विरुद्धत्वमपि विपक्षमात्रवृत्तित्वं चेत्, मात्रपदवैयर्थ्यम्
अथ विरुद्धस्याप्यव्याप्तावन्तर्भावः ।। ३४ ।।
तर्कताण्डवम्
विरुद्धत्वमपि विपक्षमात्रवृत्तित्वं चेत्, मात्रपदवैयर्थ्यम् । तत्त्यागे च साधारणसाङ्कर्येणाव्याप्तावन्तर्भावः । साधारणव्यावृत्त्यर्थं मात्र-पदमिति तु निरस्तम् । साध्याभावव्याप्तत्वं चेत् साध्याभावसम्बन्धे-नैवालम् । किं व्याप्तिशरीरान्तर्गतेन नियमेन । नियमांशत्यागे च साधारणसाङ्कर्यम् ।।
ननु साध्यव्यापकाभावप्रतियोगित्वं विरुद्धत्वम् । एवं च न विशेषणवैयर्थ्यम् । नापि साधारणसाङ्कर्यमिति चेन्न । अस्य हि यत्र साध्यं तत्र साधनाभाव इति व्याप्तिर्विरुद्धत्वमित्यर्थः ।।
उक्तव्याप्तिज्ञानं च न तावद्दूष्यानुमानीयपक्षधर्मताज्ञानविघटकम् । विरुद्धेऽपि तज्ज्ञानस्य सत्त्वात् । किं तु यत्र साधनं तत्र साध्य-मित्युदाहरणदर्शिता या दूष्यानुमानीया व्याप्तिः तज्ज्ञानप्रतिबन्धक-मित्येव वाच्यम् । तत्प्रतिबन्धकत्वं च किं तद्ग्राह्या या दूष्यानुमानीया व्याप्तिः तदभावविषयत्वेन किं वा तद्ग्राह्या या व्याप्तिस्तदभाव-व्याप्यविषयत्वेन वा । नाद्यः । दूषिकायाः यत्र साध्यं तत्र साधना-भाव इति व्याप्तेः यत्र साधनं तत्र साध्यमिति दूष्यानुमानीय-व्याप्त्यभावरूपत्वाभावात् । भावे वा मदभिप्रेतस्याव्याप्त्यन्तर्भावस्य सिद्धेः । अन्त्येऽपि किं दूषिकाया व्याप्तेः स्वरूपेण ज्ञानं दूष्यानुमानीयव्याप्तिज्ञानप्रतिबन्धकम्, किं वा दूष्यानुमानीय-व्याप्त्यभावव्याप्यत्वेन ज्ञानम् । नाद्यः । अतिप्रसङ्गात् । नान्त्यः । व्याप्त्यभावज्ञाने१ तद्व्याप्यत्वज्ञानासम्भवेनावश्यकस्य व्याप्त्यभावस्यैव दोषत्वसिद्धेः ।।
किं च विरुद्धस्योपाधिवद्व्याप्त्यभावव्याप्यतया दोषत्वे स्वतो हेत्वाभासत्वं न स्यात् ।।
किंचान्तरङ्गं लघुतरं क्लृप्तमानुभाविकं च साध्याभावसम्बन्धज्ञानं त्यक्त्वा स्वकल्पितप्रक्रियानिर्वाहाय बहिरङ्गस्य गुरुतरस्याक्लृप्त-स्यानानुभाविकस्य च साध्यहेत्वभावव्याप्तेर्हेतुसाध्यव्याप्त्यभावेन सह व्याप्तिज्ञानस्य प्रतिबन्धकत्वकल्पनमत्यन्तायुक्तम् । न ह्यत्र हिंसात्व-मित्रातनयत्वादाविव साध्याभावसम्बन्धो न स्फुटः । येन तत्रोपाधि-नेवात्र त्वदुक्तेन विरुद्धत्वेन स उन्नीयेत ।।
