक्षे तेनेत्यस्य षष्ठीपक्षे तस्येत्यस्य च उपपन्नतया न तृतीयाषष्ठ्योरनुपपत्ति-रित्याशयेनाऽह- कृत्यानां कर्तरि वेति ।। तस्य प्रतिपत्तव्यमित्येतावता पूर्णत्वात् किं द्विर्वचनेनेत्यत आह- वीप्सायामिति ।। उक्तन्यायादिति ।। आत्मनः सत्यजीवत्वनिश्चयाभावे मोक्षस्याप्यनिश्चयान्न तदाशया सर्वेषां प्रतिपत्तिकरणं सम्भवतीति भावः ।

लघुप्रभा

(व्या.टि.)

ननु बहुदर्शनं कल्पकैकव्यक्तिनिश्चयं प्रतिबध्य हि तदभावे कारणं वाच्यम् । तदेव न । तस्मिन् सत्यपि तदुत्पादादिति शङ्कते- नन्विति ।। विनिगमकमिति ।। प्रबोधानन्तरमेकस्यावशिष्टत्वात्तस्य सत्यत्वेन कल्पकत्वनिश्चयो युज्यते । अत्र तु विशेषाभावान्न निश्चय इति भावः । निश्चयपक्षदूषणसम्मत्याऽनिश्चय-पक्षमन्योऽनुमन्यते-स्यादेतदिति ।। मोपपादीति ।। मोपपादीति चिणन्तं माङ्योगादडभावश्चेति बोध्यम् । पक्षतावच्छेदकाभावेन पक्षीकरणायोगादित्यर्थः । पक्षीकरणप्रकारं निर्दिश्य दूषयति- सर्वेऽपीत्यादिना ।। कल्प्य-त्वेति ।। पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतायाः सर्वपदेन सूचनादिति भावः । अनुपपत्तेरिति ।। प्रतियोगिविशेषितभेदज्ञाने तज्ज्ञानस्य हेतुत्वादित्यर्थः । पक्षान्तरं शङ्कते- कल्पकेति ।। कल्पकातिरिक्तत्वं पक्षीकृतानां कुतः सिद्धमिति वाच्यम् । कल्पितत्वादिति चेत्तत्राऽह- कल्पितत्व इति ।। कल्पकत्वेति ।। कल्प्यातिरिक्तत्वेनेति शेषः । कल्पकेति पाठे कल्पकमन्तरा कल्पितत्वासिद्ध्या परस्पराश्रयत्वमिति भावः । दृश्यत्वादिति ।। तेन सह साध्यसिद्धिप्रसङ्गात् । अन्यथा तत्रानैकान्त्यादित्यर्थः । विशेषणस्येति ।। अज्ञान-(व्या.टि.) विशेषणैकजीवस्येत्यर्थः । स्फुरणेति ।। स्फुरणं चैतन्यम् । दृश्यत्वमिति ।। वृत्तिव्याप्यत्वमि-त्यर्थः । एवं  कल्पकैकव्यक्तिनिर्धारणाभावे  कल्पनानुमानानुपपत्तिमभिधाय  मोक्षसाधनप्रतिपत्त्यनुपपत्तिमप्याह- किञ्चेति ।। तत्र पण्डितम्मन्योऽन्यो मन्यते- सर्वैरपीति ।। तदेतत्पण्डितहृदयपुण्डरीकं न मण्डयतीत्याशयेन विकल्प्य पृच्छति- किमत्रेति ।। क्रियेति ।। विस्रम्भादिरूपेत्यर्थः । अभावादिति ।। ‘नान्यः पन्थाः’ इति निषेधादिति भावः । ननु ‘कर्तृकरणयोः’ इति कर्तरि तृतीयया भाव्यमत आह- कृत्यानामिति ।। वीप्साया-मिति ।। ‘नित्यवीप्सयोः’ इति सूत्रेण द्विर्वचनम् । स्थाने द्विर्वचनपक्षे स्थानिवत्त्वेन सुबन्तत्वाद्विशिष्टस्यैकपदत्वम्, द्वे इति वचनसामर्थ्याद् द्वे पदे समुदिते आदेश इत्यर्थोपगमात्प्रत्येकमपि पदत्वम् । तेन पदकार्याणि स्युः । द्विःप्रयोगपक्षे तु प्रत्येकं पदसञ्ज्ञा स्पष्टैव । समुदायस्य तु तयोरेव प्रकृतिप्रत्यययोर्द्विरुक्तत्वात् ‘यस्मात्स विहितः’ इति न्यायेन पदत्वम् । ‘कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये’ इति वार्तिकेन तु द्विर्वचने ‘समासवच्च बहुलम्’ इति समासवद्भावादैकपद्यं द्रष्टव्यम् । वस्तुनि विकल्पासम्भवहेतोरेकतरपक्षासाधारण्याद्विकल्प्याऽद्यकल्पे योजयति- अयमर्थ इति ।। भ्रान्ता इति ।। पीता गावः, विभक्ता भ्रातर इत्यत्रेव महाभाष्योक्तदिशाऽत्रापि भ्रान्तो विषय आसामस्तीत्यर्शआद्यचि स्त्रीलिङ्गम् । अन्यथा ‘नपुंसके भावे क्तः’ इति नपुंसकत्वापत्तेः । द्वितीयं हेतुं योजयति- नियामकाभावेनेति ।। अथ वा विकल्पपदस्य कल्पितत्वाकल्पित्वरूपविरुद्धधर्मार्थत्वव(द्भीतत्वा)द् भ्रान्तत्वाभ्रान्तत्वरूपविरुद्धधर्मार्थत्वे तस्य विरुद्धर्मद्वयस्य वस्तुनि प्रतीतिसमूहे नियामकाभावेन व्यवस्थाया असम्भवादित्यर्थमुपेत्य वस्तुनि विकल्पासम्भवस्य पक्षद्वयसाधारण्यं द्रष्टव्यम् । विशिष्यानिश्चयेऽपि सामान्य-सिद्धिमात्रेण मोक्षसाधनानुष्ठानमाशङ्कते- नैतदेवमिति ।। निर्धार इति धृञो घञन्तम् । क्रियेरन्निति कर्मणि यकि ‘रिङ् शयग्लिङ्क्षु’ इति ऋतो रिङादेशे लिङात्मनेपदम् । स्वीयसत्यत्वानिश्चये मोक्षाशाऽसम्भवादि-त्यर्थः । प्रयोजनानिश्चयेऽपि कृष्यादाविव प्रवर्तेरन्नित्यत आह- न हीति ।। अनिश्चितप्रयोजनायाल्पक्लेशा-नुभवोऽस्तीत्यतो महान्तमित्युक्तम् । उक्तेति ।। उच्यमानपुरुषानिश्चयेन नियोज्याभावादित्यर्थः । राजाज्ञा-रूपमिति ।।  अकरणे दण्डरूपमित्यर्थः ।  अनिश्चयपक्षस्य क्रमातिक्रमेण निराकरणे नोत्तरस्यावसर-सङ्गतिर्लब्धेत्याह- तदेवमिति ।।