‘‘उपक्रमोपसंहारावभ्यासोपूर्वता फलम् ..
बलाबलवादः
७९. अथ मीमांसकोक्तस्योपसंहारादुपक्रमप्राबल्यभङ्गः
तर्कताण्डवम्
अत्र स्वार्थे शब्दात्मकानामप्युपक्रमादीनां समन्वय सूत्रे–
‘‘उपक्रमोपसंहारावभ्यासोपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ।’’
इति भाष्ये च तात्पर्यलिङ्गत्वमुक्तम् । अनुव्याख्याने च–
‘‘उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।
श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्कविनिर्णयात् ।’’
इत्युपक्रमादीनां परबलीयस्त्वमुक्तम् ।
न्यायविवरणे चोपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकर्तव्यं, व्याख्यानस्य पश्चात्तनत्वनियमादित्युपसंहारस्योपक्रमात्प्राबल्ये हेतुरुक्तः ।
टीकायामपि– तदनुरोधेनोपक्रमादुपसंहारो बलीयान् व्याख्यान-रूपत्वादित्युक्तम् । उपक्रमादित उपसंहारादेः प्राबल्ये उदाहरणादिक-मस्माभिः समन्वयसूत्रे चन्द्रिकायामुक्तं द्रष्टव्यम् ।
न्यायदीपः
योग्यतावादान्ते विष्णावेववेदस्यशक्तितात्पर्येयुक्ते इति कृतप्रतिज्ञा-सिद्ध्यर्थं शक्तिसद्भावं तदवान्तरभेदं तत्प्रसङ्गागताममुख्यवृत्तिं च सपरिकरं द्वासप्ततिप्रकरणैर्निरूप्य विष्णौ शक्तिरित्ययमंशः समर्थितः । अथेदानीं तात्पर्ययुक्तमित्ययमंशः समर्थनीयः । स च तात्पर्यलिङ्गभूतोपक्रमादेर्बलाबल-निर्णयाधीन इति भावेन शब्दरूपस्य कथं लिङ्गत्वमित्यत उपक्रमादेस्तात्पर्य-लिङ्गत्वं बलाबलं च निरूपयति ।। अत्रेत्यादिना ।। ब्रह्मतन्त्र इत्यर्थः ।। समन्वयेति ।। ‘‘तत्तु समन्वयाद्’’ इति चतुर्थसूत्रे यद्भाष्यं भगवत्पाद-कृतं तेनेत्यर्थः । क्वचिद्भाष्य इति सप्तम्यन्तपाठः ।
।। अनुव्याख्यान इति ।। ज्ञानपादीय इति योज्यम् ।। श्रुत्यादौ ।। श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यासु ।। न्यायविवरणे चेति ।। वैराग्यपादे प्रथमे श्रवणादित्यत्रेति ज्ञेयम् ।। टीकायामिति ।। अर्थतोऽनु-वादोऽयम् ।
तर्कताण्डवम्
मीमांसकास्तु– उपसंहारादुपक्रमो बलीयानित्याहुः । तन्न । तथात्वे अक्ताधिकरणादिबहुबाधप्रसङ्गात् । अक्ताधिकरणे ‘‘अक्ताः शर्करा उपदधाति’’ इत्युपक्रमेण व्याख्यान रूपस्य तेजो वै घृत-मित्युपसंहारस्य, ‘‘वासः परिधत्त’’ इत्युपक्रमेण च ‘‘एतद्वै सर्व-दैवत्यं यत्क्षौमम्’’ इत्युपसंहारस्यानुसरणात् ।
वैश्वानराधिकरणे च वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इत्युपक्रमेऽसंवलिताधिकारप्रतीते ‘‘र्यस्मिन्जात एतामिष्टिं निर्वपति पूत एव स तेजस्वी अन्नाद’’ इत्युपसंहारेण बाधात् ।
तद्व्यपदेशाधिकरणे च ‘‘श्येनेनाभिचरन् यजेत’’ इत्युपक्रमस्थ-श्येनशब्दस्य ‘‘यथा वै श्येन’’ इत्युपसंहारेण गौणार्थस्वीकारात् ।
न्यायदीपः
बहुबाधमेव व्यनक्ति ।। अक्ताधिकरण इत्यादिना ।। सन्दिग्धे तु वाक्यशेषादित्याद्याध्यायचतुर्थपादीयोपान्त्याधिकरणे अक्ताः शर्करा उप-दधातीत्यत्र शर्कराणामञ्जनं येन केनचित्तैलादिना द्रवद्रव्येणेति प्राप्ते तेजो वै घृतमित्यर्थवादबलेन घृतेनैवाञ्जनमिति, तथा वासोवाक्ये येन केन चिद्वाससा परिधानमिति प्राप्ते वाक्यशेषबलेन क्षौमेणेति येन केनचिद्वाससा परिधानमिति प्राप्ते वाक्यशेषबलेन क्षौमेणेति सिद्धान्तितत्वादिति भावः ।
।। वैश्वानरेति ।। फलसंयोगस्त्वचोदितेन स्यादशेषभूतत्वादिति चतुर्थस्य तृतीयपादे सप्तदशाधिकरणे ह्युपक्रमेण फलामिश्रपुत्रजन्ममात्र-निमित्तवतो या अधिकारप्रतीतिस्तस्याः फलबोधकोपसंहारेण फल-संवलिताधिकारोक्त्या बाधादित्यर्थः । तत्र हि यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीति वाक्यशेषस्य रात्रि-सत्रन्यायेन फलपरत्वे सिद्धे सति तत्फलं किमिष्टिकर्तुः पितुरत पुत्रस्येति संशये अन्यफले कर्मण्यन्यस्य प्रेरणासम्भवात्पितुरेव प्रेर्यत्वादादधीतेत्याधान-गतात्मनेपदादग्निसाध्यकर्मफलानामाधातृगामित्वनियमात्पितुरेवेति प्राप्ते वाक्यशेषे यस्मिन्जात एतामिष्टिं निर्वपति स पूत इति स्पष्टम्पुत्रगामित्वेन फलश्रवणात् पुत्रफलस्यापि पितुरभिलषितत्वेनाधानगतात्मनेपदाविरोधाच्च पुत्रगतमेव फलमित्युक्त्या ‘‘वैश्वानरं द्वादशकपालं निर्वपति पुत्रे जात’’ इति पुत्रजन्ममात्रनिमित्ताधिकारप्रतीतिमतोपि पूतपुत्रकत्वकामनावत्त्वेन संवलिताधिकारसिद्धेरिति भावः ।
।। तद्व्यपदेशेति ।। तद्व्यपदेशं चेत्याद्याध्यायचतुर्थपादीयचतुर्थाधि-करणे । अभिचरन् शत्रुबाधार्थम् । ‘‘लक्षणहेत्वोः क्रियाया’’ इति शतृ-प्रत्ययः । तत्र हि श्येनशब्दः किं द्रव्यवचनः कर्मनामधेयं वेति सन्देहे द्रव्यविशेषे रूढत्वाद्द्रव्यवचन इति प्राप्ते ‘‘यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्त’’ इति वाक्यशेषे श्येनसादृश्योक्त्या गौण्या वृत्त्या कर्मनामधेयमित्युक्तेरिति भावः ।
तर्कताण्डवम्
‘‘नन्वक्ता’’ इत्यत्र ‘‘उपदधाति’’ इति वर्तमानापदेशत्वेन विधेरप्रत्यक्षतया स्तुत्योन्नेयत्वादुपजीव्यस्तुतिसमर्पकत्वादर्थ-वादोऽनुसृतः । न तूपसंहारत्वात् । अत एव शाबरभाष्ये वर्तमानाप-देशत्वादित्युक्तमिति चेन्न ।
