न च परमार्थतो ..
असत्ख्यातिसाधनपूर्वकं प्रत्यक्षस्य व्यावहारिकसत्ताविषयत्वनिरासः
मूलम्
- न च परमार्थतो भेदाभावो व्यावहारिकः सोऽस्तीति वाच्यम् । सदसद्वैलक्षण्ये प्रमाणाभावात् । असतः ख्यात्ययोगादिति वदतः ख्यातिरभून्न वा । यदि नाभूत् न तत्ख्यातिनिराकरणम् । यद्यभूत्तथाऽपि । न चासतो वैलक्षण्यं तत्प्रतीतिं विना ज्ञायते । न च शुक्ते रजतत्वं सदसद्विलक्षणम् । असदेव रजतं प्रत्यभादित्यनु-भवात् । न च प्रतीतत्वादसत्त्वाभावः । असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीति-रित्यन्यथाप्रतीतेरेव भ्रान्तित्वात् ।
तत्त्वमञ्जरी
नन्वस्ति विषये उपन्यस्तानां प्रमाणानां व्यावहारिको भेदः, परमार्थो ह्यपोद्यत इत्यत आह- न च परमार्थत इति ।। सदसद्विलक्षणं हि व्यावहारिकं नामेत्यभिप्रेत्याऽह- सदिति ।। असतः ख्यात्ययोगात् सतो बाधायोगात् ख्यातिबाधान्यथाऽनुपपत्त्याऽनिर्वचनीयमिति वदतोऽसतः ख्यातिरभून्न वा ? न चेत्, न तस्य ख्यातिनिराकरणं सम्भवति । अज्ञाते व्यवहारासम्भवात् । यद्यभूत् तथाऽप्येवमेव । अपरथा स्वव्याहतिप्रसङ्गात् । अपि च सदसद्विलक्षणत्वं साधयताऽसतो वैलक्षण्यं तस्य प्रतीतिं विना न ज्ञायेत । न हि गजमजानताऽजस्य तद्वैलक्षण्यं ज्ञायते । ननु नासतः ख्यातिर्निषिद्ध्यते । असतः सत्त्वेन ख्यात्ययोगादिति तैर्विवक्षितमित्यत आह- न च प्रतीतत्वा-दिति ।। सत्त्वेन प्रतीतत्वादित्यर्थः । तत्पक्षेऽनिर्वचनीयं हि रजतं तस्य परमार्थत्वं चाविद्यमानमेव परमार्थमिदं रजतमिति दृश्यते । एवं चानिर्वचनीयपरमार्थत्वस्यासत एव दृष्टिरङ्गीकृता ।
टीका
नन्वस्तु प्रत्यक्षादिकमुपजीव्यम् । तथाऽपि नोक्तानुमानजातस्याप्रामाण्यं, भिन्नविषयत्वेन विरोधाभावात् । भेदप्रपञ्चस्य हि पारमार्थिकं सत्त्वमस्माभिर्नाङ्गीक्रियते, व्यावहारिकं त्वङ्गीक्रियत एव । तत्रोक्तानुमानजातं भेदप्रपञ्चस्य व्यावहारिकी सत्तामनुपमृद्य पारमार्थिकसत्ताप्रतिषेध-परम् । प्रत्यक्षादिकं तु व्यावहारिकी सत्तां गोचरयतीति । अपृथिवीत्वाद्यनुमानं प्रत्यक्षं चोभयमप्यपारमार्थविषयमिति युक्तस्तत्र बाध्यबाधकभाव इत्यभिप्रायेणाऽशङ्क्य प्रतिषेधति- न चेति ।। भेदाभावः सोऽनुमानसाध्य इति शेषः । स भेदोऽस्ति प्रत्यक्षादेर्विषय इति शेषः । कुतो न वाच्यमिति चेत्, प्रत्यक्षादेरपि भेदप्रपञ्चस्य परमार्थसत्त्वविषयत्वात् । तदपि कुत इति चेत्, परि-शेषात् । भेदप्रपञ्चं गोचरयतो हि प्रत्यक्षादेः परमार्थसन्वाऽसौ विषयो भवेत्, असन् वा, सदसद्वि-लक्षणानिर्वचनीयो वा । तत्र अनिर्वचनीयासत्पक्षयोः प्रतिषेधे परमार्थसद्विषयत्वमेव परिशेक्ष्य-(सेत्स्य)तीत्याशयवान् सदसद्वैलक्षण्यपक्षानुपपत्तौ तावद्धेतुमाह- सदसदिति ।। भेदप्रपञ्चस्येति शेषः । सदसद्वैलक्षण्यं नाम सत्त्वेनासत्त्वेन च रहितत्वम् । दृश्यत्वादिहेतुभिः वियदादिप्रपञ्चस्य सदसद्वैलक्षण्यसाधनात् कथं तत्र प्रमाणाभाव इति चेन्न । दृष्टान्ताभावेन व्याप्त्यसिद्धेः । शुक्ति-रजतादिकं दृष्टान्त इति चेन्न । कुत इत्यत आह- सदसद्वैलक्षण्य इति ।। शुक्तिरजतादेरिति शेषः।
नन्वस्त्यर्थापत्तिरत्र प्रमाणम् । तथा हि- न तावत् शुक्तिरजतादिकमत्यन्तासत्, असतः ख्यात्ययोगादस्य च ख्यायमानत्वात् । नापि परमार्थसत्, सतो बाधायोगात् अस्य च बाध्यमान-त्वात् । अतः ख्यातिबाधान्यथाऽनुपपत्त्या सदसद्विलक्षणं शुक्तिरजतादिकमिति चेन्न । अत्यन्ता-सत्त्वेनैवोपपत्तेः । नन्वसतः ख्यात्ययोगात् ख्यायमानमिदं नासदित्युक्तमित्यतोऽसतः ख्याति-मुपपादयितुं पृच्छति- असत इति ।। इति वदत इत्यसतः ख्यातिं प्रतिषेधतः परस्येत्यर्थः । ख्यात्यभावपक्षस्य परेणाङ्गीकृतत्वात् तमेवाऽदौ निराकरोति- यदि नेति ।। यद्यसत्परेण कदाऽपि न प्रतीतं तदा तस्य असत्ख्यातिनिषेधो न युज्यते । असद्विशिष्टा खलु ख्यातिर्निराक्रियते । न च विशेषणाप्रतीतौ विशिष्टप्रतीतिरस्ति । न चाप्रतीतस्य प्रतिषेधो युज्यते । अतः परकीयप्रतिषेधानुप-पत्त्यैवासतः ख्यातिः सिद्ध्यतीति । आद्यं दूषयति- यदीति ।। अभूद् असतः ख्यातिः । तथाऽपि न तत्ख्यातिनिराकरणं युज्यते स्वक्रियाविरोधात् । तथा च असतः ख्यातिरनिवार्या ।
