ननु वर्णानां नित्यत्वे सर्वदोपलब्धिः स्यात्
वर्णानां प्रतिनियतव्यञ्चकव्यङ्ग्यत्वम्
तर्कताण्डवम्
ननु वर्णानां नित्यत्वे सर्वदोपलब्धिः स्यात् । नचोच्चारणजन्यस्य ध्वनिरूपव्यञ्जकस्य कादाचित्कत्वान्न दोष इति वाच्यम् । तस्य हि व्यञ्जकत्वं न तावदावरणापसारणवदिन्द्रियसन्निधापकत्वेन१ । श्रोत्र-गुणत्वपक्षे विभुत्वपक्षे च वर्णानां सर्वदेन्द्रियसम्बन्धात् । नापि चक्षुरादावञ्जनादेरिव श्रोत्रे संस्काराधायकतया । संस्कृतेन श्रोत्रेण चक्षुषेव विविच्य स्वसम्बद्धसर्ववर्णसमूहालम्बनस्यैकस्य ज्ञान-स्योत्पत्त्यापातादिति चेन्न । त्वन्मते वर्णोत्पादकानामिव मन्मते तद्व्यञ्जकानामपि नियतत्वात् ।।
न्यायदीपः
‘‘अत आकाशगुणे शब्दे व्यज्यमाना वर्णादय’’ इति तत्त्वनिर्णय-वाक्यस्य टीकायां शङ्कितं वर्णनित्यत्वबाधकं मण्याद्युक्तमाशङ्कते ।। नन्विति ।। श्रोत्रगुणत्वपक्ष इति ।। परिमाणवच्छब्देन सर्वदा श्रोत्रस्य सम्बन्धा-दित्यर्थः । बुभुत्सायाः नियामकत्वमाशङ्क्योक्तम् ।। चक्षुषेवेति ।।
‘‘सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रकाशयेत् ।
घटायोन्मीलितं चक्षुः पटं न हि न बुध्यते ।।’’
इति प्राचीनोक्तेरिति भावः ।। त्वन्मत इति ।। यथैकवर्णोत्पादकेनैव न सर्ववर्णोत्पत्तिः, तथैकवर्णव्यञ्जकेनैव न सर्ववर्णव्यक्तिरिति न सर्वोपलम्भ इत्यर्थः ।।