याथार्थ्यरूपस्य तत्तज्ज्ञानप्रामाण्यस्य..

प्रामाण्यवादः

स्वमते ज्ञप्तौ स्वतस्त्वनिरुक्तिः

तर्कताण्डवम्

याथार्थ्यरूपस्य तत्तज्ज्ञानप्रामाण्यस्य ग्राह्यप्रामाण्यविरोध्युप-स्थापकसामग्र्यसमवहितग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयक-साक्षिज्ञानविषयत्वनैयत्यं स्वतस्त्वम् । तार्किकाभिमतानुव्यवसाय एवास्माकं साक्षी ।

युक्तिरत्नाकरः

अत्र प्रामाण्यस्येत्युक्ते विशेष्यावृत्यप्रकारकत्वादीनामपि पक्षतापत्त्या बाधप्रसक्तौ प्रामाण्यपदेन विवक्षितार्थोपदर्शनं– याथार्थ्यरूपस्येति ।।

एवञ्च प्रामाण्यपदं प्रमाणप्रवृत्तिनिमित्तपदं गम्यते । तच्च न विशेष्या-वृत्त्यप्रकारकत्वादिरूपम् । गुरुत्वात् । न चैवं प्रमाणत्वादेरपि प्रमाण-पदप्रवृत्तिनिमित्तत्वेन तस्यापि पक्षतापत्त्या बाधानिरासः । ज्ञान-वृत्तित्वविशेषणमहिम्ना ज्ञानभिन्नावृत्तित्वलाभात् । तथा च प्रमाणत्वादेः परामर्शतदितरज्ञानवृत्तित्वेऽपि चक्षुरादिवृत्तितया ज्ञानवृत्तित्वमिति न तस्य पक्षता । तथा च तत्तज्ज्ञानप्रामाण्यस्येत्येव पक्षनिर्देशो, याथार्थ्यरूपस्येति तु पर्यवसितार्थप्रदर्शनपरम् ।

याथार्थ्यनिर्वचनपूर्वपक्षः

ननु किं याथार्थ्यम् ? न तावत् तद्वति तत्प्रकारकत्वम् । अघटत्वं, ‘‘आकाशे शब्द’’ इत्यादौ घटाकाशयोर्विशेष्यावृत्तित्वेना-व्याप्तेः, परम्परासम्बन्धेन लौहित्यवति साक्षात्सम्बन्धेन तद्वैशेष्याव-गाहिज्ञानस्यापि प्रमात्वापत्तेश्च । वह्निगुञ्जापुञ्जयोर्वह्नि२ इति ज्ञानस्य सर्वांशप्रमाणत्वापत्तेश्च । अत एव यत्र यदस्ति तत्र तद्भानत्वं तत्त्वं इति निरस्तम् ।

नापि यत्र यद्वैशेष्यमति तत्र तद्भानत्वम् । घटत्वे घटः, वायौ रूपमिति ज्ञानयोरपि प्रमात्वापत्तेः उभयवैशेष्यस्य समवायस्य तत्र सत्वात् ।

नापि यत्र धर्मिणि यन्निरूपितं वैशेष्यमस्ति तत्र तद्भानत्वम् । अग्रावच्छेदेन कपिसंयोगवति वृक्षे मूलावच्छेदेन तद्वैशिष्ट्यावगाहिनोऽपि प्रमात्वापत्तेः । एतेन यत्र वैशेष्ये यस्य प्रकारस्य यः सम्बन्धोऽस्ति तत्प्रकारक–तद्विशेष्यकतत्सम्बन्धावगाहित्वं स्वविषये सर्वत्र प्रमात्व-मिति निरस्तम् ।

नापि यदवच्छेदेन यद्वैशिष्ट्यमस्ति तदवच्छेदेन तत्र तद्वैशिष्ट्याव-गाहित्वम् । वृक्षः संयोगीति, पाकरक्ते श्यामोऽयमिति च शाब्दादि-प्रमायामवच्छेदशाखाद्यविषयिण्यामव्याप्तेः । न च तत्रावच्छेदकान्तराभाने स्वस्यैवा१वच्छेदभानमिति कल्प्यम् । तथापि तस्या२नवच्छेदकत्वा-नवगाहनात् । अन्यथा३ अग्रवान् वृक्षो मूले संयोगवान्नेति भ्रान्तेर-वच्छेदकाग्रविषयतया प्रमात्वापत्तेः ।

न च तदवच्छेदेनेत्यनेन तद्विरुद्धधर्मानवच्छेदेनेति विवक्षितम् । वृक्षत्वावच्छेदेन कपिसंयोगावगाहिधियोऽपि प्रमात्वापातात् । तस्य तद्विरुद्धत्वाभावात् । न च तदनतिप्रसक्तधर्मावच्छेदकतावगाहीति विवक्षितम् । वृक्षत्वस्य च अतिप्रसक्तत्वादिति वाच्यम् । अतिप्रसक्त-धर्मावच्छेदकधर्मावगाहित्वस्य व्यवसायानुपनीतत्वेन साक्षिविषयत्वात् ।

न चैवमपि परतस्त्वपक्षे नायं दोषं इति वाच्यम् । तेनापि स्वातन्त्र्येणानुव्यवसायविषयत्वस्य स्वीकारात् स्वतस्त्वपरतस्त्व-विवक्षा१विषयस्यैकरूपस्यैवोभाष्यामपि निर्वक्तव्यत्वाच्च । उक्तप्रामाण्ये स्वतस्त्वाभावसाधनसिध्यभानापत्तेश्चेति चेत् ।