इतोऽप्यसतः ख्यातिरङ्गीकार्येत्याह- न चेति ।। शुक्तिरजतादेरसतो वैलक्षण्यं खल्वर्थापत्त्या ज्ञातव्यम् । न च तद् असत्प्रतीतिं विना ज्ञातुं शक्यते । वैलक्षण्यं हि व्यावृत्तिः । सा च प्रतियोगि-ज्ञानाधीनज्ञानेति कथं तदप्रतीतौ प्रतीयेत । अतोऽर्थापत्तेः फलेन विरोधः स्यात् । तथा चासत्त्वे-नोपपत्तेर्नार्थापत्त्या शुक्तिरजतादेरनिर्वाच्यतासिद्धिरिति । तथाऽपि शुक्तिरजतादिकमनिर्वचनीयं बाध्यत्वाद् व्यतिरेकेणाऽत्मवदित्यनुमानेन तत्सिद्धिर्भविष्यतीत्यत आह- न च शुक्तेरिति ।। अनुमानेन कल्पनीयमिति शेषः । अत्यन्तासतो रजतत्वस्य शुक्तिकायाम् अत्यन्तासन्नेव संसर्गो वा रजतस्यैव तादात्म्यं वा भ्रान्तिविषय इति ज्ञापयितुं क्वचिद्भावनिर्देशः क्वचिद्द्रव्यनिर्देशः । कुतो नेति चेद् बाधकप्रत्ययेनात्यन्तासत्त्वस्यैवावधारणेन कालातीतत्वादित्याह- असदेवेति ।। बाधकप्रत्ययस्य वस्तुव्यवस्थापकत्वेन प्राबल्यं निश्चितमेव ।
नन्वयं बाधकप्रत्ययः सत्त्वाभावविषयः । शुक्तिरजतादेः प्रतीतत्वादसत्त्वाभावात् । न चासतोऽपि प्रतीतिरुपपादितेति वाच्यम् । असतोऽसत्त्वेन प्रतीतावपि सत्त्वेन प्रतीत्यभावात् । अस्य च सत्त्वेन प्रतीतत्वात् । एतेनार्थापत्तिरपि समर्थिता भवति, प्रतीतिमात्रसद्भावेन प्रतिषेधाद्युपपत्तेः । सत्त्वेन प्रतीतेश्च अर्थापत्तिशरीरेऽप्रवेशादित्यत आह- न चेति ।। प्रतीतत्वात्सत्त्वेनेति शेषः । असत्त्वा-भावः शुक्तिरजतादेः । कुतो नेति चेत्, किमसतः सत्त्वेन प्रतीतिरभ्रान्तौ नास्ति उत भ्रान्तावपि वा । नाऽद्यः । प्रकृतानुपयोगात् । द्वितीये भ्रान्त्यभावप्रसङ्गः । कुत इत्यत आह- असत इति ।। असतो रजतादेः सत्त्वेन प्रतीतिः सतश्च शुक्त्यादेरसत्त्वप्रतीतिरित्येवंरूपान्यथाप्रतीतेरेव भ्रान्ति-त्वात् । अन्यथाप्रतीतेरेव भ्रान्तित्वादित्येतावत्येवोक्ते नासतः सत्त्वेन प्रतीतिः सिद्ध्यति । अन्यथा-ख्यातिवादिभिरपि असतः सत्त्वेन प्रतीतेरनङ्गीकृतत्वात् । अतोऽसतः इत्याद्यन्यथाख्यातिव्याख्यानं कृतम् । यद्यसदसत्वेन सच्च सत्त्वेनैव प्रतीयते तदा का नाम भ्रान्तिः । सतः सदन्तरात्मता-प्रतीतिर्भ्रान्तिरिति चेत् किं सतः सदन्तरात्मता सती उतासती । नाऽद्यः । भ्रान्तित्वाभाव-प्रसङ्गात् । द्वितीये सा किमसत्त्वेन प्रतीयते किं वा सत्त्वेन । आद्ये पुनर्भ्रान्तित्वानुपपत्तिरेव । द्वितीये कथमसतः सत्त्वेन प्रतीत्यभावः । असतो धर्मस्य सत्त्वेन प्रतीतिरस्ति न तु धर्मिण इति तु नियामकशून्यम् । अत्र प्रतीतस्य रजतस्यान्यत्र सत्त्वकल्पनं च प्रमाणविकलम् । विज्ञानवादिनाऽ-प्यान्तरस्य बाह्यत्वमत्यन्तासदेव सत्त्वेन प्रतीयत इत्यङ्गीकर्तव्यमेव । अतोऽन्यथा भ्रान्तित्वानुप-पत्तेस्तल्लोभादवश्यमसतः सत्त्वेन प्रतीतेरङ्गीकार्यत्वेन न बाधकप्रत्ययस्य विषयान्तरं कल्प्यम् । नाप्यर्थापत्तेः समर्थनमिति ।
भावबोधः
सदेकस्वभावस्य भेदस्य सदसद्रूपत्वाभावेन सदसद्वैलक्षण्यं युज्यत एवेति कथं तद् दूष्यत इत्यत आह- सदसद्वैलक्षण्यं नामेति ।। ‘न च परमार्थतः’ इति पूर्ववाक्यानुरोधेन ‘सदसद्वैलक्षण्ये’ इति वाक्यम् ‘प्रपञ्चस्येति शेषः’ इति व्याख्याय ‘असतः ख्यात्ययोगात्’ इत्युत्तरवाक्यानुरोधेनापि तद्व्याचश्व्े - शुक्तिरजतादेरिति शेष इति ।। अर्थापत्तेः फलेन विरोध इति ।। ख्यात्यन्यथाऽनुपपत्तेरसत्प्रतीतिप्रतिक्षेपकत्वादसद्वैलक्षण्य-ज्ञानजननलक्षणतत्फलस्यासत्ख्यात्याक्षेपकत्वादिति भावः । क्वचिद्द्रव्यनिर्देश इति ।। अनिर्वचनीयत्वे रजतस्येत्यादौ धर्मिनिर्देश इत्यर्थः । सत्त्वेनेति शेष इति ।। अन्यथा ‘असतः ख्यात्ययोगात्’ इत्यनेन गतार्थता ‘असतः सत्त्वप्रतीतिः’ इत्युत्तरग्रन्थानानुगुण्यं च स्यादिति भावः । प्रकृतानुपयोगादिति ।। असतः सत्त्वेन