किं चेदं ज्ञानं किं प्रत्यक्षस्य दूष्यानुमानीयव्याप्तिज्ञानस्य विरोधि । किं वाऽऽनुमानिकस्य । नाद्यः । शङ्खे पीतत्वाभावव्याप्य-शङ्खत्वग्रहेऽपि पीतत्वसाक्षात्कारदर्शनात् । अन्त्ये दूष्यानुमानीय-व्याप्तिज्ञानस्यानुमानिकत्वे दूष्यानुमानीयहेतौ व्याप्तिव्याप्यस्य त्वदुक्तरीत्या व्याप्त्यभावव्याप्यस्य च ज्ञातत्वेन सत्प्रतिपक्षान्तर्भावः स्यात् । न हि सत्प्रतिपक्ष एवोदाहरणभेदमात्रेण विरुद्धो भवति ।।
किंचाव्याप्त्यन्तर्भावाच्छादनाय साध्यव्यापकाभावप्रतियोगित्वं विरुद्धत्वमित्युक्तौ वृत्तिमतः साध्यवदवृत्तित्वं वा साध्यासमानाधि-करणधर्मत्वं वा साध्यवद्वृत्तिभिन्नधर्मत्वं वा विरुद्धत्वमित्यपि सुवचत्वाद्विरुद्धत्वं नाना स्यात् । तत्र च बाधप्रस्तावोक्तरीत्या सर्वेषां प्रत्येकं हेत्वाभासत्वस्य वक्तव्यत्वेन हेत्वाभासाधिक्यं स्यात् ।।
यत्तु व्याप्तिज्ञानकारणीभूतसहचारज्ञानविरोधिज्ञानविषयत्वे-नैकीकरणान्नाधिक्यमिति कश्चिदाह । तन्न । त्वदुक्तविषयत्वाज्ञानेऽपि साध्याभावसम्बन्धज्ञानेनैवानुमितिप्रतिबन्धात् ।।
किञ्च व्याप्तिज्ञानकारणीभूतं यत्र हेतुस्तत्र साध्यमिति सहचारज्ञानं प्रति यत्र साध्यं तत्र हेत्वभाव इत्येवंरूपस्य साध्यव्यापकाभाव-प्रतियोगित्वरूपविरुद्धोपाधिज्ञानस्य साक्षादविरोधित्वेन विरोधार्थं यावद्धेत्वधिकरणवृत्तिसाध्याभावकत्वं विरुद्धत्वमिति निर्वक्तव्यत्वेन साध्याभावव्याप्यत्वस्यैव विरुद्धत्वसिद्धिः । तत्र च नियमांशो व्यर्थ इत्युक्तम् ।।
किञ्च सहचारशब्देन व्याप्तिशरीरानुप्रविष्टस्य सहचारस्यैव विवक्ष-णीयत्वेन लाघवाद्व्याप्तिज्ञानविरोधिज्ञानविषयभूतायां अव्याप्तावे-वान्तर्भावसिद्धिः ।।
एतेन विरोधस्य व्याप्त्यभावं प्रत्युपजीव्यत्वाद्विरोध एव दोष इति, अव्याप्त्यज्ञानदशायां विरोधोऽपि दोष इति च निरस्तम् । व्याप्त्य-भावस्यैव प्रहतं साध्याभावव्याप्यत्वादिरूपं विरुद्धत्वं प्रत्युप-जीव्यत्वात् । न हि हेतोः साध्याभावेन सम्बन्धं ज्ञात्वा तेन व्याप्यता ज्ञातुं शक्या । त्वत्कल्पितं साध्यव्यापकाभावप्रतियोगित्वादिरूपं विरुद्धत्वं प्रत्यपि व्याप्त्यभाव एवोपजीव्यः । तथा हि । त्वत्कल्पि-तस्य विरुद्धत्वस्य स्वरूपेण ज्ञानं यद्यपि न व्याप्त्यभावज्ञानाधीनम् तथाऽपि तन्नानुमितिप्रतिबन्धकम् । यत्तु प्रतिबन्धकं व्याप्त्यभाव-व्याप्यतया ज्ञानं तद्व्याप्त्यभावज्ञानाधीनमेवेति कथं व्याप्त्यभावो नोपजीव्यः ।।
एतेनैवोपधेयसङ्करेऽप्युपाधेरसङ्कर इति च निरस्तम् । विरुद्धेऽपि साधारणवद्विपक्षवृत्तित्वस्यैवोपाधित्वोक्तेः ।।
