स्वतस्त्वेप्रमाणं तु, ज्ञानप्रामाण्यं स्वतो ग्राह्यम्..
प्रामाण्यस्वतस्त्वेऽनुमानानि
प्रथमानुमानकथनम्
तर्कताण्डवम्
स्वतस्त्वेप्रमाणं तु, ज्ञानप्रामाण्यं स्वतो ग्राह्यम्, परतः अगृह्य-माणत्वे सति गृह्यमाणत्वात्; यद्यदन्येनागृह्यमाणत्वे सति ग्राह्यं तत् तेन ग्राह्यम् । यथा चक्षुरन्येनागृह्यमाणं रूपं चक्षुर्ग्राह्यम् ।। १ ।।
युक्तिरत्नाकरः
स्वतस्त्वं निरुच्य तत्साधनाय १प्रामाण्यं प्रतिजानीते ।। स्वतस्त्व इति ।। २प्रामाण्यं तु अनुमानं इत्युत्तरेण सम्बन्धः । तत्र तावद्यदुक्तं तत्त्वनिर्णयटीकायां ज्ञानगतं याथार्थ्यं तद्गाहकेणैव ग्राह्यं ग्राहकान्तारानुपपत्तौ सत्यां गृह्यमाणत्वात् । यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव गृह्यते यथा चाक्षुषोऽन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपं चक्षुषैव साक्षात्क्रियत इत्युक्तौ विशेषणवैय्यर्थ्यम् । तद्वति तत्प्रकारकत्वमात्रोक्तावपि तदेव । न च करणप्रामाण्ये बाधवारणाय तत्, तद्गतस्य याथार्थ्यस्य यथार्थज्ञानसाधनतारूपस्य ज्ञानकारणग्राहकेणाग्रहेण बाधात् ।
अत एव सुधायाम्– अथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयग्राह्यत्वं स्वतस्त्वमित्युक्तम् । अस्तु वा कथञ्चिद्बाधः, कथं तेन तद्वारणम् । करणगतप्रामाण्यस्यापि परामर्शादि-ज्ञानगतत्वान्नेच्छादिप्रामाण्ये बाधवारणाय तत्, इच्छाया अपि सविषयकत्वेन साक्षिवेद्यत्वेन तद्ग्राहकेण तद्गतयाथार्थ्यग्रहे बाधकाभावात् ।
किञ्च तद्ग्राहकेणैव ग्राह्यमित्यत्र ग्राहकपदेन ज्ञापकमात्रोक्तौ न्यायमतेऽप्य-नुमितिग्राह्यत्वे३ सिद्धसाधनम् । एवकारवैय्यर्थ्यं च । प्रत्यक्षोक्ताव४नुमिति-प्रामाण्यपदादिशब्दग्राह्यत्वेन बाधात् । एवकाराभाव एव सामञ्जस्याच्च । एवकारस्य भिन्नक्रमत्वेन वा तदर्थत्वैकत्वेऽपि प्रागुक्तपक्षद्वयेऽपि पटज्ञान-मित्यनेन शब्देन प्रतिबद्धसाक्षिणा च प्रामाण्याग्रहाद्बाध एव ।
नापि संशयविरोध्यलौकिकप्रत्यासत्त्यजन्यप्रत्यक्षवेद्यत्वं साध्यार्थः । अत्र चेशज्ञानानुमितिमादाय सिद्धसाधनवारणाय क्रमेण संशयविरोध्यलौकिक-प्रत्यासत्त्यजन्यजन्यप्रत्यक्षेति विशेषणत्रयमिति वाच्यम् । संशयविरोधिपदेन तन्निवर्तकोक्तावीशज्ञानस्यापि तथात्वात् सिद्धसाधनम् । संशयस्यापि धारावाहिकस्थले पूर्वसंशयं प्रति उत्तरात्मविशेषगुणत्वेन स्वात्मानञ्च १प्रतियोगितया निवर्तकत्वेन तमादाद्यार्थान्तराच्च । संशयविषयविरोधि-विषयत्वस्य तदसमानाधिकरणत्वस्य चोक्तावीशज्ञानस्यापि तथात्वात् संशयानुत्पादव्याप्यत्वोक्तावव्याप्त्यादि । साक्षिणि तदभावाच्च । हेतौ च ग्रहणपदेन ज्ञापकमात्रोक्तौ प्रामाण्यस्य क्वचिदनुमितिग्राह्यत्वेन विशेषणा-सिध्यापत्तेः ।