प्रमित्यसम्भवेऽपि तथा भ्रमसम्भवात्सत्त्वेन भ्रमगोचरस्यापि शुक्तिरजतादेरसत्त्वोपपत्तेर्बाधकप्रत्ययस्य विषयान्तरकल्पनेऽर्थापत्तिसमर्थने चैतस्यानुपयोगादित्यर्थः । असतो धर्मस्येति ।। संसर्गतादात्म्यरूपस्ये-त्यर्थः । न तु धर्मिण इति ।। आरोप्यस्येत्यर्थः । न चाऽरोप्यस्यान्यत्र सत्त्वमेव नियामकमित्यत आह- अत्र प्रतीतस्येति ।। यद्यपि संसर्गादेरसतः सत्त्वेन प्रतीत्यङ्गीकारेणापि प्रकृतसिद्धिः, तथाऽपि स्मर्यमाणारोपस्थले आरोप्यस्याप्यसतः सत्त्वेन प्रतीतिरिति सिद्धान्तनिष्कर्षार्थमेतदुक्तमिति ज्ञातव्यम् ।
भावदीपः
मूलमवतारयितुं शङ्कामाह- नन्वस्तु प्रत्यक्षादिकमिति ।। धर्मिसाध्यलिङ्गव्याप्त्यादिसत्त्वग्राहकमिति योज्यम् । नन्वेवं बाधोच्छेद इत्यत आह- पृथिवीत्वाद्यनुमानमिति ।। आदिपदेनाऽनग्नित्वाद्यनुमानपरिग्रहः। प्रतियोगितदभावयोर्द्वयोरप्येकरूपत्वादिति भावः । स्वोक्तं मूलारूढं कर्तुमाह- इति शेष इति ।। भेदप्रपञ्च-स्येति ।। भेदस्य प्रपञ्चस्य चेति वा भेदसहितप्रपञ्चपरमार्थसत्त्वस्यापीति वाऽर्थः । एवमग्रेऽपि । शङ्कते- दृश्यत्वादि-हेतुभिरिति ।। तदेव वाक्यं दृष्टान्तनिरासकत्वेनाप्यवतार्य योजयति- कुत इत्यत आहेति ।। इति शेष इति च ।। अत्रेति ।। शुक्तिरूप्यादेस्सदसद्विलक्षणत्वरूपानिर्वचनीयत्व इत्यर्थः । ख्यातीति ।। प्रतीत्ययोगादित्यर्थः। अस्य चेति ।। शुक्तिरूप्यस्य । प्रश्नविषयनिर्देशव्युत्क्रमेण निरासः कुत इत्यत आह- ख्यात्यभावपक्ष-स्येति ।। असद्विशिष्टेति ।। पटधीर्नेतिवदसत्प्रतीतिर्नेत्यत्र असतः प्रतीतौ व्यावर्तकतया विशेषणत्वेनासद्विशिष्टा सद्व्यावर्तिता ख्यातिरित्यर्थः । असतो निषेध्यता तु नाभिप्रेता । विशेषणेति ।। व्यावर्तकाप्रतीतावित्यर्थः । अभूदिति मूलपदानुवादः । किमित्यत आह-असतः ख्यातिरिति ।। तथाऽपीत्यनूद्यार्थमाह-न तदिति ।। स्वयं युक्तिमाह- स्वक्रियेति ।। असतः ख्यातिर्नेत्येवंरूपवचनक्रियया विरोध इत्यर्थः । असत इति ।। असतोऽ-प्रतीतावसद्वैलक्षण्यज्ञानायोगेनासद्वैलक्षण्यज्ञानरूपफलेन ख्यायमानत्वान्यथाऽनुपपत्तिरूपार्थाप-त्तेर्विरोधः । असद्वैलक्षण्यज्ञानम् असद्विज्ञानमपि भवतीति ख्यात्याऽसन्नेत्युक्ते विरोधः स्पष्ट एव, असन्नेत्युक्त्यै-वासत्ख्यातेः प्राप्तत्वात् । एवं च ख्यातिरसत्त्वमेवाऽपादयति नासद्वैलक्षण्यमिति भावः । क्वचिद्भावेति ।। न च शुक्ते रजतत्वमिति भावप्रत्ययनिर्देशः ‘तस्य भावस्त्वतलौ’ इत्युक्तेः । क्वचित् सदसद्वैलक्षण्ये प्रमाणाभावा-दित्यत्र शुक्तिरजतादेरिति शेषोक्त्या भवितृरूपरजतादिद्रव्यनिर्देशः संसर्गारोपतादात्म्यारोपाभिप्रायेणेत्यर्थः।
कुतो नेति चेदिति ।। बाध्यत्वानुमानेन शुक्तिरजतादिकमनिर्वचनीयं कुतो न कल्प्यमित्यर्थः । सत्त्वाभाव-विषयता कुतः कल्प्येत्यत आह- शुक्तिरजतादेरिति ।। अस्य चेति ।। शुक्तिरजतादेः । समर्थितेत्युक्तं व्यनक्ति- प्रतीतिमात्रेत्यादिना ।। आदिपदेनासद्वैलक्षण्यज्ञानग्रहः । अर्थापत्तिशरीरेति ।। असच्चेत् सत्त्वेन न प्रतीयेतेत्येवंरूपेणेत्यर्थः । उक्तमर्थं मूलारूढं दर्शयितुं शेषमाह- शुक्तिरजतादेरिति ।। प्रकृतानुपयोगा-दिति ।। भ्रमविषयस्यासद्वैलक्षण्यसिद्धिरूपप्रकृतप्रमेयानुपयोगादित्यर्थः । वाद्यन्तररीत्या सिद्ध्यतीत्यत आह- अन्यथाख्यातिवादिभिरपीति ।। यद्यपि प्राचीनतार्किकैः सदुपरागेणासदपि भासदपि संसर्गोऽसन्नेव भासत इत्यङ्गीक्रियते । तथाऽपि स रजतत्वसंसर्गः स्वरूपेणाऽसन्नपि संसर्गमर्यादयैव भासते न त्वसत्त्वेनेति असतः संसर्गस्य भानेऽपि धर्मिणो रजतादेर्नासतो भानमित्यङ्गीकारादसतः सत्त्वेन प्रतीतेरनङ्गीकारादित्युक्तम् । अन्यथा-ख्यातिव्याख्यानम् अन्यथाख्यातिस्वरूपनिरूपणमित्यर्थः । शङ्कते- असतो धर्मस्येति ।। सतः सदन्तरात्मत्व-रूपधर्मस्येत्यर्थः । अत्रेति ।। शुक्तिकादावित्यर्थः । प्रसक्तानुप्रसक्तं प्रकृतोपयोगितयोपसंहरति - अतोऽन्य-थेत्यादिना ।।
वाक्यार्थदीपिका
(श्री.टि.)