अक्तशर्करोपधानस्य वर्तमानस्याभावेनोपदधातीत्याख्यातस्य पञ्चमलकारतया वसन्ताय कपिञ्जलानालभत इत्यादाविव लिङादेर-भावेपि स्तुतिनिरपेक्षमेव विधिसिद्धेरिमां स्पृष्ठ्वोद्गायेदिमां हि विश्वानि भूतान्युपजीवन्तीत्यक्ताधिकरणोदाहरणान्तरे लिङ एव श्रवणाच्च ।
न्यायदीपः
नन्वत्रोपसंहारप्राबल्ये अक्ता इति वाक्योक्तिरयुक्ता । तत्रोपदधातीत्यस्य शाबरभाष्योक्तदिशा विधित्वार्थमेव वा विधित्वेपि वार्तिकोक्तरीत्या विधि-पर्यवसानार्थमेव वा अर्थवादत्वेनैव वाक्यशेषानुसरणात् । तेजो वै घृत-मित्यस्य पदैकवाक्यतया वाक्यैकवाक्यरूपोपसंहारत्वाभावात् । उपसंहारत्वेपि वा तस्योपक्रमनिर्णायकत्वेन वा तत्सङ्कोचकत्वेन वोपपत्त्योपक्रमाबाधक-त्वात् । बाधकत्वेऽपि वा विशेषविषयत्वेनैव न तूपसंहारत्वेनेत्युपपत्तेरित्यत आद्यं तावदाशङ्क्य निराह ।। नन्वित्यादिना ।। अपदेशो निर्देशः । स्तुत्या तेजो वै घृतमिति घृतस्य तेजस्त्वरूपगुणाभिधानेन ।
।। उपजीव्येति ।। स्तुतिं विना विधित्वानिर्णयात्स्तुतिरुपजीव्येत्युप-जीव्यत्वेन प्राबल्यमित्युक्तं भवति ।। अक्तशर्करेति ।। आर्द्रक्षुद्रपाषाणेत्यर्थः ।
।। इत्यादाविवेति ।। कपिञ्चलवाक्येऽर्थवादाभावेपि यथा लेट्कल्पनेन विधित्वमुपेयते तथेत्यर्थः । लेटः पञ्चमलकारत्वं च लट्, लिट्, लुट्, ऌट्, लेट् इति निर्देशापेक्षयेति ध्येयम् ।। इमामिति ।। औदुम्बरीमित्यर्थः ।
तर्कताण्डवम्
नन्वथापि–
‘‘समाप्यते विधिः कश्चित्कदाचिन्नाप्ररोचितः ।
घृते प्ररोचनां दृष्ट्वा विधिस्तत्रानुमीयते’’
इति वार्तिकोक्तन्यायेन प्रवृत्त्युपयुक्तप्ररोचनां विना प्रवर्तकस्य विधेरपर्यवसानात्सति चार्थवादे वसन्तायेत्यादिनिरर्थवादविधेरेव प्ररोचकत्वकल्पनायोगात्स्वसमाप्त्यर्थमपेक्षितत्वाद् विधिनार्थवादोनुसृतः । न तूपसंहारत्वादिति चेन्न ।
उपसंहारस्याप्राबल्ये हि न विधौ परः शब्दार्थ इति न्यायेन विधेरनन्यपरत्वात्प्रधानत्वादर्थवादस्य तु वैपरीत्यात् तत्स्थघृतशब्दस्य ‘‘गुणे त्वन्यायकल्पन’’ इति न्यायेन घृताघृतलक्षकत्वं वा घृतस्तुते-रेवाष्टाकपालस्तुतेरेवावयवद्वारावयविद्वादशकपालस्तुतिपरत्ववद्विशेषद्वारा सामान्यस्तुतिपरत्वं वा स्यात् ।।
न्यायदीपः
द्वितीयं पक्षमाशङ्कते ।। नन्वथापीति ।। अनुमीयते ।। परिसमाप्यत इत्यर्थः । प्रवर्तनात्मा विधिरनुमीयत इति वार्थः ।। स्वसमाप्त्यर्थमिति ।। पुरुषप्रवृत्त्युत्पत्त्यर्थम् ।
अक्ताधिकरणपूर्वपक्ष्यभिमतार्थापादनेन परिहरति ।। उपसंहारस्या-प्राबल्ये हीत्यादिना ।। पर इति ।। स्वार्थादन्यो लाक्षणिकादिः शब्दार्थो नेति शबरोक्तन्यायेनेत्यर्थः ।
।। इति न्यायेनेति ।। ‘‘विप्रतिपत्तौ विकल्पः स्यादसमर्थत्वाद्गुमे त्वन्यायकल्पनैकदेशत्वात्’’ इति नावमिकाधिकरणन्यायेनेत्यर्थः । तत्रादितिः पाशान्प्रमुमोक्त्वितिमन्त्रस्थबहुवचनं प्रधानप्रतिपादकानुरोधेनावयवबहुत्वे-नास्वरसं नीयते तथेहापीत्यर्थः । घृतस्तुतेरेवेत्यस्य सामान्यस्तुतिपरत्वं वेत्यन्वयः ।। अष्टाकपालेति ।। पूर्ववन्तो विधानार्था इति नामधेयपादीय-वैश्वानराधिकरणे यदष्टाकपालो भवतीत्यादेर्गुणविधित्वमाशङ्क्याष्टाक-पालादेर्द्वादशकपालावयवत्वात् अष्टाकपालादिचतुरवयवस्तुतिद्वारा द्वादश-कपालरूपावयविस्तुतिपरत्वसम्भवेनार्थवादत्वोक्तेरिति भावः ।। विशेषेति ।। घृतरूपविशेषद्वाराञ्जनसाधनद्रव्यमात्ररूपसामान्यस्तुतिपरत्वमित्यर्थः ।
तर्कताण्डवम्
किञ्च पशुमालभेतेति पशुशब्दश्च ‘‘छागस्य वपाया मेदसोनुब्रूहि’’ इति मन्त्रस्थछागशब्दाद्विशेषपर इति षष्ठान्ते ‘‘छागो वा मन्त्र-वर्णात्’’ इत्यत्रोक्तम् । न चात्र मन्त्रो विधिसमाप्तिहेतुप्ररोचनार्पकः । किन्तु विधिवाक्यप्रापितकर्मसमवेतद्रव्यप्रकाशकत्वादुपसंहार इव तद्व्याख्यानरूपः ।
एतेनार्थवादानां विधिना पदैकवाक्यत्वाद्गामानय शुक्लामित्यत्र गोशब्दस्य शुक्लव्यक्ताविवाञ्जनक्रियाक्षिप्तस्नेहनसमर्थद्रव्यसामान्यस्य घृते पर्यवसानं; उपसंहारस्य तु वाक्यरूपत्वान्न पदैकवाक्यतेति निरस्तम् । वाक्यैकवाक्यतापन्नमन्त्रादपि पशुविशेषे पशुशब्दपर्यव-सानस्य उक्तत्वात् ।
न्यायदीपः
प्ररोचनार्पकत्वशङ्कानवकाशं स्थलान्तरमाह ।। किञ्चेति ।। विधीति ।। विधिवाक्यप्रापितं यत्कर्मसमवेतपशुपुरोडाशादिद्रव्यं तत्प्रकाशकात्वादित्यर्थः । तथैव मन्त्राधिकरणे उक्तत्वादिति भावः ।
तृतीयं निराह ।। एतेनेति ।। पदैकवाक्यत्वादिति ।। पदेन सहैक-वाक्यत्वं पदैकवाक्यत्वं उक्तं हि नयविवेकवरदराजीयेऽर्थवादनये प्राशस्त्य-विशिष्टविधेयपर१पदविशेषतैव पदैकवाक्यतेति । तथाचाक्तपदाक्षिप्त-द्रव्यसामान्यस्य घृतविशेषे पर्यवसायकत्वादक्तपदेन सहैकवाक्यता घृतपद-स्येत्यर्थः । यद्वा पदं सदेकवाक्यं पदैकवाक्यं तस्य भावः पदैकवाक्यता घृतपदेन रूपेण विधिशेषतेत्यर्थः ।
तर्कताण्डवम्
ननु– सन्दिग्धमुपक्रमस्थमक्ता इति पदमुपसंहारेण निर्णीयते केवलम् । न तु बाध्यते । अत एवोक्तं वार्तिके– ‘‘सन्देहमात्रं तत्र बाधितमिति’’ । निश्चितमुपक्रमस्थं तु नोपसंहारनुसारान्नीयते ।
