किञ्चाप्रामाण्यशङ्काभावस्यप्रवर्तकत्वेपि..
परतस्त्वेऽनवस्थोक्तिः
धर्म्यज्ञानदिनाप्रामाण्यशङ्काभावसिद्धिखन्डनम्
तर्कताण्डवम्
किञ्चाप्रामाण्यशङ्काभावस्यप्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्चयो वाच्यः । ननु धर्म्यज्ञानादिनापि शङ्काभावो युक्तः । न हि ज्ञानं ज्ञातं सदेवप्रवर्तकम् । सत्यप्यर्थज्ञाने तदज्ञानेनाप्रवृत्यदर्शनादिति चेन्न१ । न तावद्धर्म्यज्ञानं युक्तम् । योग्यस्य धर्मिणो ज्ञानस्य मनस्संयुक्तात्म-समवायरूपसम्प्रयोगवत्वेनैवोत्पत्या ज्ञानत्वेन ज्ञानज्ञानसामग्र्या: सत्वात् ।
युक्तिरत्नाकरः
एवं बह्वायाससाध्ययागादिप्रवृत्तौ प्रामाण्यनिश्चयस्यैव प्रवर्तकत्वा-त्तत्परतस्त्वेऽनावस्थाद्वयापत्तिरित्यभिधाय प्रामाण्यशङ्काशून्यार्थनिश्चयस्य तच्छङ्काभावस्य वा प्रवर्तकत्वाङ्गीकारेप्युक्तानवस्थाद्वयापत्तिरित्याह ।। किञ्चेति ।। अस्य परेणेति शेषः । एवं स्वमते परीक्षया अप्रामाण्य-शङ्कानिरासेपि २नाप्युपपत्तिरिति द्रष्टव्यम् । ननु न कार्याभावसत्व-प्रतिबन्धकसत्वप्रयुक्त एव कारणाभावादपि तत्सम्भवादित्याशङ्कते ।। नन्विति ।। कोट्यस्मरणादिरादिशब्दार्थः । ननु धर्म्यज्ञानात्संशयाभाव इत्युक्तं, ज्ञातस्यैव ज्ञानप्रवर्तकत्वात् प्रवृत्यनुरोधेन तत्र धर्मिज्ञानस्य वाच्यत्वादित्यत्राह ।। न हीति ।। ज्ञानज्ञाने स्वतन्त्रान्वयव्यतिरेकयोर-भावसूचनार्थोऽपिशब्दः । धर्मिणो ज्ञानस्याभावो हि योग्यत्वाभावाद्वा सन्निकर्षाभावाद्वा । स्वात्मकृतेन तद्द्वयमपीति दर्शयितुं योग्यस्येति सम्प्रयोगवत्वेनैवोत्पत्येति चोक्तम् । न च ज्ञाननिरासाभिप्रायेण वा तदभ्युपगमेऽपि प्रतियोगिरूपविशेषणज्ञानमात्रेणाभावत्वविशिष्टा-भावज्ञानवद्विषयरूपविशेषणज्ञानमात्रेणैव ज्ञानत्वविशिष्टज्ञानस्यानु-भवानुसारेणैवाभ्युपगन्तव्यत्वाभिप्रायेण वा तदुक्तिः । न हि ज्ञानत्व-निर्विकल्पकाभावापराधेन घटविषयकवानहमिति अनुव्यवसायः क्वापि दृश्यते । किन्तु घटविषयकज्ञानवानित्येवेति । एवं च सामग्रीनैयत्येनैव सुखादि-वज्ज्ञानस्यापि ज्ञातैकसत्वमुपेयम् । सुखदुःखयोरपि सोत्पत्तिक्षणे सामग्रीसत्वादेव हि ज्ञातैकसत्वं सुखादाविव ज्ञानादावपि कदापि कस्यापि संशयविपर्ययादर्शनेन योग्यताविशेषगुणत्वावच्छेदेनैव ज्ञातैकसत्वावधारणादिति भावः ।
न्यायदीपः