भिन्नविषयकत्वेनेति ।। समानसत्ताकवस्तुविषयकत्वाभावो भिन्नविषयकत्वं तेनेत्यर्थः । भिन्नविषयकत्वमुपपादयति- भेदप्रपञ्चस्येत्यादिना ।। व्यावहारिकं सत्त्वम् । नन्वनुमानस्यापि व्यावहारिकसत्ता-प्रतिषेधकत्वाद्भिन्नविषयकत्वं नास्तीत्यत उक्तम्- व्यावहारिकी सत्तामनुपमृद्येति ।। गोचरयतीति ।। भिन्नविषयकत्वेनेति सम्बन्धः । नन्वेवं चेदपृथिवीत्वानौष्ण्यसाधकानुमानप्रत्यक्षयोरपि बाध्यबाधकभावो न स्यात् । अनुमानेन पृथिवीत्वौष्ण्ययोरभावः पारमार्थिकस्साध्यते । प्रत्यक्षेण तु व्यावहारिकमेव पृथिवीत्वमौष्ण्यं च गृह्यत इति भिन्नविषयकत्वादिति वक्तुं शक्यत्वादित्यत आह- अपृथिवीत्वाद्यनुमानमिति ।। प्रत्यक्षं पृथिवीत्वौष्ण्यावगाहि प्रत्यक्षम् । अपरमार्थेति ।। पृथिवीत्वमौष्ण्यं तदुभयाभावश्च व्यावहारिक एवेति समानसत्ताकवस्तुविषयकत्वेन समानविषयकत्वादिति भावः । स इति तच्छब्दस्य प्रकृतभेदाभावपरत्वप्रतीति-वारणायानूद्यार्थमाह- स भेद इति ।। अभावप्रतियोगित्वेन भेदस्यापि प्रकृतत्वादिति भावः । परमार्थ-सत्त्वेति ।। तथा च भेदग्राहिप्रत्यक्षाभेदसाधकानुमानयोः समानसत्ताकवस्तुविषयकत्वेन समानविषयकत्वाद्युक्त एव बाध्यबाधकभाव इति भावः । परिशेषप्रकारमेवाऽह- भेदप्रपञ्चमित्यादिना ।। असौ भेदप्रपञ्चः । ननु सदेकस्वभावस्य भेदस्य सदसद्रूपत्वाभावेन सदसद्वैलक्षण्यं युक्तमेवेति कथं दूष्यत इत्यत आह- सदसद्वैलक्षण्यं (श्री.टि.) नामेति ।। रहितत्वमिति ।। तत्र प्रमाणाभावादित्यर्थः । शङ्कते- दृश्यत्वादीति ।। अर्थापत्तेरन्य-थोपपत्तिं दूषणमाह- अत्यन्तासत्त्वेनैवेति ।। ननु विकल्पानुसारेण कुतो न दूष्यत इत्यत आह- परेणाङ्गी-कृतत्वादिति ।। असद्विशिष्टेति ।। असद्विशेषणकेत्यर्थः । विशेषणेति ।। असद्रूपेत्यर्थः । विशिष्टेति ।। असत्ख्यातिरूपविशिश्व्ेत्यर्थः । विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वादिति भावः । ततः किमित्यत आह- न चेति ।। अप्रतीतस्य असत्ख्यातिरूपविशिष्टस्य । अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वादिति भावः । प्रतिषे-धेति ।। असत्ख्यातिप्रतिषेधेत्यर्थः । स्वक्रियेति ।। मूकोऽहमितिवदिति भावः । अर्थापत्तेः फलेन विरोधः स्यादिति ।। असच्चेन्न प्रतीयेतेति ख्यात्यन्यथाऽनुपपत्तेरसत्प्रतीतिप्रतिक्षेपकत्वाद्विपर्ययपर्यवसानलभ्यस्य असद्वैलक्षण्यज्ञानलक्षणस्यार्थापत्तिफलस्यासत्ख्यात्याक्षेपकत्वेनार्थापत्तेः फलेन विरोधस्स्यादित्यर्थः । ननु शुक्ते रजतत्वमिति धर्मनिर्देशः, अनिर्वचनीयत्वे च रजतस्यानिर्वचनीयमिदं रजतमित्यत्र धर्मिनिर्देश इति विचित्रप्रयोगः किमर्थम्, इत्यतोऽत्र रजतत्वमिति संसर्गारोपः, इदं रजतमिति तादात्म्यारोप इत्यारोपद्वय-सद्भावात्तदभिप्रायेणेत्याह- अत्यन्तासत इत्यादिना ।। संसर्गः समवायः । भावनिर्देशः रजतत्वमिति धर्म-निर्देशः । द्रव्यनिर्देशः रजतमिति धर्मिनिर्देशः ।
नन्वनुभवत्वाविशेषात्कथमस्यानुभवस्य प्राबल्यं येन बाधकत्वं स्यादित्यत आह- बाधकप्रत्ययस्येति ।। विशेषदर्शनजन्यत्वादिति भावः । सत्त्वाभावविषय इति ।। न च तावताऽसत्त्वप्राप्तिः । अनिर्वचनीयरूपतृतीय-कोट्यङ्गीकारादिति भावः । नन्वयं बाधकप्रत्ययः सत्त्वाभावविषयः कुतः? असत्त्वविषयक एव किं न स स्यादित्यत आह- शुक्तिरजतादेरिति ।। अस्य चेति ।। रजतस्येत्यर्थः । अन्यथा प्रवृत्तिर्न स्यादिति भावः । एतेनेत्युक्तं विशदयति- प्रतीतिमात्रेति ।। असत्त्वेनेत्यर्थः । प्रतिषेधेति ।। असत्ख्यातिप्रतिषेधेत्यर्थः । आदि-पदेन असद्वैलक्षण्यज्ञानग्रहणम् । नन्वेवमसतः प्रतीत्यङ्गीकारे असच्चेन्न प्रतीयेतेत्यापादनानुपपत्त्याऽर्थापत्त्य-नुपपत्तिरित्यत आह- सत्त्वेनेति ।। तथा चासच्चेत्सत्त्वेन न प्रतीयेतेत्यापादनकरणान्न विरोध इत्यर्थः । सत्त्वेनेति शेष इति ।। अन्यथा ‘असतः ख्यात्ययोगात्’ इत्यनेन गतार्थता ‘असतः सत्त्वप्रतीतिः’ इत्युत्तरग्रन्थानानुगुण्यं च स्यादिति भावः । अभ्रान्तौ प्रमायाम् । प्रकृतेति ।। बाधकप्रतीतेस्सत्त्वाभावविषयकत्वमसद्वैलक्षण्योपपादनेन अर्थापत्तिसमर्थनं च प्रकृतं तदनुपयोगादित्यर्थः ।
