मणौ तु– पदमेव पदार्थस्मारकम्
६२. अथ मण्युक्तयोगरूढिसमर्थनभङ्गः ।
तर्कताण्डवम्
मणौ तु– पदमेव पदार्थस्मारकम् । दृष्टानुविधानत्वाद् गवादि-शब्देष्वनुगतत्वात् एकत्वेन लघुत्वाच्च । न तु प्रतिपदार्थस्मृति-तत्तत्कालायातमदृष्टचरमननुगतं अनन्तमदृष्टादिकम् । पदं च नासम्बद्धं स्मारकम् ।
नच नियतप्रयोग एव सम्बन्धः । गवादिशब्देष्वपि तत्प्रसङ्गात् । न च लाक्षणिक इव वृत्त्यन्तररूपः सम्बन्धोस्ति । तथा च गवादि-पदानां गवादिष्विव पङ्कजपदस्यापि पद्मत्वस्मृत्यर्थमेव सम्बन्धत्वेन रूढिरावश्यकीति योगरूढिः साधिता ।
तन्न । वाक्यस्थात् पदात् पदार्थस्यानुभूतिरेव न स्मृृतिरपीत्य-न्विताभिधानप्रस्तावे उक्तत्वात् ।
त्वन्मते १तु पदार्थस्मृतिहेतौ शक्तिस्मृताववश्याङ्गीकार्यस्या-ननुगतादृष्टादिजन्यत्वस्यादावेव पदार्थस्मृतावङ्गीकर्तुमुचितत्वाच्च ।
न्यायदीपः
।। मणौ त्विति ।। इति योगरूढिः साधितेत्यन्वयः । शब्दखण्डे योगरूढिवादसिद्धान्ते अस्ति व्युत्पन्नस्य पदज्ञानानन्तरमन्वयप्रतियोगि-स्मृतिरित्यादिनोक्तं निष्कृष्यानुवदति ।। पदमेवेत्यादिना ।। दृष्टेति ।। पदज्ञानानन्तरमेव पदार्थस्मृतेर्दृष्टत्वादितिभावः ।
।। गवादीति ।। तत्र रूढ्या पदस्यैव स्मारकत्वाङ्गीकारादिति भावः । पदमेवेत्येवकारव्यावर्त्यमाह ।। न त्विति ।। ततः किमित्यत आह ।। पदञ्चेति ।। पदस्यस्मारकत्वे हि तदन्यथानुपपत्त्या शक्तिसिद्धिस्तदेव नेत्याह ।। वाक्यस्थादिति ।। केवलपदस्य स्मारकत्वमप्यस्तीत्यभ्युपगमाद् वाक्यस्थादित्युक्तम् ।
नन्ववाक्यस्थस्य स्मारकत्वमस्तीति तदन्यथानुपपत्त्त्या शक्तिसिद्धिरिति चेन्न । हस्तिना हस्तिपस्मृतेरिव पदेन पदार्थस्मृतेरपि व्युत्पत्तिकाले सहानु-भूतत्वरूपसम्बन्धादेव सम्भवेन शक्तेरनपेक्षितत्वादिति भावः ।
।। उक्तत्वादिति ।। भाट्टाभिमताभिहितान्वयभङ्ग उक्तत्वादित्यर्थः । यदप्यदृष्टादिकं न स्मारकमननुगमादिति तन्निराह ।। त्वन्मत इति ।।
तर्कताण्डवम्
किञ्च न पदार्थस्मृतिमात्रं शक्तिसाध्यम् । सादृश्यादृष्टादिनापि तत्स्मृतेः ।
नापि पदजन्या तत्स्मृतिः शक्तिसाध्या वृत्तिसाध्यावा इह तु परिशेषाच्छक्तिसिद्धिरिति वाच्यम् । गङ्गापदात्तीरस्मृतौ कार्यकारण-सम्बन्धेनाकाशपदादिजन्यायामाकाशादिस्मृतौ च व्यभिचारात् । अनुभवस्यैव पदानुविधानदर्शनेन स्मृतेः पदाजन्यत्वाच्च ।
न्यायदीपः
नन्वनन्यगत्या शक्तिस्मृतावननुगतादृष्टाद्यङ्गीकारेपि न पदार्थस्मृतौ पदस्यैव सर्वत्रानुगतस्य सम्भवान्न तत्रादृष्टादिकं स्मृतिहेतुत्वेनाङ्गीकार्यमिति वदन्तं प्रत्याह ।। किञ्चेति ।।
अस्तु पदादेव पदार्थस्मृतिस्तथापि न तदर्थं पदे शक्तिकल्पना युक्ता । तथाहि । किमविशेषितपदार्थस्मृतिः पदशक्तिसाध्येति शक्तिसिद्धिं मन्यसे अथ पदजन्यपदार्थस्मृतिः शक्तिसाध्येति यद्वा पदजन्यपदार्थस्मृतिः पदवृत्तिसाध्या पङ्कजपदे च लक्षणागौणवृत्त्योरयोगाच्छक्तिसिद्धिरिति पदाधीनानियता पदार्थस्मृतिः शक्तिसाध्येति वा उक्तरूपा स्मृतिर्नियत-सम्बन्धसाध्येति वा शाब्दानुभवहेतुः स्मृतिः शाब्दानुभवप्रवेशप्रयोजकस्मृतिर्वा शक्तिसाध्येति ।