तस्मात्साधारणसाङ्कर्यपरिहाराय त्वत्कल्पितं यद्विरुद्धत्वं तद्व्याप्त्याद्यभावानात्मकत्वादुपाधिप्रतिकूलतर्कादिवदव्याप्त्युन्नायकमेव । न तु स्वयं हेत्वाभासः । यत्तु प्रहतं विपक्षमात्रवृत्तित्वरूपं विरुद्धत्वं तत्साधारणोपाधिसङ्कीर्णत्वेनाव्याप्त्यन्तर्भूतमेव ।।
एतेनाव्यभिचरितसामानाधिकरण्यरूपव्याप्तिशरीरप्रविष्टस्या-व्यभिचाररूपविशेषणांशस्य विरहः साधारणः, तत्प्रविष्टस्य सामानाधिकरण्यरूपविशेष्यांशस्य विरहो विरुद्धः, विशिष्टो विरहो व्याप्यत्वासिद्धः इति भेद इति निरस्तम् । हेत्वाभासविशेषभूता या असिद्धिः तद्विशेषभूता या व्याप्यत्वासिद्धिः तदवान्तरभेदमादाय हेत्वाभाससामान्यविभागे हेत्वाभासविशेषभूता या असिद्धिः तद्विशेषभूतायाः स्वरूपासिद्धेः शब्दोऽनित्यः चाक्षुषत्वे सति द्रव्यत्वादित्यादौ विशेषणविशेष्यविशिष्टाभावमादाय हेत्वाभास-सामान्यविभागापत्तेः । हेत्वाभासविशेषस्य बाधस्य ह्रदो धूमवत्त्वे सत्यग्निमानित्यादौ विशिष्टसाध्याभावान्तर्गतविशेषणाभावादिभेदमादाय हेत्वाभाससामान्यविभागप्रसङ्गाच्च ।।
तत्र क्लृप्तत्वादनुगतत्वाच्च विशिष्टाभावरूपहेत्वाभास एव दोषो विशेषणाद्यभावोऽपि विशिष्टाभावोन्नयनद्वारैव दोष इति चेत् समं प्रकृतेऽपि१ ।।
किञ्च व्यधिकरणासिद्धेरदोषत्वप्रस्तावोक्तरीत्याऽन्यथानुपपत्ति-रूपाव्यभिचार एव व्याप्तिः । न तु तद्विशिष्टसामानाधिकरण्यमिति क्वांशभेदोऽपि ।।
तस्मात्साधारणासाधारणानुपसंहारिविरुद्धानां साध्याभावसम्बन्ध-रूपायां, अन्यथोपपत्तिरूपायां वा, अव्याप्तावेवान्तर्भावः । तत्रापि साधारणविरुद्धयोर्व्याप्त्यभावो निश्चितः । असाधारणानुपसंहारिणोस्तु सन्दिग्ध इति ज्ञेयम् ।।
यत्तु पद्धतौ विरुद्धः साध्यसम्बद्धाभावे सति तदभावसम्बन्धित्वा-दव्याप्तः । साधारणोऽपि साध्यतदभावसम्बन्धित्वादव्याप्तः । अनध्यवसितभेदावसाधारणानुपसंहारिणावुभयसम्बन्धाभावादव्याप्ता-वन्तर्भवत इत्युक्तम् । तत्र स्वमते त्रिप्रकारा अव्याप्तिः प्रत्येकं हेत्वाभास इति नाभिप्रायः । किं तु वस्तुगत्या विद्यमानायां परैः प्रत्येकं हेत्वाभासत्वेन स्वीकृतायां त्रिप्रकारायामव्याप्तावनुगता, स्वाभिमता, साध्याभावसम्बन्धादिरूपा, अव्याप्तिरेकैव हेत्वाभासः विशेषणवैयर्थ्यादिदोषाभावादित्येवाभिप्रायः । पद्धतावपि साध्य-सम्बन्धाभावे सति तदभावसम्बन्धित्वादेरव्याप्तिं प्रति हेतुत्वस्यैवोक्तेः । अन्यथा हि भङ्ग्यन्तरेण परोक्तप्रक्रियैव स्वीकृता स्यात् ।।