न च तत्प्रकारक एव संवाद्यनुमानेन प्रामाण्यग्रहणेऽनवस्थापत्तेर्न विशेषणासिद्धिरिति उक्तमेवेति वाच्यम् । तत्राप्रामाण्यस्य सर्वत्र नियमे-नानुमितिग्राह्यत्वे एव प्रामाण्यविशेष्यस्यानुमितिग्राह्यत्वेनानुमित्योक्त्या क्वचित्प्रामाण्यस्यानुमितिग्राह्यत्वेऽपि तदभावात् । अत एव दूरे जलज्ञानानन्तरं प्रामाण्यसंशयसामग्रीप्रतिबद्धेन साक्षिणा प्रामाण्याग्रहे प्रवृत्युत्तरकालं जलोपलम्भे प्राचीनपक्षे प्रामाण्यग्रहः समर्थप्रवृत्तिजनकत्व-रूपलिङ्गेन भवत्येवेति राद्धान्तः ।
किञ्च घटज्ञानप्रामाण्यं घटत्ववति घटत्वप्रकारकज्ञानत्वमित्यादिशब्देन प्रामाण्यग्रहणात्कथं न सिद्धिः । विशेष्यं च व्यर्थम् । न ह्यज्ञायमानं किञ्चि-दस्ति येन तत्र व्यभिचारकारणार्थं तत्स्यात् । न च हेतौ साध्ये च ग्राहकपदं प्रत्यक्षपरम् । एवञ्चेदानीमिन्द्रियधर्माधर्मौ व्यभिचारवारणाय गृह्यमाणत्वादिति । तदर्थश्च प्रत्यक्षादीनीति वाच्यम् । तत्र साध्यं स्वाश्रय-प्रत्यक्षविषयत्वमात्रं वा स्वाश्रयप्रत्यक्षमात्रविषयत्वं वा यत्स्वाश्रयप्रत्यक्ष-विषयत्वं वा । नाद्यः न्यायमतेऽप्यनुव्यवसायविशेषविषयत्वाभ्युपगमेन सिद्धसाधनापत्तेः । न द्वितीयः बाधाद्धेतोस्तत्राप्रयोजकत्वाच्च । नान्त्यः प्रतिबद्धसाक्षिणा तदग्रहेण बाधात् । यत्किञ्चित्स्वाश्रयप्रत्यक्षविषयत्व-मात्रेणाप्युपपत्त्या हेतोरुक्तसाध्यसाधकत्वात् । एतेनैवकारस्य कार्त्स्न-व्यवच्छेदोभयार्थकत्वे प्रतिबद्धयावदनुव्यवसायवेद्यत्वं, तदर्थः पर्यवस्यतीति न कोऽपि साध्यदोष इति निरस्तम् ।
उक्तसाध्यहेतोरप्रयोजकत्वादित्यादिदोषनिरासाय तदनुमानतात्पर्यमाह ज्ञानप्रामाण्यमिति ।। ज्ञानान्यावृत्तिप्रामाण्यपदप्रवृत्तिनिमित्तमित्यर्थः । तच्च लाघवाद्घटत्ववद्विशेष्यकत्वे सति घटत्वप्रकारकज्ञानत्वं न विशेष्या-वृत्यप्रकारकत्वमिति न बाध इति भावः ।। स्वत इति ।। ग्राह्यप्रामाण्य-विरेध्युपस्थिति तत्सामग्य्रसमवहितग्राह्यप्रामाण्याश्रयतत्तञ्जान१विषयसकल-साक्षिविषय इत्यर्थः । तदर्थविशेषणकृत्यं च प्रागुक्तम् ।
।। परत इति ।। ननु परतोऽग्राह्यत्वं परग्राह्यत्वाभावः । तत्र किं परतो ग्राह्यत्वम् । न तावत् स्वतो ग्राह्यत्वाभावः । हेतोः साध्या-विशेष्यात् । नञ्द्वयवैय्यर्थ्यात् । व्यर्थविशेष्यकत्वाच्च । नाप्यप्रतिबद्ध-साक्ष्यतिरिक्तं परशब्दार्थः । अनुमितिग्राह्यत्वेन हेतोरसिद्धेः । न चोक्त एव परशब्दार्थः । तदग्राह्यत्वं हि तन्मात्रग्राह्यत्वाभावः । तन्मात्रग्राह्यत्वं च