एतेन कर्तृकर्मत्वे एवाख्यातस्य शक्ये न तु तद्धर्मिणौ
५७. अथ कर्तृकर्मणोराख्यातार्थत्वसमर्थनम् ।
तर्कताण्डवम्
एतेन कर्तृकर्मत्वे एवाख्यातस्य शक्ये न तु तद्धर्मिणौ, तयोः प्रातिपदिकादेव लाभात् । अनन्यलभभ्ये च शक्तिकल्पनादिति निरस्तम् । कर्तुः प्रातिपदिकार्थेनाभेदान्वयस्यैव व्युत्पादितत्वाद-भेदान्वययोग्यस्य च कर्तुरन्येनालाभात् ।
किं चैवमनभिहितयोः कर्तृकर्मणोः तृतीयाद्वितीये भवतः । तेन चैत्रः तण्डुलान् पचतीत्यत्र चैत्रेण तण्डुलान् पचतीति न भवति । एवं चैत्रेण तण्डुलाः पच्यन्त इत्यत्र चैत्रेण तण्डुलान्पच्यत इति न भवतीति व्युत्पादकव्याकरणमप्यनुकूलितं भवति । अन्यथा कर्तृकर्मसङ्ख्याभिधानानभिधानाभ्यामेवाभिहितानभिहितकार्योपपादने तद्विरोधः स्यात् ।
अपिचैवं चैत्रः पचतीति शब्दयोर्भिन्नप्रवृत्तिनिमित्तानामेकस्मिन्नर्थे वृत्तिरूपं सामानाधिकरण्यं सिध्यति । अन्यथाख्यातस्य कर्तृत्व-वाचकत्वे एकत्रोभयोर्वृत्त्यभावेन सामानाधिकरण्यमेकसङ्ख्यावाचित्वेन कथञ्चिन्नेयं स्यात् ।
न्यायदीपः
।। कर्तुरन्येनालाभादिति ।। आख्यातादन्येनेत्यर्थः । आख्यातस्य कर्त्राद्यर्थकत्वे व्याकरणानुरोधोपि साधक इत्याह ।। किं चैवमिति ।। द्वितीयाध्यायस्य तृतीये पादे अनभिहित इत्यधिकृत्य ‘‘कर्मणि द्वितीया, कर्तृकरणयोस्तृतीयेति’’ तिङाद्यनुक्ते कर्मणि द्वितीया, तिङाद्यनुक्ते कर्तरि करणे च तृतीयेति तिङाद्यनभिहितयोः कर्तृकर्मणोरित्यर्थः ।
।। तेनेति ।। तिङाद्यनभिहिते कर्तरि कर्मणि च तृतीयादिकं भवतीति कथनेनेत्यस्य इति न भवतीत्येवंरूपाभ्यां द्वाभ्यां क्रमेणान्वयः ।। व्याकरणमिति ।। कर्मणि द्वितीयेत्यादिव्याकरणसूत्रमित्यर्थः । अन्यथेत्यस्य विवरणम् ।। कर्तृकर्मेत्यादि ।।
तर्कताण्डवम्
तस्मात् पाचक इत्यादाविव पचतीत्यत्रापि सङ्ख्यायाः कर्त्रै-वान्वयः । न तु भिन्नपदोपात्तनिराकाङ्क्षप्रातिपदिकार्थेन अन्वयः । तस्मात्कर्तृकमणी एव लकारवाच्ये ।
अत एव भगवत्पादैः ‘‘कर्तृकर्मव्यपदेशाच्चेति, आत्मानं परस्मै शंसतीति श्रुतौ शंसतीत्याख्यातेन जीवस्य शंसनकर्तृत्वमुच्यत’’ इत्युक्तम् ।
मिथ्यात्वानुमानखण्डने च ‘‘दृश्यते त्वग््रययाबुद्ध्या’’ इति श्रुतौ दृश्यत इत्याख्यातेन ब्रह्मणो दृक्कर्मत्वमुच्यत इति सूचितम् ।
।। कर्तृकर्मणोराख्यातार्थत्वसमर्थनम् ।। ५७ ।।
न्यायदीपः
अन्यदप्यानुगुण्यमाह ।। अपि चैवमिति ।। बहुवचनान्तेन न्यायो-पपादनमात्रम् । न प्रकृताभिप्रायेणेति ज्ञेयम् । तथा च चैत्रत्वं चैत्रपद-निमित्तं, आख्यातस्य च कतृत्वं निमित्तमिति भिन्नप्रवृत्तिनिमित्तयोश्चैत्र-पचतिशब्दयोर्न्यायसिद्धसामानाधिकरण्यमपि सिद्धं भवतीत्यर्थः । अन्यथे-त्यस्यैव व्याख्या आख्यातस्येत्यादि ।
।। उभयोरिति ।। प्रवृत्तिनिमित्तयोरभावेन तद् बोधनेन सामानाधि-करण्यायोगादेकसङ्ख्येत्युक्तम् । यद्वोभयोरित्यस्य सङ्ख्ययोरित्यर्थः । तथा च यथाश्रुत एवान्वयः ।
कर्त्रादेराख्यातवाच्यत्वे सम्मतिमाह ।। अत एवेति ।। व्यपदेशा-दित्युक्ततात्पर्यकथनं कर्तृत्वमुच्यत इत्युक्तमिति । एवमग्रेपि ध्येयम् ।
।। कर्तृकर्मणोराख्यातार्थत्वसमर्थनम् ।। ५७ ।।