सुधायामनैकान्तिकत्वादित्यस्य हि सपक्षवृत्तित्वे सति विपक्ष-वृत्तित्वादित्यर्थः । एवं विरुद्धत्वादित्यस्य सपक्षावृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः । न चात्र विशेषणव्यवच्छेद्यमस्तीत्युक्तत्वेन तद्विरोधश्च स्यात् । त्रिप्रकारायामव्याप्तावनुगतैकरूपस्याभावे हेत्वा-भासाधिक्यं च स्यात् । सत्त्वे चानुगतेन लघुना साक्षाद्व्याप्तिधी-विरोधिधीविषयेण च तेनैवासाधकता साध्यताम् । किं वस्तुतः सताप्यनुगत्यादिरहितेनेतरेणांशेन ।।
न्यायदीपः
विरुद्धहेत्वाभासत्वरूपदोषस्याप्यव्याप्तावन्तर्भावं सुधाद्युक्तदिशा विवरितुकामः किं विपक्षमात्रवृत्तित्वं विरुद्धत्वं विपक्षवृत्तित्वमेव वा साध्याभावव्याप्तत्वं वा साध्याभावसम्बन्धत्वमात्रं वा मण्युक्तरीत्या साध्य-व्यापकाभावप्रतियोगित्वं वेति विकल्पान् हृदि कृत्वाऽऽद्यं निराह– विरुद्धत्वमपीति । मात्रपदेति । विपक्षवृत्तित्वमात्रस्यैव साधारण इव दूषकत्वसम्भवे सपक्षावृत्तित्वे सतीत्यर्थकमात्रपदस्य व्यर्थत्वादित्यर्थः । द्वितीये दोषमाह– तत्त्यागे चेति । साधारणस्याव्याप्त्यन्तर्भावोक्तेः साधारणसाङ्कर्येण हेतुनाऽव्याप्तावन्तर्भाव इत्युक्तम् । निरस्तमिति । दूषकताबीजसाम्ये तद्व्यावृत्तेरेवायोगादित्युक्तत्वादिति भावः । तृतीयमनूद्य निराह– साध्येति । चतुर्थं निराह– नियमांशेति । पञ्चममाशङ्कते– नन्विति । साध्यव्यापकीभूतो योऽभावः तत्प्रतियोगित्वमित्यर्थः । नित्यः शब्दः कृतकत्वादित्यत्र हेत्वभावः साध्यव्यापको भवति यत्र नित्यत्वं गगनादौ तत्र कृतकत्वाभाव इति व्याप्तेः । न विशेषणवैयर्थ्यमिति । यद्यप्यत्रापि नियमांशोऽधिकोऽनुप्रविष्टः तथाऽपि साध्यसमानाधिकरणाभाव-प्रतियोगित्वस्य१ विषमव्याप्तिके सद्धेतौ धूमादावप्यस्तीति सद्धेतुव्यावर्त-कत्वान्नियमांशः सफल इति भावः । नापीति । साधारणस्य सपक्षवृत्तितया साध्येनापि सम्बन्धेन २साध्यव्यापकाभावाप्रतियोगित्वादिति भावः ।।
अस्मिन् लक्षणेऽपि विरुद्धस्याव्याप्तावन्तर्भावं वक्तुं तस्यार्थनिष्कर्षं तावत्करोति– अस्य हीति । अस्तु किं तत इत्यत एतज्ज्ञानं च न साक्षादनुमितिप्रतिबन्धकम् । अनुमितिविषयाभावानवगाहित्वात् बाधप्रतिपक्षयोरेव तथात्वात् किंतु तत्कारणविघटकत्वेन । तच्च परामर्श-विषयाभावावगाहित्वेनैव परामर्शरूपकारणविघटनद्वारा तज्जन्यानुमिति-प्रतिबन्धकत्वमिति वाच्यम् । परामर्शविषयश्च पक्षधर्मता व्याप्तिश्चेति द्वयम् । तत्र किं पक्षधर्मताज्ञानविघटनद्वारा व्याप्तिज्ञानप्रतिबन्धनद्वारा वाऽनुमिति-प्रतिबन्धकत्वम् । आद्यं निराह– न तावदिति । द्वितीयमेव प्रश्नपूर्वं विशेषयति– किंत्वित्यादिना । उदाहरणप्रदर्शितेति विभागः । तत्रापि विकल्पयति– तत्प्रतिबन्धकत्वं चेति । तद्ग्राह्येति पदच्छेदः । प्रतिबध्य-त्वेनाभिमतज्ञानग्राह्येत्यर्थः । दूषिकाया इति । स्वज्ञानद्वारा प्रतिबन्धकी-भूताया इत्यर्थः । व्याप्त्यभावरूपत्वाभावादिति । हेत्वभावस्य साध्य-व्यापकत्वं साध्यवन्निष्ठात्यन्ताभावप्रतियोगित्वम् । अत्र च १साध्य-सामानाधिकरण्यांशस्य साध्याभावसम्बन्धरूपव्यभिचारांशस्य वा प्रवेशा-भावादित्यर्थः । अभ्युपेत्यापि दोषमाह– भावे वेति । अतिप्रसङ्गादिति । तन्निर्विकल्पकेन वा प्रमेयत्वादिप्रकारकतज्ज्ञानेनापि वा प्रतिबन्धापाता-दित्यर्थः । अस्मिन्पक्षे विरुद्धस्य हेत्वाभासत्वमेव दुर्घटमिति कथं पञ्चेति विभाग इति भावेनाह– किं चेति । उपाधिवत् उपाधेरिव । उपाधेर्यथा व्यभिचारोन्नायकत्वेन स्वतो दोषत्वाभावान्न हेत्वाभासत्वं तथेत्यर्थः ।
ननूपाधेर्व्यभिचारव्याप्यत्वेन तदनुमितिद्वारा व्याप्त्यभावगमकत्वं न साक्षात् न हि व्यभिचार एव व्याप्त्यभावः । अव्यभिचरितसहचाररूपत्वा-द्व्याप्तेः । साध्यहेत्वभावयोर्व्याप्तेः २साध्यहेतुव्याप्तिव्याप्यत्वं तु साक्षादेव व्याप्त्यभावा३वगम इति नोपाधिसाम्यमिति वदन्तं प्रत्याह– किं चान्तरङ्ग-मिति । साध्यहेत्वभावव्याप्तेः साध्यहेतुव्याप्त्यभावं प्रति व्याप्यत्वविषय-कत्वापेक्षया साध्याभावसम्बन्धज्ञानस्याल्पविषयकत्वादन्तरङ्गत्वं लघुतरत्वं च व्यक्तमेव । क्लृप्तमिति । साधारणे प्रतिबन्धकत्वस्य निर्णीतत्वादिति भावः । साध्याभावव्याप्तो विरुद्ध इति प्रसिद्धलक्षणानुरोधेनोक्तं साध्याभाव-सम्बन्धज्ञानं त्यक्त्वेति । प्रक्रियेति । सव्यभिचारादिभेदेन पञ्चैव हेत्वाभासा इति प्रक्रियानिर्वाहायेत्यर्थः ।।
नन्वेवं स श्यामो मित्रातनयत्वादित्यादावपि साध्याभावसम्बन्धत्वमेव दोषः । तज्ज्ञानमेव च प्रतिबन्धकं, तदेव चोद्भाव्यं स्यात् न तु शाक-पाकजत्वोपाधिरित्यत आह– न हीति । यद्वा मित्रातनयत्वादौ साध्या-भावसम्बन्धद्योतनायोपाध्युक्तिवदिहापि तदुक्त्यर्थमेवोक्तरूपविरुद्धत्व-मस्त्वित्यत आह– न हीति ।।
ननु साध्याभावसम्बन्धाज्ञानेऽपि कदाचित्सामग्रीवशेनाप्तवाक्येन चोक्तरूपज्ञाने सति व्याप्तिज्ञानप्रतिबन्धदर्शनादयमपि पृथग्दोषो वाच्य इति वादिनं प्रत्याह– किं चेदं ज्ञानमिति । साध्यहेत्वभावव्याप्तेर्हेतु-साध्यव्याप्त्यभावेन सह व्याप्तिज्ञानमित्यर्थः । अन्त्य इति । नित्यः शब्दः कृतकत्वादित्यादिविरुद्धहेतौ साध्यनिरूपितव्याप्तिज्ञानस्यानुमानिकस्यैवोक्त-रूपव्याप्यत्वज्ञानं प्रतिबन्धकमिति पक्ष इत्यर्थः । अस्मिन् पक्षे विरुद्धहेतौ साध्येन सह व्याप्तिज्ञानमानुमानिकमित्येव वाच्यमन्यथा तस्य प्रतिबन्धा-योगादिति भावेनोक्तं दूष्येत्यादि । अनुमानं च विरुद्धहेतौ कृतकत्वादौ नित्यत्वादिरूपसाध्यनिरूपितव्याप्तिं प्रति व्याप्यस्य कस्यचिज्ज्ञानमेवेति वाच्यमिति भावेनोक्तं– दूष्यानुमानीयहेतौ व्याप्तिव्याप्यस्येति । त्वदुक्तरीत्येति । साध्यहेत्वभावयोर्व्याप्तिरूपस्य हेतुसाध्यव्याप्त्यभावं प्रति व्याप्यस्य चेत्यर्थः ।।
नन्वनित्यः शब्दः कृतकत्वात्, नित्यः शब्दः श्रावणत्वादित्यादिरेव सत्प्रतिपक्षोदाहरणं नैतादृशमित्यत आह– न हीति । अनित्यत्वसाधक-कृतकत्वहेतुः साध्यव्याप्तः पक्षे साध्यसमानाधिकरणत्वात् कृतकत्वहेतुः न प्रकृतसाध्यव्याप्तः साध्यव्यापकाभावप्रतियोगित्वादित्युदाहरणभेदमात्रेणेत्यर्थः । व्याप्तितदभावानुमित्यन्यस्थले एव प्रतिपक्षतेति मन्वानं प्रत्याह– किञ्चेति । इत्युक्तावित्यस्य विरुद्धत्वं नाना स्यादित्यन्वयः । कथमित्यतो मण्यु-क्तान्येवाह– वृत्तिमत इति । पर्वतोऽग्निमान् गगनवत्त्वादित्यादावतिव्याप्ति-निरासाय वृत्तिमत इत्युक्तिः । न च तल्लक्ष्यकोटिप्रविष्टमेवेति वाच्यम् । साध्यवदवृत्तित्वरूपविरुद्धत्वस्य तत्र ज्ञानेऽपि व्यतिरेकव्याप्तिग्रहाप्रतिबन्धेन तेन तत्रानुमित्युदयाक्षतेरिति भावः । अस्तु को दोष इत्यत आह– तत्र चेति । बाधेति । बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्योक्तिप्रस्तावे एकमेवासाधकतालिङ्गं सर्वं वा । आद्ये अन्यज्ञानेनानुमितिप्रतिबन्धो न स्यात् । अन्यानुमितेनैकेनानुमितिप्रतिबन्ध इति तु नानुभवानुसारी । द्वितीये मिलितं लिङ्गं प्रत्येकं वा । आद्ये एकेनैव पूर्णत्वाच्छेषवैयर्थ्यम् । अन्त्ये हेत्वाभासाधिक्यमित्युक्तरीत्येत्यर्थः । यज्ज्ञानेनानुमितिप्रतिबन्धो भवति तद्धि सङ्ग्राहकतया निर्वक्तव्यम् । न हीदं तथा । तथा च पञ्चभ्योऽधिकमवर्जनीय-मिति भावेनाह– त्वदुक्तेति । त्वदुक्तविवक्षयैकीकरणपक्षेऽपि हेतोः साध्याभावसम्बन्धज्ञानमावश्यकम् । एवं च तेनैवालं किमनेनेति भावेनाह– किञ्च व्याप्तिज्ञानेति ।।