अयं भावः - असतः सत्त्वेन प्रतीतिरभ्रान्तौ नास्तीत्युक्त्या असच्चेत्सत्त्वेन न प्रतीयेतेति सत्त्वप्रकारक-प्रमाविषयत्वाभाव आपादितः स्यात् । ओमिति चेत्, तथात्वेऽसतः सत्त्वेन प्रमित्यसम्भवेऽपि सत्त्वेन भ्रमसम्भवात् सत्त्वेन भ्रमगोचरस्यापि शुक्तिरजतादेरसत्त्वस्यैवोपपत्तेरसदेव रजतं प्रत्यभादिति बाधकप्रत्ययस्य सत्त्वाभावरूप-विषयान्तरकल्पनम् अर्थापत्त्याऽसद्वैलक्षण्योपपादनं चानुपयुक्तं स्यादिति । नासतः सत्त्वेन प्रतीतिः सिद्ध्य-तीति ।। एवमन्यथाख्यातिलक्षणमुक्त्वा सर्वान्प्रत्यप्यसतः सत्त्वेन प्रतीत्युपपादनमस्माभिः कर्तव्यं तन्न सिद्ध्यतीत्यर्थः । कुत इत्यत आह- अन्यथाख्यातिवादिभिरपीति ।। अन्यत्र विद्यमानमेवान्यत्राऽरोप्यत (श्री.टि.) इत्यन्यथाख्यातिवादिभिस्तार्किकैरित्यर्थः । असत इति ।। सत एव सत्त्वेन प्रतीत्यङ्गीकारादिति भावः । व्याख्यानं कृतमिति ।। भ्रमविषयप्रदर्शनं कृतमित्यर्थः । एवमनङ्गीकारे बाधकमाह- यद्यसदित्या-दिना ।। यदीत्यनन्तरमसतस्सत्त्वेन सतश्चासत्त्वेन प्रतीतिमनङ्गीकृत्येति शेषः । अवधारणव्यावर्त्यं दर्शयितु-माशङ्कते- सत इति ।। शुक्तेरापणस्थरजतात्मताप्रतीतिरित्यर्थः । सा सदन्तरात्मता । अनुपपत्तिरेवेति ।। असत एवासत्त्वेन प्रतीतत्वादित्यर्थः । कथमिति ।। असत्या एव सदन्तरात्मतायाः सत्त्वेन प्रतीतत्वादित्यर्थः। ननु असन् यो धर्मस्तस्य सत्त्वेन प्रतीतिरङ्गीक्रियते न तु धर्मिणः । तथा चासतस्संसर्गस्य तादात्म्यरूपस्य वा धर्मत्वेन सत्त्वेन प्रतीतिः सम्भवतीति चेत्तत्राऽह- असत इति ।। धर्मिणः आरोप्यस्य रजतस्य । नन्वन्यत्र विद्यमानस्यैवान्यत्राऽरोपाङ्गीकारादारोप्यस्यान्यत्र सत्त्वमेवासतो धर्मिणस्सत्त्वेन प्रतीतिर्नास्तीत्यत्र नियामकमि-त्यत आह-अत्र प्रतीतस्येति ।। आन्तरस्येति ।। विज्ञानरूपत्वेनाऽन्तरस्य रजतस्येत्यर्थः । अतोऽन्यथेति ।। असतो भ्रान्तावपि सत्त्वेन प्रतीत्यनङ्गीकार इत्यर्थः । बाधकप्रत्ययस्य असदेव रजतं प्रत्यभादित्यस्य । विषयान्तरं सत्त्वाभावरूपम् । नापीति ।। असच्चेद् भ्रान्तावपि सत्त्वेन न प्रतीयेत, प्रतीयते च सत्त्वेन, तस्मादसन्नेति वक्तुं न शक्यते । असत्त्वेऽपि सदन्तरात्मतावद्बाह्यत्ववच्च प्रतीतिसम्भवादिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
तथाऽपीति ।। उपजीव्यतयाऽधिकबलत्वेऽपीत्यर्थः । विरोधित्वे सत्यधिकबलत्वस्यैव बाधकत्वे प्रयोजकत्वेनाविरुद्धस्याधिकबलस्याबाधकत्वादिति भावः । कुतस्तस्याविरुद्धत्वमित्यतस्तत्प्रयोजकस्य समान-विषयत्वस्य विरहादित्याह- भिन्नविषयत्वेनेति ।। भिन्नविषयतामेवोपदर्शयति- भेदप्रपञ्चस्य हीति ।। नन्वेव-मेवापृथिवीत्वानुमानेऽपि भिन्नविषयतया प्रत्यक्षानुमानयोरविरोधस्य वक्तुं शक्यत्वान्न प्रत्यक्षेणानुमानबाधः स्यादित्यत आह-अपृथिवीत्वेति ।। उक्तशङ्काया मूलारूढतामपेक्षितपूरणेन दर्शयति- भेदाभावेत्यादिना ।। ननु सदेकरूपत्वात्प्रपञ्चस्य तद्ग्राहकप्रमाणस्यैव सदसद्रूपत्वाभावरूपसदसद्वैलक्षण्यसाधकत्वान्न तत्र प्रमाणा-भाव इत्यत आह- सदसद्वैलक्षण्यं नामेति ।। ‘सदसद्वैलक्षण्ये’ इति वाक्यं प्रतिज्ञानिरासपरत्वेन योजयित्वा दृश्वन्ते साध्यवैकल्यपरतयाऽपि योजयितुं दृष्टान्तसद्भावमाशङ्कते- शुक्तिरजतादिकमिति ।। दृष्टान्तनिरास-परत्वसिद्ध्यर्थमनुगुणं शेषमाह- शुक्तिरजतादेरिति शेष इति ।। अयोगादिति ।। यदसत् तन्न प्रतीयत इति व्याप्तेः । अन्यथा नरविषाणस्यापि प्रतीतिप्रसङ्गादिति भावः । इष्टापत्तिं परिहरति- अस्य चेति ।। बाधायोगा-दिति ।। यत् सत् तन्न बाध्यत इति व्याप्तेः । अन्यथा सदात्मनोऽपि बाधप्रसङ्गादिति भावः । इष्टापत्तिं परिहरति- अस्य चेति ।। विकल्पक्रमानुसारेण ख्यातिपक्षस्यैव प्रथमतो निराकर्तव्यत्वात् तदभावपक्षनिराकरणं प्रथमतोऽसङ्गतमित्यतस्तत्र निमित्तमाह- ख्यात्यभावपक्षस्येति ।। अभावस्य भावनिरूप्यत्वाद् ख्यातिपक्ष एव पूर्वं विकल्पित इति हृदयम् ।