याथार्थ्यनिर्वचनसिद्धान्तः

उच्यते । येन ज्ञानेन यत्कालीनं यन्निरूपितं यद्वैशिष्ट्यं यस्मिन्प्रदेशे विषयीक्रियते तत्प्रदेशनिष्ठतत्कालीनतन्निरूपिततद्वैशिष्ट्यकत्वं तस्य ज्ञानस्य तत्र प्रामाण्यमित्यर्थात् । तथा च २अपाकरक्ते इदानी श्याम इति प्रतीतेर्न प्रमात्वम् । तत्कालीनवैशिष्ट्यस्य तत्राभावात् । श्यामता-मात्रावगाहिप्रतीतौ न चाव्याप्तिः । तत्कालीनश्यामवस्तुनिष्ठतत्काली-नस्य भासमानवैशिष्ट्यस्य तत्र सत्वात् । वायौ रूपं घटत्वे घट इत्यादौ च नातिव्याप्तिः । समवायमात्रस्य तत्र सत्त्वेऽपि तन्निरूपितवैशिष्ट्यस्य तत्रासत्वात् । परम्परासम्बन्धेन लौहित्यवति स्फटिकलोहिते ‘‘स्फटिक’’ इति साक्षात्सम्बन्धावगाहिनि च नाव्याप्तिः । भासमान-वैशिष्ट्यस्य तत्राभावात् । मूलावच्छेदेन कपिसंयोगावगाहिनि च ना-व्याप्तिः । तत्प्रदेशे वैशिष्ट्याभावात् । वृक्षः संयोगीति ४शब्दादिप्रमायां च नाव्याप्तिः । वस्तुतस्तत्प्रदेशीयवैशिष्ट्यस्यैव तत्राभावात् । अन्यथा प्रमात्वानुपपत्तेः । ‘‘वह्निगुञ्जापुञ्जयोः वह्नी’’ इत्यत्र वह्न्यंशे वैशिष्ट्य-सत्वेऽपि गुञ्जापुञ्जप्रदेशे तदभावात् न प्रमात्वापत्तिः ।। ५तद्वैशिष्ट्यं च साक्षिभानत्वेनापि सम्भवतीति न किञ्चिदनुपपन्नम् ।

एतदेवाभिप्रेत्योक्तं पद्धतौ ‘‘यद्देशकालतया यद्वस्तु ज्ञानेन यादृशं गृह्यते तद्देशकालयोस्तस्य तथात्वम्’’ इति ।

यद्वा अननुगतमेव तावत्प्रमात्वम् । तथा च तद्देशकालावच्छेदेन तस्य तत्र तद्वैशिष्ट्यविषयकत्वमेव प्रमात्वम् । तदनवगाहिप्रमासु चान्यदेवेति निर्वाच्यम् । वस्तुतस्तु यत्र वैशिष्ट्ये यत्प्रतियोगिकं यद्वैशिष्ट्यं प्रतीयते तत्र तत्प्रतियोगिकविद्यमानवैशिष्ट्यकमेव सर्वानुगतं प्रमात्वम् । न चैवं संयोगावच्छेदकमूलावच्छेदेन तद्वैशिष्ट्यावगाहिन्यति-व्याप्तिः । तत्र वृक्षे संयोगवत्वैशिष्ट्यांशे प्रमात्वस्येष्टत्वात् । अवच्चेद-कत्वांशे च तद्वैशिष्ट्यस्याभावेनापादकस्यैवाभावात् । एवमापादकपक्षे गट इदानी श्यामः इत्यत्रापि घटे श्यामवैशिष्ट्यस्य सत्वेन प्रमात्वमिष्टमेव । अवच्छेदकेनेदं कालवैशिष्ट्यस्य श्यामरूपवृत्तित्वं तथा तदंशे लक्षणमेव नास्तीत्यलं विस्तरेण । उक्तञ्च सुधायां ‘‘यद्वा यद्यथानुभूतं प्रतीतं तस्य तथाभूतस्य सत्वमित्युक्त एव नातिप्रसङ्गः’’ इति ।।

अथ प्रमात्वं जातिः । न च प्रमात्वपरिहारेण साक्षात्वस्य परत्वं एतत्परित्यागेन अनुमित्यादौ प्रमात्वस्य वृत्तेः । एवमनुमितित्वत्यागेन साक्षातत्कारे च वृत्तेश्च प्रत्यक्षत्वानुमितित्वादिना साक्षादपि धर्म्यंशे प्रमात्वसत्वेन साक्षात्वव्यापकत्वसत्त्वात् । न चैवमव्याप्यवृत्तित्वान्न जातिता इति वाच्यम् । अव्याप्यवृत्तित्वस्य जातिबाधकत्व एव माना-भावात् । व्यक्तेरभेदस्तुल्यत्वमित्यत्रापरिगणनाच्च । अन्यथा भावमात्रे तदवधारणे संयोगस्यापि व्याप्यवृत्तितापत्तेः । न चैवं ज्ञानत्वेन सह तुल्यव्यक्तिकत्वेन घटत्वसमनियतकलशत्ववदजातित्वमिति वाच्यम् । स्मृतौ ज्ञानत्वे सत्त्वेऽपि प्रमात्वस्याभावेन तुल्यव्यक्तित्वाभावात् । न च निष्कम्पप्रवृत्तिहेतुनिश्चयविषयस्य प्रमात्वस्येह विचार्यतया तस्या-पक्षता । ज्ञानत्वसमनैयत्येऽपि निर्विकल्पके निष्कम्पप्रवृत्तिजनके प्रमात्वाभावेऽपि ज्ञानत्वसत्वात् । न च सप्रतियोगिकत्वादजातित्वं अनुगतमत्या समर्थप्रवृत्तिजनकतावच्छेदकत्वेन च जातिसिद्धौ तारत्व-मन्दत्ववत्सर्वप्रतियोगिकस्यापि तदबाधकत्वादिति चेत् ।

मैवम् । अव्याप्यवृत्तितया संयोगतदभाववत् अजातित्वात् । न च तत एवोपाधित्वमपि न स्यादिति वाच्यम् । अव्याप्यवृत्तीनां संयोग-वत्वादीनां तेषां बहुलमुपलम्भात् । अन्यथा संयोगतद्रूपादीनां अव्याप्य-वृत्तित्वासम्भवे नीलपटारब्धं चित्ररूपं सुरभ्यसुरभ्यवयवारब्धे निर्गन्धत्वं मधुरारब्धे नीरसत्वमिति वत् सिद्धान्तभङ्गापत्तेः । यदि च रूपत्व-रसत्वाद्यवच्छेदेन व्याप्यवृत्तिताया निरुपाधिकसहचारदर्शनात् तेषु तथात्वं तदा जातित्वावच्छेदेनापि व्याप्यवृत्तिताया निरुपाधिकसहचारा-देव तथात्वमाद्रीयताम् । तत्तु तत्तद्विषयकत्वावच्छेदेन व्याप्यवृत्तित्वमेव प्रमात्वाप्रमात्वमत्योरिति तथात्वापत्तेः न जातिबाधकेष्वगणनं दोषः । रूपादावपि तस्य बाधकत्वेन जातिमात्रबाधकपरिगणनोपपत्तेः ।