अत एव वेदोपक्रमाधिकरणे उपक्रमस्थो निर्णीतो वेदशब्दः उपसंहारस्थॠगादिशब्दानुसारान्न नीतः ।
अत एव चाक्ताधिकरणे उपसंहारानुसारान्निर्णयो वेदोपक्रमाधि-करणे तु उपक्रमादिति तयोर्विरोध इति परास्तम् । अक्ता इत्युपक्रम-स्योपसंहारविप्रतिपत्तिपर्यालोचनं विनैव स्वत एव सन्दिग्धत्वेना-निर्णायकत्वात् । त्रयो वेदा इत्युपक्रमस्य तु उपसंहारविप्रतिपत्ति-पर्यालोचनेन सन्दिग्धत्वेपि स्वतः सन्दिग्धत्वाभावेन निर्णाय-कत्वात् ।।
अत एव वार्तिके–
‘‘विधिस्तुत्योः सदावृत्तिः समानविषयेष्यते ।
तस्मादेकत्र सन्दिग्धमितरेणावधार्यते’’ ।
इत्युक्तमिति चेन्न ।
अक्ता इत्यत्राप्यक्षादिशब्दवन्नानार्थशब्दाभावे नासन्देहात् । सामान्यनिश्चयेपि विशेषसन्देहस्तूपसंहारस्थघृतेपि समः । तत्रापि नवपुराणगव्यमाक्षिकादिससन्देहसम्भवात् ।
न्यायदीपः
चतुर्थमाशङ्कते ।। ननु सन्दिग्धमिति ।। वेदोपक्रमेति ।। तृतीये वेदो वा प्रायदर्शनादिति तृतीयपादीयाद्याधिकरणे ‘‘त्रयो वेदा असृज्यन्त अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद’’ इति श्रुतो वेदशब्दः; ‘‘उच्चैर्ॠचा क्रियते उच्चैः साम्ना । उपांशु यजुषा’’ इतिश्रुतोपसंहारस्थ-ऋगादिशब्दानुसारान्न नीतः । किन्तु विपरीत एव नीयत इत्यर्थः ।। विप्रतिपत्तीति ।। विरोधपर्यालोचनमित्यर्थः ।
नन्वञ्जनसाधनद्रव्यमिति सामान्यनिश्चयेपि तत्किमिति विशेषसन्देहो-स्त्येवेत्यत आह ।। सामान्येति ।। नवपुराणेति ।। नूतनपुरातनेत्यर्थः ।
तर्कताण्डवम्
न च सामान्यशब्दस्य सङ्कोचमात्रं न तु बाधः सामान्यस्य प्रतिव्यक्ति समाप्तत्वादिति वाच्यम् । शाबरभाष्ये ‘‘यद्वा सामान्य-मादौ विशेषषोपलक्षणार्थम् यद्वा निगमने विशेषः सामान्यलक्षणार्थः आरम्भनिगमनयोः किं समञ्जसं किं वा न समञ्जसम्’’ इति-वाक्याभ्यां, ‘‘यच्छ्रुतिवृत्तं तत्समञ्जसम् न लक्षणावृत्तम्’’ इति वार्तिकेन च, सामान्यशब्दस्य विशेषलक्षकत्वरूपबाधोक्तेः । सङ्कोच-स्यापि बाधत्वाच्च ।
अन्यथा पदाहवनीयशास्त्रयोरपि बाध्यबाधकभावो न स्यात् । तथा वाक्यप्रकरणाद्यधिकरणोक्तः प्रकरणादेः वाक्यादिना सङ्कोचोपि बाधो न स्यात् ।
न्यायदीपः
पञ्चममाशङ्क्य निराह ।। न चेति ।। आदौ ।। प्रथमतो विद्यमान-मक्ता इति सामान्यमित्यर्थः ।। निगमन इति ।। उपसंहारे श्रुतो घृतादिरूपो विशेष इत्यर्थः ।। आरम्भनिगमनयोः ।। उपक्रमोपसंहारयोः ।। पदेति ।। जुहोतीति शास्त्रेणाहवनीये जुहोतीति शास्त्रस्य तद्व्यतिरिक्तपरत्वेन सङ्कोच-करणात्तत्र बाध्यबाधकभावो न स्यादित्यर्थः । तथा च ‘‘अविशेषेण यच्छास्त्रं अन्यायत्वाद्विकल्पस्य’’ इति दशमाष्टमपादीयाधिकरणविरोध इति भावः ।
।। वाक्यप्रकरणेति ।। तृतीयस्य तृतीये पादे ‘‘श्रुतिलिङ्गवाक्य-प्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षा’’दित्ये-तत्प्रपञ्चनप्रकरणे ‘‘अग्नीषोमाविदं हविरजुषेतां’’ इत्यादिसूक्तवाक-निगदस्थस्येदं हविरजुषेतामित्यस्याग्नीषोमावित्यनेनैकवाक्यतापन्नस्य दर्शपूर्णमासप्रकरणं स्वान्तर्गतेन्द्राग्न्यादिदेवतावाचिपदान्तरशेषत्वं न सम्पादयति किन्तु तदन्यस्येत्युक्तसङ्कोचोपि बाधो न स्यात् ।
तर्कताण्डवम्
यदाहवनीये जुहोतीतिवाक्यस्थजुहोतेर्ह्येकं पदहोमं त्युक्त्वेतरेषु बहुषु पर्यवसानामिति स्वल्पः सङ्कोचः । अक्ताशब्दस्येतरान्बहू-न्हित्वैकस्मिन्घृते पर्यवसानमिति भूयान् सङ्कोचः । आत्यन्ति कबाधस्तु ममाप्यनभिमतः ।
न्यायदीपः
तथा राजसूयप्रकरणगताभिषेचनीयेष्टिसन्निधावक्षैर्दीव्यतीतिश्रुतविदेव-नादीनामिष्टिसन्निधिरूपं स्थानं नेष्टावङ्गत्वेन विनियोजकम् । किं तु प्रकरण-मेव सन्निधिबाधेन राजसूयाङ्गताबोधकम् । सन्निधिस्तु प्राकरणिका-दन्यस्येत्युक्तोपि सङ्कोचो बाधो न स्यादित्यर्थः । एवं स्थानसमाख्ययोरपि बोधे न स्यादिति ध्येयम् ।
प्रत्युताक्ता इत्यत्रैव बाधव्यवहारो युक्त इत्याह ।। यदाहवनीय इति ।। बहुन्द्रवद्रव्यपदार्थान् ।। ममापीति ।। उपसंहारेणोपक्रमबाधवादिनोप्य-प्रामाण्यलक्षणो बाधो नाभिमतः । किं त्वर्थान्तरकल्पनादिरूप एवेति भावः ।
तर्कताण्डवम्
ननु तथापीहार्थवादस्य प्राबल्ये विशेषविषयत्वं हेतुः । न तूप-संहारत्वमिति चेन्न । विशेषेणोपक्रम्य सामान्येन उपसंहारेपि व्याख्यानरूपोपसंहारानुसारेणोपक्रमस्थविशेषशब्दस्य सामान्यपरताया ‘‘विष्णुशर्मा भोज्यतां ब्राह्मणः प्रशस्तः’’ इत्यादौ सिद्धत्वात् । श्येनेनाभिचरन्नित्याद्युपक्रमस्य यथा वै श्येन इत्यादिविशेषाविषयोप-संहारानुसरणदर्शनाच्च ।
एतेनोपक्रमाकाङ्क्षितविशेषसमर्पक एवोपसंहारो न तद् बाधक इति नयविवेकोक्तं परास्तम् । भाष्यविरोधात् । विशेषासन्निहित-सामान्यस्येवात्रापि वासःसामान्यान्तर्भूतानियतविशेषोपादानेन पर्यवसानसम्भवेपि क्षौमाख्यविशेषसन्निधानात्सामान्यस्य नियत-विशेषोपसंहारे सङ्कोचलक्षणबाधस्यापरिहाराच्च । वासःशब्दस्य सम्बन्धिशब्दत्वाभावेन पदिन्यायाविषयत्वाच्च ।
तस्मादुपसंहारप्राबल्यादेवाक्ताधिकरणसिद्धान्तो वाच्यः ।
न्यायदीपः