तदितराग्राह्यत्वे सति तद्ग्राह्यत्वम् । तदितरशब्दार्थश्च प्रतिबद्धानु-व्यवसायग्राह्यत्वम् । विशिष्टानुमित्यादिग्राह्यत्वस्याभावो हेत्वर्थः । तस्य च सिद्धान्त उक्तानुव्यवसायग्राह्यत्वेन तदग्राह्यत्वरूपविशेषणाभावायत्त-विशिष्टाभावस्य सम्भवेऽपि न्यायमते विशेषणविशेष्ययोरभयोरपि सत्त्वे-नान्यतरासिद्धेरपरिहारात् । न च न्यायमते परेतरयत्किञ्चिदुक्तसाक्षिग्राह्यत्वेन परेतरग्राह्यत्वासामान्याभावविवक्षायत्तविशेषणाभावायत्तविशिष्टाभावसत्वान्नासिद्धिरिति वाच्यम् । तथाप्युक्तानुव्यवसायाग्राह्यत्वे सत्यनुमित्यादिग्राह्यत्वाभावस्यैव हेतुत्वसम्भवे इतरपदवैय्यर्थ्याच्च । विशेष्यवैय्यर्थापरिहाराच्च ।
ननु परतोऽग्राह्यपदेनाप्रामाण्यमुच्यते तदन्यत्वं च परमतेऽग्राह्यत्वम् । तच्च विशेष्यवृत्त्यप्रकारकत्वात् अतीन्द्रिये व्यभिचारि । अतो ग्राह्यत्वादिति विशेष्यम् । तदर्थश्च ज्ञानांशलौकिकप्रत्यक्षविषयत्वादिति । अतो न दोष इति चेत् यदन्येनाग्राह्यत्वे सतीत्यादिव्याप्त्यभिधानविरोधात् । न हि परतोऽग्राह्यत्वे सतीत्यत्रेवोक्तार्थोऽत्र सम्भवतीति चेदुच्यते । परतोऽग्राह्यत्वं परमात्राग्राह्यत्वम् । परत्वञ्च ग्राह्यप्रामाण्याश्रयगोचरज्ञानांशलौकिकप्रत्यक्षा-पेक्षया । तन्मात्रग्राह्यत्वं च तदितराग्राह्यत्वे सति यत्किञ्चित्तद्ग्राह्यत्वाभावः ।
ततश्चायमर्थः । ग्राह्यत्वप्रमाश्रयगोचरज्ञानांशलौकिकप्रत्यक्षातिरिक्तेतरा-ग्राह्यत्वविशिष्टतादृशप्रत्यक्षातिरिक्तयत्किञ्चिद्ग्राह्यत्वस्याभावे सतीति प्रत्यक्षातिरिक्तं यत्किञ्चित्प्रामाण्यग्राहकमेव विवक्षितम् । एवञ्च ग्राह्य-प्रामाण्याश्रयालौकिकप्रत्यक्षाग्राह्यत्वं विशिष्टस्य प्रामाण्यज्ञापकविषयत्वस्या-भावः सत्यन्तार्थः पर्यवसितः । न्यायमतसिद्धस्तु प्रसाध्याङ्गत्वाददोषः । अत्र विशेष्याभावमात्रोपादाने प्रामाण्ये असिद्धिरतो विशिष्टाभावोपादानम् । विरोध्यभावायत्तविशिष्टाभावश्चाप्रामाण्ये विशेष्यावृत्यप्रकारकत्वादौ चास्तीति व्यभिचारः । तद्वारणाय ग्राह्यत्वादिति । तदर्थश्च प्रत्यक्षयोग्यता-वच्छेदकधर्मावच्छिन्नत्वादिति योग्यतावच्छेदकञ्चानुगतत्वाद्बहिर्द्रव्यप्रत्यक्षे महत्वसमानाधिकरणोद्भूतरूपवत्वमेव । रूपप्रत्यक्षे उद्भूतत्वे सति महत्व१समानाधिकरणमिव जातिप्रत्यक्षे योग्यव्यक्तिवृत्तित्वमिव प्रामाण्यप्रत्यक्षे तद्वति तत्प्रकारकज्ञानत्वादिकमेव । स्वरूपप्रकारविषयमात्रघटितत्वेन तस्य योग्यत्वान्न तु विशेष्यावृत्त्यप्रकारकत्वादि । तस्यातथात्वादिति न तत्र व्यभिचारः । न तावन्मात्रञ्च, शब्दगन्धादौ व्यभिचार इति