विषयघटितशरीरतया सप्रतियोगिकस्य कथं जातिता । प्रवृत्ति-सामर्थ्यस्य देशकालपुरुषादिगतशरीरस्याननुगतत्वेन समर्थप्रवृत्तिजनकता-वच्छेदकत्वे तद्गजात्यसिद्धेः । तारत्वादेरजातित्वाच्च । जातित्वे वा सप्रतियोगिकासिद्धेर्वक्ष्यमाणत्वाच्च । निर्विकल्पकानभ्युपगमेन ज्ञानत्वेन तुल्यव्यक्तिकत्वाच्च । ज्ञानत्वस्य तु व्याप्यवृत्तित्वाद्युक्तं जातित्वं निर्विकल्पकाभ्युपगमेन साक्षात्वेन सङ्करात् अजातित्वं निर्विकल्पके प्रमात्वस्यानुमितौ साक्षात्वस्याभावात् । न च निर्विकल्पके प्रमात्वम् । स्वसमानप्रकारकज्ञानत्वेनेच्छाप्रयत्नौ प्रति जनकत्वेन समर्थप्रवृत्ति-जनकताच्छेदकजातेस्तत्राभावात् । न च प्रमात्वेन सह सङ्करात् साक्षात्वमेव जातिः । अव्याप्यवृत्तित्वादिबाधकान्तर सध्रीचीन-साक्षात्करोमीत्यनुगतमत्यैव तद्गतजातित्वसिद्धावतथाभूतप्रमात्वस्यैव जातित्वात् ।

न चेन्द्रियत्वशरीरत्वयोः पृथिवीत्वेन बहुविशेषणसङ्करात् साक्षा-त्वस्यैवाजातित्वम्, न तु पृथिवीत्ववद्बहुविषयस्य प्रमात्वस्य । अत एव भूतत्वमूर्तत्वयोः समानविषययोः नोभयोरपि जातित्वम्, द्रव्य-विभाजकपञ्चकासमवृत्तित्वेनाऽन्यतरजातित्वस्य नियन्तुमशक्यत्वात् इति वाच्यम् । तत्रेन्द्रियत्वशरीरत्वयोर्द्वयोर्जातित्वकल्पनेन पृथिवीत्वादि-जातिचतुष्टयापलापप्रसङ्गस्यैव बाधकत्वात् इहापि साक्षात्वानुमिति-त्वाद्यनेकधर्मजातित्वकल्पनापेक्षयैक प्रमात्वाज्जातित्वकल्पनस्यैवोचित-त्वात् । भूतत्वमूर्तत्वयोरेकत्वेन विनिगमकाभावात् अजातित्वम् । न तु बहुविषयत्वाल्पविषयत्वाभ्याम् । अन्यथैकाकाशवृत्तित्वापेक्षयाऽ-नन्तमनोवृत्तिमूर्तित्वस्य त्वदुक्तविनिगमकसत्वेन जातित्वोपपत्तेः । न चानुमिति त्वोपमिति त्वव्यापकमेव प्रमात्वमिति साक्षात्वेन एकेनैव साङ्कर्ये भूतत्वादिवद्विनिगमनाविरहादुभयोरजातित्वमिति वाच्यम् । लिङ्गोपहितलैङ्गिकभानपक्षे भ्रमरूपपरामर्शजन्यप्रमारूपानुमितौ परामर्श-विषयांशे वृक्षान्तरेऽप्यनुमेयधर्मांशेऽप्यनुमितित्वसत्त्वेऽपि प्रमात्वाभावेना-व्यापकत्वात् । एवमुपमिति त्वादावपि सङ्करो द्रष्टव्यः । न च यदव-च्छेदेनेति विशेषेण गौरवात् यत्रानुमितित्वं तत्र प्रमात्वमिति, व्याप्ति-सम्भवान्नोक्तदोष इति वाच्यम् । तथा सत्यग्रावच्छिन्नकपिसंयोगस्यापि स्वाभावव्याप्यसत्वेनाग्रावच्छेदेनापि तदभावसिद्धिप्रसङ्गात् । न च बाधादेव तदसिद्धिः । बाधानवतारदशायां तत्सिद्ध्यापत्तेः । देशान्तरा-भावेन दैशिकव्याप्तेरभावाच्च ज्ञानत्वादिना साङ्कर्याच्च । न च ज्ञानत्व-व्याप्यमेतदिति वाच्यम् । समर्थप्रवृत्तिजनकतावच्छेदकस्य तस्येच्छाया-मपि वाच्यत्वात् । अर्थसंवादित्वरूपस्य ज्ञानेच्छाप्रयत्नेषु त्रिष्वपि वाच्यत्वाच्च । नैय्यायिकाभिमतप्रमाणलक्षणोपयुक्तस्य प्रमाणत्वस्य स्मृतिव्यावृत्तस्यापरोक्षत्वपरित्यागेन स्मृतौ विद्यमानेन परोक्षत्वेन सह साक्षात्कारे अविद्यमानतया अनुमित्यादौ तेन सह साङ्कीर्णत्वाच्च । न च ज्ञानत्वं व्याप्यं नानैव तदिति वाच्यम् । तथा सत्यनेकजाति-कल्पनापत्तेः । न च सिद्धान्ते अनन्तप्रमात्वरूपोपाध्यपेक्षयैव लाघव-मिति वाच्यम् । तेषां प्रकाररूपविषयाणां क्लृप्तत्वेनाकल्पनाकल्पत्वात् । एवं सति जातिसाङ्कर्यस्य क्वाप्यदूषणत्वापातात् । भ्रमत्वस्याप्येवं जातित्वसम्भवे जातेश्च व्यक्तिग्रहणयोग्यतान्तर्भूतयोग्यकत्वे नियमेन प्रमात्वाप्रमात्वयोरुभयोरपि स्वतस्त्वापत्तेः ।

किञ्च दृष्टत्वं न जातिः । कार्यकारणलक्षणानामभावादित्युदयनोक्त्या दृष्टादृष्टत्ववत् प्रमात्वस्यापि नित्यानित्यवृत्तेः कार्यताऽनवच्छेदक-तयाऽनुगतकार्यावच्छेदकाभावेन च कारणतावच्छेदकव्यवस्थापकाभावाच्च न जातित्वमिति । अन्यथा दृष्टत्वस्यापि जातित्वापत्त्या अप-सिद्धान्तादिति दिक् ।