षष्ठमाशङ्कते ।। ननु तथापीति ।। विशेषाविषयेति ।। श्येन-सादृश्यस्यानेकेषु सम्भवादयमित्यस्यापि बुद्धिस्थवाचितयानेकपरत्वसम्भवादिति भावः ।। उपक्रमाकाङ्क्षितेति ।। पदिन्यायेन यथा पदेन जुहोतीत्यत्र कस्य पद इत्याकाङ्क्षायां सन्निहितगोपद इत्युच्यते तथेति भावः ।
।। नयविवकोक्तमिति ।। अक्ताधिकरण उक्तमित्यर्थः ।। भाष्येति ।। यद्वा सामान्यमादौ विशेषोपलक्षणार्थमित्यादिपूर्वोक्तभाष्यविरोधादित्यर्थः ।
नयविवेकमते सङ्कोचलक्षणबाधोस्त्येवेति दोषान्तरं चाह ।। विशेषेति ।। बलीवर्दमानयेत्यादिवाक्यासन्निहित्य गामानयेति सामान्यस्य यथा क्वचिद्गो-विशेषे पर्यवसानं सामान्यस्यानयनादिक्रियान्वयायोगात् तथानेकविशेषे-षूपस्थितेषु क्षौमाख्यविशेष एवोपसंहारशब्दितपर्यवसानं कार्यमिति सङ्कोचरूपबाधस्यापरिहार्यत्वाच्चेत्यर्थः । पदिन्यायवैषम्यमाह ।। वासः शब्दस्येति ।।
तर्कताण्डवम्
एवं तद्व्यपदेशाधिकरणसिद्धान्तोऽपि । अन्यथा श्येनेनेत्युपक्रमस्य प्राबल्ये श्येनशब्दस्य मुख्यार्थत्वाय ‘‘यथा वै श्येनो निपत्यादत्त’’ इत्याद्युपसंहारो ‘‘रामरावणयोर्युद्धं रामरावणयोरिव’’ इत्यादाविवा-भेदेपि कथं चिन्नीयेत । न तूपसंहारानुसारेण श्येनशब्दो यागे गौणोङ्गीक्रियेत । एवमन्यत्राप्यूह्यम् ।
तस्माद्व्याख्यानरूपत्वादुपसंहार एव प्रबलः । न चैवं वेदोप-क्रमाधिकरणविरोधः । न हि ‘‘तत्रोच्चैर्ऋचा क्रियते उच्चैः साम्ना उपांशु यजुषा’’ इति उहपसंहारस्थो ऋगादिशब्दः ‘‘त्रयो वेदा असृज्यन्त’’ इत्युपक्रमस्थाद्वेदशब्दाद्वेदे लाक्षणिकः । किन्तु ऋक्छब्दादपि चरमादुच्चैः साम्नेत्यस्मात् । यदि ऋक्छब्दो मन्त्रपरः स्यात्तदा ‘‘ऋच्यध्यूढं साम गायतीति’’ ऋक्सामयोरवियोगात्सामाधार-मन्त्रेप्युच्चैष्ट्वस्योच्चैर्ऋचेत्यनेनैव प्राप्तत्वादुच्चैः साम्नेत्यस्य वैयर्थ्यं स्यात् ।
अत एव ‘‘वेदो वा प्रायदर्शना’’दिति सूत्रोक्ते प्राथम्यरूप-प्रायदर्शनेऽपरितोषाद् ‘‘धर्मोपदेशाच्च न हि द्रव्येण सम्बन्धः’’ इति सूत्रे इदमेव हेतूकृतम् ।
न्यायदीपः
एवमक्ताधिकरणविषयवाक्ये उपसंहारप्राबल्यमुपपाद्योपसंहृत्य प्रागुक्तद्वितीयोदाहरणेपि तदुपपादयति ।। एवमिति ।। उपसंहारप्राबल्यादेव वाच्य इत्यनुषङ्गः । एवमन्यत्रापि वैश्वानराधिकरणसिद्धान्तोप्युपसंहार-प्राबल्यादेव वाच्यः । अन्यथा हि पुत्रजन्ममात्रनिमित्ताधिकारमुपक्रम-प्रतीतमुपादाय यस्मिन् जात इत्युपसंहारोऽर्थवाद एव न तु फलसमर्पक इत्युपेत्यासंवलिताधिकारैवजातेष्टिरित्युपादीयेतेत्याद्यूह्यमित्यर्थः ।
।। न चैवमिति ।। उपसंहारप्राबल्ये सति । तृतीयाध्याय-तृतीयपादीयाद्याधिकरणे ‘‘श्रुतेर्जाताधिकारः स्याद्’’ इतिसूत्रेणोच्चैर्ऋचा क्रियते उच्चैः साम्नेत्युपसंहारे श्रवणात्तत्रर्क्त्वादिजातिमत एवोपादानं न तूपक्रमबलात् ऋक्छब्दो ऋक्समुदायवेदपर इति पूर्वपक्षयित्वा ‘‘वेदो वा प्रायदर्शनादित्याद्’’ सूत्रैर्वेद एव ऋगादिशब्देन ग्राह्यः त्रयो वेदा असृज्यन्त अग्नेर्ऋग्वेद इत्यादि-वेदोपक्रमे वाक्ये ऋगादिशब्दानामन्ते दर्शनादित्युपक्रमप्राबल्यस्य तत्रोक्तत्वात्तद्विरोध इत्यर्थः ।
धर्मोपदेशाच्च न हि द्रव्येण सबन्ध इति वक्ष्यमाणस्य सिद्धान्ते तृतीय-गुणसूत्रस्योच्चैः साम्नेति साम्न उच्चैस्त्वधर्मोपदेशाच्च वेद एव ऋक्छब्दार्थः । ऋच उच्चैस्त्वोक्त्यैव साम्न उच्चैस्त्वस्य सिद्धत्वात् सामरूपद्रव्येणोच्चैस्त्व-धर्मसम्बन्धो न वक्तव्य एव स्यादिति शाबरभाष्याद्युक्तमर्थं हृदि कृत्वा तात्पर्यं व्यनक्ति ।। यदीत्यादिना ।।
तर्कताण्डवम्
किञ्चोपक्रमस्थो वेदशब्दस्त्रयो वेदा अजायन्त अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद इत्यभ्यस्तः । अभ्यासश्चोपसंहारादपि प्रबल इति तेनानुसृतः । एवं च प्रायवचनाच्चेत्यादाविवात्रापि सूत्रस्थ-प्रायशब्दस्य बाहुल्यमर्थोस्तु न तु वेदप्रायो वेदोपक्रम इति शाबर-भाष्योक्तरीत्या क्लिष्टकल्पनया प्राथम्यं प्रायशब्दार्थः ।।
किञ्च ऋग्वेदमधीमह इत्यादिलौकिकप्रयोगात् ‘‘ऋग्भिः पूर्वायां दिवि देव ईयते यजुर्वेदेन तिष्ठति मध्येन्हः सामवेदेनास्तमयेन हीयते’’ इत्यादिवैदिकप्रयोगाच्च ऋगादिशब्दानां वेदवाचित्वादुपसंहारास्वारस्या-भावेन उपक्रमेणोपसंहारबाधे नेदमुदाहरणम् ।।
तस्माद्वेदशब्दाभ्यासादिनैव वेदार्थत्वनिर्णयः । अन्यथा प्राभाकर-मते विद्यतेऽनेनेति वेदनकरणवाचिनो वेदशब्दस्य मन्त्रवाचिऋगादि-शब्दसन्निधानादक्ताशब्दस्य घृतपरत्ववन्मन्त्रपरत्वं स्यात् ।
न्यायदीपः
ननु– धर्मोपदेशाच्चेति हेतुरभ्युच्चययुक्तित्वेनोक्तो न पूर्वारुच्येति वदन्तं प्रत्याह ।। किञ्चेति ।। प्रबल इति ।। १बहुवादोक्तिरूपत्वादभ्यास-स्यै२कवादोक्तिरूपादुपसंहारात्प्राबल्यम् बहुबाधस्य अन्याय्यत्वादिति भावः ।। तेनेति ।। अभ्यासेनोपक्रमोऽनुसृत इत्यर्थः ।
कथं तर्हि प्रायदर्शनादिति सूत्रमित्यत आह ।। एवं चेति ।। इत्यादाविवेति ।। ‘‘पौर्णमासीवदुपांशुयाजःस्याद्’’ इति द्वितीयाध्याय-द्वितीयपादीयचतुर्थाधिकरण गुणसूत्रे ‘‘तस्य वा एतस्य यज्ञस्याग्नेर्य एव शिरः हृदयमुपांशुयाजं पादावग्नीषोमीय’’ इति प्रधानाग्नेयादिप्रायपाठा-दुपांशुयाजस्यैवं विधीयत इत्यर्थोक्तेर्वार्तिके च प्रधानप्राये यत्रान्यानि प्रधानानि तत्र वचनादित्यर्थोक्तेरिति भावः ।
