प्राभाकरास्तु

३६. अथ कार्यताज्ञानस्य प्रवर्तकत्वभङ्गः ।

तर्कताण्डवम्

प्राभाकरास्तु । ज्ञानेन पाकविषयककृतौ जनयितव्यायां द्वार-भूतेच्छा पाकविशेष्यका कृतिसाध्यत्वप्रकारिकैव । पाकं कुर्या-मित्यनुभवात् । न तु केवलकृतिविषयकेच्छा । तस्या भिन्नविषयत्वेन पाकविषयककृतिं प्रत्यहेतुत्वात् । जानातीच्छति करोतीति त्रयाणामेकविषयत्वानुभवाच्च । सा चेच्छा स्वसमानप्रकारकज्ञान-साध्येति कार्यत्वप्रकारकमेव ज्ञानं प्रवर्तकम् । न त्विष्टसाधनत्व-ज्ञानम् । नित्ये सन्ध्योपासनादौ फलाभावात् । १फलवत्त्वे नित्यत्व-व्याघातादित्याहुः ।।

न्यायदीपः

ज्ञात्वैव हीष्टसाधनतामित्यत्र एवकारस्य भिन्नक्रमेण कार्यत्वज्ञानं प्रवर्तकं नेति यद्ग्रन्थकाराभिमतं तत्प्रपञ्चयितुमाह ।। प्राभाकरास्त्विति ।। कार्यत्वप्रकारकमेव ज्ञानं प्रवर्तकं न त्विष्टसाधनत्वज्ञानमित्याहुरित्यन्वयः । तत्र युक्तिमाह ।। ज्ञानेनेति ।। रागादिना जायमानकृताविच्छाद्वारत्वाभावात् ज्ञानेनेत्युक्तम् ।

ननु द्वारभूतेच्छायाः कृतिसाध्यत्वप्रकारकत्वं पाकविशेष्यकत्वमयुक्तम् । ज्ञानेन कृतौ जनयितव्यायां चिकीर्षा हि द्वारम् । तस्याश्च कृतिविषय-कत्वमेव । ‘‘धातोः कर्मणः समानकर्तृकादिच्छायां वा’’ इति धात्वर्थ-गोचरेच्छायामेव सनो विधानादित्यत आह ।। पाकमिति ।। इच्छेत्यनन्तरं द्वारभूतेत्यनुकर्षः । येन कृताविष्टसाधनताज्ञानादेवेच्छेति इष्टसाधनत्वज्ञानं प्रवर्तकं स्यादिति भावः ।

अस्तु द्वारभूतेच्छा कृतिसाध्यत्वप्रकारिका । कृतिसाध्यत्वरूपकार्यत्व-ज्ञानं प्रवर्तकमित्यत्र किमायातमित्यत आह ।। सा चेति ।। न त्वित्युक्तार्थे हेतुमाह ।। नित्य इति ।। फलाभावादिति ।। तथा च न तत्रेष्टसाधनत्व-ज्ञानं सम्भवतीति कस्यापि प्रवृत्तिर्न स्यादिति भावः ।

विश्वजिन्न्यायेन तत्रापि फलकल्पनाऽस्त्वित्यत आह ।। सफलत्व इति ।। ‘‘अहरहः सन्ध्यामुपासीत’’ इति वीप्सया ‘‘वसन्ते वसन्ते ज्योतिषा यजेत’’ इत्यादाविव नित्यत्वस्य व्यवस्थितत्वादिति भावः ।।

Load More