यत्तु गुणगतजातौ साङ्कर्यं न दोषायेति विनिगमनाभावेन द्रव्यगत-जातावपि तथात्वापातात् । यदपि उपाधिवज्जातिसाङ्कर्यं स्यादप्य-दूषणत्वम् । अन्यथोपाधि साङ्कर्यस्यापि दोषातापत्तिरिति तत्र पृच्छामः । किं यदेकत्र दूषणं तदन्यत्रापीति नियमः, किं वा यज्जातौ दूषणं तदुपाधावपि उक्तः तस्य जातिदूषणत्वेनाभाव इति । नाद्यः अतिप्रसङ्गात् । न द्वितीयः । एकव्यक्तित्वस्यापि तथात्वे घटत्वसमनियतपृथुबुध्नो-दरत्वोपाधेरसत्वापत्तेश्च । अन्यथा त्वदुक्तरीत्या आकाशत्वकलशत्वयो-रप्यजातित्वापत्तेः । सामान्यविशेषसमवायेषु जात्यङ्गीकारे क्रमेणावस्था-रूपहान्यसम्बन्धापत्तिवत् उपाध्यङ्गीकारेऽपि तदापत्या तेषु प्रमेयत्वादि-धर्माणामप्यभावापत्तेश्चेति यत्किञ्चिदेतत् । नापि तृतीयः । यत्र सङ्कीर्ण-धर्मत्वं तत्र न जातित्वमिति निरुपाधिकसहचारस्यैव मानत्वात् । नह्येव-मुपाधौ नियमः शतशो व्यभिचारात् । उपाधिसाङ्कर्यदूषणत्वस्य जातिसाङ्कर्य-दूषणत्वस्य च सकलवादिभिरभ्युपगतत्वेन तत्र विनिगमकगवेषणे अणुरपि विशेषो अध्यवसायक इति न्यायेनास्यापि व्यवस्थापकत्वसम्भवात् । वस्तुतस्तु–

‘‘ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः परिकीर्तितः

 क्षत्रियायां क्षत्रियात्तु जातः क्षत्रिय उच्यते’’

इत्याद्यागमैरनुलोमप्रतिलोमभावेनानेकजातिप्रतिपादनं कृतमित्यविवादम् । तत्र ब्राह्मण्यादिषु ब्राह्मणक्षत्रियादिभ्यो जातानां ब्राह्मणत्वक्षत्रियत्वादि-जातिद्वयसमावेशेनोपपत्तावतिरिक्तजातित्वोक्तेर्नस्मृत्यादिषु क्रियमाणसङ्करस्य जातिबाधकतां व्यवस्थापयतीति सङ्क्षेपः ।

।। इति प्रमात्वविचारः ।।

।। ग्राह्येति ।। ग्राह्यं यत्प्रामाण्यं घटत्ववति घटत्वप्रकारकत्वाभावस्य तद्व्याप्यस्य घटत्वाभाववति घटत्वप्रकारकत्वस्य तद्व्याप्यस्य चोपस्थापिका या सामग्री तदसमवहितः ग्राह्यप्रामाण्याश्रयीभूतं अयं घट इत्यादि यत्तत्तज्ज्ञानं तद्विषयकश्च यः साक्षी तद्विषयत्वे नैय्यत्यमित्यर्थः ।

प्रमाण्यविरोधित्वपूर्वपक्षः

ननु किं प्रामाण्यविरोधित्वम् । न तावत् प्रामाण्यविरहत्वं भावरूप-प्रामाण्यतद् व्याप्यादेतथात्वेन तज्ज्ञानसामग्रीसमवहितेन साक्षिणा प्रामाण्यग्रहणेन बाधापत्तेः ।

नापि तद्विरहव्याप्यत्वम् । प्रामाण्याभावे तदभावात् । अभेदे व्याप्य-व्यापकभावाभ्युपगमेऽपि अप्रामाण्यघटकघटत्वादेरपि प्रामाण्यविरहव्याप्यतया तदुपस्थापकसामग्रीसमवहितेन साक्षिणैव प्रामाण्याभावेन बाधात् । अन्यथा रसादेः रूपाद्यनुमापकत्वमपि न स्यात् । नहि तत्र निरुपाधिकसहचारा-दन्यन्नियामकमस्ति । अत एव न सहानवस्थितित्वस्य तत्वम् ।

अथ प्रामाण्यघटकान्यत्वे सति प्रामाण्यासमानाधिकरणत्वं वा प्रामाण्या-समानाधिकरणत्वे सति ज्ञानवृत्तिधर्मत्वं वा तत्त्वम् । तच्च न प्रामाण्य-घटक१घटत्वादिति चेत् अप्रामाण्यघटकघटत्वादीनामेव तद्विरुद्धतया प्रतीय-मानानां ज्ञानवृत्तित्वारोपे वा ज्ञानवृत्तितया प्रतीयमानानां ज्ञानवृत्तित्वारोपे वा ज्ञानवृत्तितया प्रतीयमानानां प्रामाण्यनिश्चयविरोधिधीविषयत्वमिहापि विरोधित्वस्य सहानवस्थित्यादिरूपस्यासङ्गतत्वेन विरोधिविषयत्वस्यैव वाच्यत्वे प्रागुक्तविकल्पावकाशात् । प्रामाण्ये कदाचित्प्रामाण्यविरोधित्वेन प्रतीयमानघटत्वाद्यभेदभ्रमसम्भवेन प्रामाण्यस्यापि प्रामाण्यनिश्चयविरोधि-धीविषयत्वसम्भवेन बाधात् । एतेन प्रामाण्यनिश्चयानुत्पादव्याप्यधीविषयत्वं तत्वमिति निरस्तम् । उक्तरीत्या प्रामाण्यस्यापि तथात्वात् ।

किञ्च कथञ्चिद्विरोधित्वनिर्वचनेऽप्यप्रामाण्यग्रहदशायां अप्रामाण्यादि-ग्राहकसामग्य्रसमवहितेनापि साक्षिणा प्रामाण्याग्रहाद्बाधः एव । न च प्रामाण्यनिश्चायानेकवत्यधीतप्रामाण्यविरोध्युपस्थापकसामग्य्रसमवहितेत्यनेन विवक्षितमिति वाच्यम् । प्रामाण्यनिश्चयस्याप्युत्तरात्मविशेषगुणत्वेन धारावाहिकस्थले प्रतियोगितया प्रामाण्यनिश्चयजन्यवृत्तित्वं च प्रति हेतुत्वेन बाधात् । प्रामाण्यनिश्चयत्वेन वृत्यस्य चाप्रामाण्याभावघटकघटत्वाभाव-वद्विशेष्यकत्वाद्यैकैकज्ञाने अभावेन तत्समवहितसाक्षिणा तद्गहापत्तेः ।