ननु कदाचित्साध्याभावसम्बन्धाज्ञानेऽप्युक्तरूपविषयत्वज्ञानेऽप्यनुमिति-प्रतिबन्धोऽस्तीति वादिनं प्रत्याह– किञ्चेति । व्याप्तिशरीरेति । अन्यादृशस्य प्रकृतव्याप्तिधीकारणत्वाभावात्समवायवृत्त्या सहचारज्ञान-विरोधज्ञानविषयत्वस्य धूमवह्निसामानाधिकरण्येऽपि सत्त्वेनातिप्रसङ्गाच्चैवं विवक्षाया आवश्यकत्वादिति भावः । मण्युक्तदिशा प्रकारान्तरेण विरुद्धस्य पृथग्दोषत्वमनूद्य निराह– एतेनेति । प्रहतं प्रसिद्धम् । साध्याभावव्याप्तो विरुद्ध इति सर्वैरुपगमादिति भावः । उपजीव्यत्वं व्यनक्ति– न हीति । ननु मण्युक्तविरुद्धत्वलक्षणे व्याप्त्यभावस्योपजीव्यत्वं नास्तीत्यत आह– त्वदिति । मणिकृत्कल्पितेत्यर्थः । आदिपदेन वृत्तिमतः साध्यवदवृत्ति-त्वादेर्ग्रहः । व्याप्त्यभावज्ञानाधीनमिति । १तज्ज्ञाने तन्निरूपितव्याप्यत्वस्य दुर्ज्ञानत्वादिति भावः । मण्युक्तं प्रकारान्तरेण विरुद्धस्य पृथक्त्वं निराह– एतेनेति । उक्तेरिति । अस्माभिः प्रतिपादितत्वादित्यर्थः । त्वत्कल्पित-मिति । मण्युक्तं साध्यव्यापकाभावप्रतियोगित्वरूपमित्यर्थः । उपाधीति । उपाधिश्च प्रतिकूलतर्कश्चादिपदोक्तानुकूलतर्काभावश्च तद्वदित्यर्थः । प्रहतं प्रसिद्धं सर्वैरुच्यमानमित्यर्थः । प्रकारान्तरेण साधारणादित्रयस्य भेदमनूद्य निराह– एतेनेति । हेत्वाभासविशेषणतेति१ । ज्ञायमानत्वे सत्यनुमिति-प्रतिबन्धकत्वादिरूपं हेत्वाभासत्वं हि सामान्यम् । तद्विशेषाः सव्यभिचारा-दयः इत्यसिद्धिरपि हेत्वाभासविशेषः । तद्विशेषा व्याप्यत्वासिद्ध्याश्रय-स्वरूपासिद्धय इत्यादिभेदेनासिद्धेस्त्रिविधत्वस्य प्रागुक्तेः । व्याप्यत्वासिद्ध्य-वान्तरभेदो हि व्याप्तिविशेषणासिद्धिव्याप्तिविशेष्यासिद्धी । तथा च तादृशावान्तरभेदमादाय हेत्वाभाससामान्यस्य सव्यभिचारविरुद्धादिरूपेण पञ्चेतिविभागकरणे सत्यसिद्धिविशेषभूतस्वरूपासिद्धेरवान्तरभेदाः हेतुविशेषणा-सिद्धिहेतुविशेष्यासिद्धिविशिष्टहेत्वसिद्धीरप्यादायापि हेत्वाभासविभागप्रसङ्गः स्यात् । तथा च पञ्चेति विभागभङ्गः स्यादित्यर्थः ।।
अतिप्रसङ्गान्तरं चाह– हेत्वाभासविशेषस्येति । परमुखेन समाधिं वाचयित्वा सममित्याह– तत्रेति । स्वरूपासिद्धिबाधस्थल इत्यर्थः । ननु विशेषणाद्यभावस्थलेऽप्यनुमितिप्रतिबन्धो दृश्यत इत्यत आह– विशेषणा-दीति । विशेष्याभाव आदिपदार्थः । प्रकृतेऽपीति । विरुद्धहेतावपीत्यर्थः । तथा चाव्याप्तिरेवेति भावः ।
