किं च त्वन्मतेऽपि..

अथ स्वर्णघटत्वादिप्रतिबन्दी

ननुगतजातेरपि प्रवृत्तिनिमित्तत्वं युक्तम्

तर्कताण्डवम्

किं च त्वन्मतेऽपि– सुवर्णघटादौ तेजस्त्वादिना सङ्करापत्त्या घटत्वादिजातिः पृथिवीत्वादिव्याप्या नानैव । तारत्वादिजातिरपि कत्वादिजात्या चैत्रजत्वजात्या सङ्करापत्त्या गत्वादिव्याप्या नानैव । उद्भूतत्वजातिरपि नीलत्वादिना सङ्करापत्त्या शुक्लत्वादिव्याप्या नानैव ।

एवञ्च यथा तत्र घटत्वादीनां नानात्वेऽपि घटादिशब्दव्युत्पत्तिः, घटस्य कपालं प्रतिव्याप्यता, जलाहरणादिकारणता, घटाकारानुगत-प्रत्ययश्च; तथा गोत्वानां नानात्वेऽपि व्युत्पत्त्यादिकं किं न स्यात् ।।

न्यायदीपः

परसम्मत्याऽप्यननुगतधर्मेण शक्तिग्रहमुपपादयितुमुपोद्धातमाह ।। किं च त्वन्मत इति ।। नानैवेत्येतैरन्वयः ।। सङ्करेति ।। परस्परपरिहारेण वर्तमानयोरेकत्र समावेशः सङ्करः । इह च तेजस्त्वपरिहारेण मृद्घटे सतो घटत्वस्य घटत्वपरिहारेणालोकादौ सतस्तेजस्त्वस्य स्वर्णघटे समावेशात् स्वर्णस्य च परमते तेजस्त्वादतः साङ्कर्यदोषनिरासाय नानैवोपेया । तथा च तेजस्त्वादिव्याप्यस्य घटत्वस्य तेजस्त्वादिपरिहारेणान्यत्रावर्तमानत्वान्न साङ्कर्यम् । स्वर्णघटादौ तेजस्त्वादिपरिहारेणान्यत्रावर्तमानत्वान्न साङ्कर्यम् । स्वर्णघटादौ घटत्वादिजातिर्नेति मतेनाह ।। तारत्वेति ।। तारत्वकत्वयो-स्तारगकारे मन्दककारे च सतोस्तारककारे समावेशात्साङ्कर्यम् ।। चैत्रज-त्वेति ।। चैत्रजन्यतावच्छेदकजात्येत्यर्थः । तारत्वचैत्रजन्यतावच्छेदक-जात्योः मैत्रीयतारककारे चैत्रकृतकटादौ च सतोश्चैत्रजन्यतारककारे समावेशा-त्साङ्कर्यं स्यात्तन्निरासाय नानैव वाच्या । एवमुद्भूतत्वनीलत्वयोः शुक्लरूपानु-द्भूतनीलरूपयोः सतोरुद्भूतनीलरूपे घटादिनिष्ठे समावेशेन साङ्गर्यनिरासाय नानैव वाच्येत्यर्थः ।

अस्तु किं तत इत्यत आह ।। एवं चेति ।। नानात्वे सतीत्यर्थः ।। घटादिशब्दव्युत्पत्तिरिति ।। मृद्घटादौ स्वर्णघटादौ चेत्यर्थः ।। व्याप्यतेति ।। यो घटः स कपालाश्रित इति व्याप्यतेत्यर्थः । मृद्घटादौ स्वर्णघटादौ चेति चतुर्ष्वपि सम्बध्यते । आदिपदेन तारादिशब्द-व्युत्पत्तिग्रहः ।।

Load More