ननु पक्षे साध्याभावप्रमितिदशायां हेतुरप्रमितः प्रमितो वा
अथ स्वमते बाधादेर्व्यभिचाराद्यसङ्करः ।। २३ ।।
तर्कताण्डवम्
ननु पक्षे साध्याभावप्रमितिदशायां हेतुरप्रमितः प्रमितो वा । आद्ये प्रमित्यसिद्धिः । द्वितीये पक्ष एव व्यभिचारो ज्ञात इति क्लृप्तेन व्यभिचारादिनैव दुष्टत्वेनासङ्कीर्णोदाहरणाभावात्किं बाधप्रतिरोधयो-र्दोषत्वकल्पनयेति चेत् न । पक्षद्वयेऽपि दोषाभावात् ।।
तथा हि– आद्यस्तावदस्तु । प्रमित्यसिद्धिर्हि करणसामर्थ्य-विघटनद्वाराऽनुमितिप्रतिबन्धिका । हेतुवचनाधीनोपस्थितिका च । बाधादिस्तु साक्षात्प्रतिबन्धकः । प्रतिज्ञाधीनोपस्थितिकश्च । न चान्तरङ्गे पूर्वोपस्थिते प्रत्यक्षादौ क्लृप्ते च बाधादौ लब्धे तद्विपरीतस्या-सिद्धत्वस्य प्रतीक्षा युक्ता । अन्यथोच्यमानग्राह्ये निग्रहे लब्धेऽपि उक्तग्राह्यः प्रतीक्षेत ।।
द्वितीयो वाऽस्तु । हेतुर्हि साध्याभाववार्तानभिज्ञेन ज्ञानान्तरेण पक्षे प्रमितः साध्याभावस्तु हेतुवार्तानभिज्ञेन बाधेन । हेतोः साध्या-भावसामानाधिकरण्यरूपव्यभिचारस्तु न केनापि । तद्विषयकस्य साध्याभाववति हेतुरिति ज्ञानस्याभावात् । तथा च बाधाद्युपस्थिति-दशायां सन्नपि व्यभिचारो न धीस्थ इति द्राग्धीस्थत्वाद्विषयापहारि-त्वेनोत्कटत्वाच्च बाधादिरेव दोषः । यथा मूको वक्तेत्यादौ प्रमाण-विरोधे सत्यपि द्राग्धीस्थः प्रतिज्ञापदविरोध एव दोषः । यथा च माता वन्ध्या प्रमेयत्वादित्यत्र व्यभिचारे सत्यप्युत्कटः प्रतिज्ञाविरोध एव दोषः । अस्तु वा साध्याभाववति पक्षे हेतुरिति विशिष्टज्ञानम् । तथापि पक्षे साध्यं नेति ज्ञानांशः पक्षे हेतुरिति ज्ञानांशनिरपेक्ष एव दोषः । विषयापहारित्वात् । पक्षे हेतुरिति ज्ञानांशस्तु पक्षे साध्यं नेति ज्ञानांशसापेक्ष एव दोषः । तन्निरपेक्षस्य तस्य गुणत्वात् । तथा च यथा साधारणे सपक्षवृत्तित्वे सत्यपि विपक्षवृत्तित्वमेव दोषः तथा पक्षे हेतुज्ञाने सत्यपि प्राप्ताप्राप्तविवेकेन पक्षे साध्याभावप्रमारूप-बाधाद्यंश एव दोषः ।।
न्यायदीपः
प्रतिज्ञादोषस्य हेतुदोषात्पार्थक्यं यदुक्तं तदयुक्तम् । हेतुदोषाभ्यां असिद्ध्यव्याप्तिभ्यामेव सङ्ग्रहसम्भवादिति भावेन– ‘‘स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत्’’ ।। इति युक्तिपादीयानुव्याख्यानसुधोक्तं विवृण्वान आक्षिपति– नन्विति । प्रबलप्रमाणविरोधापेक्षयोक्तं साध्याभावप्रमितीति । प्रतिरोधापेक्षया तु साध्याभावज्ञानदशायामिति ध्येयम् । व्यभिचारो ज्ञात इति । प्रबलप्रमाणविरोधे व्यभिचारज्ञानं निश्चयरूपं, समबलविरोधपक्षे तु संशयरूपं ध्येयम् । अत एव ज्ञात इति सामान्योक्तिः । ननु पक्षीय-व्यभिचारसन्देहोऽनुकूल एव नानुमानप्रतिकूलः तथात्वेऽनुमानमात्रो-च्छेदापात्तेरिति चेन्न । स्वारसिकव्यभिचारसन्देहस्यानुकूलत्वेऽपि प्रमाणविरोधाद्याहितसन्देहस्य प्रतिकूलत्वात् । अन्यथा सन्दिग्धोपाध्यादेर-दोषत्वापातादिति भावः । पक्षद्वयेऽपीति । अप्रमितत्वप्रमितत्वरूपपक्षद्वय इत्यर्थः । सामर्थ्येति । समुचितदेशस्थत्वरूपसामार्थ्यविघटद्वारेत्यर्थः । अनुमिति विषयाभावानवगाहिनस्तथैव प्रतिबन्धकत्वादिति भावः । हेतु-वचनेति । प्रतिज्ञामात्रेण तदनुपस्थितेरिति भावः । प्रतिज्ञाधीनेति । ‘प्रतिज्ञामात्रेणास्य स्फुरणा’दिति प्रमाणलक्षणटीकोक्तेरिति भावः । उच्यमानेति । मूकोऽहमित्यादौ स्वक्रियाविरोध उच्यमानग्राह्यः प्रमाण-विरोधः । उक्त्यनन्तरग्राह्यत्वादुक्तग्राह्यः । पूर्वं हेतोः साध्याभावसामानाधि-करण्यरूपव्यभिचारो नोपस्थित इत्युपेत्य पृथग्दोषत्वं बाधादेरुक्तम् । इदानीं व्यभिचारोपस्थितिमभ्युपेत्यापि पृथग्दोषत्वं बाधादेराह– अस्तु वेति । साधारण इति । पक्षसपक्षविपक्षवृत्तिरूपसाधारणानैकान्तिक इत्यर्थः । विपक्षवृत्तित्वमेवेति । पक्षसपक्षवृत्तित्वस्यानुमित्यनुकूलत्वेन विपक्ष-वृत्तित्वमात्रस्यैव प्रतिकूलत्वेन तस्यैव दोषताया हेत्वाभासग्रन्थे मण्यादा-वुक्तेरिति भावः । प्राप्ताप्राप्तेति । दोषत्वेन प्राप्तः साध्याभावप्रमांशः दोषत्वेनाप्राप्तः हेतुसत्त्वप्रमांश इति प्राप्ताप्राप्तविवेकेनेत्यर्थः ।।
।। स्वमते बाधादेर्व्यभिचाराद्यसङ्करः ।। २३ ।।