अद्यं निराचष्टे ।। न पदार्थेति ।। अन्यथोपपत्तिमाह ।। सादृश्येति ।। द्वितीयतृतीये आशङ्क्य निराह ।। नापीति ।। ननु वृत्तिसाध्यापदार्थस्मृतिः कथं शक्तिं विनानुपपन्ना । येन शक्तिः सिध्येदित्यत आह ।। इहतु परिशेषादिति ।। पङ्कजमानयेत्यादौ गौणलक्षणावृत्त्यजन्यत्वे सतिपङ्कज-पदवृत्तिजन्या पदार्थस्मृतिः शक्तिं विना न युक्तेति शक्तिसिद्धिरित्यपि न वाच्यमित्यर्थः ।
आद्ये व्यभिचारमाह ।। गङ्गापदात्तीस्मृताविति ।। तत्र सा पदजन्य-पदार्थस्मृतिर्भवति न शक्तिसाध्येति व्यभिचारः इत्यर्थः । यत्तु शक्तिसाध्ये-त्यस्य शक्तिप्रयोज्येति व्याख्यानाददोष इति तन्न । तथात्वेऽवयवशक्ति-प्रयोज्यत्वेनाप्युपपत्त्या रूढ्यसिद्धेः लाक्षणिकेपि शक्तेः प्रयोजकत्वे मानाभावाच्च शक्यार्थस्मृतावेवोपक्षयात् ।
द्वितीये व्यभिचारमाह ।। कार्येति ।। दृष्टानुविधानत्वादिति हेतुं च निराह ।। अनुभवस्यैवेति ।। यद्वा पदजन्या तत्स्मृतिरिति विशेषण-सम्भवीत्याह ।। अनुभवस्यैवेति ।। पदेति ।। वाक्यस्थपदाजन्यत्वात् अवाक्यस्थपदजन्यत्वेपि वृत्तिं विनैव साहचर्यमात्रेण तज्जन्यत्व-स्यान्विताभिधानप्रस्ताव एवोक्तत्वात् ।
तर्कताण्डवम्
एतेन पदाधीना नियता पदार्थस्मृतिः शक्तिसाध्या, गङ्गादि-शब्दात्तीरादिस्मृतिश्च न नियतेति निरस्तम् । पदाधीनत्वस्यैव निरस्तत्वात् । शक्तेरपि सम्बन्धत्वेनैव स्मारकत्वात् । व्युत्पत्तिकाले चेदमत्र शक्तमित्येकबुध्युपारूढत्वरूपसम्बन्धस्य सत्त्वेन तेनैव स्मृतिसम्भवाच्च । शक्तिस्मृतौ व्यभिचाराच्च । सापि हि नियता । त्वन्मते पदार्थस्मारकत्वात् । मन्मते तदनुभावकत्वात् ।
न्यायदीपः
चतुर्थं निराह ।। एतेनेति ।। एतेनेत्युक्तमाह ।। पदाधीनत्वस्येति ।। सादृश्यादृष्टादिनापि तत्स्मृतेरित्युक्तदिशेति भावः । पदाधीनानियता पदार्थ-स्मृतिः शक्तिसाध्येत्यत्राप्रयोजकत्वं वक्तुमाह ।। शक्तेरपीति ।। सम्बन्ध-त्वेनेति ।। हस्तिहस्तिपादौ तथा कप्तत्वाच्छक्तित्वेन स्मृतिहेतुत्व-स्याकप्तत्वादिति भावः ।
ततः किमित्यत आह ।। व्युत्पत्तिकाले चेति ।। अवयवशक्ति-ग्रहणकाल इत्यर्थः ।। एकेति ।। शब्दार्थयोः समूहालम्बनैकज्ञानविषयत्व-रूपसम्बन्धस्येत्यर्थः । तथाच न शक्तिसिद्धिरिति भावः ।
।। शक्तिस्मृताविति ।। पदनिष्ठशक्तिस्मृतिरपि पदाधीना तथापि न शक्तिसाध्या । तद्धेतुभूतशक्त्यन्तराभावात् । परोक्षज्ञाने विषयस्याहेतुत्वात् । विषयत्वेन हेतुत्वेपि सम्बन्धत्वेनाहेतुत्वाच्च व्यभिचार इति भावः ।
ननु तत्र नियतेत्युक्तविशेषणाभावान्न व्यभिचार इत्यत आह ।। सापिहीति ।। कथमित्यतो व्यनक्ति ।। त्वन्मत इति ।। पदार्थस्मृते-र्वाक्यार्थबोधाहेतुत्ववादिनो मत इत्यर्थः ।