नापि प्रामाण्यनिश्चयत्वेन वा तद्घटकनिश्चयत्वेन वा १निवृत्यत्वं विवक्षितम् । अप्रामाण्यगोचरप्रत्यक्षादावनुमित्यादिसाधारण प्रामाण्यनिश्चय-त्वस्य निवर्तकतानवच्छेदकत्वाज्ज्ञानविशेष्यतया गृह्यमाणे पुरोवर्तिनि प्रामाण्यघटकत्वाभावादेः चक्षुषाग्राहके अनुमित्यादिसाधारणघटत्वादि-निश्चयत्वस्य निवर्तकतानवच्छेदकत्वाच्च ।

साक्षित्वपूर्वपक्षः

किञ्च साक्षित्वमपि न तावन्नित्यज्ञानत्वम् । परं प्रत्यसिद्धेः । ईशज्ञान-मादाय सिद्धसाधनतापत्तेश्च । नापि वक्ष्यमाणरीत्या पराभिमता२नु-व्यवसायित्वम् । तस्य ज्ञानविषयकज्ञानरूपत्वे३ घटज्ञानमिति शाब्दज्ञानेन ४प्रमाणग्रहापत्तेः । नापि तद्गोचरप्रत्यक्षत्वं परकीयादिज्ञानगोचरेण ज्ञानत्वादिसामान्यप्रत्यासत्तिजन्येन तत्प्रत्यक्षेण तत्प्रामाण्यग्रहणापत्तेः । नापि ज्ञानांशे लौकिकत्वविशेषितम् । षोढा सन्निकर्षजन्यत्वस्य वा स्वगतसाक्षात्कारजनकप्रत्यासत्तिजन्यत्वादेर्वा लौकिकत्वस्य साक्षिण्य-योगात् । प्रत्यक्षस्यापीन्द्रीयत्वेनेन्द्रियजन्यत्वस्य विषयत्वेन विषयजन्यत्वस्य च साक्षिण्ययोगात् सिद्धान्तविषयस्याजनकत्वाच्चेति चेत् ।

प्रामाण्यविरोधित्वसिद्धान्तः

मैवम् । प्रामाण्यनिश्चयप्रतिबन्धकत्वं प्रामाण्यविरोधीत्यादिना विवक्षितम् । अत एवाप्रतिबद्धसाक्षिवेद्यत्वं स्वतस्त्वमिति सुप्रसिद्धम् । अत एव वक्ष्यति ग्राह्यप्रामाण्यविरोधिग्राहकसामग्रीसमवधानात्मके प्रतिबन्धे सति साक्षिणा प्रामाण्याग्रहणादिति ग्राह्यप्रामाण्यविरोधीत्यादिरूपेण तद्वस्तु-प्रामाण्याभावादिज्ञानतत्सामग्य्रोरेव प्रतिबन्धकमस्तीति ज्ञापनाय उपस्थापकेति च जन्योपस्थितेरप्युपलक्षणार्थम् ।

प्रतिबन्धकत्वनिष्कर्षः

ननु किं प्रतिबन्धकत्वं न तावत्कारणीभूताभावप्रतियोगित्वम् । सिद्धान्ते शक्तेरभ्युपगमेन प्रतिबन्धकाभावस्याहेतुत्वात् । नापि कार्यानुकूलकिञ्चि-द्धर्मविघटकत्वं । न्यायमते प्रामाण्यनिश्चयादेः प्रामाण्यनिश्चयहेतुस्वाभाव-विघटनरूपत्वेन तद्विघटकत्वात् । नापि कार्यानुत्पादव्याप्यत्वम् । सिद्धान्ते प्रामाण्यनिश्चयस्य साक्षिणः कार्यतया तदनुत्पादशब्दितप्रागभावाभावादिति चेत्, साक्षिरूपप्रामाण्यनिश्चयस्य प्रागभावाभावेऽपि अनुमित्यादिरूप-तन्निश्चयानुत्पादव्याप्यत्वेनापि तन्निर्वाहात् । नहि सर्वस्यापि तन्निश्चया-नुत्पादेन भाव्यमित्यस्ति नियमः । अन्यपरमपीश्वरज्ञानास्यानुत्पादा-भावेनाप्रामाण्यनिश्चयादेः प्रामाण्यनिश्चयानुत्पादव्याप्यतानापत्तेः । वस्तुतः योगधर्मो ज्ञानेनानिष्टतया प्रामाण्यनिश्चयानुत्पादव्याप्यतावच्छेदकम-द्विषयकज्ञानतत्सामग्य्रसमवहितत्वमेव तत्वम् । प्रामाण्याभावतद्घटक-तद्वत्वाभावादिगोचरनिश्चयादेः प्रामाण्याभावविषयकनिश्चयत्वादिना प्रामाण्यनिश्चयानुत्पादव्याप्यताया अवच्छेदेन प्रामाण्याभावादेः । तत्र विषयतया अवच्छेदकत्वनियमात् । प्रामाण्याप्रामाण्योभयघटकज्ञानत्व-तत्प्रकारकत्वादेः तत्तन्निश्चये विषयतया प्रामाण्यनिश्चयानुत्पादव्याप्यता-वच्छेदकत्वम् । न हि यदा ज्ञानत्वस्य तत्प्रकारकस्य वा निश्चयस्तदा प्रामाण्यनिश्चयानुत्पादः । विरोधाभावान्न१ । न चैवमप्यप्रामाण्यनिश्चय-त्वादिकमपि तत्तन्निश्चयानुत्पादव्याप्यतावच्छेदकं२ तद्घटकघटत्वप्रकार-कत्वादिभागस्याविरोधादिति वाच्यम् । तन्मात्रविरोधित्वेऽपि तद्घटितमूर्तिक-स्वप्रकाराभाववद्विशेष्यकत्वादि रूपाखण्डाप्रामाण्यस्य तद्विरोधित्वेना-वच्छेदकत्वासम्भवात् । एवञ्च प्रथमविवक्षायां प्रामाण्यसंशयस्य ग्राह्यसंशय-तया प्रामाण्यसंशयानुत्पादव्याप्यत्वाभावेन तत्समवहितेन साक्षिणा प्रामाण्य-ग्राहाद्बाध इति दूषणमलग्नकं बोध्यम् । अप्रमादिनिश्चयस्यैव प्रामाण्य-निश्चयानुत्पादव्याप्यत्वेऽपि न प्रामाण्यानिश्चयविषयगोचरज्ञानतत्सन्निध्य समवहितसाक्षिवेद्यत्वस्यैवेह विवक्षणादिति दिक् ।

