सुवर्णं तु न द्रव्यान्तरं, नापि तैजसं, किन्तु पार्थिवमेव
अथ परमते सुवर्णस्य योग्यानुपलब्धिबाधः ।
सुवर्णवाद:
तर्कताण्डवम्
सुवर्णं तु न द्रव्यान्तरं, नापि तैजसं, किन्तु पार्थिवमेव । पीत-त्वात् । २अजलत्वे सति गुरुत्वात् । नैमित्तिकद्रवत्वाधिकरणत्वाच्च । घृतादिवदित्याद्यनुमानात् ।
‘‘दिव्यं पार्थिवं ३वस्तु’’ इत्यादिश्रुतेश्च । जम्बूनदीरोधसो मृत्तिका जम्बूफलरसानुविध्यमाना वाय्वर्कसंयोगविपाकेन जाम्बूनदं नाम सुवर्णं भवतीति, तावती भूमिः काञ्चन्यादर्शतोपमेत्यादिभागवतादि-वचनाच्च ।।
‘‘अग्नेः प्रजातं प्रथमं हिरण्यम्’’ इति श्रुतिस्त्वग्नेराप इत्यादि-श्रुतिवदग्नेर्हिरण्यनिमित्तत्वमाह । न तु हिरण्यस्य अग्न्यात्मकताम् ।।
न्यायदीपः
तमोवत्सुवर्णमपि नवभ्यो द्रव्यान्तरं किमित्यत आह–।। सुवर्णन्त्विति ।। न्यायमत इव तेजस्यन्तर्भावः किन्नेत्याह ।। नापीति ।। १तैजसमिति ।। पयस्यव्यभिचारायैव जलान्यत्वे सतीति नैमित्तिकेति चोक्तिः । अनुमानानुग्राहकश्रुत्याद्याह ।। दिव्यमिति ।।
‘‘यत्सोमचित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तन्नः पुनान आभर’’
इति बह्वृचशाखायां श्रवणादित्यर्थः ।।
पञ्चमस्कन्धवाक्यान्याह ।। जाम्बूनदीति ।। मेरुसमीपस्था । काचिन्नदी तत्तीरयोर्मृत्तिकेत्यर्थः । पूर्ववाक्योक्तस्यानुवादो जाम्बूनदीति । २अन्यसमं यावन्मानसोत्तरमेर्वोरन्तरं तावतीति षण्णवतिलक्षयोजनपरिमिता काञ्चनी सुवर्णमयी दर्पणतलवदतिश्लक्ष्णतमेति स्वादूदकसमुद्रात्परतो लोकालोकपर्वतादर्वाग्भागभूमिरित्यर्थः । परोक्तश्रुतिगतिमाह ।। अग्नेरिति ।।