विशिष्टोपादानम् । यद्यदन्येनागृह्यमाणत्वे सतीत्यत्र यच्छब्देन यदाश्रयगोचरलौकिकप्रत्यक्षमुच्यते तदन्येनाग्राह्यत्वञ्च तदन्यमात्रग्राह्यत्वम् । तदर्थश्च स्वाश्रयगोचर-लौकिकप्रत्यक्षग्राह्यत्वे सति यत्किञ्चित्तदितरातिरिक्तग्राह्यत्वाभावः । यत्किञ्चित्तदतिरिक्तस्वगोचरज्ञानमेव विवक्षितम् । न च हेतोरन्यतरासिद्धिः, न्यायमतेऽपि पारतन्त्र्येणोक्तानुव्यवसायप्राप्तत्वस्यैव सत्वेनोक्तप्रत्यक्ष-वेद्यत्वसामान्याभावस्याभावात् ।
न च नियमघटितस्य साध्यस्य यावत्याश्रयग्राहकग्राह्यपर्यवसिति कथं अनेन सिद्धिनियमानुपादाने वा कथं नासिद्धसाधनं इति वाच्यम् । नियमानु-पादानेन स्वाश्रयांशलौकिकप्रत्यक्षविषयत्वमात्रसाधनेऽपि प्रथमानुव्यवसाय-विषयत्वमादायैव साध्यपर्वसानसम्भवेन सिद्धसाधनानवकाशात् ।
यद्वा द्वितीयसाध्याभिप्रायेणैतत्प्रणयनमिति न कश्चिद्दोषः । यद्यदन्येनानु-पपद्यमानग्रहणमित्यत्रापि यदन्येनेति स्वाश्रयगोचरलौकिकप्रत्यक्षमात्रे-णेत्यर्थः । तथा च यद्यदाश्रयगोचरलौकिकप्रत्यक्षत्वाभावविशिष्टयज्ज्ञापक- विषयत्वाभावे सति प्रत्यक्षविषयः तदाश्रयांशेलौकिकप्रत्यक्षविषय इति सामान्यव्याप्त्यर्थः पर्यवस्यति । न च रूपे स्वाश्रयग्राहकस्य स्पार्शन-प्रत्यक्षाविषये विशेषणविशेष्ययोरुभयोरपि सत्वेन विशिष्टाभावाभावात् साधनवैकल्यम् । स्वाश्रयगोचरचाक्षुषप्रत्यक्षविषये तस्मिन् स्वाश्रय-गोचरप्रत्यक्षग्राह्य(त्व)तत्सामान्याभावस्य विवक्षितस्याभावेन विशिष्टा-भावापत्तेः । गुरुत्वांशे व्यभिचारवारणाय– ग्राह्यत्वादिति ।। सामान्यव्याप्तौ विशिष्टं प्राग्वत् । अत्र यद्यपि ज्ञानत्वादिदृष्टान्तसम्भवेन विशेष-व्याप्तिप्रदर्शनमेव कर्तुमुचितम् । तथापि विशेषव्याप्तेरिव सामान्यव्याप्तेरपि १गमकत्वविशिष्टे स्वतन्त्रेच्छतया तत्प्रदर्शनं कृतमिति । न च सामान्यव्याप्तिप्रदर्शनेऽपि हेतुविशिष्टव्याप्त्यप्रदर्शनान्न सानुमित्यङ्गमिति वाच्यम् । विशिष्टहेतुनिष्टव्याप्तिप्रदर्शनेऽपि यत्तत्वपुरस्कारेण सामान्यमुखेन हेतुनिष्टव्याप्तेरपि प्रदर्शनात्, कथमन्यथा तवापि ‘‘देवदत्तो बहिरस्ति विद्यमानत्वे सति गृहे असत्वात्’’ इत्यत्र विद्यमानत्वे सति यत्र नास्ति स ततोऽन्यत्रास्ति इत्यादिषु सामान्यव्याप्त्युद्भावनं विशिष्टप्रस्तावे द्रष्टव्यम् ।