ननु व्यभिचाराज्ञानेऽपि सहचारविरहज्ञानेनाप्यनुमितिप्रतिबन्धोऽस्तीति वदन्तं प्रत्यव्यभिचरितसामानाधिकरण्यं व्याप्तिरित्यङ्गीकृत्योक्तम् । वस्तुतस्तु तदेव नास्ति । येन सामानाधिकरण्यविरहस्य ज्ञानं प्रतिबन्धकमिति सोऽपि पृथग्दोषः स्यादिति भावेनाह– किञ्चेति । तद्विशिष्टं अव्यभिचारविशिष्टम् । पद्धतिविरोधमाशङ्क्य तदभिप्रायोक्त्या निराह– यत्त्विति । तत्र हि पूर्वं स्वाभिमतदोषोक्तिप्रस्तावे हेतुविरोधो द्विविधः असिद्धिरव्याप्तिश्चेति । अव्याप्तिरपि त्रिविधा, लिङ्गस्य साध्येन तदभावेन च सम्बन्धः, साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धः, उभयसम्बन्धाभावश्चेत्युक्त्वा परोक्तदोषप्रपञ्चनेनान्तर्भावोक्तिप्रस्तावे द्वितीयपरिच्छेदान्ते उक्तमित्यर्थः । तथा च तत्र साध्यतदभावसम्बन्धवत्त्वादिरूपेण प्रत्येकहेत्वाभासत्व-प्रतीतेस्तद्विरोध इति भावः । कुत एषोऽभिप्राय इत्यतो ज्ञापकं विपक्षे बाधकं चाह– पद्धतावपीति । तथा चाव्याप्तिरेकैव दोष इति भावः । अन्यथेति । पृथग्दोषत्वाभिप्राय इत्यर्थः । साध्याभावसम्बन्धत्वेनैवा-नैकान्तिकत्वादेरेकदोषत्वमेव न पृथग्दोषत्वम् । अन्यथा परोक्तप्रक्रियाङ्गी-कारापत्तिरित्येकं बाधकमुक्त्वा बाधकान्तरं चाह– सुधायामिति । न चात्र विशेषणव्यवच्छेद्यमस्तीत्युक्तत्वेन तद्विरोधश्च स्यादित्यन्वयः । अत्रेत्यनेन परामृश्यमानं दर्शयितुमुक्तं अनैकान्तिकत्वाद्विरुद्धत्वादिति । तयोर्यदि विपक्षवृत्तित्वमेवार्थस्तदा न चात्रेत्युत्तरवाक्यासाङ्गत्यमाशङ्क्य तयोरर्थोक्ति-रित्यस्येत्यर्थ इति । युक्तिपादीयसुधायां हि अव्याप्तिरूपहेतुदोषो१ऽ-नैकान्तिकत्वादेर२न्तर्भावतयाऽव्याप्तित्वेनैव दोषत्वं वक्तुमुपक्रम्य पृथग्दोषत्वे दूषणमुच्यते । इदमसाधकं अनैकान्तिकत्वाद्विरुद्धत्वादिति त्वया वाच्यम् । न चात्र विशेषणव्यवच्छेद्यमस्तीत्युच्यते पृथग्दोषत्वे तदुक्तिविरोधः । अन्योन्यस्य व्यवच्छेद्यत्वसम्भवादिति भावः ।।
नन्वव्याप्तेरुक्तत्रिप्रकारानुगतमव्याप्तित्वरूपसामान्यं कुत उपेयम् । त्रिरूपैवास्त्वव्याप्तिरित्यत आह– त्रिप्रकारेति । साध्यतदभाव-सम्बन्धित्वादित्रिप्रकारेत्यर्थः । अनुगतैकरूपस्येति । साध्याभाव-सम्बन्धित्वरूपस्य वाऽन्यथोपपत्तिरूपस्य वा प्रागुक्तस्येत्यर्थः । अत एव पूर्वं स्वाभिमतदोषोक्तिप्रस्तावे व्याप्तिविरहोऽव्याप्तिरिति व्याप्तिविरहत्वमनुगतैक-रूपमुक्तम् । आधिक्यमिति । हेतुविरोधो द्विविधः असिद्धिरव्याप्तिरिति प्रमाणलक्षणादौ यद्द्वैविध्यं हेतुदोषस्योक्तं तन्न स्यात् किंतु चातुर्विध्य-रूपाधिक्यं च स्यादित्यर्थः । सत्त्वे चेति । अनुगतैकरूपस्येत्यनुकर्षः । प्रागुक्तसाध्याभावसम्बन्धवत्त्वादिरूपस्येति भावः । इतरेण साध्यसम्बन्धा-भावादिनेत्यर्थः ।। ३४ ।।
।। इति विरुद्धस्याव्याप्तावन्तर्भावः ।। ३४ ।।