।। क्लिष्टकल्पनयेति ।। वेदपदबाहुल्यदर्शनादित्यर्थोपेक्षया वेदप्राये वेदोपक्रमे वाक्ये निगमने ऋगादिपदानां दर्शनादित्यर्थोक्त्या प्रायपदस्योप-क्रमार्थत्वस्य वेदे किष्टत्वात् । अत एव वार्तिके ‘‘प्रायवचनाच्च, विषये प्रायदर्शनात्’’ इत्यादाविवह प्रायपदार्थो नेति वेद बुद्धिजनितसंस्कारव्याप्ते मनसि ऋगादिशब्ददर्शनादिति क्लेशेन प्रायः शब्दार्थ इति भावः ।
।। ऋग्भिरिति ।। ऋङ्नामकवेदेनेत्यर्थः । देव इत्युत्तरत्राप्यन्वेति । देवः सूर्यः । ‘‘वेदैरशून्यस्त्रिभिरेति सूर्य’’ इति वाक्यशेषात् । नेदमुदाहरणमिति छेदः ।। वेदशब्दाभ्यासादिनैवेति ।। ऋगादिशब्दानां ऋग्वेदादौ मुख्यार्थत्वं उच्चैः साम्नेत्यस्य वैयर्थ्यान्यथानुपपत्तिश्चादिपदार्थः ।
।। अन्यथेति ।। अभ्यासादिना अर्थानिर्णये सति । प्राभाकरमते रूढेरनङ्गीकारेण सर्वेषां यौगिकत्वाद्योगव्युत्पत्त्या मन्त्रब्राह्मणादिसाधारणो वेदशब्दो वाक्यशेषादृगादिमन्त्रपर एव स्यादित्यर्थः ।
तर्कताण्डवम्
न च ब्राह्मणवाक्यं मन्त्रव१द्विनियोजकसापेक्षं वित्तिकरणं नेति निरपेक्षब्राह्मणपरो वेदशब्द इति युक्तम् । पाकसापेक्षस्यापि पृथिवी-शौक्ल्यस्य तन्निरपेक्षाबादिशौक्ल्यस्य इव शुक्लशब्दमुख्यार्थत्वेन तुल्य-तया प्रतीतेः । व्याप्तिसङ्गतिसञ्ज्ञानादिसापेक्षयोरप्यनुमानशब्दयो-स्तन्निरपेक्षप्रत्यक्षवत् प्रमाणशब्दमुख्यार्थत्वेन तुल्यतया प्रतीतेश्च ।
न्यायदीपः
ननु– साधारणोपि वेदशब्दो निरपेक्षब्राह्मणपर एव न सापेक्षमन्त्रपर इति भावेन शङ्कित्वा निराह ।। नचेति ।। ब्राह्मणवाक्यं यजेतेत्यादि-विनियोजकवाक्यं विनियोगसापेक्षं सत् ज्ञानकरणं न यथाग्नेयादिमन्त्र आग्नेय्याग्नीध्रमुपतिष्ठत इत्यादिविनियोगमपेक्ष्य ज्ञानकरणं तथा न भवती-त्यर्थः । निरपेक्षत्वादिकमप्रयोजकमित्याह ।। पाकेति ।। प्रतीतेश्चेति ।। यथा च न ब्राह्मणपरो वेदशब्द इति वाक्यशेषः ।
तर्कताण्डवम्
किञ्च मन्त्रस्यापि वित्तिकरणत्वं स्वत एव । तात्पर्यनिर्णयाय तु क्वचित् । ब्राह्मणमपि मन्त्रापेक्षं तथा छागो वा मन्त्रवर्णादित्यत्र । एवं भाट्टमतेऽपि ।।
‘‘मन्त्रब्राह्मणवाक्यानां समूहे काठकादिके ।
वर्तते वेदशब्दोऽयमनेकक्रतुगामिनि’’ ।
इति वार्तिकोक्तरीत्या समूहवाचिनो वेदशब्दस्य अन्यपराप्रधान-भूतार्थवादस्थत्वादनन्यपरप्रधानभूतविध्युद्देशस्थऋगादिशब्दानुरोधादेकदेशे मन्त्रेलाक्षणिकत्वं स्यात् ।
यदा ह्यनन्यपरप्रधानविध्युद्देश्यस्थस्याक्ताशब्दस्य तद्विपरीतार्थ-वादस्थघृतशब्देनास्वारस्यं, तदा किं वक्तव्यमिहार्थवादस्थवेदशब्दस्य विध्युद्देश्यस्थऋगादिशब्दानुरोधादस्वारस्यमिति ।
न्यायदीपः
।। छागेति ।। ‘‘अग्नीषोमीयं पशुमालभेत’’ इत्यादि ब्राह्मणं ‘‘छागस्य वपाया मेदसोऽनुब्रूहि’’ इति मन्त्रवर्णमपेक्ष्यैव छागरूपपशुतात्पर्यकमिति षष्ठान्ते ‘‘छागो व’’ इति सूत्रेऽभिधानादित्यर्थः ।
अस्मदुक्तरीतेरननुसरणे प्राभाकरमत इव भट्टमतेपि ऋक्छब्दो वेदपरो न स्यात् । प्रत्युतविपरीतमेव स्यादित्याह ।। एवमिति ।। अन्यथेत्या-पादकानुकर्षः ।
।। मन्त्रेति ।। मन्त्रवाक्यानां ब्राह्मणवाक्यानां च समूहे काठकादिनामके ग्रन्थे अनेकक्रतुबोधके वेदशब्दो वर्तत इत्यर्थः ।। अन्येति ।। विध्यपेक्षितप्राशस्त्यपरेत्यर्थः । अत एव १प्रधानभूतेत्यर्थः ।
एतदेव कैमुत्यन्यायेन व्यनक्ति ।। यदाहीति ।। तद्विपरीतेति ।। अन्यपराप्रधानभूतेत्यर्थः । अतोस्मदुक्तरीत्या वेदशब्दाभ्यासादिनैव वेदधर्मत्वनिर्णयो वाच्य इति वाक्यशेषः ।
तर्कताण्डवम्
एवमश्वप्रतिग्रहेष्टिनयेपि ‘‘यावतोश्वान्प्रतिगृह्णीयात्’’ इत्यत्रोप-संहारस्थस्य प्रतिगृह्णीयादित्यस्य प्रजापतिर्वरुणाय अश्वमनयदित्या-द्युपक्रमवशात्प्रतिग्राहयेदित्यर्थपरत्वाद्दातुरिष्टिरिति न सिद्धान्तः । उपक्रमेपि ‘‘वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाती’’ति प्रतिग्रहीतु-रेव दोषनिरासार्थेष्टिप्रतीतेः ।
किन्तु मैत्रायणीयशाखायामिवोपक्रमं विना कर्माङ्गत्ववशादेव दातुरिष्टिप्रतीतेः फलाधिकारान्तरकल्पनायां गौरवाच्च दातुरिष्टिरिति । उक्तं हि तन्त्रसारे–
‘‘मैत्रायणीयशाखयां दात्रुपक्रमतोप्यृते ।
कर्माङ्गत्ववशादेव दातुरिष्टिः प्रतीयते’’ इति ।
न्यायदीपः
नन्वेवम‘‘प्यचोदितं च कर्मभेदाद्’’ इति तृतीयाध्यायचतुर्थपादीय-पञ्चदशाधिकरणे ‘‘प्रजापतिर्वरुणायाश्वमनयत्स स्वां देवतामार्छत्स पर्यदीर्यत स एतं वारुणचतुष्कपालमपश्यत्तन्निरवपत् ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेद्’’ इत्येतद्वाक्यगतोपसंहारस्थस्य गृह्णीयादित्य-स्योपक्रमानुरोधेन ग्राहयेदिति णिजर्थत्वमुक्त्वा दातुरेव वारुणचतुष्कापालेष्टिर्न त्वश्वप्रतिग्रहीतुरिति सिद्धान्तितत्त्वात्तद्विरोध इत्यत आह ।। एवमिति ।। उपक्रमाधिकरणे यथा परभाष्याद्युक्तरीत्या न सिद्धान्त एवं प्रतिग्रहेष्टिनये-पीत्यर्थः ।
कुतो नोपक्रमवशाद्दातुरिष्टिरिति न सिद्धान्त इत्यत आह ।। उपक्रमे-पीति ।। केन तर्हि हेतुनेति भावेन किं त्विति प्रश्ने कर्माङ्गत्ववशादि-त्युत्तरम् । कुतएवमुपक्रमादेवकुतोनेत्यतो मैत्रायणीयेत्यादि । तत्र हि प्रजापतिरित्यादि तैत्तिरीयशाखावाक्य इव दातुरिष्टिरेषेत्यर्थकल्पकोप-क्रमाभावेपि स एषोऽश्वः प्रतिगृह्यत इति श्रवणेन दातुरिष्टिरिति न सिध्येत् । अतः कर्माङ्गत्ववशादित्येव वाच्यम् । तस्य चायमर्थः । अचोदितं चेत्यतः पूर्वतने ‘‘दोषात्त्विष्टिर्लौकिके शास्त्रादि वैदिके न दोषः स्याद्’’ इत्यधिकरणे इयमिष्टिर्वैदिककर्माङ्गं न स्वतन्त्रेति स्थिते सत्यङ्गप्रधानयोरेककर्तृकत्वस्य सर्वत्र कप्तत्वात् इष्टेः फलान्तरकल्पनेनाधिकारान्तरकल्पने गौरवेणाश्वदान-युक्तकर्मकर्तुरेव तदङ्गाश्व प्रतिग्रहेष्टेरपि कर्तृत्वाद्दातुरिष्टिरिति । तन्त्रसारे मीमांसाग्रन्थविशेषे । अभ्युपेत्येदमुक्तम् ।
तर्कताण्डवम्
किञ्च ‘‘सा लिङ्गादार्त्विज’’ इत्यादिसूत्रानुसाराद् भाष्यकारान्तरै-स्तत्राप्युपसंहारानुरोधात्प्रतिग्रहीतुरेवेष्टिरुक्तेति शास्त्रदीपिकाया-मेवोक्तत्वाद्याज्ञिकैरपि तथैव स्वीकृतत्वात्प्राभाकरैरपि पौण्डरीके श्रूयत इति कृत्वा चिन्तेयमन्यथा दातुरिष्टिरिति सिद्धान्तासिद्धेरिति वदद्भिर्वस्तुतः प्रतिग्रहीतुरिष्टिरिति स्वीकृतत्वाच्चेयमिष्टिः प्रतिग्रहीतु-रेवास्तु ।
एवं सर्वत्र लिङ्गाच्छ्रुतेरिवोपक्रमादुपसंहारस्योत्सर्गतो बाधकाभावे बलवत्त्वमूह्यम् ।।
न्यायदीपः
वस्तुतस्तु न दातुः किन्तूपसंहारबलात् प्रतिग्रहीतुरिति भावेनाह ।। किञ्चेति ।। इयमिष्टिः प्रतिग्रहीतुरेवास्त्विति वक्ष्यमाणेनान्वयः । तत्र हेतुत्रयमुक्तत्वात्स्वीकृतत्वात्स्वीकृतत्वाच्चेति सा इष्टिः ।। लिङ्गात् ।। उपसंहारप्राबल्यरूपाल्लिङ्गात् । आर्त्विजे ऋत्विग्व्यापाररूपप्रतिग्रहे निमित्ते सति स्यादिति गुणसूत्रानुसारात् ।
।। भाष्यकारान्तरैः ।। शबरस्वामिरूपभाष्यकारापेक्षया पूर्वभाष्यकारै-रित्यर्थः । पौण्डरीको नामैकादशरात्रोऽहीनविशेषः । तत्रायुतं दक्षिणा अश्व-सहस्रमेकादश इत्यश्वदानं विहितम् । तत्प्रकरणे चेयमिष्टिर्न पठिता । तैत्तिरीयाणां काम्येष्टिकाण्डे एव पाठात् । अतो दातुरिति सिद्धान्त सिद्ध्यर्थं पौण्डरीके श्रूयत इति कृत्वा चिन्तयेदमधिकरणं प्रवर्तितमिति वदद्भिरित्यर्थः ।
।। एवं सर्वत्रेति ।। उपसंहारस्य बलवत्त्वमूह्यमित्यन्वयः । तक्तिम-प्रतिहतमेव नेत्याह ।। उत्सर्गत इति ।। तस्य विवरणं बाधकाभाव इति । यथा लिङ्गाच्छ्रुतेर्बलवत्त्वस्य ‘‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्’’ इत्यत्र सिद्धत्वेपि क्वचिदर्थाद्वा कल्पनैकदेश-त्वादिति नामपादीयान्तिमाधिकरणे स्रुवेणावद्यतीत्यादाववदानसामान्य-शेषत्वबोधकतृतीयाश्रुतेः सामर्थ्यरूपलिङ्गेनाज्यावदानमात्र१विशेषता-बोधकत्वेन सङ्कोचोक्त्या लिङ्गस्यापि श्रुतितो बलवत्त्वमुपेयते तथेत्यर्थः ।
तर्कताण्डवम्
अत्र यदुक्तं वार्तिके– सर्वस्यापि शब्दस्य स्वार्थलङ्घने विरोधः कारणम् । स च प्रतियोगिनि दृष्टे ज्ञायते । न चोपक्रमदशायां विरोध्युपसंहारो ज्ञात इत्युपक्रमो मुख्यवृत्तिरेव । अथेदानीमुपरितन उपसंहारो मुख्यवृत्तिश्चेन्न सम्बध्यत इति बलाल्लक्षणां प्रतिपद्यत इति । तन्न । तथात्वे अक्ता इत्याद्युपक्रमाबाधायोपसंहारस्थघृतादिशब्दे लक्षणा स्यात् । अपच्छेदादौ पूर्वदौर्बल्यं च न स्यात् ।
न्यायदीपः
।। अत्रेति ।। उपक्रमप्राबल्यविषये । यदसञ्जातविरोधित्वं साधकं उपसंहारदौर्बल्ये च सञ्जातविरोधित्वमुक्तं ‘‘वेदो वा प्रायदर्शनाद्’’ इतिसूत्र-व्याख्यावसरे तन्नेत्यन्वयः ।। प्रतियोगिनीति ।। विरोधिनीत्यर्थः । अथेत्यर्थान्तरवाची । उपसंहार इत्यर्थान्तरेऽथशब्दः ।
।। अपच्छेदादाविति ।। तथा च ‘‘पौर्वापर्ये पूर्वदौर्बल्यम्प्रकृतिवत्’’ इति षष्ठस्थपञ्चमपादीयापच्छेदाधिकरणविरोधः । तत्र हि– ‘‘यदि प्रतिहर्तापच्छिद्यात्सर्ववेतसं दद्यात् । यद्युद्गातापच्छिद्याददक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत । तत्र तद्दद्याद्यत्पूर्वस्मिन् दास्यन् स्याद्’’ इति विलक्षण-प्रायश्चित्तकापच्छेदद्वयस्य क्रमेणैकत्रैव ज्योतिष्टोमप्रयोगे समावेशे सति पूर्वापच्छेदनिमित्तप्रायश्चित्तमकृत्वा पश्चात्तनापच्छेदनिमित्तप्रायश्चित्तस्य कर्तव्यतोक्तेरिति भावः ।
अपच्छेदो नाम बहिष्पवमानेन स्तोष्यमाणानां शालाया बहिः पूर्वम्पूर्वं गच्छतां कच्छं गृहीत्वा पिपीलिकापङ्त्याकारेण प्रसर्पतामृत्विजां कच्छ-ग्रहणत्यागः ।
तर्कताण्डवम्
यदत्रोक्तं वार्तिके–
‘‘पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् ।
अन्योन्यनिरपेक्षाणां यत्र जन्मधियां भवेत्’’ ।