वस्तुतस्तु ज्ञानप्रामाण्यप्रतिबद्धस्वाश्रयगोचरस्वाश्रयांशलौकिकप्रत्यक्षविषय इति सामान्यमुखेनैव साध्यं विवक्षितमिति न किञ्चिदेतत् । न च शब्द-स्याप्यनुगतत्वात् कथं पक्षीयहेतौ साध्यनिरूपितव्याप्तिप्रदर्शनमति वाच्यम् । एवंविधाननुगमदोषस्य सकलतार्किकाभिमतत्वात् । कथमन्यथेश्वरानुमानं तवापि । परमार्थस्तु परतोऽग्राह्यत्वे सति ग्राह्यत्वात् स्वाश्रयगोचर-प्रत्यक्षातिरिक्तप्रत्यक्षाविषयत्वे सति प्रत्यक्षविषयत्वादित्यर्थः । अस्य गोः परेण भाव्यमित्यादौ परशब्देन तद्गोसदृशगवां तस्य प्रतिपाद्यत्वदर्शनात् । अत एव चक्षुरन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपादि चक्षुषा साक्षात्क्रियत इति टीकोक्तिः । यद्यपि नेदं परोक्तपरतस्त्वाभावरूपं तथाप्युक्त एव तत्स्वरूपसाध्यव्याप्यमिति हेतुतयोपन्यासो युक्तः । न हि परतस्त्वाभावसाधनेनैव स्वतस्त्वं साधनीयमित्यस्ति निर्बन्धः । न च स्वाश्रयप्रत्यक्षातिरिक्तप्रत्यक्षावेद्यस्य हेतुत्वे टीकायामसिद्धिमाशङ्क्य संवादलिङ्गत्वानुमानवेद्यत्वेऽनवस्थापत्तेरिति तत्साधनमसङ्गतमिति वाच्यम् । तत्र साक्ष्यतिरिक्तेन प्रत्यक्षादिना येन केनापि प्रामाण्यग्रहणे अनवस्थेत्युच्यते नत्वनुमानवेद्यत्व एव । तत्रैव न च ज्ञानग्राहकातिरिक्तेन ग्रहणं सम्भवतीति ग्राहकान्तरस्यानवस्थाप्रसङ्गेन निरस्तत्वादिति च सामान्यमुखेनैव तदुक्तिः । अत्र विशेष्यमात्रस्य शब्दगन्धादौ व्यभिचारः । अतः पूर्वदलम् । अप्रत्यक्षत्वे सति प्रत्यक्षत्वं च व्याहतमतः स्वाश्रयप्रत्यक्षातिरिक्तेति ।- सत्यन्तस्य गुरुत्वादौ व्यभिचारात् विशेष्यम् । न च स्वाश्रयज्ञापकातिरिक्त-१दलमिति वाच्यम् प्रत्यक्षपदेनाखण्डसाक्षात्वरूप२जन्यत्युक्त्या वैय्यर्थ्यात् । द्वितीयप्रत्यक्षपदादानेन च सिद्धिः । अखण्डाभावे वैय्यर्थ्याभावात् । तृतीयस्य चोक्तमेव प्रयोजनम् । न च विशेषणासिद्धिः । तदयोग्यधर्मा-घटितत्वेन तत्साधनान्तरेणापि तदभ्युपगमाच्चेति सङ्क्षेपः ।
न्यायदीपः
तत्र किंप्रमाणमित्यत आह ।। स्वतस्त्वेप्रमाणं त्विति ।। अनुमानमिति वक्ष्यमाणेनान्वयः । यद्यपि–
‘‘पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये’’
इति कथालक्षणोक्तेः ग्रन्थस्य च वादकथारूपेणप्रवृत्तेः
‘‘ऋग्यजुःसामाथर्वाख्या मूलरामायणं तथा ।
भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ।।
पुराणानि च यानीह वैष्णवानि विदो विदुः
स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद् विचार्यते’’
इत्यादिरागम एव वाच्यः । तथाऽपि हैतुकस्य तार्किकस्यागमेऽत्यादरा-भावात् तंप्रत्यागमानुकूला न्याया एवात्रोच्यन्त इत्यदोषः ।