तर्कताण्डवम्
न च शक्तिरूपसम्बन्धस्मृतिर्न शक्योपस्थितिहेतुः । संबन्ध-ज्ञानस्य शक्यरूपप्रतिसम्बन्धिज्ञानाधीनत्वेन अन्योन्याश्रयात् किन्तु सम्बन्धितावच्छेदकेन गोपदत्वादिनैवेति वाच्यम् । विस्मृतशक्तिकस्य पुंसः शाब्दबोधाभावात् ।
नचान्योन्याश्रयः । त्वन्मते शक्तिस्मृतिपूर्वकाले वृत्तिनिरपेक्षा शक्यस्याशाब्दी स्मृतिः अनन्तरं तु तत्सापेक्षा शाब्दी स्मृतिः । मन्मते तु तत्काले शक्यस्य शक्त्यवच्छेदकत्वेन स्मृतिः, अनन्तरन्तु स्वतन्त्रस्यैवानुभव इति ज्ञानव्यक्तिभेदात् ।
न्यायदीपः
त्वन्मत इत्यादिनोक्तमसिद्धमिति शङ्कते ।। न चेति ।। वाच्य-मित्यन्वयः ।। विस्मृतेति ।। तथा च शक्तिस्मृतिः शक्यस्मारकत्वात् नियतैवेति भावः । मतद्वयेपि न प्रागुक्तान्योन्याश्रयदोष इत्याह ।। न चेति ।। वृत्तिनिरपेक्षेति ।। अदृष्टाद्यधीनत्वाद्वृत्तिसापेक्षत्वे हि वृत्तिज्ञानस्य तत्सापेक्षत्वादन्योन्याश्रयः स्यादिति भावः ।
नन्वेवमनन्तरमपि तथैवास्तु । तथाच शक्तिज्ञानस्य नैयत्याभावान्न व्यभिचार इत्यत आह ।। अनन्तरं त्विति ।। विस्मृतशक्तिकस्यशाब्द-बोधाभावदृष्टेरिति भावः । तत्र हेतुगर्भमशाब्दीशाब्दीति । तत्काले शक्ति-स्मृतिकाले ।
तर्कताण्डवम्
एतेनैव– पदान्नियता स्मृतिः नियतसम्बन्धसाध्या । शक्त्यापि समं पदस्य शक्त्याश्रयत्वमेव सम्बन्ध इति निरस्तम् । शक्येनापि समं सम्बन्धान्तरं कप्तमित्युक्तत्वात् ।
एतेनैव शाब्दानुभवहेुतः स्मृतिः शाब्दानुभवप्रवेशप्रयोजिका स्मृतिर्वा शक्तिसाध्येति निरस्तम् । अनुभवहेतुत्वादिप्रयोजकस्य स्मृतौ जातिभेदस्याभावात् । प्राप्ताप्राप्तविवेकेनानुभवस्येव शक्ति-साध्यत्वसिद्धेश्च । आद्यपक्षे शक्तिस्मृतौ व्यभिचारात् ।
तस्माद्गवादिशब्दे गोत्वस्येव पङ्कजशब्देपि पद्मत्वस्य स्मृत्यर्थमेव शक्तिरिति मण्युक्तस्यायुक्तत्वाच्छब्दद्वयेपि तयोरनुभूत्यर्थमेव शक्ति-रित्यस्मद्रीत्यैव योगरूढिसिद्धिः ।
।। इति मण्युक्तयोगरूढिसमर्थनभङ्गः ।। ६२ ।।
न्यायदीपः
शक्तिस्मृतौ व्यभिचारवारकं मण्युक्तं पञ्चमं साध्यान्तरं च प्रत्याह ।। एतेनैवेति ।। नियत सम्बन्धसाध्येति ।। अत्रापि नियतप्रयोगादि-सम्बन्धस्य दूषणाल्लक्षणादेरभावात्परिशेषात् शक्तिसिद्धिरिति भावः । प्रागुक्तव्यभिचारं निराह ।। शक्त्यापीति ।। उक्तत्वादिति ।। एकबुद्ध्युपा-रूढत्वसम्बन्धस्य सत्त्वेनेत्यनेनोक्तत्वादित्यर्थः ।
षष्ठसप्तमौ निराह ।। एतेनैवेति ।। प्राप्ताप्राप्तेति ।। पदार्थस्मृतेः प्रागुक्तैकबुद्ध्युपारूढत्वसम्बन्धेनापि प्राप्ततयानुभवस्य केनाप्यप्राप्ततया तस्यैव शक्तिसाध्यत्वसिद्धिरित्यर्थः ।। शक्तिस्मृताविति ।। तदावश्यकत्वस्य व्युत्पादितत्वादिति भावः ।। तयोरिति ।। गोत्वपद्मत्वयोरित्यर्थः ।
।। इति मण्युक्तयोगरूढिसमर्थनभङ्गः ।। ६२ ।।