यत्र भिन्नवाक्यगताः परस्परनिरपेक्षा विरोधिनोऽर्थाः श्रूयन्ते तत्र पूर्वस्योत्तरानुपमर्देनैव लब्धात्मकत्वादुत्तरस्य च पूर्वोपमर्देन विनात्म-लाभानुपपत्तेः परबलीयस्त्वम् । अपच्छेदशास्त्रद्वयं च परस्परनिरपेक्ष-मिति, तत्र परबलीयस्त्वम् । यत्र त्वेकवाक्यतया परस्परापेक्षाणां श्रवणं न तत्रैतद्भवति तत्र ह्याकाङ्क्षावशेनैकवाक्यत्वे पूर्वप्रतीतश्चार्थ उत्तरमर्थं स्वानुगुणमेवाकाङ्क्षत इत्युपक्रमानुगुणार्थपर उपसंहारः, अननुगुणं ह्यनपेक्षितत्वान्नैवास्मिन्वाक्येस्ति न चाविद्यमानेन पूर्वबाधः शक्य इति पूर्वबलीयस्त्वम् । एवं च त्रयो वेदाः प्रजापतिर्वरुणाये-त्युपक्रमस्योच्चैर्ऋचा यावतोश्वानित्युपसंहारेणैकवाक्यत्वादत्र पूर्वबलीय-स्त्वमिति । तन्न ।
पूर्वप्रतीत इत्यत्र हि पूर्वप्रतीतः को विवक्षितः । किमुप-क्रमादापातप्रतिपन्नः किं वा परामृष्ट उपसंहारानुगुणः ।
नाद्यः । श्येनेनाभिचरन्नित्यादौ पूर्वप्रतीतपक्ष्यादिरूपमुख्यार्थानु-गुण्यायोत्तरस्य यथा वै श्येन इत्यादेरस्वारस्यं स्यादित्युक्तत्वात् ।
द्वितीये कथमुपसंहार१प्राबल्यम् । प्रत्युत यत्र भिन्नवाक्यगतता तत्रोत्तरस्य पूर्वव्याख्यानरूपत्वाभावात्प्राबल्यं न सिध्यति ।
अन्यथा व्रीहियवशास्त्रयोरपि परम्प्रबलं स्यात् । अपच्छेदद्वये पूर्वापच्छेदनिमित्तप्रायश्चित्ताननुष्ठानं तु वटफले रक्तरूपसामग््रया श्याम-रूपापनयपूर्वकं रक्तताया इवोत्तरापच्छेदेन पूर्वापच्छेदनिमित्तक-प्रायश्चित्तकर्तव्यतापनयपूर्वकं स्वनिमित्तप्रायश्चित्तकर्तव्यताया उत्पा-दनात् ।।
विस्तृतं चैतन्न्यायामृते । अनुपसञ्जातविरोधित्वेन उपक्रमप्राबल्ये च सर्वत्रापातजप्रत्ययस्यैव प्राबल्यापत्त्या बहुविप्लवापत्तिः । तस्य विमर्शनजेन मिथ्यात्वे उपक्रममात्रजन्योप्युपसंहारपरामर्शजन्येन मिथ्यास्तु । उपक्रमोपसंहारयोरेकवाक्यतया सम्भूय प्रमापकत्वात् । उपसंहारस्य व्याख्यानरूपत्वाच्च ।
न्यायदीपः
।। अत्रेति ।। परर्बीलीयस्त्वविषये । अपच्छेदवैषम्यमुपसंहारस्योक्तं ‘‘वेदो वा’’ इति सूत्रव्याख्यावसर इत्यर्थः । तत्र प्रतीयतं नामेत्यर्थः । तत्रेत्यस्य यत्रेत्यनेनान्वयः । अन्योन्यनिरपेक्षाणां धियां यत्र पौर्वापर्येण जन्म भवेदित्यर्थः ।
श्लोकार्थं व्यनक्ति ।। यत्रेत्यादिना ।। यदि प्रतिहर्तेति यद्युद्गातेत्यादि-भिन्नवाक्यगता इत्यर्थः । उदाहरणनिष्ठतया दर्शयति ।। अपच्छेदेति ।। यदिप्रतिहर्तेति यद्युद्गातेति च शास्त्रद्वयमित्यर्थः ।। यत्र त्विति ।। त्रयो वेदा असृज्यन्तेत्याद्युपक्रमोपसंहारस्थल इत्यर्थः ।
।। एतदिति ।। परबलीयस्त्वमित्यर्थः । कुतो नेत्यतः आह ।। तत्र हीति ।। अस्मिन्वाक्य इति ।। विरुद्धतया प्रतीतोपक्रमोपसंहारोपेतवाक्य इत्यर्थः । उपक्रमबलीयस्त्वं उपक्रमाधिकरणविषयवाक्ये प्रतिग्रहेष्टिनय-विषयवाक्ये च दर्शयति ।। एवं चेत्यादिना ।। उक्तत्वादिति ।। रामरावणयोरित्यादिनेत्यर्थः ।
यत्तु प्रतिहर्तेतियद्युद्गातेत्यादिभिन्नवाक्यगतविरुद्धार्थस्थल एव परबलीयस्त्वं न पुनरेकवाक्यभूतोपक्रमादिस्थल इति तद्विपरीतमित्याह ।। प्रत्युतेति ।। न सिद्ध्यतीति ।। तथा चापच्छेदाधिकरणमसङ्गतं स्यादिति भावः ।
।। अन्यथेति ।। अव्याख्यानत्वेपि पश्चात्तनत्वमात्रेण प्राबल्य इत्यर्थः । तथाच ‘‘तुल्यार्थास्तु विकल्पेरन्नि’’तिद्वादशाध्यायतृतीय-पादीयचतुर्थाधिकरणविरोध इति भावः । कथं तर्हि क्रमेणापच्छेदस्थे पूर्वापच्छेदनिमित्तप्रायश्चित्ताननुष्ठानमित्यत आह ।। अपच्छेदेति ।।
।। न्यायामृत इति ।। प्रत्यक्षप्राबल्योक्तिप्रस्ताव इति योज्यम् । सर्वस्यापिशब्दस्येत्यादिनोक्तं च वार्तिकमतं निराह ।। अनुपसञ्जातेति ।। बहुविप्लवेति ।। आज्यैस्तुवते आकाश इति होवाचेत्यादौ घृतादि-परत्वस्यैवापत्त्या मन्त्रादिपरत्वासिद्ध्या पूर्वोत्तरमीमांसाभङ्ग इति भावः । मिथ्यास्त्वित्यत्र हेतुरुपक्रमोपसंहारयोरित्यादि ।
तर्कताण्डवम्
सा वैश्वदेव्यामिक्षेत्यादावुत्पत्ति१विशिष्टगुणा२विरुद्धे वाजिभ्यो वाजिनमित्युत्पन्न३विशिष्टगुणाप्रवेशे तूत्पत्ति४विशिष्टस्य न प्राथम्यं हेतुः । किन्तूत्पत्तिवाक्यावगतगुणं कर्मानूद्यान्येन गुणस्य विधेय-त्वात् । सगुणस्य कर्मणो गुणान्तरनैराकाङ्क्ष्येण गुणान्तरस्य पूर्वकर्म-संयोगानर्हत्वं हेतुः ।।
अत एव गुणाधिकरणे सूत्रं ‘‘गुणश्चापूर्वसंयोगे वाक्ययोः समत्वाद्’’ इति । वार्तिकं च–
‘‘उत्पत्तिवाक्यविज्ञातं कर्मसर्वमनूद्यते ।
न चाश्रितगुणे शक्यं तद्विरोधि गुणान्तरम्’’ ।। इति ।
नचात्रोपक्रमोपसंहारयोरिव व्याख्यानव्याख्येयभावोस्ति । श्रुति-लिङ्गयोर्बलाबलेऽपि न प्रथमचरमोपस्थिती हेतू । किन्तूपस्थित्यनन्तरं सह प्रस्थितयोरपि तयोः शीघ्रमन्थरप्रवृत्तित्वेन प्रमेयपरिच्छेदे सन्निकर्षविप्रकर्षौ । एवं लिङ्गवाक्यादेरपि ।
न्यायदीपः
नन्वेवमपि– गुणश्चापूर्वसंयोग इति द्वितीयाध्यायद्वितीयपादीय-नवमाधिकरणे ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनमिति’’ वाक्ये श्रुताऽमिक्षायागे प्रथमावगतामिक्षारूपगुणयुक्ते वाजिनरूपगुणस्य पश्चादवगतस्य न निवेशः किं तु कर्मान्तरमेवेत्युक्तत्वात्त-द्विरोधः । तत्रोपक्रमप्राबल्यस्य सिद्धत्वादित्यत आह ।। सा वैश्वदेवीति ।। उत्पत्ति१विशिष्टेति ।। कर्मस्वरूपा वगतिवेलायामेवावगतगुणशब्दिता-मिक्षारूपद्रव्ययुक्त इत्यर्थः ।
