न्यायमते त्वपूर्वस्य कल्प्यत्वमयुक्तम्
४४. अथ न्यायमतेऽपूर्वस्य कल्प्यत्वभङ्गः ।
तर्कताण्डवम्
न्यायमते त्वपूर्वस्य कल्प्यत्वमयुक्तम् । पूर्वं प्रतीतेन हि यागस्य स्वर्गसाधनत्वेनापूर्वं कल्प्यम् । तच्च तन्मते न युक्तम् । कारणत्वं हि तन्मतेऽनन्यथासिद्धनियतपूर्ववृत्तित्त्वम् । तच्च रासभादौ कारणत्वा-भावायाव्यवहितनियतपूर्ववृत्तित्वं वाच्यम् । अव्यवहितत्वविशेषणा-भावे रासभादेरपि हेतुत्वापातात् ।
एवं च कारणत्वान्तर्गताव्यवधानशरीर एव प्रविष्टस्य अपूर्वस्य कारणत्वबोधकेन शब्देनैवोक्तत्वात्कथमपूर्वस्य कल्प्यत्वम् । विस्तृतं चैतच्छक्तिवादे ।
।। न्यायमतेऽपूर्वस्य कल्प्यत्वभङ्गः ।। ४४ ।।
न्यायदीपः
स्वमतेऽपूर्वस्य कल्प्यत्वं युक्तमिति वक्तुं– यत्तु मणौ प्रतीता च स्वर्गसाधनता साक्षादसाधनस्य यागस्य व्यापारमन्तरेणानुपपत्त्या स्वर्ग-निर्वाहकव्यापारं कल्पयतीत्यादिनाऽपूर्वस्य कल्प्यत्वमुक्तम् । तत्तावन्निराह ।। न्यायेति ।।
।। रासभादेरिति ।। तस्य घटादिकं प्रति हेतुत्वाभावो न ताव-दनन्यथासिद्धत्वाभावेन तथात्वे नियतपदवैयर्थ्यात् । कप्तकारणसहभूतत्वा-भावरूपानन्यथासिद्धत्वस्य रासभेपि सत्त्वाच्च । नापि नैयत्याभावेन । व्यक्त्यपेक्षया नियमस्य दण्डादावप्यभावात् । जात्यपेक्षया नियमस्य च घट-जातीयं प्रति दण्डजातीयस्येव रासभजातीयस्य व्यवहितपूर्ववृत्तित्व-नियमसम्भवात् । अव्यवहितपूर्ववृत्तित्वनियमविशेषणमावश्यकमेवेति भावः ।
।। शक्तिवाद इति ।। शक्तावर्थापतिपञ्चकोक्तिप्रस्तावे किञ्चानन्यथा-सिद्धनियतपूर्ववृत्तित्वं रासभादौ तदभाव इत्यादौ ग्रन्थेन विस्तृतमित्यर्थः ।
।। न्यायमतेऽपूर्वस्य कल्प्यत्वभङ्गः ।। ४४ ।।