ननु यदि परोऽसत्प्रतीतिमान्न स्यात् तर्ह्यसत्ख्यातिनिषेधको न स्यादित्यापादनपक्षे, विमतोऽसत्प्रतीतिमान् असत्ख्यातिनिषेधकत्वादित्यनुमानपक्षे चाऽपादकसत्त्वेऽप्यापाद्यानङ्गीकारे वा हेतुसत्त्वेऽपि साध्यानङ्गीकारे वा (पां.टि.) बाधकाभावादप्रयोजकत्वमित्यतः, नात्र साक्षादापादनं साधनं वाऽभिप्रेतं, किन्तु यदि परोऽसत्प्रतीति-मान्न स्यात्तर्ह्यसत्ख्यातिप्रतीतिमान्न स्यात्, यदि चासत्ख्यातिप्रतीतिमान्न स्यात्तर्ह्यसत्ख्यातिनिषेधको न स्यादिति, विमतोऽसत्प्रतीतिमान् असत्ख्यातिप्रतीतिमत्त्वाद्, विमतोऽसत्ख्यातिप्रतीतिमान् असत्ख्यातिनिषेधकत्वादिति वा परम्पराऽऽपादनस्य साधनस्य वाऽभिप्रेतत्वान्नानुपपत्तिरित्यभिप्रेत्याऽपादनद्वयेऽनुमानद्वयेऽप्यप्रयोजकत्वं परिहर्तुं तत्ख्यातिनिराकरणपदतात्पर्यमाह- असद्विशिष्टेति ।। कथमेतावतोभयत्राप्रयोजकत्वपरिहार इत्यतः, आद्ये तर्के आद्यानुमाने चाकारणकार्योत्पत्तेरेव विपक्षे बाधकत्वान्न तदित्याशयेनाह- न च विशेषणेति ।। विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वेन असति तस्मिन् तदसम्भवादित्यर्थः । द्वितीयतर्के द्वितीयानुमानेऽप्य-कारणकार्योत्पत्तेरेव विपक्षे बाधकत्वान्नाप्रयोजकत्वमित्याशयेनाऽह - न चाप्रतीतस्येति ।। अभावस्य ससम्बन्धिकपदार्थतया प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानाधीनज्ञानत्वादित्यर्थः । स्वक्रियाविरोधा-दिति ।। मूकोऽहमिति वचनक्रियया मूकपदोक्तवचननिषेधस्य विरोधवत्, आत्मा पराधीनप्रकाशो नेत्यात्म-सम्बन्धित्वेन पराधीनप्रकाशत्वनिषेधकात्मविषयज्ञानक्रियया नेति पदोक्तनिषेधस्य विरोधवच्च असन्न प्रतीयत इत्यसत्सम्बन्धित्वेन प्रतीतिविषयत्वनिषेधकासद्विषयज्ञानक्रियया नेति नञा प्रतिपिपादयिषितासत्प्रतीतिनिषेधस्य विरोधादित्यर्थः । अप्रयोजकत्वशङ्कां परिहर्तुं वैलक्षण्यं निरूपयति- वैलक्षण्यं हीति ।। अधीनेति ।। अन्वय-व्यतिरेकाभ्यां प्रतियोगिज्ञानस्य व्यावृत्तिज्ञानं प्रति कारणत्वावगमादिति भावः । कथमिति ।। कारणाभावेऽपि कार्योत्पत्तौ नियामकाभावेन कादाचित्कत्वानुपपत्तिप्रसङ्गादिति भावः । अर्थापत्तेः फलेन विरोध इति ।। यदसत् तन्न प्रतीयत इति व्याप्तिमूलकख्यात्यन्यथाऽनुपपत्तेः, प्रतीयते च तस्मान्नासत् किन्त्वसद्विलक्षणमित्य-सद्वैलक्षण्यज्ञानलक्षणफलेन विरोधः स्यात् । अस्या अर्थापत्तेरसत्प्रतीतिप्रतिक्षेपकत्वात् तत्फलस्यासद्वैलक्षण्य-ज्ञानस्य च अभावज्ञाने प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्य कारणत्वेन प्रतियोगिभूतासज्ज्ञान-सापेक्षत्वादिति भावः ।
क्वचिदिति ।। अत्रैव वाक्ये रजतत्वमिति धर्मनिर्देश इत्यर्थः । क्वचिद् द्रव्यनिर्देश इति ।। ‘असदेव रजतं प्रत्यभात्’ इत्यादौ रजतमित्यादिधर्मिनिर्देश इत्यर्थः । नन्वधिकबलत्वाभावात्कथमनेन बाधितत्वमित्यत आह- बाधकप्रत्ययस्येति ।। अन्यथा वस्तुव्यवस्थापकत्वमेव न स्यादिति भावः । उक्तशङ्काया मूलारूढतां कर्तुमनुरूपं शेषमाह- सत्त्वेनेति शेष इति ।। प्रकृतेति ।। अभ्रान्तावसतः सत्त्वेन प्रतीत्यभावस्य भ्रान्तिविषयस्य शुक्तिरजतादेरसत्त्वाभावानुपपादकत्वेन प्रकृतानुपयोगादित्यर्थः । एवकाराभिप्रायमाह- यद्यसदसत्त्वेनेति ।। असदादेः सत्त्वादिना प्रतीत्यभावेऽपि भ्रान्तिसम्भवं शङ्कते- सत इति ।। भ्रान्तित्वाभावप्रसङ्गादिति ।। अन्यथा घटे घटात्मतायाः सत्याः प्रतीतेरपि भ्रान्तित्वप्रसङ्गादिति भावः । कथमिति ।। सति सदन्तरात्मताया असत्याः सत्त्वेन प्रतिभासादिति भावः । ननु न वयमसतः सर्वथा सत्त्वेन प्रतीत्यभावं ब्रूमः, किन्तु धर्मिण एव । सदन्तरात्मतायाश्च धर्मत्वाद्युक्तस्तदसत्त्वेऽपि सत्त्वेन प्रतिभास इत्यत आह- असतो धर्मस्येति ।। (पां.