।। उत्पन्नेति ।। कर्मस्वरूपावगत्यन्तरमवगतेत्यर्थः ।। अत एवेति ।। अस्मदुक्तहेतोरभिमतत्वादेवेत्यर्थः । गुणाधिकरणे– गुणात्कर्मभेद इति प्रतिपादकेऽधिकरणे ।। गुणश्चेति ।। वाजिनादिरूपो गुणश्च । कर्मभेदको भवेत् । कुतः अपूर्वसंयोगे सतीति शेषः । वाजिनादिगुणस्यामिक्षादि-द्रव्यान्तरयुक्तपूर्वसंयोगानर्हत्वे सति आमिक्षावाजिनवाक्ययोः समत्वादन्योन्यनिरपेक्षत्वादिति सूत्रार्थः । सत्यन्तेनास्मदुक्तहेतोः स्पष्टं प्रतीतेरिति भावः ।
उपसंहारप्राबल्ये योस्मदुक्तो व्याख्यानत्वरूपहेतुः सोत्र नास्ति येन व्यभिचारः शङ्क्येतेति भावेनाह ।। न चात्रेति ।। आमिक्षावाक्य इत्यर्थः ।
ननु– श्रुत्यादौ पूर्वपूर्वप्राबल्ये प्राथम्यमेव बीजमिति कथं नोपक्रम-प्राबल्यमित्यत आह ।। श्रुतीति ।। बलाबले ।। प्राबल्यदौर्बल्ये इत्यर्थः ।। मन्थरेति ।। विलम्बितेत्यर्थः । २प्रथमपरिच्छेदे वस्तुनिर्णये कार्ये सतीत्यर्थः ।
तर्कताण्डवम्
अत एव जैमिनिसूत्रम् ‘‘अर्थविप्रकर्षात्’’ इति । वार्तिकं च– ‘‘ऐन्द्र्या विनियोगं प्रति श्रुतिलिङ्गयोः सह प्रस्थितयोः’’ इत्यादि । नैवमुपक्रमोपसंहारयोः सह प्रस्थितयोरर्थपरिच्छेदे सन्निकर्षविप्रकर्षौ स्तः । प्रस्थानानन्तरं द्वयोरपि शब्दरूपत्वेन तुल्यगामित्वात् प्रथमोप-स्थितस्याप्युपक्रमस्योपसंहारसापेक्षस्यैवार्थपरिच्छेदकतया तन्नि-रपेक्षस्याप्रस्थानाच्च । लिङ्गादेः श्रुत्यादिकल्पनादिनैव प्रामाण्यवदुप-संहारस्योपक्रमकल्पनादिनैव प्रामाण्याभावाच्च ।
कपिञ्जलानालभत इत्यत्रापि बहुत्वे प्रथमस्य त्रित्वस्य कारणा-भावादनतिक्रमः । उपक्रमस्य तु प्रथमस्यापि व्याख्यानरूपोप-संहारात्मककारणादतिक्रमः ।
अत एव कपिञ्जलाधिकरणे सूत्रम्–
‘‘प्रथमं वा नियम्येत कारणादतिक्रमः स्यात्’’ इति ।
अनुव्याख्यानं च–
‘‘विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा’’ ।
इति । तथाचोपसंहारस्य प्राबल्ये न कोऽपि दोषः । तस्मात्
‘‘पूर्वोपमर्देनोत्पत्तेः स्वविरोध्युत्तरोज्झितेः ।
व्याख्यानरूपतश्चोपक्रमाच्छ्रेष्ठोपसंहृतिः’’
अपच्छेदनयेन परैर्निर्गुणवाक्यानां चरमत्वात्प्राबल्ये शङ्किते वेदोवेति नयात्प्राथम्यात्सगुणवाक्यानां प्राबल्यमित्यस्मदीयानामुक्तिस्तु पररीत्याश्रयणेन वा सगुणनिर्गुणशास्त्रयोरुपक्रमोपसंहारत्वाभावेनोप-संहारप्राबल्यन्यायाविषयत्वाभिप्रायेण वा नेया ।
।। मीमांसकोक्तस्योपसंहारादुपक्रमप्राबल्यस्य भङ्गः ।। ७९ ।।
न्यायदीपः
।। सूत्रमिति ।। तृतीयाध्यायतृतीयपादे ‘‘श्रुतिलिङ्गवाक्य-प्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षाद्’’ इति सूत्रमित्यर्थः ।। ऐन्द्रीति ।। इन्द्रप्रतिपादिकायाः ‘‘निवेशनः सङ्गमनो वसूनाम्’’ इत्यादिकाया यो विनियोगः इन्द्रे गार्हपत्ये च प्रकाशनरूपः तं प्रतीत्यर्थः ।
अर्थपरिच्छेदे सन्निकर्षविप्रकर्षौ न स्त इत्यत्र हेतुमाह ।। प्रस्थाना-नन्तरमिति ।। अर्थनिर्णयार्थं प्रवृत्त्यनन्तरमित्यर्थः । द्वयोः उपक्रमोप-संहारयोः । लिङ्गस्य तु श्रुतिद्वारैवेति न तुल्यगामित्वमिति भावः ।
ननूपक्रमः प्रथमोपस्थितत्वात्प्रबल इत्यतोऽर्थबोधने जघन्यत्वा-द्दौर्बल्यमेवेत्याह ।। प्रथमेति ।। अप्रस्थानाच्चेति ।। अर्थनिर्णयार्थम-प्रवृत्तेरित्यर्थः । श्रुत्यादिवैलक्षण्यमुपक्रमादेः प्रकारान्तरेणाह ।। लिङ्गादेरिति ।। लिङ्गस्य श्रुतिकल्पनया, वाक्यस्य लिङ्गश्रुत्युभयकल्पनया, प्रकरणस्य तु वाक्यादित्रितयकल्पनयेत्यादिरूपेणेत्यर्थः । एतच्चोत्तरभङ्गे स्पष्टी-भविष्यति ।
नन्वेवमपि– वसन्ताय कपिञ्जलानालभत इत्यत्र बहुवचनस्य त्रित्व-चतुष्ट्वाद्यनेकबहुत्वसङ्ख्यावाचित्वेपि प्राथम्यात्र्रित्व एव पर्यवसानस्यैका-दशाध्यायाद्यपादीयकपिञ्जलाधिकरणेऽभिधानं न स्यात् । किं तु चरम-प्राबल्यात्र्रित्वातिक्रमेण तदुत्तरसङ्ख्यैव परिगृह्यते । अतः प्राथम्यस्य प्राबल्याहेतुत्वे तदधिकरणविरोध इत्यत आह ।। कपिञ्जलेति ।। प्रथमं वेति ।। प्रथमं त्रित्वमेव नियम्येत कुतः कारणादतिक्रमः परित्यागः नह्यत्र प्रथमत्रित्वत्यागे कारणमस्तीति सूत्रार्थः ।
।। अनुव्याख्यानं चेति ।। अत एवेत्यनुकर्षः ।। पूर्वारोहः ।। पूर्वप्रतीतिः कारणम्प्रमाणमित्यर्थः ।। सेति ।। विपरीतप्रमा । स पूर्वारोहो व्यर्थ इत्यर्थः । तत्र दृष्टान्तो यथा भ्रम इति ।
।। स्वविरोधीति ।। स्वविरोध्युत्तरप्रमाणहीनत्वादित्यर्थः । रूपत इति भावप्रधानम् ।। अस्मदीयानामिति ।। वाग्वज्रकाराणाम् वाद-रत्नावल्यादिग्रन्थकर्तृ१विष्णुदेवाचार्यप्रभृतीनामित्यर्थः । अत्र ग्रन्थकारोक्तं मीमांसकाभिमतोपक्रमप्राबल्यदूषणं पाङ्क्तमनूद्य केनचित्तदुद्धारमिव कृत्वोप-क्रमप्राबल्यमुपक्रमपराक्रमाख्यग्रन्थे कृतं तदुक्तदूषणोद्धारस्यासामञ्जस्योप-पादनपूर्वकमुपक्रमप्राबल्यदूषणं ग्रन्थोक्तमेव समर्थ्योपसंहारप्राबल्यग्रन्थोक्त-रीत्यैव निपुणतरं गुरुपादैरेवोपसंहारविजयाख्यग्रन्थे समर्थितमिति विशेष-बुभुत्सुभिस्तत एतदनुसन्धातुं शक्यमिति ग्रन्थगौरवभयान्नास्माभिरधिकं चर्चा कृता ।
।। मीमांसकोक्तस्योपसंहारादुपक्रमप्राबल्यस्य भङ्गः ।। ७९ ।।