परमार्थस्तु प्रामाण्यसामानाधिकरण्याज्ञानाय माने तज्ज्ञानवृत्तित्वावगाहि-ज्ञानतत्सामग्य्रसमवहितत्वमेव तत्त्वं विवक्षितम् । एवञ्च प्रामाण्यसाधक-साक्षिणः प्रामाण्यघटकघटत्वादिज्ञानतत्सामग्रीसमवहितत्वेऽपि प्रामाण्य-सामानाधिकरण्येन ज्ञायमानघटत्वादौ तज्ज्ञानवृत्तित्वज्ञानतत्सामग्री-समवहितत्वमस्तीति नासम्भवः । एकज्ञानत्वादौ तज्ज्ञानवृत्तित्वज्ञाने सत्यपि न प्रामाण्यसामानाधिकरण्येनाज्ञायमानत्वमिति विशेषणाभावेन तद्वशिष्टाभावसत्वान्नासम्भवः । अप्रामाण्यादिज्ञानकालीनस्य तु प्रामाण्य-ग्राहकसाक्षिणः प्रामाण्यसामानाधिकरण्येन ज्ञायमाने अप्रामाण्यादौ ज्ञानवृत्तित्वावगाहिज्ञानतत्साग्रीसमवहितत्वमेवेति न बाधशङ्कावकाशः ।

साक्षित्वपरिष्कारः

साक्षित्वं न ज्ञानांशे लौकिकप्रत्यक्षत्वम् । २लौकिकं चालौकिक-प्रत्यासत्यजन्यत्वं अलौकिकत्वं चानागतगोचरसाक्षात्कारहेतुत्वम् । न चैवमपीदं वर्तमानमिति वर्तमानत्वसामान्यप्रत्यासत्तिजन्यस्य प्रामाण्य-विरोध्युपस्थापकसामग्य्रसमवहितस्यापि ज्ञानज्ञानस्य प्रामाण्यविषयकत्वाद्बाध इति वाच्यम् । तादृक्प्रत्यासत्तिजातीयजन्यत्वस्यातदर्थत्वात्सामान्यादि-प्रत्यासत्तित्रयाजन्यत्वं वा लौकिकत्वमिति नोक्तदोषः । प्रत्यक्षत्वं च ज्ञान-करणत्वं, तच्च सव्यापारकज्ञानजन्यत्वम् । न तु ज्ञानजन्यत्वमात्रम् । तथा सति न्यायमते ईश्वरज्ञानस्यैव तथात्वेन विधिनिषेधयोः सिद्धसाधनबाधापत्तेः ।

न चैवमपि तन्मते जन्यमात्रस्यैवादृष्टादिव्यापारकेश्वरज्ञानजन्यतया सव्यापारकज्ञानाजन्यमानमीश्वरीयमेवेति प्रागुक्तदोषानिस्तार इति वाच्यम् । ज्ञानव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिद्वाराज्ञानजन्यत्वाभावस्य तदर्थत्वात् । एवं चेश्वरज्ञाने व्यतिरेकशब्दितप्रागभावाप्रतियोगित्वेन ज्ञानकारणत्व-वत्तदनुव्यवसायस्यापि तथात्वेनोक्तसकलसाक्षिविषयत्वरूपनैय्यत्यस्य तेनानभ्युपगमेनोक्तसिद्धसाधनत्वाद्यनवकाशात् । न हि व्यवसायेनेश्वरज्ञानेन वा अनुव्यवसाये जननीये स्वप्रागभावप्रयुक्तप्रागभावप्रतियोगी व्यापारोऽस्ति । आद्ये व्यापाराभावात् द्वितीये स्वप्रागभावाभावात् ।

न चैवमपि व्यवसायानन्तरज्ञानत्वनिर्विकल्पकापेक्षायामनुव्यवसायस्य व्यवसायकरणकत्वमेवेति वाच्यम् । अनुव्यवसायस्य नरसिंहरूपतया ज्ञानांशनिर्विकल्पकत्वस्याभ्युपेतत्वेन मध्ये तदकल्पनात् । क्वचित्त-त्कल्पकेऽपि तस्यासार्वत्रिकत्वेनाद्वारत्वात् । स्वाविषयकव्यापारद्वारकज्ञान-जन्यत्वाभाव एव वा तदर्थः । एवञ्च निर्विकल्पकस्य स्वजनकव्यवसाय-विषयकत्वनियमेन विशिष्टाभावसत्वान्न कोऽपि दोषः । वस्तुतस्तु साक्षित्वं जातिरूपमेवोभयसिद्धं विवक्षितमिति न दोषगन्धोऽपीति सङ्क्षेपः ।

ननु किं साक्षित्वं नित्यज्ञानत्वं तादृक्प्रत्यक्षत्वं वा । ईश्वरज्ञानमादायापि सिद्धसाधनापत्तेः । नापि जीवभिन्नत्वादिविशेषितम् । तत्परमते असिद्धे-रित्यत आह– तार्किकेति ।। स च प्रागुक्त एवानुसर्तव्यः । यद्यपि साक्षात् शब्दात् ‘‘साक्षाद्रष्टरि संज्ञायाम्’’ इति (५.२.९१) इनि प्रत्यये अत्प्रत्य-यानां भाषामात्रे टिलोपो वाच्यः इति टिलोपे उपद्रष्टरि साक्षिशब्दनिष्पत्या नानुव्यवसायवाचित्वम् । तथापि सिद्धान्ते द्रष्ट्टजीवाभिन्नत्वात् अनुव्यवसायेऽपि वृषल्यपत्नीत्वादिवत् भागप्रयोगो युक्त इति भावः ।