टि.) नियामकशून्यमिति ।। वैपरीत्यस्यापि वक्तुं शक्यत्वादिति भावः । प्रमाणविकलमिति ।। भ्रान्त्यनुभवबाधानुभवभ्रान्त्यनुपपत्तिबाधानुपपत्तीनां तत्र प्रामाण्यस्यान्यत्रोपपादितत्वादिति भावः । आन्तर-स्येति ।। प्रतीत्यनुपपत्त्याऽसत्त्वस्य, भ्रान्तिबाधयोरनुपपत्त्या पुरतस्सत्त्वस्य, प्रमाणविकलतया देशान्तरे सत्त्वस्य चानुपपत्त्या परिशेषाद्रजतस्याऽन्तरत्वसिद्धिरिति भावः । बाह्यत्वमिति ।। आन्तरस्याऽन्तरत्वेन प्रतीतौ भ्रान्त्यभावप्रसङ्गादिति भावः । अत्यन्तासदेवेति ।। आन्तरस्य रजतस्य बाह्यतायाः सत्त्वे तत्प्रतिभासस्या-भ्रान्तित्वप्रसङ्गादिति भावः । सत्त्वेनेति ।। असत्या बाह्यताया असत्त्वेन प्रतिभासस्य भ्रान्तित्वाभावादिति भावः । अस्त्वेवं किं तावता सिद्धमित्यत आह- अत इति ।।
लघुप्रभा
(व्या.टि.)
एवं प्रत्यक्षादेरनुमानोपजीव्यत्वानुपगमेन पृथिवीत्वानुमानवैषम्यमाशङ्क्य परिहृतम् । अधुना तदुपजीव्यत्वमुपेत्यापि तद्वैषम्यमाशङ्कते- नन्वस्त्विति ।। विरोधेति ।। अप्रामाण्यहेतुतयोक्तविरोधस्या-सिद्धिरनेनोक्ता । तद्बीजं भिन्नविषयत्वमुपपादयितुं प्रतिषेध्याप्रतिषेध्यसत्त्वद्वैविध्यमाह- भेदप्रपञ्चस्येति ।। अनुपमृद्येति ।। नन्वनुपमृदित्वेति वक्तव्यं कथमनुपमृद्येति ‘समासेऽनञ्पूर्वे’ इति ल्यपः पर्युदासादिति चेदि-त्थम् । ‘गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः’ इति वचनेन गतिसमासस्य नित्यत्वात् । पूर्वमुपेन गतिसमासं विधाय पश्चान्नञ्समासकरणाददोषः । अत एव नैषधीयव्याख्याने ‘तमनाप्य भेजे’ इत्यत्राऽङा पूर्वं समस्तस्य पश्चान्नञ्समास इत्यवादीत् इति । गोचरयतीति सुब्धातुः । निगमयति- इतीति ।।
अयं भावः । धर्म्यैक्येऽपि यत्प्रत्यक्षादिग्राह्यं सत्त्वं न तन्निषेध्यम्, अनुमानेन यच्च निषिध्यते न तद्गृह्यते प्रत्यक्षादिना इति तद्ग्राह्याभावानवगाहित्वाद् भिन्नविषयत्वमिति । प्रत्यक्षसमानविषयत्वमपृथिवीत्वानुमाने दर्शयति- अपृथिवीत्वानुमानमिति ।। अपारमार्थिकविषयमिति ।। भावाभावयोर्व्यावहारिकसत्त्वादित्यर्थः। परमार्थसत्त्वेति ।। तथा च प्रत्यक्षस्यानुमाननिषेध्यग्राहित्वेन विरोधः स्थिर एवेति भावः । कुत इति ।। सिद्धमिति शेषः । तत्र प्रमाणाकाङ्क्षायामाह- परिशेषादिति ।। तत्र परिशेषस्य प्रसक्तप्रतिषेधपूर्वकत्वात्प्रसक्तान् पक्षान् प्रतिषेद्धुं विकल्पयति- भेदप्रपञ्चमिति ।। निषेध इति ।। अनुपपत्त्या सिद्धे इति शेषः । परिशेक्ष्य-तीति ।। शिषेर्लृटि स्ये ‘षढोः कः सि’ इति कत्वे लघूपधगुणे च रूपम् । पक्षीयसाध्ये प्रमाणनिषेधकतया मूलं संयोज्य दृष्टान्तेऽपि तत्प्रमाणनिषेधकतया योजयितुमुपक्षिपति- दृश्यत्वादीति ।। अर्थापत्त्यनुमे दूषयिष्यन् अर्थापत्तिं तावच्छङ्कते- नन्वस्तीति ।। ख्यायमानत्वादिति ।। ख्यातेः कर्मणि यकि शानचि आने मुकि सति रूपम् । बाध्यमानत्वादिति ।। प्राग्वदेवान्यथैवोपपत्त्याऽर्थापत्तिमाभासीकरोति- अत्यन्तासत्त्वेनैवेति ।। ननु इति वदत इति व्यर्थं ‘न तत्ख्यातिनिराकरणम्’ इत्युत्तरमूलाननुगुणं चेत्यतः तदनुगुणमर्थमाह- ख्यातिं प्रतिषेधत इति ।। ननु विकल्पव्युत्क्रमेण निराकरणे को हेतुरित्यत आह- ख्यात्यभावपक्षस्येति ।। सिद्ध्य-तीति ।। अनेनायं विशिष्टप्रतीतिमान् तन्निषेधकत्वात्, असद्रूपविशेषणप्रतीतिमान् तद्विशिष्टप्रतीतिमत्त्वात्, व्याप्तिश्च सामान्यतः इत्येवं प्रयोगद्वयं सूचयति । स्वक्रियेति ।। उक्तरीत्याऽवश्यकासज्ज्ञानरूपक्रियया (व्या.टि.) तन्निषेधवचनस्य विरोध इत्यर्थः । फलेनेति ।। वैलक्षण्यज्ञानरूपफलेनेत्यर्थः । फलसिद्धौ तन्नान्तरीय-कतयाऽसतोऽपि ख्यातिसिद्धेर्व्याप्तिभङ्गादित्यर्थः । उपसंहरति- तथा चेति ।।