‘‘ज्ञानगतं याथार्थ्यं तद्ग्राहकेणैव ग्राह्यम्, ग्राहकान्तरानुपपत्तौ सत्यां गृह्यमाणत्वात् यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव गृह्यते, यथा चक्षुषोऽन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपादि चक्षुषा साक्षात्क्रियते’’ इति तत्त्वनिर्णयटीकोक्तमनुमानं तात्पर्यतोऽनुवदति ।। ज्ञानप्रामाण्यमिति ।। याथार्थ्यरूपमित्यर्थः । तत्स्वरूपमुक्तं प्रागस्माभिः । चक्षुरादिरूपानुप्रमाणव्यावृत्तस्य साक्षाज्ज्ञेयविषयीकारित्वस्य लाभाय ज्ञानेति विशेषणं तत्तज्ज्ञानपरम् । घटत्ववति घटत्वप्रकारकज्ञानत्वादिरूपं प्रामाण्य-मित्यर्थः । यदा तु प्रामाण्यपदेन केवलप्रामाण्यग्रहः तदा ज्ञानपदं स्पष्टार्थम् । अत एव सुधायां ‘‘प्रामाण्यम्’’ इत्येव पक्षोक्तिः ।। स्वत इति ।। ग्राह्य-प्रामाण्यविरोध्युपस्थापकसामग्र्यसमविहिततत्तज्ज्ञानविषयकसाक्षिविषय एवेत्यर्थः । विशेषणकृत्यं प्राग्वत् । साक्षी च लौकिकप्रत्यक्षादिरूपानु-व्यवसाय एव ।। परत इति ।। प्रामाण्यं परतो ग्राह्यं सांशयिकत्वात् इत्यादौ यत् पराभिमतं साध्यं उक्तविशिषेणकसाक्षिज्ञानादन्येनैव ग्राह्यत्वादिरूपं तदभावे सति ग्राह्यत्वादित्यर्थः । तेनानुमित्यादिग्राह्यत्वेऽपि नासिद्धिः ‘‘परस्य स्वत्वात् स्वस्य च परत्वात्’’ इत्यादि मण्युक्तखण्डनस्याप्य-नवकाशः ।
केचित्तु परतो ग्राह्यत्वं नाम उक्तविशेषणकोक्तरूपसाक्षिज्ञानादन्योत्पाद्य-प्राथमिकप्रतीतिकत्वम्, तच्छून्यत्वे सतीत्यर्थः । तेन स्वतस्त्ववादे प्रामाण्यस्यानुमित्यादिग्राह्यत्वेऽपि न विशेषणासिद्धिरित्याहुः । अत्र सत्यन्तमात्रस्याप्रयोजकत्वाद् ग्राह्यत्वादित्युक्तिः । घटादिगतगन्धादौ सत्यपि ग्राह्यत्वे स्वाश्रयग्राहकोक्तरूपप्रत्यक्षाग्राह्यत्वं नेति व्यभिचारनिरासाय सत्यन्तम् ।
श्रीलक्ष्मीनाथतीर्थटीका
स्वतस्त्वेऽनुमानप्रमाणमाह ।। स्वतस्त्व इति ।। प्रमाणमिति ।। अस्य पदस्यानुमानमिति वक्ष्यमाणेन सम्बन्धः । ज्ञानप्रामाण्यमित्यत्र प्रामाण्यपदस्य १तद्वति तत्प्रकारकत्व याथार्थ्यरूपमित्यर्थः । तेन प्रामाण्य-पदेनैव तद्वति तत्प्रकारकत्वज्ञानत्वलाभात् तस्य चानुप्रमाणे एव गतत्वा-भावात् तद्व्यावर्तनाय पक्षे ज्ञानपदमनादेयमिति शङ्का निरस्ता२स्रयमाह ।। स्वतो ग्राह्यमिति ।। ग्राह्यप्रामाण्याश्रयविरोध्युपस्थापकसामग्य्रसमवहित- ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयक साक्षिज्ञानविषय एवेति वा ग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानयोग्य इति वा उभयसिद्धप्रामाण्याविषयक-ज्ञानभिन्नज्ञानविषय एवेति वार्थः । तेन ज्ञानं गुण ३इत्याशब्दजन्यज्ञानस्यापि ज्ञानग्राहकतया तद्ग्राह्यत्वाभावेन प्रामाण्यस्य यावज्ज्ञानग्राहकग्राह्यत्वरूप-स्वतस्त्वे साध्ये बाधः स्यादिति शङ्का परास्ता । निरुक्तसाध्ये यावत्पदस्या-प्रवेशात् । हेतुकी पदत इति४ ।
।। इति लक्ष्मीनाथतीर्थकृतटीका ।।