न्यायदीपः

वेदरूपकरणप्रामाण्यस्य स्वतस्त्वं निश्चितप्रामाण्यकज्ञानेन ज्ञातव्यम् । तच्च तज्जन्यज्ञानप्रामाण्योत्पत्तिस्वतस्त्वसिद्ध्यधीनोत्पत्तिस्वतस्त्वमिति क्रमाज्ज्ञप्तावुत्पत्तौ च तदेवादौ समर्थयितुं ‘‘ज्ञानग्राहकमात्रग्राह्यत्वं स्वत-स्त्वम्’’ इति टीकाकृदुक्तं वाक्यं विवृण्वानो ज्ञप्तौ स्वतस्त्वं तावन्निर्वक्ति ।। याथार्थ्यरूपस्येति ।। अर्थं ज्ञेयम् अनतिक्रम्य वर्तमानं यथार्थम् । ‘‘यथाऽसादृश्य’’ इत्यव्ययीभावः । यथार्थं भावो याथार्थ्यं, यथावस्थितज्ञेय-विषयीकारित्वरूपं ज्ञेयाव्यभिचारित्वं तद्रूपस्येत्यर्थः । एतच्च परोक्षापरोक्ष-जन्याजन्यसर्वप्रमितिमात्रनिष्ठमित्युपेत्य ज्ञानप्रामाण्यस्येत्युक्तम् । अनुभूति-त्वानधिगतार्थगन्तृत्वप्रमाकरणत्वसाधनाश्रययोरन्यतरत्वप्रमाव्याप्तत्वादे-रव्याप्त्यसम्भवादिदुष्टत्वादिति भावः । अस्यानुप्रमाणसाधारण्येऽपि साक्षा-ज्ज्ञेयविषयीकारित्वलाभायापि ज्ञानप्रामाण्यस्येत्युक्तम् । एतच्च भिन्नं भिन्नमेवेति सर्वप्रमितिनिष्ठप्रामाण्यस्वतस्त्वद्योतनाय तत्तदिति ज्ञान-विशेषणम् । तस्य तस्य ज्ञानस्य यत्तत्तदर्थाव्यभिचारित्वरूपं प्रामाण्यं तस्ये-त्यर्थः ।प्रमापदप्रवृत्तिनिमित्तप्रामाण्यस्येति यावत् । ‘‘याथार्थ्यमेव मानत्वं’’ इति द्वितीयाद्यपादीयानुभाष्योक्तेः । निर्धारितं चैतद्याथार्थ्यं तत्रैव सुधायाम् ।प्रपञ्चितं गुरुपादैरत्रैव प्रामाण्यस्वतस्त्वानुमानवादे । ‘‘घटत्ववति घटत्व-प्रकारकत्वादिरूपं पराभिमतमेवास्माकं याथार्थ्यं’’ इति वक्ष्यमाणदिशा स्वपरसाधारणमेवेदमिति ज्ञेयम् ।

उपाधिखण्डनटीकाव्याख्यानमन्दारमञ्जर्यां ‘‘अथ केयंप्रमा’’ इत्यादिनाप्रमात्वमाक्षिप्य

‘‘यथार्थज्ञानमित्येवप्रमाया लक्षणस्थितिः ।

 स्मृतेरपि च लक्ष्यत्वादतिव्याप्तिकथा मुधा’’

इतिप्रतिज्ञापूर्वकं ‘‘सादृश्यस्य यथाशब्दार्थत्वात् । सादृश्यं च ज्ञानार्थयोः सत्तया । नच भ्रमेऽतिव्याप्तिः । तत्र ज्ञानस्य सत्त्वादर्थस्य चासत्त्वात् ज्ञानार्थयोः सत्तया सादृश्याभावात् । एवं च यथा सादृश्यविशिष्ट एवार्थो यस्येति बहुव्रीह्याश्रयणे यथार्थशब्दस्य यथाथाप्रतीतिरित्याद्यभिधेय-वल्लिङ्गं लोकसिद्धं सिद्धम्’’ । ‘‘यथाशब्दोऽनतिक्रमे वर्तत’’ इति टीकाकार-वचनं तु फलितप्रदर्शनपरतया व्याख्येयम् । ज्ञानार्थयोः सादृश्यकथने ज्ञानस्यार्थानतिक्रमस्यावश्यकत्वात्’’ इत्यादिग्रन्थेन बहुव्रीह्युपादानेनोक्तार्थस्य ग्रहणे तु न स्वपरसाधारण्यं प्रामाण्यस्य लभ्यते । परमते भ्रमविषयस्य सत्त्वेन लक्षणस्यातिव्याप्तेः । यद्वा तन्मतेऽपि प्राचां रीतौ वैशिष्ट्यस्य भ्रमेऽसत्त्वा-न्नवीनमते च पुरतोऽसत्त्वात् तदपि तन्मतसाधारणमेवेत्याहुः ।

अत्र यद्यप्याम्नायजन्यज्ञानप्रामाण्यस्वतस्त्वमात्रंप्रकृतम् । तथापि तत्स्वरूपग्राहिप्रत्यक्षज्ञानस्य तदनुग्राहकन्यायजानुमितिरूपज्ञानस्य तत्प्रामाण्यज्ञानस्य च प्रामाण्यनिश्चयोपायस्याप्यावश्यकत्वाज्ज्ञानप्रामाण्य-मात्रस्यापि धर्मित्वेनोपादानम् । यद्वा प्राचीनतार्किकमत इव क्वचित् प्रामाण्यं स्वतः क्वचित् परत इति न भ्रमितव्यम् । किन्तु सर्वत्रापि । नवीनमते सर्वत्र परतस्त्वोपगमेन तद्व्युदासायेति ध्येयम् ।

।। ग्राह्येति ।। ग्राह्यप्रामाण्यस्य यद् विरोधि प्रामाण्याभावा-प्रामाण्यप्रमाण्याभावव्याप्याप्रामाण्यव्याप्यरूपं तस्य या उपस्थापकसामग्री दोषशङ्कादिरूपा तदसमवहितं ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकं यत्साक्षिज्ञानं तेन गृह्यत एवेत्येवंरूपतद्विषयत्वनैयत्यमित्यर्थः । विप्रतिपत्ते-रनावश्यकत्वस्य न्यायामृते व्युत्पादनात् नैयत्यमस्ति न वेत्यनुक्त्वैकैव कोटिरुक्ता । अत्र प्रामाण्यविरहरूपत्वतद्व्याप्यत्वादिरूपविरोधित्वस्य प्रामाण्याभावादिषु चतुर्ष्वेकस्याभावेऽपि यज्ज्ञाने सति प्रामाण्यनिश्चयःप्रतिबध्यते तज्ज्ञानविषयत्वरूपं ग्राह्यप्रमाण्यविरोधित्वं प्रामाण्याभावादौ ध्येयम् । वक्ष्यति च१ प्रामाण्यनिश्चयस्यप्रवर्तकत्ववादे ‘‘अभावानां प्रामाण्यनिश्चयविरोध्यभावत्वेन’’ इत्यादि ।