एवं प्रामाण्यनिश्चयस्यप्रवर्तकत्वसाधनेन तन्निश्चयस्य परतोज्ञाय-मानत्वे१ऽनवस्थाद्वयमुक्त्वा अप्रामाण्याशङ्काशून्यस्यार्थनिश्चयस्यप्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्चयस्यावश्यकत्वादनवस्थाद्वयं दुर्वारमेव परतस्त्वपक्षे इत्याह ।। किञ्चेति ।। यद्वा प्रामाण्यनिश्चयस्यप्रवर्तकत्वपक्षे तस्यावश्य-वेद्यत्वेप्यप्रामाण्यशङ्काशून्यार्थनिश्चयस्यप्रवर्तकत्वपक्षे तदनावश्यकत्वान्ना-नवस्थेत्यत आह ।। किञ्चेति ।।प्रवर्तकत्वेपीति ।।प्रवर्तकार्थनिश्चय-सहकारित्वेपीत्यर्थः । यद्यपि सिद्धान्ते परीक्षयाऽप्रामाण्यशङ्कानिवृत्तावेव साक्षिणा प्रामाण्यनिश्चयेन प्रामाण्यनिश्चयस्याप्रामाण्यशङ्काभावार्थत्वं नास्ति । ‘‘सा च बुद्धिदोषमात्रं निरस्यति । तस्मिन्निरस्ते साक्षी स्वमहिम्नैव प्रामाण्यं गोचरयति’’ इति तत्वनिर्णयटीकाद्युक्तेः । तथापि ‘‘यत्र तु प्रामाण्य-ज्ञानेऽप्रामाण्यशङ्कया प्रामाण्यसंशयः तत्र प्रामाण्यज्ञाने प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः’’ इति मण्युक्तेस्तंप्रत्येतदापादनमित्यदोषः ।
ननु तच्छङ्काभावः प्रामाण्यनिश्चयरूपप्रतिबन्धादिव स्वहेत्वभावादपि सम्भवतीति भावेन ‘‘प्रामाण्यज्ञानस्य ज्ञानाभावेन कोटिस्मरणाभावेन विषयान्तरसञ्चारेण वा प्रामाण्यनिश्चयानवश्यम्भावात्’’ इति मण्याद्युक्त-माशङ्कते ।। नन्विति ।। तथात्वेप्रवृत्तिर्न स्यादित्यत आह ।। न हीति ।। ‘‘ज्ञानं ह्यबुभुत्सितग्राह्यतया तीव््रासंवेदनं’’ इत्यादिप्रथमपादीयसुधावाक्यं विवृण्वन्नाह ।। न तावदिति ।। कोट्यस्मरणं चायुक्तमिति कल्पापेक्षया तावच्छब्दः । अज्ञानं हि तदर्थयोग्यत्वाभावेन वा सन्निकर्षादिसामग्र्यभावेन वा सहकारिविरहप्रयुक्तसामग्र्यभावेन वाप्रतिबन्धेन वेति चतुर्धा । आद्यद्वयं नप्रकृत इत्याह ।। योग्यस्येत्यादिना ।। मनस्संयुक्तेत्याद्युक्तिः पररीत्या । सिद्धान्ते त्वात्मसंयुक्तमनस्समवायेत्यर्थः । समवायस्तादात्म्यं ज्ञेयम् ।
सुखाद्यनुभवरूपसाक्ष्याशयेन वायं ग्रन्थः सिद्धान्ते योज्यः । सत्यपि धर्मिज्ञाने साधारणधर्मादर्शनादसन्देह इति शङ्कापनोदायोक्तं ।। ज्ञानत्वेन ज्ञानज्ञानेति ।।
न च ज्ञानत्वनिर्विकल्पकविलम्बात्तदभावः । निर्विकल्पकस्याप्यनुत्पत्तौ बीजाभावान्निरसिष्यमाणत्वाद्वेति भावः । एतेन ‘‘सुखादिवत्सत्यां सामग्र्यां वेद्यत्वापरिहारात्’’ इति तत्वनिर्णयटीका विवृता ।