शङ्कते- तथाऽपीति ।। अर्थापत्त्या तदसिद्धावपीत्यर्थः । आदिकमिति ।। अध्यस्तत्वमादिपदसङ्ग्राह्यता-वच्छेदकमित्यर्थः । ननु शङ्कासमाध्योर्भावभवितृनिर्देशभेदे को हेतुरित्यत आह- अत्यन्तासत इति ।। भ्रान्ति-समानेन बाधेन कथं बाधाभिधानमित्यत आह- बाधकप्रत्ययस्येति ।। वस्तुव्यवस्थापकत्वेनेति ।। परीक्षया सावधारणत्वेनेत्यर्थः । सत्त्वाभावेति ।। असदेवेत्यनुभवप्रत्यायकोऽसच्छब्दोऽसुरशब्दवन्न रूढः, किन्तु नञ्तत्पुरुष एवेति भावः । अर्थापत्तिमुपजीवयति- एतेनेति ।। प्रतिषेधादीत्यादिपदेनोक्तमसद्वैलक्षण्यज्ञानम् अनुक्तोऽसत्पदप्रयोगोऽपि ग्राह्यः । फलविरोधं परिहरति- सत्त्वेनेति ।। शरीर इति ।। आपाद्यकोटावित्यर्थः। प्रकृतेति ।। भ्रान्तिविषयरजतादेरत्यन्तासद्वैलक्षण्य इत्यर्थः । व्याख्यानं कृतमिति ।। अन्यथा ख्यात्यन्तर-निरासोऽप्यप्रयोजनमिति भावः । भ्रान्त्यनुपपत्तिं दर्शयति- यद्यसदसत्त्वेनेति ।। एतेनासतः सत्त्वप्रतीतिरूप-विशेषाभावेन कथं सामान्याभावापादनं सतोऽसत्त्वप्रतीतिमालम्ब्योपपत्तेः । विशेषाभावापादने त्वापादनैक्यमिति परास्तम् । असतोऽसत्त्वेनैव सतः सत्त्वेनैव प्रतीतिनियमस्याऽपादकत्वात्, भ्रान्त्यभावस्याऽपाद्यत्वात् । सद्विशेष्यकासत्त्वप्रकारकान्यतरत्वरूपलक्षणाभावे लक्षणान्तराभावेन लक्ष्याभावप्रसङ्गात् । उभयरूपत्वन्तु न लक्षणं, रजतप्रतीतौ शुक्त्यस्मृतौ तदसत्त्वविषयकत्वाभावात् ।
अन्यथा ख्यात्यन्तरं निरसितुमुपक्षिपति- सत इति ।। निरसितुं विकल्पेन पृच्छति- किमिति ।। भ्रान्तित्वा-भावेति ।। तद्वति तत्प्रकारकत्वादित्यर्थः । सदन्तरत्वायोगश्च ध्येयः । इति त्विति ।। वैषम्यचोद्यमित्यर्थः । शून्यमिति ।। विनिगमनाविरहेण विपरीतापत्तिग्रस्तं च । असदेवेदं रजतमिति बाधविरोधश्च । धर्मपदस्य तदात्मतामात्रपरत्वे संसर्गारोपानिर्वाहः, सम्बन्धपरत्वेऽपि धर्मिपदस्य द्रव्यपरत्वे आरोपितगुणादेरसत्त्व-स्वीकारापातः । पदार्थपरत्वे सम्बन्धस्यापि रजततादात्म्यस्य जातितया रजतत्वसमवायस्य समवायतया क्वचित् संयोगादिरूपतया निषेधायोगः । प्रकारपरत्वेऽत्र रजतत्वमित्यादौ रजतत्वादेरसत्त्वस्वीकारापत्तिः । वैशिष्ट्य-सम्बन्धिपरत्वेऽसत्त्वेन प्रतीयमानधर्मस्यापि तादृक्त्वेनोक्तनियमभङ्ग इत्यादिदूषणमूह्यम् । अन्यथाख्यातिमते दूषणान्तरं चाऽह- अत्र प्रतीतस्येति ।। आपणस्थेऽत्र प्रतीतेन, अत्र प्रतीते वाऽपणस्थेनाभेदप्रत्यभि-ज्ञानाभावादिति भावः । किञ्च पूर्वमन्यत्र प्रतीतस्याधुना सतोऽत्र प्रतीतिः, उताप्रतीतस्यापि सतः । द्वितीयेऽनन्ता-नामेतत्प्रत्ययविषयतापत्तिः । प्रथमे येनैकमेव रजतं दृश्व्ं भस्मसात्कृतञ्चानुभूतं तस्यान्यत्र भ्रान्तिर्न स्यात् । अन्यत्र सत्त्वाभावात् । तत्स्मरणे तद्भेदानुभवाच्च । पूर्वप्रतीतानामनेकेषां सत्त्वेऽपि सर्वेषां भ्रान्तिविषयत्वा-पत्तिः । न चेत्कस्यापि न स्यात् । किञ्च एकस्मिन् दृष्टे पुरःस्थित एवान्यत्र रजतभ्रान्तिर्न स्यात् । भेदानुभ-वात् । अपि च रजतशर्करासु दृष्टासु श्वेतपर्वतादौ भ्रान्तिर्न स्यात्, इत्यादिदूषणमूहनीयम् । एवमन्यथा-ख्यातिवादिनाऽसतः सत्त्वप्रतीतिं भ्रान्तावङ्गीकार्य विज्ञानख्यातिवादिनाऽप्यङ्गीकारयति- विज्ञानवादिनाऽ-(व्या.टि.) पीति ।। अङ्गीकर्तव्यमेवेति ।। आन्तरस्याऽन्तरत्वेन प्रतीतौ भ्रान्तित्वानुपपत्तेर्बहिष्ठे प्रवृत्त्यनुप-पत्तिश्चेत्यवधारणम् । अत इत्युपसंहारपरतया प्रतियोगिपरतया च तन्त्रेण योज्यम् । विषयान्तरमिति ।। सत्ताभावलक्षणमित्यर्थः ।