प्रामाण्यनिश्चयप्रतिबन्धकत्वं तदनुकूलकिञ्चिद्धर्मविघटकत्वं वा तदनुत्पादव्याप्यत्वं वा । प्रामाण्यनिश्चयस्य साक्षिरूपतया नित्यज्ञानत्वेऽपि प्रामाण्यविषयकत्वादिकमुत्पत्तिमदेवेति तद्विशिष्टप्रामाण्यनिश्चयानुत्पादो न दुर्लभः । उपस्थापकेत्यत्र विरोध्युपस्थितितज्जनकसामग्रीभ्यामसमवहितेत्यर्थो ध्येयः । तथाच प्रामाण्यविरोध्युपस्थितिवेलायां तत्सामग्र्यभावेन तदसम-वहितेनापि साक्षिणा गृह्यत एवेति नैयत्यं नेति शङ्कानवकाशः । असम-वहितत्वं च तदसामानाधिकरण्ये सति तदसमानकालिकत्वम् । ‘‘प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेन’’ इतिप्रमाणलक्षणे, ‘‘स्वरूपेन्द्रियं साक्षीत्युच्यत’’ इति पद्धत्यादौ च साक्षिणोऽनुप्रमाणत्वोक्तेरिह पराभ्युपेतानु-व्यवसायरूपत्वस्फोरणाय साक्षिज्ञानेत्युक्तम् ।

‘‘साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते’’

इत्यादौ ज्ञानेऽपिप्रयोगात् । तथा युक्तिपादे ‘‘न विलक्षणत्वात्’’ इति नये–

‘‘सुखदुःखादिविषयं शुद्धं संसारगेष्वपि’’

इत्यस्य व्याख्यावसरे सुधायां ‘‘स्वरूपभूतं चैतन्येन्द्रियं साक्षीत्युच्यते तदभिव्यक्तं ज्ञानं च’’ इत्युक्तत्वाच्च ।

नन्वात्मस्वरूपज्ञानत्वादिरूपसाक्षित्वस्य परमतेऽप्रसिद्धिरित्यत आह ।। तार्किकेति ।। २स्वतस्त्वानुमानवादे वक्ष्यमाणदिशा व्यवसायप्रकार-प्रकारकतया व्यवसायप्रकारवद्विशेष्यकतया च तद्विषयकप्रत्यक्षत्वं वा ज्ञानांशे लौकिकप्रत्यक्षत्वं वाऽनुव्यवसायत्वम् । साक्षित्वमप्येवंरूपमेवात्र स्वतस्त्व-निरुक्तौप्रविष्टमित्यर्थः । यन्मते वैशिष्ट्यमनुव्यवसायविषयोऽपि, न स्वातन्त्र्येण विषय इति तन्मतेनाद्यः कल्पः । तत्र च विषयत्वनैयत्यं स्वातन्त्र्येणेतिप्रवेशनीयम् । यन्मते वैशिष्ट्यमनुव्यवसायविषय एव नेति तन्मतेनान्त्यः । तत्र तु न स्वातन्त्र्येणेति विवक्षणीयम् । लौकिकत्वं च पराभिमतसामान्यादिप्रत्यासत्तित्रयाजन्यत्वम् । ज्ञानांश इति विशेषणात् स्मृत्युपनीतेऽतीते घटज्ञाने तद्विषयकमहं घटज्ञानवानिति यज्ज्ञानमात्मांशे लौकिकप्रत्यक्षं तेन प्रामाण्याग्रहणाद्बाधवारणमिति ध्येयम् । वस्तुतस्त्वत्र अन्त्यपक्षप्रवेश एव साधुः । तथाच प्रामाण्यविरोधीत्यादिविशेषणवैयर्थ्य-शङ्कावकाशलेशोऽपि नेति ज्ञेयम् ।

श्रीलक्ष्मीनाथतीर्थटीका

प्रयोजनाभावेन विप्रतिपत्तेर्न्यायामृते निरस्तत्वादादौ स्वमतसाधारणं ज्ञानप्रामाण्यस्वतस्त्वं निर्वक्ति ।। याथार्थ्यरूपस्येति ।। अर्थशब्दोऽर्यते इति व्युत्पत्त्या ज्ञेयवाची । ज्ञेयमनतिक्रम्य वर्तमानं यथावस्थितमेव ज्ञेयं यद्विषयीकरोति तत् यथार्थं प्रमाणम् । तस्य भावः याथार्थ्यं तादृशस्य याथार्थ्यरूपस्येत्यर्थः ।

एतेन किं प्रमाकरणत्वं प्रामाण्यं उत तद्वति तत्प्रकारकत्वं वा । नाद्यः । ज्ञाने अव्याप्तेः । न द्वितीयः । करणे अव्याप्तेः इति १न्यायामृते उच्यमानं दूषणं नास्मन्मते इति सूचितम् । याथार्थ्यरूपप्रामाण्यस्य ज्ञानतत्करण-साधारणत्वात् । अत एव करणनिष्ठप्रामाण्यं व्यावर्तयितुम् ज्ञानेति ।

अनुगतप्रामाण्यव्यक्तेरभावादाह ।। तत्तदिति ।। घटादिज्ञानप्रामाण्य-स्येत्यर्थः ।। ग्राह्येति ।। ग्राह्यं यत्प्रामाण्यं तस्य विरोधी अप्रामाण्यं प्रामाण्याभावश्च १तदुभयोपस्थापिकायाः सामग्रीतया असमवहितं ग्राह्य-प्रामाण्याश्रयघटज्ञानादिविषयकं साक्षिरूपं यद्भानं तद्विषयत्वनैय्यत्यमित्यर्थः ।

ननु साक्षिरूपज्ञानस्य नैय्यायिकादिभिरनङ्गीकृतत्त्वात्कथं तद्विषयत्व-नैय्यत्यं सुज्ञेयमुच्यते इत्यत आह ।। तार्किकेति ।। तथा च ज्ञानविषयक-ज्ञानं मतद्वयेति सिद्धमिति भावः । तस्य न्यायमते अनुव्यवसाय इति संज्ञा अस्मन्मते तु सक्षीति । एवञ्च संज्ञामात्रे भेद इति भावः ।।

Load More