अयमत्र निष्कृष्टोऽर्थः

सामान्येन परोक्तहेत्वाभासनियमभङ्गः ।। ४० ।।

तर्कताण्डवम्

अयमत्र निष्कृष्टोऽर्थः । मदुक्तासिद्ध्यव्याप्तिव्यतिरिक्ता हेत्वाभासाः बहुभिर्बहुसङ्ख्याकाः कल्प्यन्ताम् । बहुधा च निरुच्यन्ताम् । तथाऽपि ते सर्वे न तावत्पक्षधर्मताविघटनरूपाः । असिद्ध्यन्तर्भावापत्तेः । नापि तद्विघटकाः । त्वत्पक्षे सिद्धसाधन-वदसिद्ध्युन्नायकत्वेन स्वतो दोषत्वायोगात् । नापि व्याप्तिविघटन-रूपाः । अव्याप्त्यन्तर्भावापत्तेः । नापि व्याप्त्यभावव्याप्यत्वेन व्याप्तिविघटकाः । उपाधिप्रतिकूलतर्कानुकूलतर्काभाववदव्याप्त्युन्नाय-कत्वेन स्वतो दोषत्वाभावात् । न च हेत्वाभासत्वे पञ्चम-प्रकारोऽस्ति । व्याप्तिपक्षधर्मतायुक्तहेतोराभासत्वायोगात् ।।

किं च सव्यभिचारविरुद्धानध्यवसितेषु न तावदव्याप्तिर्नास्तीति युक्तम् । तेषु पक्षधर्मतायाः सत्त्वेन हेतोराभासत्वायोगात् । नाप्य-व्याप्तेः सत्त्वेऽपि हेतोराभासत्वायोगात् । नाप्यव्याप्तेः सत्त्वेऽपि तद-ज्ञानेऽपि अन्यज्ञानादेवानुमानं दुष्टमिति वाच्यम् । अन्यस्यानुमाना-विरोधित्वे दोषत्वायोगात् । विरोधित्वमपि न तावत्साक्षात्फल-विघटनेन । बाधप्रतिरोधान्तर्भावापत्तेः । नापि करणविघटनेन । तथात्वे व्याप्तिपक्षधर्मतान्यतरविघटनस्यावश्यकत्वेनाव्याप्त्य-सिद्ध्यन्यतरान्तर्भावस्य दुर्वारत्वात् ।।

एतदेवाभिप्रेत्योक्तं प्रमाणलक्षणे–असिद्धिरव्याप्तिश्च हेतुविरोध इति ।।

।। इति सामान्येन परोक्तहेत्वाभासनियमभङ्गः ।। ४० ।।

।। ओम् इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण श्रीमद्व्यासयतिना विरचिते श्रीमत्तर्कताण्डवे अनुमानप्रपञ्चनं समाप्तम् ।।

न्यायदीपः

श्रोतृबुद्धिसौकर्यायोक्तस्य सर्वस्य निष्कृष्टमर्थमाह– अयमत्रेति । चतुर्विधा हि वादिभिरुच्यमानाः सम्भवन्ति हेत्वाभासाः । पक्षधर्मताविरहरूपा वा, तद्विरुद्धहेतुभूता वा, व्याप्तिविरहरूपा वा, व्याप्तिविरहहेतुभूता वेति हृदि निधाय क्रमेणाह– न तावदित्यादिना ।

नन्वस्त्वितोऽन्य एव कश्चन प्रकार इत्यत आह– न च हेत्वाभासत्व इति । व्याप्तिपक्षधर्मतातद्विघटकरूपप्रकारचतुष्टयान्यः पञ्चमः प्रकार इत्यर्थः । व्याप्तिपक्षधर्मतायुक्तत्वमेव प्रकार इत्यत आह– व्याप्तीति । प्रकारान्तरेण सव्यभिचारादिहेत्वाभासनियमं पराभिमतं निराह– किञ्चेति । फलेति । अनुमिति रूपफलेत्यर्थः । बाधेति । तयोर्ग्राह्याभावावगाहित्वेन साक्षादेवानुमितिप्रतिबन्धकत्वादिति भावः । एतदेवेति । उक्तनिष्कृष्टं प्रमेयमेवाभिप्रेत्येत्यर्थः ।।

।। इति सामान्येन परोक्तहेत्वाभासनियमभङ्गः ।। ४० ।।

यत्प्रसादादिमां व्याख्यामकार्षं नौमि तं हरिम् ।

अनसूयागर्भरत्नमान्वीक्षिक्याः प्रकाशकम् ।।

निर्दोषगुणपूर्णेन श्रीप्राणपतिनेरितः ।

यदवोचमहं तेन प्रीणातु पुरुषोत्तमः ।।

प्रायेणालसबुद्धित्वाल्लोकानां तज्जिघृक्षया ।

वादार्थमात्रमब्रूम नोद्ग्रन्थं क्षम्यतां बुधैः ।।

।। इति श्रीमत्परमहंसपरिव्राजकाचार्यसुधीन्द्रतीर्थगुरुपादशिष्यराघवेन्द्रयतिकृते तर्कताण्डवविवृतौ न्यायदीपे तृतीयः परिच्छेदः ।।

।। सव्याख्यं तर्कताण्डवं समाप्तम् ।।

।। अनुमानपरिच्छेदः ।।

।। श्रीकृष्णार्पणमस्तु ।।

।। अनुमानपरिच्छेदः ।।

।। श्रीकृष्णार्पणमस्तु ।।।। अनुमानपरिच्छेदः ।।